अथ क्रियापादः - आद्येष्टकाविधि पटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि शृणुत्वं प्रथमेऽष्टकाम् ।
खननं पूरणङ्कृत्वा वास्तु देवान् प्रपूजयेत् ॥१॥
तस्योत्तरे प्रपाङ्कृत्वा पूर्वे वाथ विशेषतः ।
स्थण्डिलन्तस्य मध्ये तु शालिभिश्चतुरङ्गुलम् ॥२॥
अधिवास्यार्ध रात्रौ तु चतस्रः प्रथमेऽष्टकाः ।
शिलामयविमानञ्चेच्छिलाखण्डाधिवासयेत् ॥३॥
इष्टकामय धाम्नि तु इष्टाकास्थापयेत् सुधीः ।
तालत्रयसमुत्सेधं द्विगुणेन सुविस्तृतम् ॥४॥
विस्तार द्विगुणायामं कारयेन्मध्यमोत्तमे ।
अध्यर्धतालमतालं मध्यमान्मध्यभावयेत् ॥५॥
तालमात्रसमुत्सेधं मध्यमादधमं भवेत् ।
मध्यमत्रयमित्युक्तं मथमत्रयमुच्यते ॥६॥
एकादशाङ्गुलोन्नत्या ह्यधमोत्तममाचरेत् ।
नवाङ्गुलेन तन्मध्यं सप्ताङ्गुल्याधमाधमम् ॥७॥
उन्नतिस्त्वेवमाख्यातं द्विगुणैर्विस्तृतिर्भवेत् ।
तासां द्विगुणकैर्दैर्घ्यं मानैः सर्वाणिकारयेत् ॥८॥
शिलायाः कथितं मानमिष्टकायाः शृणु क्रमात् ।
षडङ्गुलं तदुत्सेधं द्वादशाङ्गुलविस्तृतम् ॥९॥
विस्तारद्विगुणं दैर्घ्यमुत्तमोत्तममेव हि ।
त्रियङ्गुलप्रमाणेन कनीयससमुन्नती ॥१०॥
उत्तमाधमयोर्मध्य सप्तधासुविभाजिते ।
नवधा भेदमाख्यातं यथारुचि समाचरेत् ॥११॥
उन्नते द्विगुणन्तारं तस्मात् द्विगुणमायतम् ।
एवं सुपक्वकैकार्यं सुदृढैस्तु मनोहरैः ॥१२॥
मूलं स्थूलं भवेन्नारी ह्यग्रं स्थूलं नपुंसकम् ।
मूलमग्रं समञ्चेत्तु पुल्लिङ्गमिति निश्चितम् ॥१३॥
पुल्लिङ्गैश्चैव पूंसां स्यात् स्त्रीणां स्त्रीलिङ्गकैस्तथा ।
पाटलिपुष्पसंकाशामिष्टकांशं ग्रहेत् ततः ॥१४॥
सूत्रैर्दर्भैरथावृत्य वस्त्रैरावेष्ट्य यत्नतः ।
गन्धपुष्पैरलङ्कृत्य स्थण्डिलोपरिविन्यसेत् ॥१५॥
तस्य पूर्वे तु कलशान् स वस्त्रान् सूत्रवेष्टितान् ।
विद्येश्वरसमायुक्तान् स्थण्डिलोपरिविन्यसेत् ॥१६॥
मध्यमे शिवकुम्भन्तु तस्य वामे तु वर्धनीम् ।
पूजयेद्धृदये नैव गन्धपुष्पादिभिः क्रमात् ॥१७॥
तस्यैवोत्तरदिग्भागे होमं कुर्याद्विचक्षणः ।
समिदाज्यान्नकैश्चैव यथा विधिविशेषतः ॥१८॥
तिलतण्डुलसंमिश्रैर्विशेषेण घृत प्लुतैः ।
ईशानेन तु मन्त्रेण जुहुया तु शताहुतिः ॥१९॥
शिवाङ्गैश्चैव विद्याङ्गैर्द्रव्यान्ते जुहुयात् ततः ।
प्रभातेसु मुहूर्ते तु इष्टकास्थापनं भवेत् ॥२०॥
स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ।
मन्त्रोक्त सर्वकर्माणि स्थापकेन समाचरेत् ॥२१॥
मन्त्रहीनञ्च यत् कर्म सर्वं स्थपतिना कुरु ।
कृतञ्चेत् मन्त्रयुक्कर्मत्वभिचाराय तत् भवेत् ॥२२॥
तस्मात् सर्वप्रयत्नेन मन्त्रोक्तान् स्थापकेन तु ।
सुमुहूर्ते न्यसेद्विद्वांश्चतस्रश्चेष्टकाः क्रमात् ॥२३॥
द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेऽष्टकाः ।
पूर्वादिषु चतुर्दिक्षु चतुर्भिर्ब्रह्मभिर्न्यसेत् ॥२४॥
अग्रमग्रन्तथैशान्ये मूलग्रमञ्च नै-ऋते ।
मूलाग्रञ्चाग्नि वायव्यां स्थापयेत् तु विचक्षणः ॥२५॥
सद्यादि ब्रह्ममन्त्रेण पूर्वादिपुरुषादिके ।
तेषां मध्ये तदा गर्ते पूरयेदुदकैः शुभैः ॥२६॥
कलशान्तस्थ तोयैश्च शिवमन्त्रेण पूरयेत् ।
शुभं स्याद्दक्षिणावर्तं वामावर्तमशोभनम् ॥२७॥
तद्दोषशमनार्थन्तु ईशानेन शताहुतिः ।
तत्रैव नवरत्नानि विन्यसेदनुपूर्वशः ॥२८॥
वज्रमौक्तिक वैडूर्य शङ्खस्फटिक पुष्यकान् ।
चन्द्रकान्तं महानीलं माणिक्कञ्चक्रमां न्यसेत् ॥२९॥
तेषामभावे सौवर्णं विन्यसेत् तु विचक्षणः ।
गजदन्ते तथा क्षेत्रे वल्मीके कर्कटालये ॥३०॥
वृष शृङ्गे हृदे नद्याञ्तीर्थे वै पर्वते तथा ।
समुद्रे च मृदं ग्राह्य पूरयेदवटं तथा ॥३१॥
मृदलाभे तु मतिमां नदीतीरे मृदंग्रहेत् ।
अत ऊर्ध्वं प्रकर्तव्यं प्रासादं लक्षणेन तु ॥३२॥
आद्येऽष्टका विधिः प्रोक्ता गर्भन्यासविधिं शृणु ।
इति आद्येऽष्टकाविधि पटल अष्टविंशतितमः ॥२८॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP