संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
अङ्कुरार्पणविधि पटलः

अथ क्रियापादः - अङ्कुरार्पणविधि पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि अङ्गुरस्यविधिक्रमम् ।
सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलांकुरम् ॥१॥

स्थापने प्रोक्षणे चैव स्नपने चोत्सवे तथा ।
नवरात्रे सप्तरात्रे पञ्चरात्रेऽथवा पुनः ॥२॥

सायादिदिनमारभ्य साये चैवाङ्कुरार्पणम् ।
बीजानमधिपः सोमस्तस्माद्रात्रौ तु वापयेत् ॥३॥

कृत्वा प्रदक्षिणं ग्रामं शङ्खभेर्यादिनीस्वनैः ।
च्छत्रद्ध्वजवितानैश्च गजाश्वरथरोपणैः ॥४॥

पिञ्चचामरसंघैश्च त्रिशूलेन समायुतम् ।
माहेश्वरैर्वहित्वा तु पालिकादीन् शिरोपरि ॥५॥

पालिकाघटिका चैव शरावं त्रिविधं भवेत् ।
सौवर्णं रजतं वापि ताम्रजं मृन्मयन्तु वा ॥६॥

पालिकामुखविस्तारं कन्यसं द्वादशाङ्गुलम् ।
विस्तारं षोडशाङ्गुल्यं मध्यमं समुदाहृतम् ॥७॥

विंशत्यङ्गुलकं ज्येष्ठं विस्तारोत्सेधतः समम् ।
तदर्धं पादविस्तारं सवृत्तं सुदृढं समम् ॥८॥

विस्तारस्य तु षट्भागमोष्ठं हि परितः त्विह ।
विस्तारस्य त्रिभागैकं सुवृत्तं बिलमुच्यते ॥९॥

एवं मुखं बिलञ्चैव शेषं दण्डं प्रकल्प्य वै ।
विस्तारस्य त्रिभागैकं दण्डविस्तारमुच्यते ॥१०॥

घटिकाकलशाकारा दण्डं पादन्तु पूर्ववत् ।
चतुर्दिक्षु चतुर्द्वारं त्रिकोणञ्च त्रियङ्गुलम् ॥११॥

पालिकार्धं शरावन्तु प्रमाणञ्च तथा भवेत् ।
नदीतटाकतीरे वा केदारे पर्वते वने ॥१२॥

स्थानं प्राप्य विशुद्धञ्च समृन्मृज्याथ भूतलम् ।
हृन्मन्त्रेण समभ्युक्ष्य तेन गन्धादिनार्चयेत् ॥१३॥

कुन्दाल्या खानयेन्मन्त्री शिवं स्मृत्वा हृदा ततः ।
मृदं संग्राह्य वामेन प्रविशेदालयं प्रति ॥१४॥

आलयस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् ।
पुण्याहं वाचयित्वा तु भूमिं संप्रोक्ष्य बुद्धिमान् ॥१५॥

स्थण्डिलन्तत्र कर्तव्यं पालिकादीनिविन्यसेत् ।
प्रत्येकं षोडशं वापि अष्टौ वा चतुरोपि वा ॥१६॥

एकाशीति पदं कृत्वा चतुर्विंशपदं विना ।
मध्येनवपदं पद्मं कोणेषु द्वादश स्मृताः ॥१७॥

पञ्चविंशत् पदं कृत्वा मध्ये पद्मं सलक्षणम् ।
अथवा षोडशं कृत्वा तन्मध्ये बञ्चतुष्पदम् ॥१८॥

कुम्भं पद्मे तु संस्थाप्य सोमराजाधिदैवतम् ।
सा पिधानं सकूर्चञ्च सहिरण्यं स वस्त्रकम् ॥१९॥

गन्धाद्यैरर्चयेत् सोमममृतेन तु बीजतः ।
कुरीयमनिलाख्यस्य प्रथमस्वरसंयुतम् ॥२०॥

सानुस्वारं सदानञ्च योजयेदत्रदाक्षरम् ।
दीपमादौ समुच्चार्य तदन्ते बीजमुच्चरेत् ॥२१॥

सोमं शब्दञ्चतुर्थ्यन्तं नृत्यन्तं प्रोच्चरेत् गुरुः ।
पायसं सोमराजायसोपदं शन्निवेदयेत् ॥२२॥

पालिकाकोणभागेषु घटिकाश्च शरावकान् ।
पूर्वादिषु चतुर्दिक्षु विन्यसेत् क्रमयोगतः ॥२३॥

एवं संस्थापनं प्रोक्तमुत्तमं चाधमाधमौ ।
दिशश्च विदिशश्चैव पालिका स्थापनं भवेत् ॥२४॥

घटाश्चाभ्यन्तरे स्थाप्य शरावा मध्यमे स्मृतः ।
पालिका ब्रह्मदैवत्यं घटिकाविष्णुरुच्यते ॥२५॥

ईश्वरस्तु शरावाणां पात्राणामधिदेवताः ।
तेषां मृद्भिः करीषैश्च वालुकैश्च सुपूरयेत् ॥२६॥

तिलसर्षपमुद्गानिमाषानिष्पावकौ तथा ।
शालिप्रियमपामार्ग यवशामानि वै दश ॥२७॥

प्रक्षाल्यपयसाविद्वन् दशबीजेन वा पयेत् ।
कुम्भस्थेन जले नैव नित्यं संप्रोक्षयेत् सुधीः ॥२८॥

नित्यं संपूरयेत् गन्धतो ये नैव घटं पुनः ।
विधाय च विधानेन स्वनुगुप्तं निधापयेत् ॥२९॥

सितानि कोमलानीह कीर्तितानिशुभानि वै ।
असितानि चतुब्जानि तथा तिर्यग्गतानि च ॥३०॥

तद्दोषशमनार्थन्तु शतं हुत्वाशिवं स्मृतः ।
अङ्गुराणां विधिः प्रोक्तं लिङ्गसंस्थापनं शृणु ॥३१॥

इति अङ्कुरार्पणविधिपटलः पञ्चत्रिंशत्तमः ॥३५॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP