संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
करणाधिकारलक्षण पटलः

अथ क्रियापादः - करणाधिकारलक्षण पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि करणानां तु लक्षणम् ।
यागोपकरणं यस्मात् तस्मात् तत् करणं विदुः ॥१॥

दर्भाणां लक्षणञ्चैव पवित्राणां विशेषतः ।
कूर्चानां दर्भमालाया विष्टराणाञ्च लक्षणम् ॥२॥

आज्यस्थाल्याश्चरुस्थाल्याः कलशानान्तु लक्षणम् ।
हविः पात्रपिधानञ्च जलद्रोण्याश्च लक्षणम् ॥३॥

धूपघण्टाविकल्पञ्च स्थालिकायाश्च लक्षणम् ।
प्रमाणं दीपदण्डानां यंत्रिकायाश्च लक्षणम् ॥४॥

बलिपात्र त्रिपादीनां दर्वीणां लक्षणं तथा ।
वितान ध्वजवस्त्राणां पृच्छं न पटलक्षणम् ॥५॥

तथोष्णीषोत्तरीयाणां खट्गायाश्च सनस्य च ।
रथस्य लक्षणञ्चैव शिबिकापर्यङ्कयोस्तथा ॥६॥

सिंहासनोपयानानां स्तंभाच्छादनरङ्गयोः ।
पादुकादर्शनानान्तु व्यजनञ्चामरस्य च ॥७॥

सितात पत्र पत्राणां पिञ्छानाञ्चैव लक्षणम् ।
मङ्गलानामधात्राणां तोरणद्वयलक्षणम् ॥८॥

सुवर्णपट्टपुष्पाणां गोलकायाश्च लक्षणम् ।
मकुटानाङ्कुण्डलानां हारकेयूरयोश्च वै ॥९॥

कटकङ्कटिसूत्राणां नूपुरस्य च लक्षणम् ।
जठरोपरिबन्धानां स्त्रीणां भूषणलक्षणम् ॥१०॥

क्षुराणां कर्तरीणान्तु मार्जनस्य प्रमाणकम् ।
एतेषां लक्षणं वक्ष्ये ह्यानुपूर्वात् गजानन ॥११॥

अशुष्कञ्छिन्नभिन्ना ग्राह्यदर्भा खण्डितास्तथा ।
कोमला श्यामला स्निग्धा जीर्णाः शुभ्राः शुभावहाः ॥१२॥

मृदुश्यामाश्च स्त्रीलिङ्गाः पुल्लिङ्गाः कोमला स्थिराः ।
अकोमला स्थिराश्चैव अनुग्राह्या नपुंसकाः ॥१३॥

दर्भाणां लक्षणं प्रोक्तं पवित्राणां ततः शृणु ।
कुशादर्भाश्च गोवालाः पवित्रङ्कनकास्तथा ॥१४॥

सप्तपञ्च त्रियुक्तो वा ह्यग्रन्तु द्व्यङ्गुलं भवेत् ।
द्व्यङ्गुलं तस्य नालन्तु ग्रन्धिरेकाङ्गुलं भवेत् ॥१५॥

दक्षिणावर्तग्रधितं पवित्रमिहशोभनम् ।
अनाम्यङ्गुलविस्तारं ताराष्टैकाम्शहीनकम् ॥१६॥

तप्तचामीकरेणैव पवित्रं कनकाख्यकम् ।
दशपञ्चाधिकैर्दर्भैर्दशैकादशकैस्तु वा ॥१७॥

दशभिर्न बभिर्वापि सप्तभिः पञ्चभिस्तु वा ।
दर्भसङ्ख्याङ्गुलायामादर्भाणां नवकोर्ध्वके ॥१८॥

नवाङ्गुलन्तु तद्दैर्घ्यं दर्भाणां सप्तपञ्चके ।
दक्षिणावर्त ग्रथितं ग्रन्धिरेकाङ्गुलं भवेत् ॥१९॥

कूर्चाग्रञ्चतुरङ्गुल्यं कूर्चमेवं विधीयते ।
दशपञ्चाधिकं यत् तु शिवकुम्भस्य विन्यसेत् ॥२०॥

द्वादशैश्चैव विन्यस्य शेषैः शेषेषु विन्यसेत् ।
ऊर्ध्वग्रन्ध्या ह्यतोग्रन्तु पूर्वाग्रन्तु यथा न्यसेत् ॥२१॥

कूर्चानां लक्षणं प्रोक्तं दर्भमालां ततः शृणु ।
द्विवृतादक्षिणावर्ता द्वित्रिकैः पञ्चभिस्तु वा ॥२२॥

दर्भान्तरं वै द्व्यङ्गुल्यं हस्तमानेन लंबयेत् ।
कनिष्ठाङ्गुलिनाहेन रज्जुङ्कुर्यान् मनोरमम् ॥२३॥

लम्बमानास्तु दर्भाणां शस्तास्ता इति संस्मृताः ।
जपहोमार्चनं तस्य मध्ये वीध्यत्वमागताः ॥२४॥

प्रासादयज्ञशालायां परिवेष्ट्य च यत्नतः ।
विष्टरं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् ॥२५॥

मुलाग्रौ च दशाङ्गुल्यौ विष्टरं तु विधीयते ।
सप्तविंशति दर्भैर्वा ह्येकविंशतिरेव वा ॥२६॥

दशपञ्चभिरेवाथ कूर्चं कुर्वीत बुद्धिमान् ।
ग्रन्थिस्त द्व्यङ्गुलं प्रोक्तं अग्रं तु द्विगुणं भवेत् ॥२७॥

नालमेकोनविंशत् तु दर्भेण व्रतबन्धनम् ।
एषा वै प्रोक्षणी प्रोक्ता परिस्तरणकं शृणु ॥२८॥

एकविंशति दर्भाभिः कला ग्रन्थिस्तु बन्धयेत् ।
मेखला मध्यमायाममूलाग्रोदयमिष्यते ॥२९॥

परिस्तरणकं प्रोक्तं ततः परिधयः शृणु ।
यैर्मानैः समिथं प्रोक्तं तैरेवपरिधिर्भवेत् ॥३०॥

आयामं हस्तमानेन कनिष्ठाङ्गुलिनाहकम् ।
तिस्रः परिधयः प्रोक्ताः पश्चिमे दक्षिणोत्तरे ॥३१॥

परिधेर्लक्षणं प्रोक्तं समिधालक्षणं शृणु ।
न स्फोटिकान सुषिरा ऋजवोग्रन्थि वर्जिताः ॥३२॥

द्वादशाङ्गुलिकायामा कनिष्ठाङ्गुलिनाहकाः ।
समिधालक्षणं प्रोक्तं मेक्षणं तत् प्रमाणतः ॥३३॥

ततः सृक्लक्षणं वक्ष्ये शृणु मुग्धविनायक ।
खदिरश्च शमीविल्वपलाशाः प्लक्षचन्दनौ ॥३४॥

तथा च यज्ञ वृक्षेषु यथा सम्भवतः कुरु ।
त्रिंशदङ्गुलमायाममष्टाङ्गुल सुविस्तृतः ॥३५॥

तदर्धन्तु घनं प्रोक्तं सूत्रेण समितं ततः ।
षडङ्गुलं भवेदाभ्यं सप्ताङ्गुलन्तु विस्तृतम् ॥३६॥

तदग्रन्तु त्रिधा कृत्वा तस्मात् कुर्यात् त्रिकोणवत् ।
गजोष्ठ सदृशाकारन्निम्नं स्याद्यवमानकम् ॥३७॥

तद्बहिः पट्टकाङ्कुर्याद्यवाद्यवसुविस्तृतम् ।
अष्टाङ्गुलसुविस्तारा वेदिकाष्टाङ्गुलायता ॥३९॥

तन्मध्ये कारयेत् गर्तन्तच्चक्र्यङ्गुलविस्तृतम् ।
खातं स्यात् तत् प्रमाणेन तद्बहिर्यवमानका ॥४०॥

पट्टिका तु प्रकर्तव्या तद्बहिर्यवनिम्नगा ।
बिलबाह्ये तु परितः पट्टिकार्द्धाङ्गुलेन तु ॥४१॥

श्वभ्रस्य परितः कार्यं पद्ममष्टदलंशुभम् ।
श्वभ्रारभ्यमुखान्तं यत् कनिष्ठाङ्गुलमानतः ॥४२॥

खातं स्यात् कृत धारार्थं निम्नोन्नतविवर्जितम् ।
दण्डोर्ध्वे वेदिकाधस्तात् त्र्यङ्गुलेन त्रिखण्डिका ॥४३॥

अर्धाङ्गुलविवृध्या तु वृत्ता वा चतुरश्रका ।
दण्डं नवाङ्गुलायामन्तस्य नाभं षडङ्गुलम् ॥४४॥

दण्डाधोमुकलङ्कार्यं तदायामन्तु द्व्यङ्गुलम् ।
नाभमष्टाङ्गुलं प्रोक्तं मानमेवं विधीयते ॥४५॥

वेदिका परभागब्जे पृष्ठाकारन्तुलाञ्चयेत् ।
तन्मध्ये कर्णिकाकारं पादतारञ्च त्र्यङ्गुलम् ॥४६॥

अङ्गुलन्तु तदुत्सेधं स्रवमेवं प्रकल्पयेत् ।
अरत्निमात्रमायामं तदग्रे बिलसंयुतम् ॥४७॥

मूलं षडङ्गुलन्नाहं तदर्धं कण्ठनाहकम् ।
पुष्करं मूलनाहन्तु द्विपुटं नासिकासमम् ॥४८॥

माषमग्नन्तु निम्नं स्यात् बिलद्वयसमन्वितम् ।
गोपुच्छसदृशं दण्डं प्रोक्तं तत् स्रवलक्षणम् ॥४९॥

सौवर्णं रजतन्ताम्रं मृन्मयं वाथकारयेत् ।
अष्टाङ्गुल सुविस्तीर्णन्निम्नं प्रस्थेन पूरितम् ॥५०॥

घनमानाङ्गुलं प्रोक्तं द्रव्यपात्रं विधीयते ।
होमकाले तु द्रव्याणां प्रमाणं लक्ष्यते धुना ॥५१॥

घृतेषु गव्यं तच्छेषु स्रवं पूर्णप्रमाणतः ।
सक्तुमुष्टिमिदं वासमधु वै घृतवत् भवेत् ॥५२॥

करपूर्णन्तु लाजस्य चाक्षमात्रङ्गुलस्य तु ।
समिदौषधकं दानां फलानां स्वप्रमाणतः ॥५३॥

अन्नमक्षप्रमाणं स्यात् पूर्णाहुत्यास्तु सृङ्मति ।
तिलसर्षपयोश्चैव शुक्तिमात्रं विधीयते ॥५४॥

दध्नाक्षीरस्यमानन्तु घृतवत् परिकीर्तितम् ।
यववेणु कुलुत्थानां शुक्तिमात्रेण होमयेत् ॥५५॥

अपूपस्य चतुर्निष्कन्धान्यानां मुष्टिमात्रकम् ।
एवं प्रमाणं द्रव्याणामाज्यस्थालीन्ततः शृणु ॥५६॥

आज्यस्थाल्या प्रणीतायाः प्रमाणं द्रव्यपात्रवत् ।
आस्यं षडङ्गुलन्तार मोष्ठमेकाकाङ्गुलं भवेत् ॥५७॥

कर्णमेकाङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् ।
विस्तारेण समाख्यातं शेषं बुद्ध्या प्रकल्पयेत् ॥५८॥

चरुस्थालिन्तथैवापि कलशानां विधिं शृणु ।
द्वादशाङ्गुलविस्तारमुदरं समुदाहृतम् ॥५९॥

वर्तितं त्रिगुणन्तेन नाहन्तस्य विधीयते ।
कर्णं द्वियङ्गुलोत् सेधं विस्तारञ्चतुरङ्गुलम् ॥६०॥

ओष्ठन्तु द्व्यङ्गुलोत्सेधं द्व्यङ्गुलन्निर्गमं स्मृतम् ।
एवमेव हि वृद्ध्या तु कर्तव्यौ मध्यमाधमौ ॥६१॥

अनुसारं यथा बुध्या कल्पयेत् कल्पवित्तमः ।
आच्छादनं शरावाणां मुखमानेन विस्तरम् ॥६२॥

त्र्यङ्गुलन्तु तदुत्सेधं मध्ये निम्नं द्वयाङ्गुलम् ।
एवं प्रमाणमुद्दिष्टं शृणुष्व घटलक्षणम् ॥६३॥

यद्वद्वैकलशाकरं तद्वदेव * * स्मृतम् ।
चतुर्गुणविवृध्या तु घटमेवं विधीयते ॥६४॥

चरुस्थाली यथा रूपं हविः पात्रन्तथैव च ।
यावत् तण्डुलसंपत्तिस्तावत् ब्रह्मणमुच्यते ॥६५॥

आस्यतुल्यं पिधानन्तु मध्ये तु वलयं तथा ।
मिश्रतम्रेण ताम्रेण हविः पात्रं प्रकीर्तितम् ॥६६॥

सौवर्णं रजतं वापि ताम्रजाम्रन्मया तु वा ।
जलद्रोणी प्रकर्तव्या वृत्ता वा चतुरश्रका ॥६७॥

दशद्रोणैरथाद्भिस्तु पूर्णितं ग्रीववर्जितम् ।
अष्टद्रोणेन पूर्णं वा षट्भिर्वाद्रोणपञ्चकैः ॥६८॥

चतुर्भिर्वा त्रिभिः कार्यं वर्धनीञ्च ततः शृणु ।
तस्यास्यञ्चतुरङ्गुल्यमोष्ठद्वयसमायुतम् ॥६९॥

तत् पार्श्वं सुषिरान्तस्थं नालीस्याच्चतुरङ्गुलम् ।
बृहोदरं तनुग्रीवं समयुक्तिमथाचरेत् ॥७०॥

कमण्डलुश्च तद्वत् स्यान्मुखमध्योर्ध्वनालके ।
ओष्ठञ्च सुषिरं कृत्वा प्रष्ठे पादं प्रलंबितम् ॥७१॥

अङ्गुलन्तु च तन्मानं सुषिरं पार्श्वतस्तथा ।
ऊर्ध्वे पिप्पलमानं स्यादक्षिरं मुखनालकम् ॥७२॥

एवं कमण्डुलुङ्कुर्यात् सर्वलक्षणसंयुतम् ।
कलुषं कृमिशैवालमशुचिस्थानसंश्रितम् ॥७३॥

गन्धवर्णरसैर्जुष्ठं सूर्यरश्मिविवर्जितम् ।
पङ्काश्मदूषितञ्चैव क्षारोदं पल्वलोदकम् ॥७४॥

अग्राह्यमुदकङ्ग्राह्य मेभिर्दोषैर्विवर्जितम् ।
अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते ॥७५॥

अभिषेकमथाद्भिस्तु द्विगुणैर्मध्यमं स्मृतम् ।
उत्तमं त्रिगुणैरद्भिः पुष्पपात्रमथ शृणु ॥७६॥

विंशत्यङ्गुलविस्तारं त्रिगुणन्नाहमुच्यते ।
तदन्तर्नाहमेवन्तु पुष्पपात्रं विधीयते ॥७७॥

तदर्धमर्घ्यपात्रन्तु तन्नालेन विहीनकम् ।
शरा वा कृतिरग्रे तु द्विपात्रं तदविस्थितम् ॥७८॥

शराव पृष्ठनालन्तु अष्टाङ्गुलसुदैर्घ्यकम् ।
तिर्यक् कृत्वा यथा भोगं तदन्ते चैकपायुवत् ॥७९॥

पिधानं मुकुलाकारमनेकसुषिरैर्युतम् ।
धूपपात्रं समाख्यातमुरुघण्टामथ शृणु ॥८०॥

द्वादशाङ्गुलमुत्सेधं त्रिगुणन्नालमेव च ।
जिह्वा च द्वादशाङ्गुल्यं तदर्धं शिखरं भवेत् ॥८१॥

तन्मध्ये वै तु सुषिरं वलयेन समन्वितम् ।
तद्घनं त्रिगुणेनैव तदास्योष्ठघनं स्मृतम् ॥८२॥

कण्ठन्तु त्र्यङ्गुलोत्सेधमधमस्य तु लक्षणम् ।
द्विगुणं त्रिगुणं प्रोक्तं धूपघण्टामथ शृणु ॥८३॥

घण्टां कुर्वीत कांस्येन चतुरङ्गुलमुच्यते ।
विस्तारन्तत् प्रमाणन्तु शिखरन्तु तदर्धकम् ॥८४॥

अष्टाङ्गुलेन घण्टा स्यात् जिह्वा च चतुरङ्गुला ।
तत् घनं त्रिगुणे नैव तदास्योष्ठ घनं भवेत् ॥८५॥

अधमन्त्वेतदुद्दिष्टं पञ्चाङ्गुलन्तु मध्यमम् ।
ज्येष्ठं षडङ्गुलं प्रोक्तमन्यत्सर्वं समंविदुः ॥८६॥

तत् समन्नालमूर्ध्वन्तु शूलन्तच्छिरविन्यसेत् ।
पात्रं वा शंखचक्रं वा वृषं वा मूर्ध्नि विन्यसेत् ॥८७॥

धूपकाले प्रयोक्तव्यं घण्टानादसमन्वितम् ।
घण्टायास्तु ध्वनिं श्रुत्वा सर्वपापैः प्रमुच्यते ॥८८॥

स्थलिकापाद रहितं रक्तिमात्रं सुविस्तृतम् ।
सौवर्णं रजतन्ताम्रं कांस्ये नैवाथ कारयेत् ॥८९॥

ओष्ठमेकाङ्गुलोन्नत्या तद्घनं द्विगुणेन तु ।
अर्धाधिकञ्च द्विगुणं प्रोक्तं वै मध्यमोत्तमे ॥९०॥

स्थलिकालक्षणं प्रोक्तं दीपदण्डं ततः शृणु ।
एकहस्तं समारभ्य नवहस्तान्तमेव च ॥९१॥

उत्सेधादष्टभागैक दण्डनाहं प्रकीर्तितम् ।
तदुच्चैः पञ्चभागे तु द्विभागं पादविस्तरम् ॥९२॥

पदान्ताद्धस्तमानेन तद्वदूर्ध्वे तु विस्तरम् ।
नानागणिकया युक्तं नानाकुंभैः समन्वितम् ॥९३॥

तदूर्ध्वे मुकुलाकारं नालं ग्रन्धिसमायुतम् ।
दीपदण्डं तव प्रोक्तं दीपमालां ततः शृणु ॥९४॥

ताम्रेण वायसेनाथ दारुभिर्वाथ कारयेत् ।
द्वारे तु द्वारवत् कृत्वा प्रभाकारन्तु पृष्ठके ॥९५॥

शूलवच्छूल देवांश्च चक्रञ्च चक्रदीपवत् ।
धुर्तूरपुष्पवन् मूर्ध्नि एकधारक दीपिका ॥९६॥

दीपदेहा इमे प्रोक्ता यंत्रिकांश्च ततः शृणु ।
आयसेन प्रकर्तव्यं नालं वै मध्यमाङ्गुलम् ॥९७॥

कवाटार्गल संबन्धं यथा युक्तं भवेदिह ।
द्विवक्त्रञ्च ततः कृत्वा पूर्वपश्चिमसंयुतम् ॥९८॥

मूले वलयसंयुक्तं सुस्निग्धञ्च भवेदिह ।
यंत्रिका च तथा प्रोक्ता बलिपात्रमतः शृणु ॥९९॥

आयसेन प्रहैमेन अथवा ताम्रकेण वा ।
चतुस्त्रिद्वयतालं वा विस्तारं समुदाहृतम् ॥१००॥

दलाष्टकसमायुक्तं कर्णिकामध्यमे न्यसेत् ।
भक्तिद्वयङ्गुलोत्सेधं त्रिभागैकेन कर्णिकाः ॥१०१॥

चतुर्विधा त्रिपादी स्याच्छंख पादीत्रिपादिका ।
यवनी पादमेवं स्यात् स्थलिका पादमेव च ॥१०२॥

षडङ्गुलन्तदुत्सेधं तदर्धं मुखविस्तरम् ।
कनिष्ठाङ्गुल नाहन्तु शङ्खपादं प्रकीर्तितः ॥१०३॥

द्विगुणञ्च त्रिपादी च पादं वक्त्रेणसंयुतम् ।
शरावा कृतिमूले तु शेषं बूध्याप्रकल्पयेत् ॥१०४॥

त्रिपाद त्रिगुणं वत्सयवन्याः पादमुच्यते ।
पीठोत्सेधसमं विद्यात् स्थलिका पादमेव च ॥१०५॥

त्रिपादलक्षणं प्रोक्तं दर्व्यालक्षणकं शृणु ।
रत्निमात्रं तदायामं भुजङ्गस्य फणोपमम् ॥१०६॥

अष्टाङ्गुलसुविस्तीर्णं तदर्धं पादमेव च ।
तदर्धं मध्यमस्योक्तमुक्तं दर्व्यास्तु लक्षणम् ॥१०७॥

पञ्चहस्त प्रमाणेन विस्तारायामतः समम् ।
वस्त्रयुग्मसमायुक्तं सुश्लक्ष्णं सुदृढं सितम् ॥१०८॥

नानावर्ण विचित्राङ्गं तथा सर्वन्तु कारयेत् ।
एवं वितानमुक्तन्तु ध्वजलक्षणमुच्यते ॥१०९॥

क्षौमपट्टदुकूलैर्वा कार्पास सममेव वा ।
हस्तमात्र सुविस्तारमायामं द्विगुणं भवेत् ॥११०॥

चतुस्त्रिद्वयपुच्छं वा ध्वजार्धशिरपुच्छकम् ।
पताकायाः प्रमाणन्तु प्रागुक्तद्विगुणायतम् ॥१११॥

अन्यत् समानमत्रैव जललक्षणमुच्यते ।
पट्टदेवाङ्गनेत्रैर्वा कार्पासैः शुक्लवाससा ॥११२॥

पीठोत्सेधस्य चार्धार्धं वस्त्रविस्तारमुच्यते ।
विस्ताराष्टगुणायामं सदशन्तु सलक्षणम् ॥११३॥

आखुदष्टाग्नि दग्धञ्च जीर्णञ्चापि विसर्जयेत् ।
वस्त्रमेवं समाख्यातं पृच्छन्न पटमुच्यते ॥११४॥

द्वारादध्यर्ध विस्तारमायामं द्विगुणं भवेत् ।
पापक्रूर परिभ्रष्टैर्नास्तिकैः श्रुतिदूरकैः ॥११५॥

गोरसक्रयकैश्चैव पतितैश्च द्विजन्मभिः ।
वेदविक्रयकैश्चापि शास्त्रविक्रयकैरपि ॥११६॥

अदृष्टार्थं प्रकर्तव्यं दृष्टे पूजा तु निष्फला ।
विसर्जने तु निर्माल्ये पुष्पालङ्कारकर्मणि ॥११७॥

निवेद्यकाले सन्दिग्धे पृच्छन्न पटमुच्यते ।
उष्णीषञ्चोत्तरीयञ्च श्वेतसूक्ष्म सुवाससा ॥११८॥

उष्णीषञ्चोत्तरीयञ्च नवहस्तप्रमाणतः ।
खट्गपादसमुत्सेध रत्निद्वयसमायुतम् ॥११९॥

अथवा हस्तमात्रं स्यात् पादद्विगुणविस्तरम् ।
विस्तारद्विगुणायामं कक्ष्याभिर्बन्धयेत् ततः ॥१२०॥

खट्गायालक्षणं प्रोक्तमासनं शृणु सुव्रत ।
चतुःसिह्मसमायुक्तं हस्तमात्रोच्छ्रयं भवेत् ॥१२१॥

द्विरत्निविस्तृतं कार्यं वृत्तं च चतुरश्रकम् ।
आच्छाद्यतरुभिच्छोर्ध्वन्निघृणं सुदृढं क्रमात् ॥१२२॥

हंसा कारेण वा पादं भूतपादमथापि वा ।
गजाकारं वृषाकारं पादङ्कुर्याद् विशेषतः ॥१२३॥

कपोतनासिका युक्तं नानारत्नैर्विभूषितम् ।
हाटकं रजतं वापि यथा दारुमयन्तु वा ॥१२४॥

आसनं त्विदमाख्यातं ततः पद्मासनं शृणु ।
ऊर्ध्वाधोदलसंयुक्तं वृत्तमब्जासनं स्मृतम् ॥१२५॥

खट्गाकारैर्युतं पीठं समं वा चतुरायतम् ।
फलकापादहिनञ्च ततो रथमिहोच्यते ॥१२६॥

चतुश्चक्रसमायुक्तञ्चक्र पोततरुद्वयम् ।
तदूर्ध्वे वेदिकायुक्तमुत्तरन्तु निवेशयेत् ॥१२७॥

तदूर्ध्वे पद्मपट्टञ्च क्षूद्रपट्टं ततो न्यसेत् ।
कापोत नासिकायुक्तं फलकोपरि विन्यसेत् ॥१२८॥

द्वादशक्षुद्र पादाः स्युरष्टौ वा षोडशापि वा ।
विंशतिर्वा समाख्याता नासिकास्तद्वदेव हि ॥१२९॥

प्रत्यग्रे मुकुलं कार्यं तस्य नालं त्रिवक्रकम् ।
वृषभौ पार्श्वयोर्न्यस्त्वा तयोर्मध्ये पितामहः ॥१३०॥

यष्टिरज्जु समायुक्तस्त्वग्रभागे प्रतिष्ठितः ।
प्रासादवत्तदुपरि मण्टपन्तोरणं हि वा ॥१३१॥

रथं समासतः प्रोक्तं रङ्गञ्चैव ततः शृणु ।
रथाधिष्ठानवत् कृत्वा ब्रह्माणं मुकुलन् त्यजेत् ॥१३२॥

रङ्गमण्टपवत् कृत्वा ह्यधप्रासादवत् कृतम् ।
दारुणा द्वितलङ्कृत्वा तदूर्ध्वे तु रगंमयः ॥१३३॥

चतुर्वापि गजोमध्ये वृषसिंहद्रुमोथवा ।
तलोर्ध्वेयं त्रिडोलांश्च अन्यदुक्तन्तु कारयेत् ॥१३४॥

एवं तु रङ्गमाख्यातं शिबिकाञ्च तत शृणु ।
शिबिका चैव मौण्डी च शेखरी च त्रिधा भवेत् ॥१३५॥

उत्तमं सप्ततालन्तु पञ्चतालन्तु मध्यमम् ।
अधमन्तु चतुस्तालं विस्तारं त्रिविधं स्मृतम् ॥१३६॥

विस्तार द्विगुणायामं पादो न द्विगुणं तु वा ।
दन्तैर्वा दारुसारैर्वा काञ्चनाद्यैरलङ्कृतम् ॥१३७॥

पद्मपट्टिकया युक्तं फलकादि दृढान्तरम् ।
पद्मपत्रं षडङ्गुल्यं फलकाङ्गुलि हीनकम् ॥१३८॥

षोडशाङ्गुलमुत्सेधं भित्तेरुच्छ्रयमुत्तमम् ।
एकैकाङ्गुलिहीनास्युर्मध्यमस्याधमस्य तु ॥१३९॥

पट्टिका विस्तरं शस्तमथाष्टाङ्गुलमुत्तमम् ।
अङ्गुलाङ्गुलिहीनन्तु मध्यकन्य सयोस्तथा ॥१४०॥

मध्ये पट्टिकया युक्तं फलकाञ्जालकान्वितम् ।
भित्तिपादाश्रितं कीलमायसेन तु कारयेत् ॥१४१॥

नानारूपसमायुक्तं नानानटसमायुतम् ।
मध्यपट्टसमं प्रोक्तमग्रभित्तेः समुन्नतम् ॥१४२॥

भित्यग्रे सिम्हकौतिर्यक् मकरेतच्छिरोपरि ।
पालिका सदृशाः पादाः सप्तवाष्टाङ्गुलोन्नताः ॥१४३॥

एवं वै शिबिकाप्रोक्ता मौण्डी शेखरयोः शृणु ।
विस्तारस्य समं प्रोक्तं भित्ते रुच्छ्रयमेव तु ॥१४४॥

शलाकृति यथा रूपं मौण्ड्याकारं विधीयते ।
शेखरे शिखरैर्युक्तं कापोतैः पादसंयुतम् ॥१४५॥

एवन्तु शिबिका प्रोक्ता ह्यण्डजादीं ततः शृणु ।
अण्डजं मुण्डजञ्चैव रोमजञ्चर्मजं तथा ॥१४६॥

वामजं शयनं पञ्च कल्पास्त्वेते विशेषतः ।
अण्डजञ्चात्र बोधव्यं पक्षिपिञ्छसमुद्भवम् ॥१४७॥

कार्पासेन कृतं यत्तु मुण्डजं च प्रकीर्तितम् ।
आविकादि मृगाणान्तु रोमजं रोमजं स्मृतम् ॥१४८॥

चर्मजं व्याघ्र सिंहयोः कौशेयं वामजं स्मृतम् ।
पट्टं वापि प्रकर्तव्यं स देशेनसमन्वितम् ॥१४९॥

अण्डजं श्वेतरूपं स्यान्मुण्डजं पीतवर्णकम् ।
रोमजं कृष्णवर्णन्तु रक्तवर्णन्तु चर्मजम् ॥१५०॥

वामजं सितवर्णन्तु शुक्लरूपन्तु पट्टकम् ।
यथार्हकं तथा कृत्वा ह्युपधानं तथा भवेत् ॥१५१॥

नवद्वादशकैर्वापि दशपञ्चाधिकैस्तु वा ।
नानावर्णैः सवर्णैश्च नानारूपसमायुतैः ॥१५२॥

एतैर्वस्त्रैस्तु संप्रोक्तं तरङ्गमिहशोभनम् ।
स्तम्भायाम समायुक्तं स्तंभवेष्ट न मुच्यते ॥१५३॥

शुद्धकांस्येन कर्तव्यं विस्तारं रत्निमात्रकम् ।
षोडशाङ्गुलविस्तारमथवा द्वादशाङ्गुलम् ॥१५४॥

तारार्धं वा तु तुङ्गं स्यात् कुर्याद् देवस्य दर्पणम् ।
तत्र तु द्वादशाङ्गुल्यं पादुकं स्वप्रमाणतः ॥१५५॥

आयामार्धन्तु विस्तारं विस्तारार्धं समुच्छृतम् ।
लोहे नैव तु कर्तव्यं पादुकाद्वयमुत्तमम् ॥१५६॥

चामरव्यजनादीनां लक्षणं वक्ष्यते धुना ।
मायूरव्यजनं कुर्याच्चमर्या चामरं तथा ॥१५७॥

हेमरत्नमयं दण्डं रौप्यन्ताम्रमयं तु वा ।
दन्तैर्वा दारुसारैर्वा दण्डं कुर्याद् विशेषतः ॥१५८॥

श्वेतच्छत्रस्य पिञ्छस्य वक्ष्येहं लक्षणं शृणु ।
सप्त षट्तालतारं वा ह्यधवा पञ्चतालकम् ॥१५९॥

वस्त्रैरावेष्ट्य सर्वत्र मौक्तिकैश्च विभूषयेत् ।
मयूरपिञ्छकैः पिञ्छमथोद्युगन्तु कल्पयेत् ॥१६०॥

सौवर्णं रजतं वापि ताम्रं वा मकुटं भवेत् ।
नवाष्ट सप्तषड्डस्तैः पञ्चहस्तैश्चतुष्ककैः ॥१६१॥

त्रिहस्तैर्वा यथा लाभन्तेषां दण्डस्य दैर्घ्यकम् ।
तालञ्छत्रन्तु कर्तव्यं तत् प्रमाणन्तु बुद्धिमान् ॥१६२॥

छत्रं पिञ्छं तथा प्रोक्तमष्टमङ्गलमुच्यते ।
दर्पणं पूर्णकुंभञ्च वृषभं युग्मचामरम् ॥१६३॥

श्रिवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।
स्त्रीणां शिरोपरिन्यस्त्वा मङ्गलानि विशेषतः ॥१६४॥

रत्निमात्रं समुत्सेधं मन्वङ्गुल सुविस्तृतम् ।
दर्पणादिनी रूपाणि कृत्वा वै शिरसि न्यसेत् ॥१६५॥

सर्वधा शुक्लवर्णाः स्युः सर्वाभरणसंयुतान् ।
यन्मानं दिव्यनारीणां तन्माने नैव कारयेत् ॥१६६॥

हृदयें जलिसंयुक्ताः पद्मपीठोपरि स्थिताः ।
लोकैर्वा दारुभिर्वापि कारयेद् देशिकोत्तमः ॥१६७॥

स्वनाम्नैव च संपूज्य सर्वमङ्गलकर्मसु ।
अथवाष्टाङ्गुलन्तारमायामं षोडशाङ्गुलम् ॥१६८॥

अधस्तात् पद्मपीठन्तु तच्चतुर्थां शमानतः ।
पद्मोर्ध्वे दर्पणादीनि कारयेद् अथ लेखयेत् ॥१६९॥

देवाष्टमङ्गलं प्रोक्तमस्त्राणां लक्षणं शृणु ।
शूलं परशु वज्रञ्च खट्गंपाशं तथाङ्कुशम् ॥१७०॥

घण्टानागञ्च वह्निञ्च क्षुरिका च दशायुधम् ।
एकतालप्रमाणन्तु भूतानामुपरि स्थितम् ॥१७१॥

विंशत्यङ्गुलमायामं भूतानान्तु प्रकीर्तितम् ।
भूतवत् भूतमानेन कारयेत् सर्वमानकैः ॥१७२॥

यद्वर्णमायुधस्योक्तं तद्वर्णं नामतद्भवेत् ।
भागेन कारयेच्छूलं गण्डिकाभागमेव च ॥१७३॥

शूलस्य लक्षणं प्रोक्तं परशोर्ल्लक्षणं शृणु ।
गण्डिकाशूलपादाभ्यां कालमानेन वै बुधः ॥१७४॥

भागन्नालं तथा ग्रन्धि चतुरास्य समायुतम् ।
एवं वै परशु प्रोक्तं वज्रलक्षणमुच्यते ॥१७५॥

तालमात्रं तथा यामं विस्तारोऽष्टाङ्गुलं मतम् ।
तन्मध्ये गण्डिकां कुर्यात् चतुरङ्गुलमानतः ॥१७६॥

शेषैरष्टाङ्गुलैरेव अधश्चोर्ध्वं त्रिशूलवत् ।
पार्श्व पत्रद्वयञ्चक्रं मध्यमत्र ऋजुस्थितम् ॥१७७॥

एवं वज्रं समाख्यातं खट्गलक्षणमुच्यते ।
एकाङ्गुलन्तु विस्तारमधस्तात् कञ्चुकं भवेत् ॥१७८॥

चतुरङ्गुलविस्तारा फलका चतुरश्रका ।
त्रियङ्गुलं भवेत् कर्णं तस्य नाहं द्वयाङ्गुलम् ॥१७९॥

कर्णोर्ध्वे पालिकां कुर्यात् फलकोक्तार्धमानतः ।
तदूर्ध्वोङ्गुलविस्तारमर्धाङ्गुलमथायतम् ॥१८०॥

ऋजुङ्कृत्वा कृतिर्वक्त्रमेवं खड्गस्यलक्षणम् ।
फणद्वयसमायुक्तः पाशः प्रोक्तोभुजङ्गमः ॥१८१॥

पूर्वोक्तविधिना कार्या घण्टा लक्षणसंयुताः ।
नागं हीनाङ्गवत् कृत्वा फणयुक्तं सजिह्वकम् ॥१८२॥

अग्निज्वालासमायुक्तो नालमर्धमिदं भवेत् ।
क्षुरिकान्तालमात्रोच्चान्तस्य मूलन्तु खट्गवत् ॥१८३॥

ऋजुतीष्णास्य संयुक्तां सूक्ष्माग्रेण समायुताम् ।
एवं दशायुधं प्रोक्तं सदाशिवकरेधृतम् ॥१८४॥

सर्वमङ्गलकार्येषु उत्सवे यागकर्मणि ।
पूजयेत् सुविशेषेण लोकपालायुधांच्छृणु ॥१८५॥

वज्रं शक्तिञ्च दण्डञ्च खट्गंपाशांकुशौ गदाम् ।
त्रिशूलं चक्रं पद्मञ्च दशायुधमिति स्मृतम् ॥१८६॥

प्राक् दशास्त्रोक्तमानेन लोकशास्त्राणि कारयेत् ।
पूर्ववद् वज्रमुक्तन्तु शक्तिलक्षणमुच्यते ॥१८७॥

मूले गण्डिकयायुक्तं भवेदेकैकमङ्गुलम् ।
एकैकाङ्गुल वृध्या तु विस्तरं गण्डिकात्रयम् ॥१८८॥

चतुरङ्गुलन्तु तन्मूलं नाहन्तस्य षडङ्गुलम् ।
तदूर्ध्वे गण्डिकायुक्तं कुम्भञ्चैव तदूर्ध्वतः ॥१८९॥

दण्डमेवं समाख्यातं खट्गंपाशन्तु पूर्ववत् ।
दण्डाग्रे गण्डिकायुक्ता जिह्वा श्वेत्बालचन्द्रवत् ॥१९०॥

अङ्कुशं त्वितिविख्यातं गदालक्षणमुच्यते ।
गदायास्तु प्रकर्तव्यं कुम्भाधस्तात् तु पूर्ववत् ॥१९१॥

कुम्भधारा समायुक्त गदा वै दण्डवत् स्मृतौ ।
प्रागुक्ता वयवोपेतं शूलं पूर्वव देव हि ॥१९२॥

चक्रस्य शूलवन्मानं द्वादशारसमन्वितम् ।
मध्ये नाभि समायुक्तं परितः पत्रसंयुतम् ॥१९३॥

एवञ्चक्रं समाख्यातं पद्मलक्षणमुच्यते ।
अष्टाङ्गुलन्तु मुकुलं दलाष्टकसमन्वितम् ॥१९४॥

चतुरङ्गुलनालन्तु कुर्यात् पद्मं स लक्षणम् ।
सौवर्णं रजतं वापि ताम्रा यासन्तु दारुवत् ॥१९५॥

तेषां रत्निसमुत्सेधं कृत्वा पुरुषमानतः ।
किञ्चिदत्र विशेषोस्ति शक्तिस्त्रीरुपया भवेत् ॥१९६॥

शेषाश्च पुरुषाकारा सर्वाभरणभूषिताः ।
अस्त्राणि शिरसाधार्या नमस्कृत्वा कृताञ्जलिः ॥१९७॥

अस्त्रवर्णास्तु पूर्वाः स्युर्नामतन्नाम एव तु ।
अस्त्राणां लक्षणं प्रोक्तं तोरणानां शृणु क्रमात् ॥१९८॥

पलाशखदिराश्वत्थैः शमीबिल्वशिरीषकैः ।
कारयेत् तोरणान् सम्यक् यथा वा याज्ञिकैः पुनः ॥१९९॥

सप्तषट्पञ्चहस्तोच्चं विस्तारं स्यात् तदर्धकम् ।
एकहस्तप्रमाणेन मध्ये शूलसमायुतम् ॥२००॥

तोरणानां विधिः प्रोक्ता भद्रं तोरणमुच्यते ।
द्वारेषु गोपुराणाञ्च विन्यसेच्छुभ कर्मणि ॥२०१॥

द्वारात् पादाधिकं दैर्घ्यं विस्तारं द्वारतः समम् ।
कुम्भगण्डियुतं स्तंभं विष्कंभं रत्निविस्तृतम् ॥२०२॥

अश्वत्थ पत्रवलयैरष्टमङ्गलकैर्युतम् ।
त्रिशूलमुपरि न्यस्त्वा हस्तमात्रप्रमाणकम् ॥२०३॥

भद्रतोरणमेवोक्तं सुवर्णकुसुमं शृणु ।
द्वादशाङ्गुलविस्तारं वसुभागार्धमेव वा ॥२०४॥

मध्यमे कर्णिकायुक्ते दलाष्टकसमन्वितम् ।
पुष्पमेवं समाख्यातं पट्टञ्च गोलकां शृणु ॥२०५॥

पट्टञ्च भागविस्तारं लिङ्गनाहञ्च दैर्घ्यकम् ।
गोलका किञ्चिदाविधं लिङ्गमानेन कारयेत् ॥२०६॥

जटामकुटमीशस्य शक्तिनान्तु किरीटकम् ।
मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ॥२०७॥

कटकं कटिसूत्रञ्च पादनूपुरकं तथा ।
कुर्यादुदर बन्धञ्च स्त्रीणां वै रत्नभूषणम् ॥२०८॥

यथा हि प्रतिमानान्तु तथा तत्रैव बुद्धिमान् ।
एवमाभरणं प्रोक्तं क्षुरकर्तरिकां शृणु ॥२०९॥

अष्टाङ्गुलमयि वामं तदर्द्धं विस्तृतं तथा ।
आयसेन तु कर्तव्यं तन्नालञ्चतुरङ्गुलम् ॥२१०॥

द्वादशाङ्गुलमानेन विवक्रमरसंयुतम् ।
क्षुरकर्तरिकौ प्रोक्तौ दीक्षाकर्मणि योजयेत् ॥२११॥

द्वादशाङ्गुलमानेन ऊर्मिजालेनमार्जनम् ।
नालिकेरस्य पत्राणां सारान् बहुलसंयुतान् ॥२१२॥

अरत्निमात्रमायामन्तं मूले रज्जुबन्धनम् ।
द्विविधामार्जनी प्रोक्ताह्ययं मार्जनकर्मणि ॥२१३॥

मृत्पात्राणीह सर्वाणि मासादूर्ध्वं परित्यजेत् ।
लोहदार्वादिकरणं तल्लयान्तं परिग्रहेत् ॥२१४॥

एवं समासतः प्रोक्तं ग्रमादीनां ततः शृणु ।

इति करणाधिकारलक्षणपटल द्वाविंशतितमः ॥२२॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP