संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| स्वायंभुलिंगागमम् अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - स्वायंभुलिंगागमम् सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः स्वायंभुलिंगागमम् Translation - भाषांतर कारणं वा तुलञ्चैव सूक्ष्मञ्च सुप्रभेदकम् ।आगमञ्चतुर्भेदं स्वयंभूपुजितं क्रमात् ॥दैवलिंगागमम्कामिकं विजयं चैव स्वायंभुवमथानलम् ।पूजयेद् देवके लिंगे कल्पयेत् कल्पवित्तमः ॥दिव्यलिंगागमम्चिंत्यं चैव सहस्रञ्च दीप्तञ्चाप्ययुतं तथा ।दिव्यलिंगार्चना प्रोक्तं सर्वकर्मसमाचरेत् ॥ऋषिलिंगागमम्योगजं मकुटं चैव निश्वासं रौरवं तथा ।आर्षकं पूजयेद्धीमान् अर्धयामे विशेषतः ॥मानुषलिंगागमम्वीरञ्च विमलोद्भेदं चंद्रज्ञानञ्च बिंबकम् ।पूजयेत् परमं चैव मानुषे देशिकोत्तमः ॥राक्षसलिंगागमम्प्रोत्गीतं ललितं चैव सिद्धिं संतानमेव च ।राक्षसे प्रोक्षयेल्लिंगं आसुरञ्च प्रपूजरेत् ॥बाणलिंगागमम्पारमेश्वर संख्योक्तं अंशुमान् किरणं तथा ।बाणलिंगार्चनं चैव गणपञ्चप्रपूजयेत् ॥मानुषं योजनादर्वाक् पौराणं दशयोजनम् ।शतयोजनमार्षञ्च सहस्रं दैविकं भवेत् ॥सकलप्रतिष्ठाविधि पटलःसकलानां प्रतिष्ठान्तु वक्ष्येहमधुना शृणु ।मूर्तीनामिश्वरादीनां सामान्य स्थापनाविधिम् ॥१॥द्वादश प्रतिमानान्तु सामान्यमिदमुत्तमम् ।चलानाम चलानाञ्च सर्वेषां स्थापनं समम् ॥२॥चलस्य तु शिलामृत्भ्यां शृणुमत् स्थापनाविधिम् ।रत्नन्यासञ्जले वा संशयनन्तु प्रदक्षिणम् ॥३॥चित्राभासे तु वर्ज्यं हि रत्नसेतु समाचरेत् ।चित्राभासे तु कर्तव्यं दर्पणोपरियत्नतः ॥४॥त्रिपाद्यूर्ध्वे जलद्रोण्यां स्रावयेद् दर्पणोपरि ।जलाधिवासं स्नपनं नवमेव समाचरेत् ॥५॥सकलानान्तु सर्वेषां सममेतद् भवेद्ध्रुवम् ।कृत्वाङ्कुरार्पणं पूर्वं प्रागुक्तविधिना पुनः ॥६॥प्रासादस्य पुरोभागे मण्डपे समलङ्कृते ।स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥७॥गन्धपुष्पादिना पूज्य पद्मपीठस्य मध्यमे ।न पापटानि कर्तव्यं रत्नानिविधिवं न्यसेत् ॥८॥माणिक्कञ्चैव वैडूर्यं निलं मरतकं तथा ।मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ॥९॥एतानि हृदये नैव मध्यमादीनि विन्यसेत् ।तिलमुद्गारनीपांश्च तिलं वै सर्षपं तथा ॥१०॥श्यामं शालिकुलुत्थञ्च प्रियंगुनवबीजकम् ।सुवर्णेन कृतञ्चेह बीजानिकवचेन तु ॥११॥अञ्जनं हरितालञ्च श्यामञ्चैव मनः शिलाम् ।पारतञ्चैव सौराष्टं सिद्धकं गैरिकं तथा ॥१२॥स्थापकं शिवमन्त्रेण पीठोर्ध्वे पटमध्यमे ।प्रतिमां तत्र संयोज्य सुस्निग्धं कारयेत् तथा ॥१३॥ततः सिकत चूर्णैश्च कृत्वा गोचर्मपट्टिकैः ।यथा निर्मलतां याति घर्षयेत् प्रतिमां ततः ॥१४॥ततो क्षिमोचनार्थन्तु स्थण्डिले पूर्ववत् कृते ।बिंबं विन्यस्य तस्योर्ध्वे पटेनमहता वृते ॥१५॥अभितः कलशानष्टौ कूर्चाक्षत सपुष्पकान् ।विन्यस्य तेषु दिक्पालान् समभ्यर्च्य यथा विधि ॥१६॥आचार्यः शिल्पिनासार्धं नेत्रमन्त्रमनुस्मरन् ।हेम सूचि प्रहाराभ्यां शैलजे लोहजे तथा ॥१७॥वर्णयत्नन्तु संलिख्य चित्राभासे तु मृण्मये ।भ्रूरेखां प्रतिमां कृत्वा पक्ष्मरेखा त्रितीयकम् ॥१८॥श्वेतमण्डलमालिख्य तन्मध्ये कृष्णमण्डलम् ।कृष्णस्याभ्यन्तरे विद्वान् ज्योतिर्मण्डलमालिखेत् ॥१९॥सुव्यक्तं शिल्पिनाकार्यं नेत्रे मन्त्रं जपेत् गुरुः ।स्थापकं स्थपतिं पूज्य वस्त्रसौवर्णभूषणैः ॥२०॥संपूज्यतोषयित्वा तु कृत्वा शिल्पि विसर्जनम् ।मध्वाज्याभ्यान्तु सन्तर्प्य सौवर्णेन तु दूर्वया ॥२१॥नेत्राणि नेत्र मन्त्रेण क्षीरेणैवं समाचरेत् ।पात्रत्रयन्तु संग्राह्य ताम्रजं कांसमेव वा ॥२२॥तेषु क्षीराज्यमधुभिः सौवर्णं राजतैः सह ।पात्राण्यापूर्यतैरैव प्रत्येकं प्रस्थमानतः ॥२३॥मधुनादक्षिणे नेत्रे दर्शयेत् भास्करात्मके ।सर्पिषागविवामे तु चंद्रात्मकमितः स्मरन् ॥२४॥पयसाचोर्ध्व नेत्रे तु दर्शयेदनलात्मकम् ।तत्तन्मन्त्राण्यनु स्मृत्यतैस्तु संप्रोक्षयेत् गुरुः ॥२५॥सौवर्णेन खयुक्तास्तु मध्यतर्जन्यनामिकाः ।तर्जनीदक्षिणे चोर्द्ध्वे मध्यमा नामिकान्यके ॥२६॥संयोज्य हृदयाद्यैश्च सिच्यगन्धांबुना ततः ।पृच्छन्नपटमावर्ज्य सुपुष्टाङ्गांसु यौवनाम् ॥२७॥गोधेनुहव्यमन्त्रेण दुग्ध्वाक्षीरांसवत्सकाम् ।गांसमभ्यर्च्य सावित्र्या दर्शयेत् तु विचक्षणः ॥२८॥दर्शयेत् तु द्विजान् पश्चात् द्विजानन्यान्विशेषतः ।एवं सकलं बिंबानां सममेतत् प्रकीर्तितम् ॥२९॥येन तस्य विशुद्धिः स्यात् तेन तस्य विशोधयेत् ।सर्वालंकार संयुक्तं कृत्वाग्रामप्रदक्षिणम् ॥३०॥जलाधिवासनं कुर्यात् कण्ठमात्रे जलेशुभे ।चतुष्पादसमायुक्ते वितानध्वज संयुते ॥३१॥दर्भमालासमायुक्ते प्रपायाञ्जलमध्यमे ।वस्त्रयुग्मपरिच्छन्नं दर्भैः पुष्पैश्च वेष्टितम् ॥३२॥पीठे वा फलकायां वा प्राक्च्छिरस्कं सुशाययेत् ।पञ्चरात्रं त्रिरात्रं वा चैकरात्रमथापि वा ॥३३॥ततो मण्डपसंस्कारं यथा विभवविस्तरम् ।पूर्वे वा दक्षिणे वापि पश्चिमे वाम मनोरमे ॥३४॥दशभादशहस्तं वा षोडश स्तंभसंयुतम् ।चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ॥३५॥दर्भमालासमायुक्तं पुष्पमालावलंबितम् ।वितानोपरि सच्छन्नमष्टदिग्ध्वजलंबितम् ॥३६॥मङ्कलांकुर संयुक्तं मुक्तादामैर्विभूषितम् ।मण्डपेन वकोष्ठे तु मध्यभागे विशेषतः ॥३७॥उपवेदीं तु कर्तव्या तालोच्छ्रायासुविस्तृता ।आलयाभ्यन्तरे वेदीं कारयेत् सुदृढांशुभाम् ॥३८॥हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ।अष्टदिक्षु च कुण्डानि कारयेत् सुप्रमाणतः ॥३९॥पूर्वे तु चतुरश्रन्तु वह्निपिप्पलपत्रवत् ।अर्धचन्द्रं तु याम्यायां नै-ऋत्यान्तु त्रिकोणकम् ॥४०॥वृत्तन्तु वारुणे भागे षडश्रं वायुगोचरे ।पद्मञ्चैवोत्तरेभागे ऐशान्यामष्टकोणकम् ॥४१॥ईशान ऐन्द्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ।मण्डपस्योत्तरे भागे स्नानमण्डपमेव वा ॥४२॥स्नानवेदीन्तु तन्मध्ये त्रिद्व्येककरसम्मिताम् ।हस्तमात्रसमुत्सेधां सुसमां सुदृढां शिवाम् ॥४३॥त्रिमेखला समायुक्तां भूताब्ध्यग्न्यङ्गुलैर्मिताम् ।अथवाष्टाङ्गुला भद्रामेखलैका समन्विता ॥४४॥गोमयालेपनं कृत्वा शोषणं पावनं तथा ।ब्रह्मणान् भोजयित्वा तु वास्तुहोममतः परम् ॥४५॥पर्यग्निकरणं कृत्वा प्रासादं यागमण्डपम् ।पुण्याहं तत्र कर्तव्यं प्रोक्षयेत् पञ्चगव्यकैः ॥४६॥शयनं कल्पयेद्विद्वान् वेदिकोपरिशालिभिः ।अष्टद्रोणैस्तदर्धैर्वा तदर्धै स्तण्डिलैस्तथा ॥४७॥तन्मध्येऽष्टदलं पद्मं तण्डुलेन तु कारयेत् ।अण्डजाद्यैस्तु संकल्प्य यत्नतो पर्युपर्युतः ॥४८॥अलाभे चाण्डजादीनां वस्त्रैपञ्चभिरास्तरेत् ।तदूर्ध्वे नवशक्तिस्तु इच्छाज्ञानक्रिया अपि ॥४९॥गन्धपुष्पादिना पूज्यमङ्गलांकुर शोभितम् ।जलात् बिंबं समुत्थाप्य पञ्चगव्योषितं तथा ॥५०॥एकरात्रं तु कर्तव्यमथवा स्नापयेत् तु वै ।स्नानवेद्यास्तु तन्मध्ये संस्थाप्य प्रतिमां ततः ॥५१॥अष्टमृत् सलिले नैव स्नात्वाभ्यर्च्य हृदाबुधः ।घृतः शिरोर्पणं कृत्वा साक्षितः हेमदूर्वया ॥५२॥सौवर्णं रजतं वापि हृदयेन तु मन्त्रतः ।कौतुकं दक्षिणे हस्ते बन्धयेद्रक्षयान्वितम् ॥५३॥गन्धाद्यैश्चैव संपूज्य नीत्वा वैवेदिकोपरि ।पश्चिमाभिमुखं देवं संयजेद्धृदयेन तु ॥५४॥शयने शाययेद् देवं प्राक्च्छिरस्कं मुखोर्ध्वकम् ।ईश्वर प्रतिमाञ्चेतु श्क्तिञ्च सहवामतः ॥५५॥रत्नन्यासादिकर्माणि सहैवात्र समाचरेत् ।अन्यानि प्रतिमानि ह युक्तायुक्तं सुबुद्धिमान् ॥५६॥उत्तराच्छादनं कृत्वा वस्त्रैर्दर्भैस्तु पुष्पकैः ।विद्येशकलशानष्टौ वज्राद्यस्त्रान् सहैमकान् ॥५७॥वस्त्रयुग्मपरिच्छन्नान् सकूर्चान् सा पिधानकान् ।तत्तन्मन्त्रेण बिंबस्य परितोष्टसुदिक्षु च ॥५८॥संस्थाप्य बिंबशिरसच्छैशाने कुंभकेनकम् ।षोडशावृत संपूर्णं बिंबप्रभसमन्वितम् ॥५९॥प्त्रिसूत्रैर्वेष्टयित्वा तु सूत्रान् सूत्रान्तरं यवम् ।पञ्चरत्न समायुक्तं शुद्धांबुपरिपूरितम् ॥६०॥सचूतपल्लवोपेतं सकूर्चं सा पिधानकम् ।वस्त्रयुग्मेन संवेष्ट्य स्थण्डिलोपरि विन्यसेत् ॥६१॥विप्राणान्तु हितार्थन्तु यज्ञसूत्रञ्च सृक्स्रवम् ।क्षत्रियाणां हितार्थन्तु गजवाजिरथान् बुधः ॥६२॥तुलाञ्चमानपात्राणि वैश्यानान्तु हिताय वै ।शूद्राणान्तु हितार्थन्तु वृषलांगलसंयुतम् ॥६३॥कृत्वैतानि सुवर्णेन षडंगैस्तु विनिक्षिपेत् ।यद्रूपं प्रतिमं स्थाप्यं तत्तद्रूपस्य भावयेत् ॥६४॥कुंभमध्ये तु संस्थाप्य तस्य मूलमनुस्मरन् ।षड्विधं ध्यानमावाह्यतानि संकल्प्य तच्छिवे ॥६५॥पूर्वोक्तेनैव मार्गेण मन्त्रन्यासन्तु कारयेत् ।पूजयेत् गन्धपुष्पाद्यैर्हृदयेन विचक्षणः ॥६६॥वर्धनीं बीजमुख्येन तद्वत्संस्थाप्य वामके ।अभितश्चोपवेद्यान्तु संस्थाप्यकलशाष्टकान् ॥६७॥वस्त्रकूर्चाक्षतो पेतान् ससूत्रान् पल्लवान्वितान् ।हेमवज्रादिको पेतान् लोकपालाधिदेवतान् ॥६८॥संपूज्य स्वस्वमन्त्रेण द्वारकुंभांस्तु विन्यसेत् ।अष्टमङ्गलरूपाणि वेदिकायास्तु बाह्यतः ॥६९॥संस्थाप्य स्वस्वनाम्नार्च्य ततो होमं समाचरेत् ।कृत्वा चाध्ययनं दिक्षु ऋग्यजुः सामधर्वकैः ॥७०॥नवपञ्चत्रयं वापि एकाग्निरथवा पुनः ।प्राग्याम्येन्दुषु कुण्डेषु त्रेताग्निं सम्यगाचरेत् ॥७१॥सदाशिवेश्वरौ रुद्रः क्रमात् कुण्डाधिपाः स्मृताः ।त्रयोवैकाग्निके विद्वाञ्छिवाग्निं पूर्वतो हुनेत् ॥७२॥शिवाग्निं प्रथमं हुत्वा मूर्तिहोमं ततः परम् ।शिवाद्यवनिपर्यन्तं ध्यात्वा सर्वगतं प्रभुम् ॥७३॥तत्तद्रूपान् स्वमात्मानं स्मृत्वाग्निं संयजेत् बुधः ।आदित्यः पूर्वतोमूर्तिर्भव स्त्रिमूर्तिधारकः ॥७४॥आग्नेय्यामग्निमूर्तिस्तु धारकः शर्व उच्यते ।मूर्तिधारः पशुपतिः पृथिवीमूर्तिदक्षिणे ॥७५॥आकाशे नै-ऋते मूर्तिरुद्रस्तन्मूर्तिधारकः ।आपोवरुणदिक्भागे रुद्रोनामसुधारकः ॥७६॥वायुर्वै वायुदिग्भागे भीमा वै मूर्तिधारकः ।उत्तरे सोममूर्तिस्तु महान्यै मूर्तिधारकः ॥७७॥मूर्तिधारस्तथेशस्तु आत्मानं मूर्तिरेव च ।एवं विधान तस्त्वष्टमूर्तयोमूर्तिधारकाः ॥७८॥प्रधानस्य शिवः प्रोक्तस्तत्तद् ध्यानपरायणः ।प्राग्वदग्निमुखं कृत्वा पश्चात् द्रव्यैस्तु होमयेत् ॥७९॥काष्ठाज्य समिदन्नादिलाजासक्तु तिलानि च ।यवसिद्धार्थ मुद्गानि मधुनैकादशानि च ॥८०॥तूष्णीन्तदिन्धनं कृत्वा मूले नैव घृताहुतिः ।समिधं बीजमुख्येन चरुसद्येन होमयेत् ॥८१॥लाजा हृदय मन्त्रेण सक्तुञ्च शिरसापुनः ।शिखया तु तिलं हुत्वा यवान्वैक वचेन तु ॥८२॥सिद्धार्थं बहुरूपेण मुद्गमस्त्रेण चैव हि ।नेत्रेण मधुहोतव्यं जुहुयाद् व्याहृतिं ततः ॥८३॥पलाशसमिधं पूर्वे आग्नेय्यास्तु वै कंकतम् ।वटं याम्ये तु विज्ञेयं अश्वत्थन्नि-ऋतौ तथा ॥८४॥प्लक्षन्तु वारुणे गाभे चौदुंबरन्तु वायवे ।अर्का वै सौम्यदिक्भागे बिल्वमिशानगोचरे ॥८५॥इन्द्र ईशानयोर्मध्ये पलाशसमिधं भवेत् ।द्रव्यं प्रतिसहस्रं वा तदर्धं वार्धमेव वा ॥८६॥अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशती ।षोडशा हुतिकं वापि द्रव्यं प्रतिसमाचरेत् ॥८७॥ब्रह्माङ्गैरेव हुत्वा तु तत्तत्स्थाने च संस्पृशेत् ।तदन्ते व्याहृतिं हुत्वानिद्रां रात्रौ तु वर्जयेत् ॥८८॥प्रभाते विमले विद्वान् प्रतिष्ठालग्नपूर्वके ।आचार्यं पूजयेत् पूर्वं वस्त्राङ्गुलीयकादिभिः ॥८९॥हेमपुष्पोपवीतञ्च कुण्डलं कटकं तथा ।दासीं दासांश्च गाभूमिमाचार्याय प्रदापयेत् ॥९०॥कन्यसं दशनिष्कञ्च द्विगुणं त्रिगुणं तथा ।दक्षिणां कन्यसादीनि देशिकस्य विधीयते ॥९१॥प्रत्येकं मूर्तिपान् पूज्यदेशिकस्याष्टभागतः ।दैववज्ञं वास्तुहोतारं मूर्तिपान् त्रिगुणेन वै ॥९२॥मूर्तिपस्य त्रिपादेन तद्ध्येतृंश्च पृथक् पृथक् ।तेषां हेमाङ्गुलीयञ्च वस्त्रयुग्मञ्च दापयेत् ॥९३॥भक्तानां परिचाराणां दापयित्वा स्वशक्तितः ।दीनान्ध कृपणानाञ्च अन्नपानादि दापयेत् ॥९४॥दद्यात् पूर्णाहुतिं सर्वैर्मन्त्रैर्वेदशतात्मना ।होमोपरीष्टतंत्रञ्च कुर्यात् सर्वे यथा क्रमत् ॥९५॥किञ्चित् पूर्वमुहूर्तस्य उत्थाप्यशयनाच्छिवम् ।संपूज्यगन्धपुष्पाद्यैः शङ्खदुन्दुभिनिस्वनैः ॥९६॥सर्वालङ्कारसंयुक्तं मन्त्रन्यासमथारभेत् ।शिवकुंभं समुद्धृत्य वर्द्धनीन्तु शिवाग्रतः ॥९७॥विन्यस्त्वार्घ्यन्तु दत्वाथ सकलीकृतविग्रहः ।ध्यात्वा तद्रूपमग्न्यस्थं प्रतिमायां सुयोजयेत् ॥९८॥शक्तिं वै वामपार्श्वे तु विन्यसेत् बीजमूख्यकैः ।कुम्भात्तत्वं तथा बिंबे संयोज्याङ्गानि विन्यसेत् ॥९९॥शिवाख्योमाख्य विद्येश कुंभैरत्राभिषेचयेत् ।तदन्ते स्नपनं कृत्वा हविष्यन्तु महद्भवेत् ॥१००॥उत्सवन्तत्र कर्त्व्यं प्रागुक्तविधिना ततः ।ईश्वर प्रतिमाण्येवमुत्सवार्थं प्रकीर्तितम् ॥१०१॥द्वादश प्रतिमा प्रोक्तास्तथा चोत्सवकर्मणि ।देशकाल स्वरूपान्यत् समानं सर्वमेव हि ॥१०२॥अर्चनादि क्रमान् सर्वान् शिववत् कल्पयेत् क्रमात् ।सर्वेषामन्य देवानां तत्र तद्विधिचोदितम् ॥१०३॥तथा स्वरूपमेवं स्यात् स्वस्वनामादिमन्त्रतः ।सर्वेषां स्थापनान्ते तु स्नपनञ्चोत्सवं कुरु ॥१०४॥सकलस्थापनं प्रोक्तं तेषां संप्रोक्षणं शृणु ।वेदिकायां शिवोमाख्य विद्येशकलशान् बुधः ॥१०५॥विन्यसेदुपवेद्यान्तु लोकपालाख्य कुंभकान् ।वस्त्राणि हेमरूपाणि प्रक्षिपेत् पूर्ववत् सुधीः ॥१०६॥रत्नादिशयनान्तञ्च वितानैर्बिंबकर्मणि ।वस्त्रैराच्छाद्य तत्बिंबं होमं पूर्ववदाचरेत् ॥१०७॥स्नपनं वायुदिक्भागे अन्यत्सर्वं समानकम् ।योगोपयोगद्रव्याणि आचार्यायप्रदापयेत् ॥१०८॥सकलस्थापनं ह्येवं शक्तिसंस्थापनं शृणु ।इति सकल प्रतिष्ठाविधिपटलः सप्तत्रिंशत्तमः ॥३७॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP