संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
अथ शिवार्चनविधि पटलः

अथ क्रियापादः - अथ शिवार्चनविधि पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि शिवार्चनविधिक्रमम् ।
सर्वपापहरं दिव्यं सर्वलोकसुखावहम् ॥१॥

श्रीप्रदं सर्वविघ्नघ्नं राज्ञो राष्ट्रविवर्धनम् ।
तदपि द्विविधं प्रोक्तमात्मार्थञ्च परार्थकम् ॥२॥

क्षणिके चललिङ्गे च स्थण्डिले मण्डलेऽपि च ।
कौतुके भक्तिचित्रे वा आत्मार्थेऽर्चनमारभेत् ॥३॥

ग्रामे दृष्ट्वाधवान्येषु शिवधामनिनिर्मिते ।
तेषु स्थावरलिङ्गेषु परार्थं यजनं स्मृतम् ॥४॥

सिकतं तण्डुलञ्चान्नं नदीमृद्गोमयं तथा ।
नवनीतञ्च रुद्राक्षं पिष्टं चन्दनकूर्चकम् ॥५॥

पुष्पमालांगुलञ्चेष्टं क्षणिका द्वादश स्मृताः ।
पूजान्ते क्षणिका त्याज्याः तत्त्वं हृदि समानयेत् ॥६॥

स्फटिकं रत्नजं शैलं बाणलिङ्गञ्च लोहजम् ।
चललिङ्गं समाख्यातं स्थण्डिलं शालितण्डुलैः ॥७॥

सिकतैर्वा समाख्यातं मण्डलं करमानतः ।
गोमयालेपिते तत्र संलिख्ख्याब्जदलाष्टयुक् ॥८॥

मण्डलं त्विति विख्यातं द्वादशप्रतिमार्चनम् ।
कौतुकं त्विति ख्यातं भित्तिचित्रं तथैव च ॥९॥

आत्मार्थ यजनेख्याता यथा युक्त्यासमर्चयेत् ।
दीपान्तं वाहविष्यन्तमात्मर्थे तु परार्थके ॥१०॥

सामान्यमिदमाख्यातं परार्थस्तु विशेषतः ।
नित्योत्सवन्तु नित्याग्नियजनं पादुकार्चनम् ॥११॥

नीराजनं रजन्याञ्च गीतं नृत्तञ्च वाद्यकम् ।
तेषु कुर्याद् यथा शक्यं लिङ्गेस्थावर संज्ञके ॥१२॥

उक्तेषु तेषु सर्वेषु विना नित्योत्सवं ततः ।
पादुकाभ्यर्चनं त्यक्त्वा शेषाण्यात्मार्थमाचरेत् ॥१३॥

दीक्षितानां द्विजातीनामात्मार्थमनुलोमिनाम् ।
परार्थमादिशैवानामात्मार्थं वा समर्चयेत् ॥१४॥

वह्निमण्डलमध्यस्थ ज्वालाभिर्वह्निबीजतः ।
पादाङ्गुष्ठाच्छिखायावन् निर्दहेच्छुष्ककाष्ठवत् ॥१५॥

विचिन्त्य भस्मीभूतं तु पिण्डीकृत्वा निलेन तु ।
तस्मिन् प्रागुक्तममृतं स्रवन्तं भस्मनि स्मरेत् ॥१६॥

आत्मानमानयेत् तत्र सर्वात्महृदयेन तु ।
दिव्यदेहो भवे देवमङ्गन्यासं अथ शृणु ॥१७॥

मूर्धादिसृष्टिरेवं स्यात् पादादिः संहृतिर्भवेत् ।
नासादि हृदयान्तन्तु स्थिति न्यासं प्रकीर्तितम् ॥१८॥

पञ्चमेन शिरः पञ्चपञ्चभिः कल्पयेत् ततः ।
चत्वारिवदनां यत्र वक्त्रमन्त्रेण भावयेत् ॥१९॥

पञ्चमं वदनं तत्र सर्वात्म हृदयेन तु ।
अन्यथा (-धा) कल्पयेत् घोरं हृत्ग्रीवांसेष्वधोरसि ॥२०॥

तन्नाभ्युदरपृष्ठेषु न्यसेद् वा मन्त्रयेद् दश ।
गुह्यं पायुस्तथा चोरु जानुनी जंघकाद्वयम् ॥२१॥

स्फिचौ द्वौ तु कटिः पार्श्वौ न्यसेत् सद्यं ततोऽष्टधा ।
पाणिपादौ तथा नासाशिरोबाह्ये न्यसेत् बुधः ॥२२॥

दक्षिणे कटिपार्श्वे तु क्षुरिकास्त्रं प्रकल्पयेत् ।
मूर्धानने च हृदये गुह्यो वै पादयोः क्रमात् ॥२३॥

ब्रह्माणि सृष्टिमार्गेण ईशानादीनि विन्यसेत् ।
पादादारभ्य सद्यादि संहरं न्यासकर्मणि ॥२४॥

नाभ्यादि हृदयान्तन्तु स्थितिन्न्यासं प्रकीर्तितम् ।
सर्वात्मानन्तु हृदये सशिवं शिरसि न्यसेत् ॥२५॥

शिखायां ज्वालिनीं न्यस्त्वा वर्मणादेहमध्यतः ।
अस्त्रं हस्तप्रदेशेषु पञ्चाङ्गान्योमाचरेत् ॥२६॥

विद्याङ्गं पूर्ववन्न्यस्त्वा नेत्रं नेत्रेषु योजयेत् ।
द्वात्रिंशत् सन्धिदेशेषु बीजमुख्यन्तु विन्न्यसेत् ॥२७॥

हृत्पद्मे तु न्यसे देवमष्ट त्रिंशत् कलान्वितम् ।
अङ्गुष्ठमात्रमचलं ध्यायेत् प्रणवमीश्वरम् ॥२८॥

मानसैः कुसुमैर्गन्धैर्धूपदीपोपचारकैः ।
पूजयेद् धृदये नैव आत्मशुद्धिस्तु कीर्तिताः ॥२९॥

द्वारदेवान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।
वाग्देवीं द्वारशाखोर्ध्वे सव्ये वामे श्रियं यजेत् ॥३०॥

विघ्नेशं मध्यमे पूज्यनन्दिवर्गांश्च दक्षिणे ।
यमुनाञ्च महाकालं वामे भ्यर्च्यस्वनामभिः ॥३१॥

स्थानं संमृज्यसंप्रोक्ष्य दिग्बन्धञ्चास्त्रमन्त्रतः ।
भौमदिव्यन्तरिक्षस्थान् विघ्नान् प्रोत्सारयेद्धृदा ॥३२॥

भूमीष्ठान् प्राणदृष्ट्या तु तत्वदृष्ट्यान्तरिक्षगान् ।
ज्ञानदृष्ट्या तु दिक् स्थांस्तां स्तन्नामाख्यायमुद्रया ॥३३॥

ब्रह्मस्थाने तु ब्रह्माणं पुष्पगन्धादिभिर्हृदा ।
स्थानशुद्धिर्भवे देवं द्रव्यशुचिन्ततः शृणु ॥३४॥

गोमयेनोपलिप्याथ द्रव्यपात्राणि विन्यसेत् ।
अर्घ्यपात्रं शरावञ्च पाद्याचमनपात्रकौ ॥३५॥

वर्धनीजलभाण्डञ्च अस्त्रमन्त्रेण क्षालयेत् ।
हृदयेन निरीक्ष्याथ कवचेनावकुण्ठयेत् ॥३६॥

अर्घ्यपात्रं समादाय सन्दाह्यभ्यन्तरं हृदा ।
संस्पृश्य तस्मिं श्वेताब्जं ध्यात्वा वै मण्डलत्रयम् ॥३७॥

तेषु तत्वत्रयं स्मृत्वा आत्मविद्या शिवात्मकम् ।
शिवांबुना शिवे नैव अपूर्वब्रह्मपञ्चकैः ॥३८॥

कलावर्णात्मकैः पिण्डैरभिमन्त्र्य यथा क्रमम् ।
सुगन्धिकुसुमान् गन्धान् प्रक्षिप्याबुनिमन्त्रवित् ॥३९॥

तत्तोयं सर्वपात्रेषु द्रव्यपात्रेषु सर्वतः ।
विन्दौ बिन्दुं विनिक्षिप्य कुशेनैव हृदाणुना ॥४०॥

द्रव्यशुद्धिर्भवेदेषां मन्त्रशुद्धिरतः परम् ।
ओंकारादि युतामन्त्रा नमस्कारान्तयोजिताः ॥४१॥

पूर्वं शिवं समुच्चार्य ततो ब्रह्माङ्गकाद्युभौ ।
विद्याङ्गं बीजमुख्यञ्च क्षुरिकाञ्च समुच्चरन् ॥४२॥

तत् तद्रूपान्वितान्ध्यात्वा पूर्ववन्मन्त्रशुद्धये ।
क्रियाकाले प्रयोक्तव्या स्वाहान्तं हवने स्मृताः ॥४३॥

मालाद्यैश्वर्यजातानि मन्त्राणि ह्यानितानि च ।
मन्त्रशुद्धिरियं प्रोक्ता लिङ्गशुद्धिरतः परम् ॥४४॥

हुंफट्कारेण मन्त्रेण महाघण्टां प्रदापयेत् ।
प्रच्छादनपटन्त्यक्त्वा लिङ्गशुद्धिं समारभेत् ॥४५॥

निर्माल्योद्वासनारंभे स्नानारंभे तदन्तके ।
धूपकाले हविष्यादौ हविष्यन्ते तथैव च ॥४६॥

नित्योत्सवान्ते नृत्तान्ते महाघण्टां प्रदापयेत् ।
निर्माल्योद्वासने काले स्नानान्ते तु विशेषतः ॥४७॥

हविष्यादौ च नृत्तान्ते कुर्याद्यवनिवान्ततः ।
स्नानारंभे तथा धूपे हविष्यान्ते तथैव च ॥४८॥

नित्योत्सवादिकाले च पटं प्रच्छादनन्त्यजेत् ।
शिवे समर्चितं पूर्वं हृदयार्घ्यं विसर्जयेत् ॥४९॥

अङ्गुष्ठतर्जनीभ्यान्तु पुष्पं ग्राह्यविचक्षणः ।
कनिष्ठानामिकामध्ये त्यजेत् पर्यूषितङ्गुरुः ॥५०॥

विसर्जने च काले तु पुष्पं मूर्ध्निदापयेत् ।
न पुष्परहितं तुर्याच्छिवमौलिं गुरूत्तम ॥५१॥

पिण्डिकेशस्थ निर्माल्यञ्चण्डेशाय निवेदयेत् ।
लिङ्गशुद्धिः सपिण्डान्ता क्रमेणैव समापयेत् ॥५२॥

लिङ्गं प्रक्षाल्य चास्त्रेण पीठं पाशुपतेन तु ।
त्यजेदुषितगन्धादि जलैर्दक्षिणहस्ततः ॥५३॥

सङ्ख्याय शुद्धयः पञ्च ततस्त्वासनकल्पनम् ।
आसने मूर्तिमावाह्य त्वेतद्वितयमध्वनि ॥५४॥

व्याप्यव्यापकभावेन ज्ञात्वायजनमारभेत् ।
इच्छाशक्त्युत्थितं पद्मं पृथिव्यादिशिवान्तकम् ॥५५॥

पार्थिवाण्डमयं स्कन्दमाप्यान्तं नालमेव च ।
प्रधान तत्व पर्यन्तं तन्नालं कण्टकैर्युतम् ॥५६॥

अकारादिक्षकारान्तं शंबरं कण्टकं स्मृतम् ।
श्यामाभन्नालमित्युक्तं नालसूत्रं त्विदं स्मृतम् ॥५७॥

पुंस्तत्वादि कलान्तञ्च पीठन्दलाष्टकान्वितम् ।
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं पादमेव हि ॥५८॥

आग्नेयादिक्रमेणैव सिंहरूपोग्रदंष्ट्रकाः ।
सितरक्तपीतकृष्णा स्त्रिणेत्रा वज्रपीठकाः ॥५९॥

अन्योन्याभिमुखाः सर्वे सिंहकोटिसमायुताः ।
न्यस्तव्या भार्द्रमन्त्रेण भीमाभीम पराक्रमाः ॥६०॥

अधर्मज्ञानवैराग्या नैश्वर्यान्वै क्रमेण तु ।
प्रागाद्युत्तरपर्यन्तान्नियतांश्च सितप्रभान् ॥६१॥

न्यस्त्वागुणत्रये नैव ऊर्ध्वच्छदमथच्छदम् ।
पीठस्योर्ध्वे महामाया ग्रन्थिस्तत्वङ्गजानन ॥६२॥

विद्यातत्वमयिन्तस्य कर्णिकां परिचिन्तयेत् ।
इच्छाशक्त्यादिबीजानि विद्येशांश्च दलानि वै ॥६३॥

मन्त्रास्तत् केसरेप्रोक्तास्ते विद्यायां प्रतिष्ठिताः ।
केसरे बीजमुख्येन शक्तिन्तत्र प्रकल्पयेत् ॥६४॥

सितरक्तासितांश्चैव मूलमध्याग्रकान् क्रमात् ।
दलंश्वेतं विजानीयात् कर्णिकाकनकप्रभा ॥६५॥

पञ्चविंशतिकानीह बीजानिहरितानि वै ।
तप्तचामीकरप्रख्यं शक्तिव्यूहं न्यसेत् ततः ॥६६॥

केसरेषु च मध्ये तु वामादीन् पूर्वतः क्रमात् ।
वामाज्येष्ठा च रौद्री च कालीकलविकरणी तथा ॥६७॥

बलविकरणी बलप्रमधनी सर्वभूतदमनात्मिका ।
मध्येमनोन्मनीं देवीं कर्णिकायां निवेशयेत् ॥६८॥

सूर्याख्यमण्डलं पात्रे केसरे सोममण्डलम् ।
कर्णिकोपरिचाग्नेयं मण्डलस्थां मनोन्मनीम् ॥६९॥

इच्छाशक्त्यादिनालान्त (इश्चा-) मनन्तासनमीरितम् ।
गुणान्तं धर्मज्ञानादि सिंहाख्यमासनं विदुः ॥७०॥

योगासनन्तु तत् ख्यातं परमेशस्य सुव्रत ।
पद्मग्रन्धिं समारभ्य केसरान्ताब्जमासनम् ॥७१॥

शक्त्यन्तं केसरादूर्ध्वं कर्णिका विमलासनम् ।
एव मब्जासनं कल्प्यपूजयेत् स्वस्वनामभिः ॥७२॥

मुकुलीं प्रथमं बध्वा पद्ममुद्रामतः परम् ।
शशकर्णिं शिवं विप्रः कर्णिकान्तं निदर्शयेत् ॥७३॥

आसनोपरिमूर्तिन्तु सदाशिवमनुत्तमम् ।
पञ्चवक्त्रशिरोपेतं पञ्चाधिकदशेक्षणम् ॥७४॥

दशदोर्दण्डसंयुक्तं अष्टायुधसमज्वलम् ।
अभयं शूलपरशुं वज्रं खट्गञ्च दक्षिणे ॥७५॥

वरदञ्चाङ्कुशं पाशं घण्टां वह्निञ्च वामतः ।
अच्छ स्फटिकसंकाशमष्टत्रिंशत् कलात्मकः ॥७६॥

पञ्चब्रह्माङ्ग विद्याङ्ग दशबीजात्मकं परम् ।
दिव्यांबरधरञ्चार्थ वज्राङ्कितजटाधरम् ॥७७॥

बद्धपद्मासनासीनं कंबुग्रीवं सुयौवनम् ।
इच्छाज्ञानक्रियाचेति नेत्रत्रयसमन्वितम् ॥७८॥

शुक्लयज्ञोपवीतञ्च देवं ज्ञात्वा परापरम् ।
सर्वाभरणसंयुक्तं ध्यात्वा ह्यावाहयेत् ततः ॥७९॥

लिङ्गंमूलपरीणाहे कल्पयेत् तु मनोन्मनीम् ।
तदे?स्या परिस्थिते लिङ्गे चलेचैव सदाशिवम् ॥८०॥

एवं सङ्कल्प्यमूर्तिन्तु ततोवाह्यमनुं स्मरन् ।
पुष्पैरञ्जलिमापूर्य तदा वाहनमुद्रया ॥८१॥

प्रविष्टे हृदयाग्रे तु शिवरूपं विचिन्तयेत् ।
प्रणवं मनसोच्चार्य सर्वज्ञादिर्गुणैर्युतम् ॥८२॥

सर्वोपाधिविनिर्मुक्तं कारणानान्तु कारणम् ।
अतर्क्यमप्रमेयञ्च धृतमव्ययमीश्वरम् ॥८३॥

बिन्दावभ्युदितं ध्यायेत् स्थिरधीः पुरतः स्थिरे ।
सदाशिवात्ममध्यस्थं विन्यसेद् देशिकोत्तमः ॥८४॥

आवाहनादिभिर्भक्त्या परमेशं सुपूजयेत् ।
आवाह्य सद्यमन्त्रेण स्थापयेत् गुह्यमन्त्रतः ॥८५॥

बहुरूपेण सान्निध्यं पुरुषेणनिरोधनम् ।
सर्वावयवसंपूर्णमिशानेन तु भावयेत् ॥८६॥

आवाहनाख्यया वाह्य स्थापयेच्छान्तमुद्रया ।
ध्वजाख्यया तु सान्निध्यं रोधनं निष्ठुराख्यया ॥८७॥

पाद्यं हृदाणुनादत्वा वक्त्रेणाचमनं ततः ।
अर्घ्यन्तु शिरसादत्वा पञ्चमूर्धसु बुद्धिमान् ॥८८॥

करन्यासं विना तत्र दहनप्लावनं विना ।
सर्वमात्मविशुध्यर्थमाचरेत् तु गजानन ॥८९॥

आवाहने तु पूजान्ते विसर्जनविधौ तथा ।
अर्घ्यं दद्यात् तु मन्त्रज्ञस्त्रिषु कालेषु बुद्धिमान् ॥९०॥

अर्घ्ये विलेपने स्नानेत्रिषुगन्धं प्रेयोजयेत् ।
आवाहनार्घ्य पाद्येषु स्नाने धूपे विलेपने ॥९१॥

नैवेद्ये च विसर्गे च पुष्पमष्टसुयोजयेत् ।
आवाहनंविना सप्तकाले वारिसुयोजयेत् ॥९२॥

गन्धं पुष्पेण संयोज्य पुष्पं गन्धेनयोजयेत् ।
धूपं दीपेनसंयोज्य दीपन्दीपेन योजयेत् ॥९३॥

तिलोद्भवेनतैलेन हस्तयन्त्रोद्भवेन वा ।
गोघृते नैव वा लिङ्गमभ्यज्य हृदयाणुना ॥९४॥

मर्दयेच्छालिपिष्टेन हरिद्रा चूर्णकेन वा ।
शिवेन पिण्डमन्त्रैश्च कलाभिर्मानमन्त्रकैः ॥९५॥

सहस्राक्षरमन्त्रेण व्योमव्यापिदशाक्षरैः ।
पञ्चाङ्गैश्चैव विद्याङ्गैः क्षूरिकाबीजमुख्यकैः ॥९६॥

सुगन्धिकुसुमोपेतं जलौघैरभिषेचयेत् ।
सद्योजातेन गोमूत्रं गोमयङ्गुह्यकेन तु ॥९७॥

क्षीरन्तु बहुरूपेण दधितत् पुरुषेण तु ।
ईशानेन घृतं स्नाप्य पञ्चगव्यमथैकतः ॥९८॥

समादायोक्तसंख्याभिः स्नापयेत् तु दशाक्षरैः ।
मधुने क्षुरसे नैव नालीकेरजलेन च ॥९९॥

अच्छगोरोचनामिश्र जलैः संस्नापयेद्धृदा ।
द्रव्येषूक्तेष्वथा लाभे यथालाभं परिग्रहेत् ॥१००॥

घृष्ट्वा हरिद्राचूर्णैश्च स्नापयेद् गन्धवारिणा ।
वस्त्रमाचमनीयञ्च अर्घ्यन्तु हृदयाणुना ॥१०१॥

दुकूलपट्टकार्पास वासोभिर्विविधैरपि ।
इन्ध्याभिः पुष्पमालाभिः पत्रच्छेदैरथार्च्चयेत् ॥१०२॥

संपत्तौ हेमपट्टाद्यैर्विविधैरङ्गभूषणैः ।
संभूष्य हेमपुष्पैस्तु कुसुमेश्च सितासितैः ॥१०३॥

विज्ञाप्यलयभोगाङ्गं देवदेवं क्षमापयेत् ।
जपं स्तुत्यं नमस्कारं ध्यानं श्रद्धावदित्यपि ॥१०४॥

नृत्तं गीतञ्च वाद्यञ्च महाघण्डा स्वनादिकम् ।
लयाङ्गमुक्तं पूजायां देवदेवस्य नित्यशः ॥१०५॥

भोगाङ्गानि च शेषाणि लयैर्भागैश्च पूजयेत् ।
पञ्चवरणमार्गेण क्रमादावरणं न्यसेत् ॥१०६॥

सद्यं पश्चिमदिक्पात्रे वाम देवन्तथोत्तरे ।
अघोरं दक्षिणे यष्ट्वा पुरुषं पूर्वपात्रतः ॥१०७॥

ईशानमीशदिक्भागे न्यस्त्वा सम्यक् समर्चयेत् ।
स्नानदीपं पृथक् तेषामङ्गानामंगभावतः ॥१०८॥

कर्णिकायां ततो याम्ये संयजेदात्म तत्वकम् ।
विद्या तत्वन्ततः सौम्ये शिवतत्वन्तु मद्ध्यमे ॥१०९॥

आत्मानमन्तरात्मानं परमात्मानमेव च ।
यजेत् तत्व त्रयं स्थाने हृदापुष्पैः सितासितैः ॥११०॥

गर्भावरणमाख्यातं विद्येशावरणं ततः ।
गर्भावरणबाह्येषु पद्मपत्रेषु संयजेत् ॥१११॥

अनन्तं पूर्वतः पूज्य त्रिमूर्तिं वह्निगोचरे ।
सूक्ष्मन्तु दक्षिणेभागे श्रीकण्ठं नि-ऋतौ तथा ॥११२॥

शिवोत्तमन्तु वारुण्यां शिखण्डिं वायुगोचरे ।
एक नेत्रं तथा सौम्ये ह्येकरुद्रं तथैशके ॥११३॥

द्वितियावरणं ह्येवं प्रणवेन स्वनामभिः ।
उमा वै चोत्तरेयष्ट्वा पूर्वभागे वृषन्ततः ॥११४॥

दक्षिणे गजराजानं गुहं वै वारुणे तथा ।
महाकालन्तु नि-ऋतौ भृंगीशं वायुदेशतः ॥११५॥

चण्डेशमीशदिक्भागे नन्दीशञ्चाग्निगोचरे ।
उमादिक्षुमुखान्तानि तृतीयावरणेदले ॥११६॥

इन्द्रादिलोकपालांश्च ऐन्द्र्यादिषु प्रपूजयेत् ।
ब्रह्माणं दक्षिणेभागे विष्णुमुत्तरतो यजेत् ॥११७॥

लोकेश गणयोर्मध्ये ब्रह्मविष्णूयमोत्तरे ।
चतुर्थावरणं ह्येवमथास्त्रावरणं शृणु ॥११८॥

आशास्वष्ट सुवज्रादींश्चक्रं सौम्येब्जमन्त्रके ।
लोकपालान् सहस्त्रांश्च स्वस्वमन्त्रेण पूजयेत् ॥११९॥

गर्भावरणमन्त्राणां बीजमुद्रान्तु दर्शयेत् ।
विद्येशानाङ्गणेशानां कालकण्ठन्तु दर्शयेत् ॥१२०॥

लोकेशानामथास्त्राणां शूलमुद्राः प्रकीर्तिताः ।
देवतार्चनकाले तु यथा त्वाच्छादयेत् बुधः ॥१२१॥

पापरोगनिमग्नानां मृष्टानाञ्च स्वकर्मभिः ।
क्रूराणां कुब्जकादीनं कृशिकानां तथैव च ॥१२२॥

तथा कृत्रिमभक्तानां निन्दकानाञ्च पापिनाम् ।
अन्यच्च दोषदृष्टानाम दृष्टानामिति स्मृतम् ॥१२३॥

महाघण्टानिनादेन राक्षसाश्चासुरास्तथा ।
ब्रह्मराक्षसपैशा च भूतयक्षोरगेश्वराः ॥१२४॥

दूरं गच्छन्ति नादेन यान्ति देवाः सुसन्निधिम् ।
धूपदीपौ प्रदातव्यौ घण्टारवसमन्वितम् ॥१२५॥

ज्वलदङ्गारसंपूर्णं धूपपात्रं नरेण तु ।
सव्यहस्तेन सङ्ग्राह्य घण्टां वामेनपाणिना ॥१२६॥

सुरूपान्धीरनिर्घोषां वादयन् सर्वदा गुरुः ।
ध्वनिनाधूपखण्डाया ग्रामशान्तिकरं भवेत् ॥१२७॥

दद्यादाचमनं तत्र दर्पणच्छक्रचामरान् ।
मनसा वा स्वरूपेण दर्शयेत् तु विचक्षणः ॥१२८॥

बीजमुद्रां नमस्कारां मुकुलिं पद्ममुद्रिकाम् ।
ध्वजाख्यां लिङ्गमुद्राञ्च देवदेवस्य दर्शयेत् ॥१२९॥

शिवेच्छा प्रतिमाः सर्वाः पूजयेत् तु यथोचितम् ।
आसनावरणे कृत्वा द्वारपालार्चनं विना ॥१३०॥

नित्यस्नानं विनालोभे स्नानं पर्वणि पर्वणि ।
चण्डेशपरिवाराणि विना बिंबानिपूजयेत् ॥१३१॥

शिवस्य परिवाराणि समभ्यर्च्य यथा विधि ।
मुद्रादर्शनवेलायां शिवं स्नाप्यनिवेदयेत् ॥१३२॥

समारभ्यशिरः पूर्वं दक्षिणोत्तर पश्चिमे ।
ऊर्ध्वभागे तु मन्त्रज्ञः पञ्च स्वर्घ्यं निवेदयेत् ॥१३३॥

सद्योघोरेन रेवामेद त्वार्घ्यं पञ्चमान्तकम् ।
अपसव्यार्घ्यमित्युक्तं पूजाकालेषु नित्यशः ॥१३४॥

सव्यापसव्यमार्गाभ्यां दत्वार्घ्यन्तु पुनः पुनः ।
ऊर्ध्ववक्त्रे तु दातव्यं संमूखार्घ्यं पराङ्मुखम् ॥१३५॥

संमुखं संस्थि देहस्य विसर्गेर्घ्यं पराङ्मुखम् ।
नैवेद्यं दापयेत् पश्चात् यथा विभवविस्तरैः ॥१३६॥

भक्ष्यभोज्यां न पानानि सत्फलाज्यगुलान्वितम् ।
तेन दीपेन दत्वा तु नित्यां हि कमथो यजेत् ॥१३७॥

शिवाग्नौ रक्षिते तस्मिन् परितः शोध्य दीप्य च ।
परिषिच्य हृदापूज्यलोकेशानां ततो मतम् ॥१३८॥

संपूज्य च ततः पद्मे शिवं ब्रह्माङ्गकैरधः ।
घृतान्नेन घृतेनाथ जुहुयात् तण्डुलेन वा ॥१३९॥

प्रत्येकन्तु त्रिसंख्या वा ह्येक संख्यमथापि वा ।
परिषेचनमन्त्रेण पुनः सिच्यविसर्जयेत् ॥१४०॥

एवं नित्याग्निकार्यन्तु मध्यमे चाथमेपि च ।
उत्तमे चाग्निकार्योक्तं सर्वं कुर्याद् विचक्षणः ॥१४१॥

परिवारबलिं दत्वा निर्माल्यान्नं विसर्जयेत् ।
मुखवासञ्च तांबूलं दत्वा नित्यपवित्रकम् ॥१४२॥

सर्वच्छिद्रापनोदार्थं धूपितं प्रोक्षितं ततः ।
दशबीजमनुस्मृत्य पवित्रमधिरोपयेत् ॥१४३॥

पूजाकाले तु संप्राप्ते लिङ्गमूर्ध्निपवित्रकम् ।
अवतीर्यार्चिते लिङ्गे तं पवित्रं पुनर्नयेत् ॥१४४॥

नित्योत्सवन्तु कर्तव्यं विध्युक्तं त्रिषुसन्धिषु ।
नीराजनन्तु कर्तव्यं रात्रौ रात्रौ विशेषतः ॥१४५॥

प्रक्षाल्यपादौ हस्तौ च प्रम्याष्टाङ्गमादरात् ।
प्रदक्षिणत्रयं कृत्वा मन्त्रञ्जप्त्वा क्षमापयेत् ॥१४६॥

कालत्रयङ्गुणातीतः कालात्मा शिवशाश्वतः? ।
उदयस्थिति संहारकण्व पुण्यैककारणा ॥१४७॥

अनेकतप कृत्यानि नयसर्वाणि सर्वदा ।
फलप्रदान्यमोघानि संपूर्णानि प्रसीदमे ॥१४८॥

एतन्मन्त्रं जपित्वेशं क्षमस्वेति वदेत् गुरुः ।
स त्रिपाद त्रिघटिका रात्र्यन्ते तु दिने दिने ॥१४९॥

ब्राह्मं मुहूर्तमाख्यातं संघोष्यस्त्विति कथ्यते ।
तथा पञ्च महाशब्दं कृत्वा शुभनिवृत्तये ॥१५०॥

शौचं स्नानादिकं कृत्वा पूजान् कृत्वादिशैवकम् ।
भास्करस्योदयात् पूर्वं दृष्ट्वारभ्य यथा क्रमम् ॥१५१॥

यामैका चोत्तमासन्धिर्मध्यमा पञ्चनाडिका ।
मध्यमाया कनिष्ठा स्याद् यथा विभवमाचरेत् ॥१५२॥

सा चैकाघटिका स्नाने घटिकाद्वयमर्चने ।
नैवेद्यं घटिकार्धञ्च घटिकार्धं बलिं ततः ॥१५३॥

घटिकार्धैकसंयुक्ता वेला तत्र विधीयते ।
नित्योत्सवे तथा स्नाने शुद्धे वै सुद्धनृत्तके ॥१५४॥

सार्द्धत्रिघटिका प्रोक्ता द्रव्यसंपन्नपूजने ।
असंपद्यजनं प्रोक्तं मध्यमाधमकालतः ॥१५५॥

एवं समर्चिते सर्वमर्चितञ्च चराचरम् ।
तस्माल्लिङ्गार्चनं कार्यं प्राज्ञैश्च सुमहात्मभिः ॥१५६॥

ब्रह्मचर्येण वेदैश्च यज्ञैश्च विविधैः शुभैः ।
अग्निहोत्रैश्च सन्यासैराश्रमैश्च सुपालितैः ॥१५७॥

त्रिदण्डैश्च व्रतैः सर्वै घृतैः पाशुपतादिकैः ।
एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् ॥१५८॥

तत्फलं लभते साधु लिङ्गस्यार्चन तत् परः ।
एकोह्यभ्यर्च्यते लिङ्गन्तपस्तप्यति चा परः ॥१५९॥

तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं संप्रपूजयेत् ।
अनेकजन्मसाहस्रे भ्रममाणस्तु योनिभिः ॥१६०॥

कश्चिदाप्नोति वै मुक्तिं लिङ्गार्चनरतोनरः ।
शिवार्चनविधिः प्रोक्तो मुद्रायालक्षण शृणु ॥१६१॥

इति शिवार्चनविधि पटलोष्टमः ॥८॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP