संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
ज्येष्ठास्थापनविधि पटलः

अथ क्रियापादः - ज्येष्ठास्थापनविधि पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि ज्येष्ठायाः स्थापनं परम् ।
आदिशक्तेः समुत्पन्ना पश्चादुदधिसंभवा ॥१॥

उदधौमत्थ्यमाने तु चोत्थिता सा गजानन ।
कालाञ्जननिभा देवी सर्वाभरणभूषिता ॥२॥

कररूढा कलेपत्नी सुखघ्नादुहितातनुः ।
जानुपार्श्वौ मणिर्वाथा वृषास्यं वृषभं तथा ॥३॥

वृषभोरक्तवर्णन्तु मणिकाञ्चन स प्रभा ।
रूपाण्येतानि कृत्वा तु प्रतिष्ठां सम्यगाचरेत् ॥४॥

रत्नन्यासं ततः कृत्वा तोयमध्ये निवासनम् ।
ततो क्षिमोचनं कृत्वा शयने चाधिवासनम् ॥५॥

कुंभान्यत्रैव विन्यस्य पश्चाद्धोमन्तु पूर्ववत् ।
शिवाग्निं तत्र कृत्वा तु ज्येष्ठां वह्नौसमावहेत् ॥६॥

प्. २११) ज्येष्ठाया मूलमन्त्रेण सर्वद्रव्याणि होमयेत् ।
संस्थाप्यसुमुहूर्ते तु हविष्यं दापयेत् ततः ॥७॥

ज्येष्ठायाः स्थापनं प्रोक्तं दुर्गाया स्थापनं शृणु॥

इति ज्येष्ठा स्थापनविधिपटलः पञ्चचत्वारिंशत्तमः ॥४५॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP