अथ क्रियापादः - प्रासादलक्षणविधि पटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि प्रासादानान्तु लक्षणम् ।
सप्ताष्ट नवहस्तञ्च अधमं त्रितयं भवेत् ॥१॥
दशद्वादशकं हस्तं षोडशं मध्यमत्रयम् ।
विंशत् त्रिंशच्च पञ्चाशत् त्रीणिचोत्तममिष्यते ॥२॥
एवं नवविधं प्रोक्तं प्रासादानान्तु विस्तरम् ।
विस्तारं पञ्चविंशत्तु भागं कृत्वा विचक्षणः ॥३॥
नवांशं गर्भगेहन्तु भित्तिमानन्तु षोडश ।
अथवा षोडशांशे तु चतुष्टं गर्भविस्तरम् ॥४॥
द्वादशांशस्तु भित्तेस्तु विस्तारं सर्वतः समम् ।
एकाशीति पदङ्कृत्वा नवांशं गर्भमेव तु ॥५॥
षोडशं भित्तिमानन्तु भित्तिमभ्यन्तरं विदुः ।
तत् बाह्यैकन्तु सलिलं तत् बाह्यैकन्तु भित्तिकम् ॥६॥
बाह्यभित्तौ चतुर्द्वारमथवा द्वारमेकतः ।
अन्यत् सर्वसमं प्रोक्तं स्थूप्यन्तं कारयेत् बुधः ॥७॥
यदुक्तं भित्तिविस्तारं बाह्याभ्यन्तरयोः समम् ।
बाह्ये वा भ्यन्तरे वापि त्रिविधं भित्तिमानकम् ॥८॥
लिङ्गमानविमानस्य विस्तारं शृणु सांप्रतम् ।
यावल्लिङ्गस्य विष्कंभं त्रिगुणं पीठविस्तरम् ॥९॥
तत्तारं त्रिगुणीकृत्य गर्भगेहं प्रचक्षते ।
गर्भगेहं त्रिभागैकं भित्तिमानं विधीयते ॥१०॥
यदीश्चेत् कर्तृ विस्तारन्तद्विस्तारं विधीयते ।
पूजांशं द्विगुणं पीठं त्रिगुणं वा विशेषतः ॥११॥
पीठस्य त्रिगुणं गर्भन्तत्रिभागैक भित्तिकम् ।
संवीक्ष्य समभूमिश्चेदुपपीठं प्रकल्पयेत् ॥१२॥
विस्तारस्याष्टभागैकमुपपीठस्य चोच्छ्रयम् ।
तत् पादहीनमर्द्धं वा द्वादशांशं विभज्यतम् ॥१३॥
द्विभागौ पट्टिकाधस्तादूर्ध्वमंशेन पट्टिका ।
षट्भागं कर्णभागं स्यादेकांशाक्षुद्र पट्टिका ॥१४॥
प्. १४२) तस्योर्ध्वे तु द्विभागेन ग्रीवं पादैरलङ्कृतम् ।
यथा लङ्कार संयुक्तमुपपीठं प्रकीर्तितम् ॥१५॥
ततो जाङ्गलभूमिश्चेदधिष्ठानं प्रकल्पयेत् ।
तच्चतुर्विधमाख्यातमिहशास्त्रे विशेषतः ॥१६॥
पद्मबन्धञ्चारुबन्धं पादबन्धं प्रतिक्रमम् ।
विस्तारस्य चतुर्थांशमधिष्ठानोच्छ्रयं भवेत् ॥१७॥
पद्मबन्धं प्रवक्ष्येऽहं शृणु तत्वङ्गजानन ।
उत्सेधं सप्तविंशत् तु द्विभागा पट्टिका भवेत् ॥१८॥
एकांशं दलमेवोक्तमुपानञ्चैक भागिकम् ।
जगती तु षडंशा स्यात् द्विभागार्धदली क्रमात् ॥१९॥
अर्धभागं भवेत् स्कन्धं भागमूर्ध्वदलं तथा ।
त्रिभागं कुमुदं विद्या दधोब्जं भागमेव तु ॥२०॥
पट्टिका चैकभागा तु ग्रीवा चैव द्विभागिका ।
तदूर्ध्वमेक भागन्तु पद्मबन्धतो परि ॥२१॥
द्विभागा पट्टिकाया तु एकभागेन योजनम् ।
तत्व्रतेश्चैक भागन्तु पद्मबन्धमिति स्मृतम् ॥२२॥
अधिष्ठानस्य चोत्सेधञ्चतुर्विंशति भाजितम् ।
द्विभागापट्टिका प्रोक्ता ह्युपानञ्चैक भागिकम् ॥२३॥
षट्भागाजगती प्रोक्ता कुमुदं पञ्चभागिकम् ।
एकांशापट्टिका प्रोक्ता ग्रीवा चैव त्रियंशका ॥२४॥
एकांशापट्टिका विद्धि त्रियंशाचोर्ध्वपट्टिका ।
महापट्टिका त्रियंशा एकं वा जनमुच्यते ॥२५॥
पादबन्धमितिख्यातं सर्वकार्येषु पूजितम् ।
वृतिक्रमं विशेषेण कर्तव्यं पादबन्धवत् ॥२६॥
पट्टिकां प्रतिवक्त्रन्तु कुमुदावृत्तमुच्यते ।
एवं प्रतिमुखं कार्यमधिष्ठानं समासतः ॥२७॥
पादायाममधिष्ठानं द्विगुणं सर्वसंमतम् ।
पादार्धं प्रस्तरं प्रोक्तं कर्णं प्रस्तरवत्समम् ॥२८॥
प्रस्तरद्विगुणायामं शेखरं हितमुच्यते ।
भागस्थूपिं प्रकर्तव्यं सर्वालङ्कारसंयुतम् ॥२९॥
प्रस्तरादूर्ध्वभागे तु कर्णकूटसमायुतम् ।
चतुर्दिक्षु कपोतञ्च तयोर्मध्येऽष्टपञ्जरम् ॥३०॥
अर्धभागन्तु कण्ठं स्यात् भागार्धं शिखरं भवेत् ।
एवमेकतलं प्रोक्तं द्वितलादीनिमच्छृणु ॥३१॥
प्रस्तरान्मूलपादाच्च तलं प्रतितदूर्ध्वतः ।
सप्तभागैकभिन्नन्तु तलेष्वेवं प्रकीर्तितम् ॥३२॥
आद्वादशतला देवं भूमौ प्रकल्पयेत् ।
एवमुक्तमिहोत्सेधं द्वारभेदं ततच्छृणु ॥३३॥
वृतेरूर्ध्वोत्तरान्तं यद्वारस्योत्सेधमुच्यते ।
उत्सेधार्धदशांशो न द्व्यंशं तु परिहीनकम् ॥३४॥
विस्तारमुत्तमं मध्यमधन्तु प्रकीर्तितम् ।
पूर्वे वा पश्चिमे वापि द्वारङ्कृत्वा विचक्षणः ॥३५॥
पद्मबन्ध्याद्यधिष्ठाने वृत्ते रुपरिनिर्गमम् ।
वृतेरधस्तादुच्छेदं मसूरे पादबन्धके ॥३६॥
अङ्गच्छेदन्तु कर्तव्यमाङ्गन्तु न च कारयेत् ।
द्वारभेदमिदं प्रोक्तं जातिभेदं ततः शृणु ॥३७॥
नागरं द्राविढञ्चैव वेसरञ्च त्रिधामतम् ।
कण्ठादारभ्य वृत्तं यत् तद्वेसरमिति स्मृतम् ॥३८॥
ग्रीवमारभ्य चाष्टाश्रं विमानं द्राविडाख्यकम् ।
सर्वं वै चतुरश्रं यत् प्रासादं नागरन्त्विदम् ॥३९॥
एवं जातिरितिख्यातं तत्भेदञ्च ततः शृणु ।
कैलासोमन्धरोमेरु हिमवन्निषधं स्मृतम् ॥४०॥
नीलपर्वतमाहेन्द्रौ नलीनकप्रलीनकः ।
नन्द्यावर्तं च श्रीवर्तं पर्वताकृतिरेव च ॥४१॥
इत्येवमादि सर्वेषां भेदमित्यभिधीयते ।
चतुःशालाचतुष्कूट युक्तः कैलास एव हि ॥४२॥
मन्धरोनाम इत्युक्तश्चतुःशालाष्टकूटकम् ।
मेरुर्नाम इतिख्यातस्त्वष्टशालाष्ट कूटकः ॥४३॥
हिमवानिति विख्यातो युक्तषोडशपञ्जरः ।
अष्टशालाष्टकूटस्तु प्रासादो लक्षणान्वितः ॥४४॥
प्रासादो निषधस्तत्र कूटशाला विहीनकः ।
अष्टशाला समायुक्तश्चाष्ट पञ्जरसंयुतः ॥४५॥
चतुःशालासमायुक्तो वेदीसोपानसंयुतः ।
नलीनकस्तु संप्रोक्ता प्रलीनकमतः शृणु ॥४६॥
शीर्षकञ्चतुरश्रन्तु पार्श्वयोः कोष्ठसंयुतः ।
पञ्जरं नासिका युक्तं सोपानं पार्श्वयोस्ततः ॥४७॥
प्रलीनक इति प्रोक्ता नन्द्यावर्तमिति शृणु ।
चतुष्कूटश्चतुःशालाश्चत्वारः पार्श्वनासिकाः ॥४८॥
मुखनासी तथा युक्तं द्वादशञ्चानुनासिकाः ।
चतुःसोपानसंयुक्तं भूमौ भूमौ विशेषतः ॥४९॥
नन्द्यावर्तमिदं वत्स श्रीप्रदञ्च ततः शृणु ।
कोष्ठकास्त्विह चत्वारश्चतुष्कोणेषु चैव हि ॥५०॥
चतुर्नासी समायुक्तमनुनासी दशाष्टकम् ।
एवं लक्षणसंयुक्तं श्रीप्रदन्त्विति कीर्तितम् ॥५१॥
कूटशालासमायुक्ता पुनः पञ्जरनासिका ।
वेदिकाजालकोपेता पर्वता कृतिरुच्यते ॥५२॥
एवं तले तले कर्यन्नूनमेकैक भागिकम् ।
जातिभेदं समाख्यातं पादानामधुनोच्यते ॥५३॥
चतुरश्रमथाष्टाश्रं षोडशाश्रन्तु वृत्तकम् ।
कुम्भयुक्तास्तथा केचित् केचित् कुम्भविहीनकाः ॥५४॥
केचिद् वैकुंभमण्डिभ्यां युक्ताः पादा इति स्मृताः ।
पादानामा इति प्रोक्तो तेषां लक्षणमुच्यते ॥५५॥
विस्तारस्य चतुर्विंशत् भागैकं पादविस्तरम् ।
तदैवदण्डमाख्यातं पादालङ्कारकर्मणि ॥५६॥
मूलपादस्य विस्तारात् सप्तैकांशो न मार्गतः ।
द्विदण्डं मण्डिरुत्सेधं दण्डपादन्तु विस्तरम् ॥५७॥
अष्टांशं कण्ठमुत्सेधं द्विदण्डं कुम्भविस्तरम् ।
उत्सेधन्तु त्रिपादं हि पादोनाफलका भवेत् ॥५८॥
त्रिदण्डं विस्तरं प्रोक्तं तदर्धं निर्गतं स्मृतम् ।
वीरकण्ठन्तु दण्डेन विस्तारं तत् समं भवेत् ॥५९॥
तदूर्ध्वे पोतिकायामन् तत् त्रिपादन्तदुच्छ्रितम् ।
त्रिदण्डमधमायामञ्चतुर्दण्डन्तु मध्यमम् ॥६०॥
उत्तमं पञ्चदण्डन्तु पोतिकायाममुच्यते ।
चित्रपत्रतरंगैश्च भूषयित्वा तु पोतिकाम् ॥६१॥
कुम्भपादमिदं प्रोक्तं कुम्भभिन्नं प्रचक्ष्महे ।
पादं पोतिकया युक्तं शेषं कर्म न कारयेत् ॥६२॥
कुम्भहीनास्त्विमे प्रोक्ता लताकुम्भन्तदुच्यते ।
कुम्भाकारन्तु तन्मूले तदूर्ध्वं पद्ममेव तु ॥६३॥
फलकोर्ध्वे लताङ्कुर्यात् तच्छेषं कुम्भपादवत् ।
पादान्तरे तु कर्तव्यमशक्तश्चेत् तु वर्जयेत् ॥६४॥
सर्वेषां मेवपादानां तत् पादं निर्गमं भवेत् ।
श्रीकरञ्चन्द्रकान्तञ्च सौमुख्यं प्रियदर्शनम् ॥६५॥
शुभंकरी च नामानि कर्तव्यानि विशेषतः ।
श्रीकरं वृत्तपादानां षोडशाश्रे तु कान्तकम् ॥६६॥
सौमुख्यं हि तथाष्टाश्रे तुर्याग्रे प्रियदर्शनम् ।
चतुरश्राष्टमिश्रे च पादाकार्याशुभंकरी ॥६७॥
पादानां लक्षणं प्रोक्तं तोरणं वक्ष्यते धुना ।
पृष्ठे तु पार्श्वयोश्चैव कर्तव्यास्तोरणास्तथा ॥६८॥
द्वारस्योत्सेधमानं यत्तोरणस्योच्छ्रयं भवेत् ।
तदर्धं विस्तरं प्रोक्तमुछ्राये षट्विभाजिते ॥६९॥
मकरन्तु द्वियंशेन शेषं पादमिति स्मृतम् ।
मूलपादस्य चार्धेन तस्य पादप्रमाणकम् ॥७०॥
मकारांशं तदूर्ध्वे तु मध्ये वृत्तं सनिम्नकम् ।
वृत्तेरूर्ध्वे उहां कृत्वा चतुरायतमेव तु ॥७१॥
प्रमाणन्तोरणस्योक्तं प्रस्तरञ्च ततः शृणु ।
प्रस्तरोत्सेधमानन्तु पञ्चभागविभाजितम् ॥७२॥
त्रिभागमुत्तरोत्सेधं पादेनोत्तरवाजनम् ।
एकभागन्तदूर्ध्वे तु कर्तव्या पद्मपट्टिका ॥७३॥
गजश्रेणी मृगश्रेणी प्रस्तरान्तेषु योजयेत् ।
एवं प्रस्तरमाख्यातं तलं प्रति विशेषतः ॥७४॥
कूटशालाप्रमाणञ्च अधुना वक्ष्यते शृणु ।
तस्योत्सेधकपोतान्तं षट्भागन्तद्विभाजिते ॥७५॥
पादं वेदिकया युक्तं पादग्रीवा समायुतम् ।
द्विभागं पादमेव स्यात् द्विभागं शिखरं भवेत् ॥७६॥
भागस्थूपिसमायुक्तमेवं वै कारयेत् सुधीः ।
कृत्वा विस्तारषट्भागं कूटमेकेन चैव हि ॥७७॥
द्विभागेन तु शालान्तु भागाभ्यां पञ्जरं तथा ।
चतुरश्रन्ततः कूटं शालं स्यात् गोपुराकृति ॥७८॥
पार्श्वयोर्नासिका युक्तं तन्मध्ये तनुनासिका ।
द्वित्रिकञ्च चतुः प्रोक्तं कुम्भन्तस्योपरि स्थितम् ॥७९॥
एक नासिकयायुक्तं पञ्जरं समुदाहृतम् ।
कूटेषु नासिकायुक्तं कोष्ठमेतत् प्रकीर्तितम् ॥८०॥
प्रस्तरोच्च प्रमाणेन तत्समंकण्ठमुच्यते ।
द्वादशांशं विभज्याथ द्विभागापट्टिका भवेत् ॥८१॥
द्विभागा वेदिका प्रोक्ता कण्ठं पञ्चांशमुच्यते ।
पट्टिकाश्चैक भागं स्यात् द्विभागापद्मपट्टिका ॥८२॥
तदूर्ध्वे शिखरं प्रोक्तं भागार्धं निर्गमं भवेत् ।
तस्योत्सेधं त्रिधा कृत्वा भागं पादस्य दैर्घ्यकम् ॥८३॥
भागेन नासिका प्रोक्ता तदर्धं मध्यनिम्नकम् ।
शेषभागं त्रिधा कृत्वा नालभागेन कल्पितम् ॥८४॥
पञ्जरञ्चैकभागेन त्रिशूलं भागमानतः ।
चतुर्भागन्तदर्धं वा ह्यनुनासिकमुच्यते ॥८५॥
एवं नासिकमाख्यातं स्थूपिलक्षणमुच्यते ।
शिखरार्धं समुत्सेधं पञ्चविंशत् तु तद्भवेत् ॥८६॥
सप्तांशं दलमानन्तु भागं तत्कण्ठमुच्यते ।
अष्टभागैस्तु तत्कुम्भञ्चतुर्भागन्तु नालकम् ॥८७॥
द्विभागं वेदिकां कुर्यात् मुकुलन्तु कला भवेत् ।
मुकुलाग्रमधैकांशं स्थूपिपट्टमिहोच्यते ॥८८॥
विदिक्षु वृषभं न्यस्त्वा महादिक्षु च मूर्तयः ।
स्कन्दङ्कृत्वा तु तत्पूर्वे याम्ये श्रीकण्ठनायकम् ॥८९॥
शास्त्रार्थानिमुनीनान्तु मुक्त्यर्थं प्रोच्चरन् गुरुः ।
पश्चिमे नारसिंहञ्च सौम्ये वा विन्यसेत् बुधः ॥९०॥
ब्रह्माणमुत्तरे कृत्वा चतुर्वक्त्रसमायुतम् ।
वृषस्य तालमूर्ध्वे च ह्यासनाः कण्ठसंश्रिताः ॥९१॥
शालासु देवताः प्रोक्ताः कूटेषु च नयत्विह ।
दिव्यमानुष देवांश्च यथा युक्त्या तु योजयेत् ॥९२॥
शिवक्रीडा हरिक्रीडा तपक्रीडा विशेषतः ।
यक्षराक्षसगन्धर्व सिद्धविद्याधरोरगान् ॥९३॥
अष्टदिक्षु यथा युक्त्या न्यस्त्वा पूर्वादितः क्रमात् ।
प्रासादलक्षणं प्रोक्तं मण्डपानां विधिं शृणु ॥९४॥
प्रासादार्द्धं मुखायामं विस्तारं सममुच्यते ।
त्रिपादं वा मुखायामं सार्धं मण्डपमुच्यते ॥९५॥
देवतामण्डपं पूर्वं द्वितीयं स्नपनार्थकम् ।
वृषार्धं मण्टपं पश्चाच्चतुर्थं नृत्तमण्डपम् ॥९६॥
देवता प्रतिमारूपा स्थापितं देवमण्टपम् ।
कलशस्थापनं यत्र प्रोक्तं स्नपनमण्डपम् ॥९७॥
वृषभं स्थापितं यत्र वृषभं मण्डपं तथा ।
नृत्तं यत्र कृतं तत् तु नृत्तमण्डपमेव तु ॥९८॥
गोपुरेऽथव्यवायेपि व्यवाये विकृतं तथा ।
एवञ्चतुर्विधेष्वन्य मण्डपञ्चाग्रतो बहिः ॥९९॥
तेषां नामानि वक्ष्यामि शृणुवत्स समाहितः ।
नन्दवृत्तं श्रियावृत्तं वीरासनञ्च वृत्तकम् ॥१००॥
नन्द्यावर्तं माणिभद्रं विशालञ्चेति कीर्तितम् ।
नन्दवृत्तञ्चतुष्पादं षोडशं श्रीप्रतिष्ठितम् ॥१०१॥
विंशतिस्तंभसंयुक्तं वीरासनमिति स्मृतम् ।
द्वात्रिंशत् गात्र संयुक्तं जयभद्रेति कथ्यते ॥१०२॥
षट्त्रिंशत् गात्रसंयुक्तं नद्यावर्तमिति स्मृतम् ।
चतुःषष्टिसमायुक्तं स्तम्भानां माणिभद्रकम् ॥१०३॥
स्तम्भानान्तु शतैर्युक्तं विशालमिति संज्ञितम् ।
प्रासादवत् समाख्यातं प्रस्तरान्तं प्रमाणतः ॥१०४॥
प्रासादस्तंभमानस्य एतत् स्तंभं विशिष्यते ।
पादाधिकमथाध्यर्धं पादो न द्विगुणं भवेत् ॥१०५॥
स्तंभायामाष्टभागैकं स्तंभस्यैव तु विस्तरम् ।
वृत्तं वा चतुरश्रं वा चतुरष्टाश्रमिश्रकम् ॥१०६॥
षोडशाश्रयुतं वापि शिल्पैः सर्वैः सुशोभितम् ।
स्तंभाच्च बोधिकाधिक्या बोधेरप्युत्तराधिका ॥१०७॥
उत्तराद्वाजनाधिक्या तस्योर्ध्वे मुद्रिकां न्यसेत् ।
मुद्रिकाच्चतुलाधिक्या जयन्ती तु ततो परि ॥१०८॥
च्छदयेदिष्टकाभिस्तु तस्योर्ध्वे कलकान् क्षिपेत् ।
वालुकैस्तु समञ्चूर्णं गुल्माषं योजयेत् क्रमात् ॥१०९॥
मुसलेन तु संपीड्य शर्करादिसमन्वितम् ।
कषाय पिच्छलैर्युक्तं त्रिफलोदकसंयुतम् ॥११०॥
हरीतक्क्यास्तु भागैकं द्विगुणञ्च विभीतकम् ।
धात्रि त्रिगुणमित्युक्तं प्रक्षुण्णान् मलसंयुतम् ॥१११॥
षण्मासं वा त्रिमासं वा मासं वाप्युषितं तथा ।
दधिमाषोदकञ्चैव नालिकेरस्य तोयकम् ॥११२॥
क्षीरञ्चदधिसंमिश्रं सम्यक् कर्मसमाचरेत् ।
कूटशालासभां कृत्वा भोगयोग्यं विशेषतः ॥११३॥
सोपानञ्च यथा युक्त्या हस्तिहस्तन्तथैव च ।
एवं समासतः प्रोक्तं मण्डपं विधिपूर्वकम् ॥११४॥
प्राकारं परितः कुर्यात् प्रासादस्य प्रमाणतः ।
भूमौ विन्यस्य विस्तारं प्रासादस्य सुनिश्चयम् ॥११५॥
प्रासादस्य तु विस्तारं तस्य दण्डमिहोच्यते ।
दण्डात्तेन कृतं यत्र त्वन्तर्मलसमैव हि ॥११६॥
एकदण्डान्तर्भारा तु मध्यभाराद्विदण्डतः ।
चतुर्दण्डप्रमाणेन कृत्वामय्यादिभित्तिकम् ॥११७॥
महामय्यादिभित्तिः स्यात् सप्तदण्डप्रमाणतः ।
पृष्ठे चैवाग्रतोप्यर्धं द्विगुणं त्रिगुणन्तु वा ॥११८॥
चतुर्गुणं मुखायामं प्राकाराणां विशेषतः ।
कपोतान्तं समुत्सेधं हस्तविस्तारभित्तिकम् ॥११९॥
कूटशालायुतं वापि कूटशालान्तमेव च ।
प्राकारेण समायुक्तं गोपुरस्य विधीयते ॥१२०॥
मण्डले द्वारके वाथ द्वारशालान्तु भारके ।
प्रासादं मध्यभारायां मय्यादौ हर्म्यमेव च ॥१२१॥
गोपुरन्तु महामय्ये एवं पञ्चविधि स्मृतम् ।
चतुर्दिक्षु च संयोज्याः प्राकाराणां पृथक् पृथक् ॥१२२॥
केचिद् वै मालिकाकारा केचिद् वै गोपुराकृतिः ।
विस्तारं द्वारशोभाया द्वित्रिपञ्चकरं भवेत् ॥१२३॥
षट्सप्ताष्टनवकरैर्द्वारशाला प्रकीर्तिता ।
एकादश त्रयोदश हस्तं प्रासादविस्तृतम् ॥१२४॥
चतुर्दशपञ्चदश द्वारहर्म्यमिति स्मृतम् ।
एकविंशस्त्रयोविंश द्वारगोपुरमुच्यते ॥१२५॥
विस्तारद्विगुणायाममायामद्विगुणोच्छ्रयम् ।
भौमोर्ध्वोत्तरसीमान्तं द्वारस्योच्छरयलक्षणम् ॥१२६॥
तदर्धं विस्तारं प्रोक्तं अलङ्कारं विमानवत् ।
प्राकारभित्तिमाश्रित्य कुर्यादावृतमण्डपम् ॥१२७॥
तत्बाह्ये भ्यन्तरेवापि मालिका मण्डपं हि वा ।
पञ्चप्राकारमेवं स्यात् परिवारालयं शृणु ॥१२८॥
प्रासादस्य चतुर्थं वा तदर्धं वार्धमेव वा ।
मातॄणामालयं कुर्यात् गोपुराकारमेव तु ॥१२९॥
हस्ति पृष्ठन्तपप्रोक्तं प्रासादन्तु विशेषतः ।
मेध्यन्तु पचनाकारञ्चतुःशालैकशालकम् ॥१३०॥
प्राकारसंयुतङ्कृत्वा बाह्ये वा भ्यन्तरेपि वा ।
पूर्वे तु पश्चिमे द्वारं पश्चिमे पूर्वतो मुखः ॥१३१॥
प्. १५०) दक्षिणे चोत्तरद्वारमुत्तरे दक्षिणोन्मुखम् ।
वह्नीशान स्थितं यत् तत् पश्चिमेद्वारमिष्यते ॥१३२॥
नीलानिल स्थितञ्चैव पूर्वद्वारं प्रशस्यते ।
वृषस्य मण्डपं तत्र चतुर्द्वारसमायुतम् ॥१३३॥
प्रासादलक्षणं प्रोक्तं ततो मूर्धेऽष्टकां शृणु ।
इति प्रासादलक्षणविधिपटल एकत्रिंशत्तमः ॥३१॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP