संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
मूर्धेऽष्टकाविधि पटलः

अथ क्रियापादः - मूर्धेऽष्टकाविधि पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि मूर्धेऽष्टकाविधिं शृणु ।
प्रासादस्योत्तरे वाग्रे प्रपां कृत्वा स लक्षणम् ॥१॥

स्थण्डिलं तत्र कुर्वीत तिलतण्डुलशालिभिः ।
न्यस्त्वा तन्मध्यमे पश्चादिष्टकाः पञ्चकाः क्रमात् ॥२॥

शालिपिष्टमयेनाथ लेखयेदक्षराणि तु ।
यकारं पूर्वभागे तु रकारं दक्षिणे तथा ॥३॥

लकारं पश्चिमे चैव पकारञ्चोत्तरे तथा ।
हकारं मध्यमे न्यस्त्वा पृथग्वस्त्रेण वेष्टयेत् ॥४॥

अभितः कलशानष्टौ त्रिसूत्रपरिवेष्टितान् ।
पिधान कूर्चवस्त्राड्यान् गन्धांबु परिपूरितान् ॥५॥

हेमरत्न विनिक्षिप्त लोकपालाधि देवतान् ।
संस्थाप्या भ्यर्च्यगन्धाद्यै स्वस्वमन्त्रेण देशिकः ॥६॥

लोहजं दारुजं वापि स्त्रिभिस्तंभं विशेषतः ।
शिखरं सदृशं दीर्घं तारमष्ट षडङ्गुलम् ॥७॥

अग्रमङ्गुलविस्तारमानुपूर्वात् कृशं तथा ।
चतुरश्रं भवेन्मूलं मध्यमष्टाश्रकं तथा ॥८॥

तदूर्ध्वं वृत्तमेवं स्याच्छिखि पादमिव स्थितम् ।
गव्यैः प्रक्षालयित्वा तु स्थण्डिलोपरिविन्यसेत् ॥९॥

आच्छाद्याहत वस्त्रैश्च दर्भैः संस्तीर्य यत्नतः ।
वास्तु होमन्ततः कृत्वा पर्यग्निं तेन वह्निना ॥१०॥

कुर्यादस्त्रं महाशासु कुण्डानि विधिवत् ततः ।
तुर्याश्राण्यथ वृत्तन्तु शङ्करेपि तथैव हि ॥११॥

अथवा वालुकैर्वापि स्थण्डिलं कारयेत् क्रमात् ।
अग्न्याधानादिकं सर्वं पूर्वोक्तेन विधानतः ॥१२॥

पार्थिवादीनि तत्वानि पञ्चेऽष्टकाधि देवताः ।
समिदाज्य चरूलाजान्य वैःसद्यादिभिः क्रमात् ॥१३॥

उदुंबर वटाश्वत्थ प्लक्षपालाशकाः क्रमात् ।
प्रागादि समिधः प्रोक्ता स्थण्डिले वा विशेषतः ॥१४॥

प्रत्येकं शतमर्धं वा हुत्वा पूर्णाहुतिं ततः ।
पञ्चभूतात्मकं स्मृत्वा होममेकमथैशके ॥१५॥

प्रभाते विमलेधीमां नक्षत्रे करणान्विते ।
सुमुहूर्तेसुलग्ने च स्थापक स्थपती तथा ॥१६॥

शुक्लवस्त्रपरिच्छन्नौ शुक्लमाल्यानुलेपनौ ।
अनन्यमनसा वेतौ स्थापयेदिष्टकाः क्रमात् ॥१७॥

सद्यादि ब्रह्ममन्त्राणि स्मरन् पूर्वादिविन्यसेत् ।
भूमादि पञ्चत्वत्वानि न्यस्त्वा पूर्वादितः क्रमात् ॥१८॥

मध्यमे नवरत्नानि न्यस्त्वापूर्वोक्तमार्गतः ।
ईशानेन तु मन्त्रेण स्थूपिं तत्रैव विन्यसेत् ॥१९॥

स्थपतिः शेषकर्माणि कारयेत् तु यथा दृढम् ।
स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः ॥२०॥

शिखरोर्ध्वे तु संस्थाप्य पञ्चभागत्रिभागिकम् ।
अर्धभागन्तु वा दृश्यं स्थूप्याः शेषन्तु बन्धयेत् ॥२१॥

विमानाङ्गानि सर्वाणि कुर्यच्छास्त्रोक्तमार्गतः ।
शैलेन निर्मितेधाम्नि वर्णिते वाप्य वर्णिते ॥२२॥

इष्टकाभिः सुनिर्वृत्ते सुधाद्यैर्वर्णिते क्रमात् ।
विमान स्थापनं धीमान् कुर्यादस्मिन् विशेषतः ॥२३॥

व्यपोह्य संकरान् भाण्डान् कृत्वा शिल्पिविसर्जनम् ।
ततो क्षिमोचनं कुर्याद्धोम वेदान्विशेषतः ॥२४॥

संपूज्यस्थापकं पश्चात् स्थपतिं पूजयेत् ततः ।
वस्त्रहेमाङ्गुलीयाद्यैर्गो भूमिधनधान्यकैः ॥२५॥

प्रागुक्तविधिना सम्यक् कर्तव्यञ्चाङ्कुरार्पणम् ।
प्रतिष्ठादिवसात् पूर्वे दिवसे विप्रनिर्णिते ॥२६॥

प्रासादस्य चतुर्दिक्षु प्रपाः पञ्चकरैः क्रमात् ।
प्रासादमध्यमे वेदीं तत् त्रिभागैकमानतः ॥२७॥

विस्तारार्ध समुत्सेधं मुष्टिमानमथापि वा ।
चतुर्दिग्वेदिकायास्तु प्राग्याम्य वरुणेन्दुषु ॥२८॥

होमकुण्डं विधानेन प्रोक्तं वा चतुरश्रकम् ।
प्रासादाभ्यन्तरे कुर्यात् वास्तु होमं विधानतः ॥२९॥

पर्यग्निकरणङ्कृत्वा महाव्योमेति मन्त्रतः ।
पुण्याहं वाचयित्वाद्भिः प्रोक्षयेत् तु समं ततः ॥३०॥

द्रोणांबुपूरितान् कुम्भान् निर्दोषान् सुदृढान्नव ।
तन्तुना चित्रितान् सर्वान् सर्वगन्धांबु पूरितान् ॥३१॥

हेमपुष्पविनिक्षिप्तान् प्रत्येकं वस्त्र वेष्टितान् ।
चूतपल्ववसंयुक्तान् संस्थाप्य स्थण्डिलोपरि ॥३२॥

अष्टद्रोणैस्तदर्धैर्वा वेदिकोर्ध्वे पृथक् पृथक् ।
आलिख्य नलिनञ्चोर्ध्वे चाष्टपत्रं सकर्णिकम् ॥३३॥

शाल्यर्धन्तण्डुले नैव तण्डुलार्धतिलैः कृतम् ।
मध्यादीशान पर्यन्तं वेदिकासु पृथक् पृथक् ॥३४॥

संस्थाप्य वर्धनीयुक्तं स्वस्वमन्त्रैर्विशेषतः ।
धामप्राग्वेदिकोर्ध्वस्थ मध्यकुम्भे तु षण्मुखम् ॥३५॥

तस्यैव वामभागे तु वर्धन्यां सुमतिन्न्यसेत् ।
अभितोष्ट घटेष्वेषु लोकेशान् स्वस्वदिग्गजान् ॥३६॥

दक्षिणे मध्यकुंभे तु श्रीकण्ठे शन्तु विन्यसेत् ।
वामभागे तु वर्धन्यां न्यस्त्वागौरीं समन्त्रतः ॥३७॥

अनन्तादि शिखण्ड्यन्तां विद्येशानभितो न्यसेत् ।
पश्चिमे विष्णुमूर्तिन्तु मध्यकुम्भे तु वामता ॥३८॥

श्रीयं विन्यस्य वर्द्धन्यां पुरुषं सत्यमेव च ।
अव्यक्तञ्चानिरुद्धञ्च प्रद्युम्नं वासुदेवकम् ॥३९॥

संकर्षणमनन्तञ्च परितोष्ट सुविन्यसेत् ।
उत्तरे मध्यकुम्भे तु ब्रह्माणञ्च स्वमन्त्रतः ॥४०॥

तस्य वामे तु वर्धन्यां सावित्रीमभितोष्टसु ।
व्यासागस्त्यवसिष्ठांश्च कौशिकं काश्यपं तथा ॥४१॥

गौतमञ्च भरद्वाजं विन्यसेत् तु पराशरम् ।
यद्वद् धामगतासीनास्तद्वत्सं भावयेत् घटे ॥४२॥

संयजेदुक्तमन्त्रैश्चाप्यनुक्तान् स्वस्वनामभिः ।
प्रत्येकं हविषं दत्वा ह्युपदंशैः समन्वितम् ॥४३॥

ततो होमं प्रकुर्वीत चतुर्दिक्षु विशेषतः ।
कृत्वाग्निमुखसंस्कारं प्रागुक्तविधिना सुधीः ॥४४॥

मध्यकुम्भस्थ देवास्तु होमानामधिदेवताः ।
पिप्पलोदुंबर प्लक्षवटाः पूर्वादिषु क्रमात् ॥४५॥

समित्सर्पिश्चरुर्ल्लाज तिलसिद्धार्थमुद्गकाः ।
यवमाषकुलुत्थाश्च नीवारैकादशः क्रमात् ॥४६॥

पञ्चब्रह्मैश्च विद्यांगै स्त्रिशतं द्विशतं तु वा ।
शतमष्टोत्तरं वापि प्रत्येकं जुहुयुस्ततः ॥४७॥

विमानादूर्ध्व भूमिस्थदेवान् संस्नाप्य शैलजान् ।
संप्रोक्ष्य वर्णी तद्देवान् स्वस्वमन्त्रेण देशिकः ॥४८॥

हैमकौतुकसूत्रेण तेषां दक्षकरे हृदा ।
बध्वा दर्भैः सुवस्त्रैश्च बिंबानाच्छाद्य वर्मभिः ॥४९॥

ऋगाद्यध्ययनं कुर्याच्चतुर्दिक्षु विशेषतः ।
एवं रात्रौ तु निर्दिष्टं प्रभाते देशिकोत्तमः ॥५०॥

सुस्नातः सकलीकृत्वा सोष्णीषः सोत्तरीयकः ।
शुक्लांबरधरः सृग्वी शुक्लगन्धानुलेपितः ॥५१॥

पञ्चाङ्गभूषणैर्भूष्य हेमयज्ञाङ्गुलीयकैः ।
कुम्भा न भ्यर्च्य विधिना दद्यात् पूर्णाहुतिं हृदा ॥५२॥

सुमुहूर्तेसु लग्ने च कुम्भानुधृत्यमध्यमान् ।
वर्धनीभिः सहैवात्र नयेदृक्षस्थलोपरि ॥५३॥

त्यक्त्वा प्रतिसरं वस्त्रं हृदयेन स्वमन्त्रकान् ।
विन्यस्त्वाक्षरसंघांश्च शिरोमध्यात् पदान्तकम् ॥५४॥

कुम्भात् बिंबे तु तत् तत्त्वं योजयेत् तु पृथक् पृथक् ।
तेषान्तु वामपार्श्वे तु वर्धन्यन्तस्थदेवताः ॥५५॥

संयोज्य स्वस्वमन्त्रेण यथा युक्त्याभिषेचयेत् ।
परितोष्टघटान्तस्थां स्वस्वाशासु च विन्यसेत् ॥५६॥

संप्रोक्ष्य कुम्भतोयैश्च देवानन्यांश्च धामनि ।
स्थूप्याद्युपान पर्यन्तं प्रासादाङ्गानि सेचयेत् ॥५७॥

स्थापकं मूर्तिकांश्चैव अध्ये तॄन् परिचारकान् ।
सर्वांश्च शिवभक्तांश्च पूजयेत् पूर्ववत् सुधीः ॥५८॥

धामान्तस्थगतं देवं स्नपनं कारयेत् ततः ।
दद्यात् प्रभूतहविषं भोजयेत् भूसुरानपि ॥५९॥

विमानस्थापनोपेत धाम्निपूजाफलप्रदा ।
अकृते पूजिते धाम्नि तत्सर्वं निष्फलं भवेत् ॥६०॥

शिवस्यैवं समाख्यातं विमानस्थापनं मया ।
अन्येषां देव सर्वेषां कुर्यादेवं विधानतः ॥६१॥

मन्त्रभेदो भवेदत्र क्रियाभेदो न कल्प्यते ।
प्रासादग्रीवमध्यस्थ देवानां स्वस्वमन्त्रकैः ॥६२॥

कुर्यात् सर्वं यथोद्दिष्टं विधिनादेशिकोत्तमः ।
विमानस्थापनोपेत मूर्धेऽष्टका विधिं ततः ॥६३॥

अत ऊर्ध्वं प्रवक्ष्यामि शृणु लिङ्गस्य लक्षणम् ।

इति मूर्धेऽष्टकाविधिपटलो द्वात्रिंशत्तमः ॥३२॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP