अथ क्रियापादः - लिङ्गप्रतिष्ठाविधिपटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि लिङ्गसंस्थापनं परम् ।
सर्वसिद्धिकरं पुण्यं सर्वयज्ञफलप्रदम् ॥१॥
लिङ्गसंस्थापनादन्यत् फलपाकं न विद्यते ।
तस्मात् सर्वप्रयत्नेन लिङ्गसंस्थापने यतिः ॥२॥
धामाधिष्ठानपर्यन्ते द्वारबन्धस्य पूर्वके ।
मूर्ध्वेऽष्टकायां पूर्वे वा तलान्तेष्वथवा (-धवा)पुनः ॥३॥
धामाङ्गानां समाप्तौ वा लिङ्गं सस्थापयेत् सुधी ।
सुनक्षत्रे तिथौवारेसु योगेसुमुहूर्तके ॥४॥
तत्पूर्वे वाङ्कुरं कृत्वा पञ्चसप्तनवाहके ।
अङ्कुरादि प्रतिष्ठान्तमादिशैवेन कारयेत् ॥५॥
कृत्वा कर्मकुटौ देशे लिङ्गेसूक्ष्माणि शिल्पिभिः ।
शाणाभिर्घर्षयित्वा तु लिङ्गं पीथसमायुतम् ॥६॥
इथे ७ नंबरचा श्लोक उपलब्ध नाही.
प्रासादस्याग्रतः कुर्यान्मण्डपं नातिदूरतः ।
अथवा दक्षिणे भागे सर्वालङ्कारसंयुतम् ॥८॥
मध्यमे स्थण्डिलङ्कृत्वा तत्र लिङ्गन्तु विन्यसेत् ।
सुवर्णलिङ्गं संग्राह्य हृदागैरिकया लिखेत् ॥९॥
स्थूलरेखान्ततः कृत्वा शिल्पिना विधिचोदितम् ।
पूजाभागन्ततः कृत्वा षोडशांशं समंबुधः ॥१०॥
त्यक्त्वोर्ध्वे तु चतुर्भागं भागेन मुकुलं भवेत् ।
त्रिभागैकं भवेदग्रं तन्मानं मूलविस्तृतः ॥११॥
तन्मानमूलं तत् प्रोक्तं त्यक्त्वाधस्ताद्वियंशकम् ।
रेखाद्वयन्तु नालं स्यात् तरोरर्धां शकान्तकः ॥१२॥
पार्श्वे रुद्रौ समालिख्य मुकुलाद्याब्धिकान्तकम् ।
तालान्तरत्रियंशेन तन्मूलादनुपूर्वशः ॥१३॥
विभागोर्ध्वे तु परितः सूत्रौ पृष्ठे तु बन्धयेत् ।
यवं वा पियवार्धं वा सूत्रनिम्नं विधीयते ॥१४॥
सूत्राग्रे तु मुखं प्रोक्तं सुत्रसन्धौ तु पृष्ठकम् ।
सूत्रपार्श्वन्तु तत्पार्श्वन्तमूलन्तस्य पद्मकम् ॥१५॥
स्थापकः स्थपतिं पूज्य पश्चाच्छुद्धिं समाचरेत् ।
अष्टमृत् पञ्चगव्यैश्च शुद्धतोयैर्विचक्षणः ॥१६॥
ग्रामं प्रदक्षिणङ्कृत्वा देशिकः शिल्पिसंयुतम् ।
कणमात्रे जलेशुद्धे प्रपाङ्कृत्वा विचक्षणः ॥१७॥
वितान ध्वजमाल्यादि दर्भमालाभिरावृतम् ।
वस्त्रैरावेष्टयेल्लिङ्गं दर्भैरावेष्ट्य यत्नतः ॥१८॥
फलकायान्तु पीठे वा प्राक्च्छिरस्कन्तु शाययेत् ।
ऊर्ध्वसूत्रं यथा कृत्वा पीठन्तत् पार्श्वयोस्ततः ॥१९॥
कलशानष्ट संस्थाप्य रक्षार्थं परितस्तदा ।
लोकपालाधिदैवत्यान् सकूर्चान्वस्त्र वेष्टितान् ॥२०॥
पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा ।
पञ्चगव्ये तु तल्लिङ्गमेकरात्रोषितं तथा ॥२१॥
अथवा स्नापयेत् गव्यैराढकैस्तु पृथक् पृथक् ।
आलयस्याग्रतो भागे मण्डपञ्चतुरश्रकम् ॥२२॥
दशद्वादशहस्तं वा त्रयोदशकरं तु वा ।
दशपञ्चकरं वापि विंशद्धस्तमथापि वा ॥२३॥
षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।
चतुस्तोरणसंयुक्तं दर्भमालासमावृतम् ॥२४॥
वितानद्ध्वजसंकीर्णं पुष्पमालावलंबितम् ।
नानावस्त्रैरलङ्कृत्य नानालङ्कारसंयुतम् ॥२५॥
तन्मध्ये वेदिकां कुर्यात्त त्रिभागैकविस्तृतम् ।
हस्तमानसमुत्सेधं दर्पणोदरसन्निभम् ॥२६॥
तस्यैव परित कृत्वा कुण्डानि च विधानतः ।
पूर्वे तु चतुरश्रन्तु याम्ये चैवार्धचन्द्रवत् ॥२७॥
पश्चिमे वृत्तकुण्डन्तु उत्तरे पद्ममेव च ।
योन्याकारं तथाग्नेय्यां त्रिकोणञ्चैव नै-ऋते ॥२८॥
षट्कोणं वायुदिग्भागे ऐशान्यामष्टकोणकम् ।
ऐशान इद्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ॥२९॥
विस्तारे नवहोमस्यात् संक्षेपे पञ्चहोमकम् ।
पञ्चाग्निच्छेन्महाशासु मूर्तिरीशे शिवाग्निकम् ॥३०॥
गोमया लेपनङ्कृत्वा पिष्टचूर्णैरलकृतम् ।
तस्यैवोत्तर पार्श्वे तु कर्तव्यं स्नानमण्डपम् ॥३१॥
सप्ताष्टनवहस्तैर्वा कृत्वालङ्कृत्य पूर्ववत् ।
स्नानवेदिन्तु तन्मध्ये स्वभ्रं सम्यक् तथोत्तरे ॥३२॥
चतुरश्रं समङ्कृत्वा चतुस्त्रिनवहस्तकम् ।
त्रिमेखलसमायुक्तमेकतालसमुन्नतम् ॥३३॥
चतुस्त्रिद्व्यङ्गुलन्तारमथवा चैकमेखलम् ।
उत्तरे जलमार्गञ्च मण्डपात् बाह्यनिर्गमम् ॥३४॥
प्रासादे मण्डपे चैव ब्राह्मणान् भोजयेत् क्रमात् ।
शिवव्रतधरांश्शुद्धान् शिवेभक्तिसमन्वितान् ॥३५॥
ब्राह्मणोच्छिष्टमुद्वास्य गोमयालेपने कृते ।
पुण्याहं वाचयित्वा तु ब्रह्मघोषसमावृतम् ॥३६॥
प्रासादेवास्तु होमन्तु पूर्वोक्तविधिनाबुधाः ।
दर्भैः पलाशपत्रैश्च शमीपिप्पलबिल्वकैः ॥३७॥
पर्यग्निकरणं कृत्वा प्रासादमण्डपं क्रमात् ।
संप्रोक्ष्य शिवमन्त्रेण पञ्चगव्यकुशोदकैः ॥३८॥
शयनं कल्पयेद्विद्वान् शुद्धशालियवैः सह ।
अष्टद्रोणमयं शालि तदर्धन्तण्डुलं तथा ॥३९॥
तण्डुलार्धं तिलं प्रोक्तमब्जमालिख्यचार्चयेत् ।
दर्भैरुपरिसंस्तीर्य पुष्पैर्लाजसमायुतम् ॥४०॥
सदशाहत वस्त्रैश्च अण्डजादीनि कल्पयेत् ।
अण्डजं मुण्डजञ्चैव रोमजं वा मजं तथा ॥४१॥
चर्मजं शयनं पञ्चकल्पयेत् कल्पवित्तमः ।
अण्डजञ्चेति जानीयात् पक्षिणां पिञ्छसंभवम् ॥४२॥
कार्पासादि कृतं यत्तु मुण्डजञ्चेति तत्स्मृतम् ।
आविकादि मृगाणान्तु रोमजं रोमजं भवेत् ॥४३॥
कौशेयं वामजं प्रोक्तं सिंहव्याघ्रेण चर्मजम् ।
चर्मजन्तु विजानीयादलाभे सतिबुद्धिमान् ॥४४॥
पञ्चवक्त्रेण संभाव्य स्थण्डिलोपरियत्नतः ।
पूर्वोक्त लक्षणैर्युक्तं त्वादिशैव कुलोद्भवः ॥४५॥
शैवतन्त्रं विधानज्ञः समयाचारपालकः ।
सुस्नात्वा चम्यविधिवत् भस्मस्नानमनन्तरम् ॥४६॥
सर्वाभरणसंयुक्तः सूक्ष्मवस्त्रधरस्तथा ।
शुक्लमाल्यानुलेपश्च शुक्लोष्णीषः सुवस्त्रभृत् ॥४७॥
ईदृक् भूतः शिवश्वेतः सर्वकर्मसमाचरेत् ।
चतुरश्रावसुवृत्ता वा तजापट्टिका स्मृताः ॥४८॥
प्पट्टिकावेदिका मध्ये स्थापयेन्मन्त्रवित्तमः ।
पञ्चगव्योषितं लिङ्गं शुद्धिं कृत्वा पुनः पुनः ॥४९॥
दर्भमूले भदन्ताग्रे वराहस्य तु कर्षणे ।
वल्मीके वृषङ्गाग्रे नद्यां वै पर्वते तथा ॥५०॥
समुद्रे च समासेन मृदं ग्राह्यविचक्षणः ।
अष्टमृत् सलिले नैव स्नानन्तत्र समाचरेत् ॥५१॥
व्योमव्यापि सहस्रेण स्नात्वाद्भिस्तु पुनः पुनः ।
पञ्चगव्येन संस्नाप्य गन्धपुष्पादिनार्चयेत् ॥५२॥
मधुक्षीर घृताश्चैव सहिरण्यं सपुष्पकम् ।
सौवर्णं रजतन्ताम्रमथवा काम्समेव वा ॥५३॥
प्रत्येकं प्रस्थसंपूर्णं कृत्वा प्रात्रत्रये बुधः ।
तैर्द्रव्यैर्बीजमन्त्रेण हेमसूच्या तु लेखयेत् ॥५४॥
बध्वा प्रतिसरं पश्चात् स्वस्तिपुण्याह घोषणैः ।
सौवर्णं राजतं वापि क्षौमं कार्पासजन्तु वा ॥५५॥
लिङ्गमध्ये तु तां बध्वा पूजांशेन शिवेन वै ।
शयने शाययेल्लिङ्गं प्राक्च्छिरच्छोर्ध्वक्त्रकम् ॥५६॥
उत्तराच्छादनं वस्त्रैर्दर्भैश्चैव परिस्तरेत् ।
हृदा सुगन्धपुष्पाद्यैः पूजयित्वा समाहिताः ॥५७॥
पिण्डिकामधिवास्यैव लिङ्गवल्लिङ्गमूलतः ।
दिक्षुतोरणकुम्भानि लोकपालाधिपानि तु ॥५८॥
शकूर्चान् सा पिधानांश्च वस्त्रयुग्मसमावृतान् ।
मङ्गलाङ्कुरसंयुक्तान् स्थापयेत् तु समं ततः ॥५९॥
प्रधानकुम्भमादाय द्वात्रिंशत् सप्तपूरितम् ।
बिंब प्रभा समोपेतं तदर्धं वर्धनीं तथा ॥६०॥
सूत्रैरावेष्टयित्वा तु एकसूत्रे तु दोषकृत् ।
त्रिसूत्रं शान्तिकं प्रोक्तं यवमानान्तरं स्मृतम् ॥६१॥
सूत्रान् सूत्रान्तरं तत्र गन्धतोयैः सुपूरितम् ।
वस्त्रयुग्मेन संवेष्ट्य सकूर्चं सा पिधानकम् ॥६२॥
चूतपल्लव पुष्पैश्च वितानोपरिशोभितम् ।
पञ्चरत्नन्तु कुम्भे च वर्धन्यां हेमसंयुतम् ॥६३॥
प्. १७९) ब्राह्मणानां हितार्थन्तु सृक्स्रुवञ्च कमण्डलुम् ।
क्षत्रियाणां हितार्थन्तु गजाश्वरथ सैनिकान् ॥६४॥
वैश्यानान्तु तुला प्रोक्तं शूद्राणां युगलाङ्गलौ ।
एतानि विन्यसेद् विद्वान् वर्धन्यां शिवकुम्भके ॥६५॥
तरुणालय पूर्वे तु स्थापयेत् स्थण्डिलोपरि ।
बाललिङ्गगतं देवं कुम्भे विन्यस्य बुद्धिमान् ॥६६॥
तस्य पीठगतां देवीं वर्धन्यान्तु समावहेत् ।
विद्येश्वराधिपानष्टौ वस्त्रहेमास्त्रसंयुतान् ॥६७॥
कूर्चाक्षतवितानास्यान् फलपल्लवशोभितान् ।
शिवकुम्भस्य परितः संस्थाप्यकलशान् बुधः ॥६८॥
विद्येश्वरान् परीवारान् द्वारपालादिदेवताः ।
तत्तत् कुम्भे समाहूय तत्तन्मन्त्रेण मन्त्रवित् ॥६९॥
रात्रौ होमन्तु कर्तव्यं सर्वमन्त्रैः पृथक् पृथक् ।
तरुणं लिङ्गमुत्थाप्य शैवा लौघे जले क्षिपेत् ॥७०॥
दारुजञ्चाग्निनादग्धमथवाप्सु विनिक्षिपेत् ।
शिवशक्तिञ्च विच्छेद्ये शाच्छिरोधार्य यत्नतः ॥७१॥
पिञ्छचामरसंयुक्तं छत्रध्वजवितानकैः ।
कुर्याच्छब्दं महाघोषैर्नृत्तगेय समायुतैः ॥७२॥
प्रदक्षिणं विमानन्तु कृत्वा वर्धनिधारयेत् ।
वेदिकायामथैशाने स्थापयेत् स्थण्डिलोपरि ॥७३॥
शिवं ब्रह्माङ्गविद्याङ्ग विद्येश्वरगणेश्वरान् ।
लोकपालास्त्रसंयुक्तान् समन्त्रैरेव पूजयेत् ॥७४॥
गेयनृत्तसमायुक्तं वाद्यध्वनिसमायुतम् ।
ऋग्यजुः सामाधर्वांश्च पूर्वाद्यध्ययनं तथा ॥७५॥
जपस्तोत्र समायुक्तं ततो होमं समाचरेत् ।
पूर्वोक्त विधिनाहुत्वा कुण्डेष्वेतेषु बुद्धिमान् ॥७६॥
सर्वद्रव्यं समानं स्यात् समिधस्तु पृथक् शृणु ।
शमीद्ध्मं पूर्वदिग्भागे आग्नेय्यान्तु वटं तथा ॥७७॥
याम्ये वै कंकतञ्चैव प्लक्षं नै-ऋतिगोचरे ।
अश्वत्थं वारुणे भागे औदुंबरमथानिले ॥७८॥
बिल्वं वै सौम्यदिग्भागे ह्यर्कमीशानगोचरे ।
एवं सर्वाग्निकुण्डानां शिवाग्नेस्तु पलाशकम् ॥७९॥
विद्याङ्गैश्च शिवाङ्गैश्च हुत्वालिङ्गन्तु संस्पृशेत् ।
प्रत्येकं तु शतं साज्यं स्पर्शाहुतिमथाचरेत् ॥८०॥
शिवोहमिति संभाव्य हुत्वायत्नाच्छिवात्मिकम् ।
आकाशो वायुरग्निश्च जलभूमिं दुरेव च ॥८१॥
सूर्यात्ममूर्तयश्चाष्टौ भवादिमूर्तिधारकाः ।
भवः शर्वः पशुपति रुग्रोरुद्रस्तु भीमतः ॥८२॥
महानीशश्च विख्यातो मूर्तिधाराः प्रकीर्तिताः ।
कुण्डेष्वग्निं प्रतिष्ठान्तं संरक्ष्येन्धनपूर्वकैः ॥८३॥
प्रभाते सुमुहूर्ते तु रत्नन्यासं समारभेत् ।
एकविंशतिभिर्भागैर्द्वारतारं विभज्य वै ॥८४॥
मध्यमांशं षडंशन्तु सविभज्य द्विभागिकम् ।
वामे व्यपोह्य यत् सूत्रं ब्रह्मसूत्रमिति स्मृतम् ॥८५॥
तन्मध्ये स्थापयेल्लिङ्गं तन्मध्ये स्थापयेच्छिवम् ।
अन्यथा स्थापिते लिङ्गे नृपराष्ट्राहितावहम् ॥८६॥
आदौ कूर्मशिलां न्यस्त्वा ब्रह्मभागान्वितां दृढाम् ।
न्यसेत् ब्रह्मशिलामूर्ध्नि नन्द्यावर्तशिलान्विताम् ॥८७॥
स्थलं सम्यक् प्रकुर्वीत स्नेहद्रव्यान्वितं दृढम् ।
माणिक्कञ्चैव वैडूर्यं निलं मरकतं तथा ॥८८॥
मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ।
एतानि नवरन्तानि मध्यमादिविनिक्षिपेत् ॥८९॥
यवनीवारमुद्गाञ्च तिलं वै सर्षपं तथा ।
शालिप्रियङ्गुश्यामाश्च कुलुत्थो नवबीजकम् ॥९०॥
हरितालं तथा श्यामं चन्दनञ्चमनः शिलाम् ।
सौराष्ट्रं पारतं सीसं गैरिकं हेममाक्षिकम् ॥९१॥
एवं स्मृत्वा क्ष्पेद्विद्वान् प्राणधात्विंद्रियादिके ।
रत्नानि प्राणसंज्ञानि सुबीजानींद्रियाणि च ॥९२॥
धातूनिधातवः प्रोक्ता बीजमुख्येन विन्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य नन्द्यावर्तशिलां न्यसेत् ॥९३॥
शयनाल्लिङ्गमुत्थाप्य त्यक्त्वा पर्युषितानि च ।
अर्घ्यं दत्वा यथा न्यायं हृदयेन स पुष्पकम् ॥९४॥
पश्चिमाभिमुखं कृत्वा लिङ्गं वै तु हृदा बुधः ।
आचार्यमूर्तिपांश्चैव अध्ये तॄन् परिचारकान् ॥९५॥
दैवज्ञं मन्त्रजप्तृंश्च महेः पूज्यो यथार्हकैः ।
आचण्डालमथां नाद्यं कारयेच्छक्तितः क्रमात् ॥९६॥
रथो परिस्थितं लिङ्गं प्रासादन्तु प्रदक्षिणम् ।
आचार्योग्रन्तु संस्पृष्ट्वा मूर्तिपास्तु स्वकादिशम् ॥९७॥
कर्तामुलन्तु संस्पृष्ट्वा चाग्रे वर्धनिधारया ।
कृत्वा प्रदक्षिणं देवं स्थित्वाद्वारसमीपके ॥९८॥
गन्धपुष्पादिनाभ्यर्च्य अर्घ्यं दत्वा हृदाबुधाः ।
ततः प्रवेशयेल्लिङ्गं गर्भगर्ते सुखं यथा ॥९९॥
सुमुहूर्ते सुलग्ने च नक्षत्रकरणान्विते ।
ध्यात्वा सदाशिवं देवं मूलमन्त्रमनुस्मरन् ॥१००॥
लिङ्गं संस्थापयेत् तत्र किञ्चिदीशानमाश्रितम् ।
नन्द्यावर्तशिलाभिस्तु बध्वापीठन्तु योजयेत् ॥१०१॥
स्वयोनिं पीठमुख्यन्तु अवा चैवाष्टकं दृढम् ।
स्थपतौ बुद्धिमात्रेण स्थापकस्तु समाचरेत् ॥१०२॥
अष्टबन्धं ततः कृत्वा जतुगुल्गुलु सिद्धियुक् ।
सर्जञ्च स्फटिकञ्चैव शर्करा कुरु विन्दकम् ॥१०३॥
तैलं वै चाष्टसंमिश्रं दग्ध्वाचक्कणवत् बुधः ।
लिङ्गपीठान्तरे क्षिप्त्वा सुदृढञ्च समं ततः ॥१०४॥
पूजांश षोडशांशैक विस्तारेण समं ततः ।
तत्पादमुच्छ्रयं प्रोक्तमष्टबन्धमिदं मतम् ॥१०५॥
लिङ्गपीठान्तरं स्निग्धं वज्रबन्धेन वा पुनः ।
आचार्यस्तु पुनस्नात्वा मन्त्रसन्नद्धविग्रहः ॥१०६॥
पुण्याहं वाचयित्वा तु स्नापयेत् पञ्चगव्यकैः ।
गन्धपुष्पादिनापूज्य क्ल्पयित्वा तथा सनम् ॥१०७॥
आवाह्याराध्यमन्त्रज्ञः सकलीकरणं शिवम् ।
मन्त्रसन्तर्पणं कृत्वा पूर्णाहुतिमथाचरेत् ॥१०८॥
कुम्भपूजां विशेषेण कृत्वा विज्ञाप्यपूर्वकम् ।
आचार्यं पूजयेत् तत्र यथा विभवसंयुतम् ॥१०९॥
उष्णीषमुत्तरीयञ्च परिधानं तथैव च ।
हेमाङ्गुलीयकैश्चैव गन्धपुष्पं तथैव च ॥११०॥
मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ।
कटकं कटिसूत्रञ्च आचार्यस्य प्रदापयेत् ॥१११॥
आचार्यदक्षिणा हेमकन्यसं दशनिष्ककम् ।
मध्यमं द्विगुणं तस्य उत्तमे त्रिगुणं भवेत् ॥११२॥
एवं संपूज्यविधिवत् सवत्साङ्गाश्चदापयेत् ।
आचार्यमनसस्तुष्टिर्देवस्य प्रीतिकारणम् ॥११३॥
मूर्तिपानां पृथग्वस्त्रैर्हेम निष्कं च दापयेत् ।
होमशेषं ततो नेयं हृदयेन विचक्षणः ॥११४॥
कुम्भस्थ देवदेवेशं विज्ञाप्य विधिपूर्वकम् ।
आचार्यः कुम्भमुत्थाप्य शिष्येनोत्थाप्य वर्धनीम् ॥११५॥
मूर्तिपैस्त्वथकुम्भानि प्रासादन्तु प्रदक्षिणम् ।
विश्रम्यद्वारदेशे तु दद्यादर्घ्यं हृदागुरुः ॥११६॥
ततः प्रविश्यतल्लिङ्गमुत्तराभिमुख स्थितः ।
त्रिपादिकायामुपरि विन्यस्त्वा शिवकुम्भकम् ॥११७॥
षडध्वासनं तु संकल्प्य लिङ्गमुद्रां प्रदर्शयेत् ।
पुष्पगन्धस्तिलेतैलं यद्वत् तद्वत् स्थित प्रभुः ॥११८॥
कुम्भस्थ देवदेवेशं लिङ्गमध्ये तु योजयेत् ।
शिवमन्त्रं समुच्चार्य शिवमात्मनि भावयेत् ॥११९॥
तज्जलेनाभिषेकं यत् तल्लिङ्गे प्राण उच्यते ।
तच्छक्ति व्यापकं स्मृत्वा तद्वच्छक्तिन्तु पीठके ॥१२०॥
सर्वावरणदेवांश्च पूर्ववत् संप्रकल्प्य वै ।
कलशस्थानथावाह्य तज्जलेनाभिषेचयेत् ॥१२१॥
गन्धपुष्पञ्च धूपञ्च दीपं दत्वा यथा क्रमम् ।
द्वारपालादि पीठान्तं परिवाराण्यशेषतः ॥१२२॥
तत्तत् कुम्भगतां देवां तत्तत्स्थाने निवेशयेत् ।
पायसं कृसरं गौल्यं मौद्गंशुद्धां न मेव च ॥१२३॥
पञ्चवर्णहविर्दद्यात् परिवारबलिं तथा ।
उत्सवं कारयेत् तत्र सायादिविधिपूर्वकम् ॥१२४॥
प्रतिष्ठाविधिरेवोक्ता ततः संप्रेक्षणं शृणु ।
प्रतिष्ठाविधिना सर्वं कर्तव्यं युक्तितः क्रमात् ॥१२५॥
पूर्ववद्वेदिका मध्ये कुंभानिविधिवं न्यसेत् ।
कुम्भसंस्थापनात् पूर्वे लिङ्गशुद्धिं विशेषतः ॥१२६॥
पिण्डिकाञ्च स्थलञ्चैव पञ्चशुद्धि क्रमेण तु ।
सर्वगन्धैर्विलिप्याथ वस्त्रैरेवा वकुण्ठयेत् ॥१२७॥
संप्रोक्षणाह्वये नैव पुरोवाहनकं तथा ।
एकलिङ्गविधिस्त्वेषा पञ्चलिङ्गविधिं शृणु ॥१२८॥
मध्ये सदाशिवं स्थाप्य पुरुषं पूर्वतः तथा ।
अघोरं दक्षिणे स्थाप्य सद्यं पश्चिमतः तथा ॥१२९॥
उत्तरे वा देवञ्च अथकोणेषु वा बुधः ।
कोणेषु च महादिक्षु संवीक्ष्याथ सदाशिवम् ॥१३०॥
पृथक् पृथक् विमानानि शेषकर्म च पूर्ववत् ।
पञ्चलिङ्गविधिर्येषा नवलिङ्गविधिं शृणु ॥१३१॥
तेषां विमानं पूर्वोक्तं अष्टदिक्षुविधीयते ।
सदाशिवं समीक्ष्यैव दिशासु विदिशासु च ॥१३२॥
नवलिङ्गविधिप्रोक्तं सहस्राणां विधिं शृणु ।
मध्ये सदाशिवं प्राग्वद्विद्येशानां पृथक् पृथक् ॥१३३॥
चतुर्विंशच्च तल्लिङ्गं विद्येशानावृतं बुधः ।
सादाख्यस्य वदन्येषां नामरूपाणि कीर्तिताः ॥१३४॥
तत्तत् स्वनाममन्त्रेण संस्थाप्य विधिचोदितः ।
अष्टा हे षोडशाहे वा मासे वा विधिपूर्वकम् ॥१३५॥
एकलिङ्गविधौ यद्वत् तद्वत् सर्वं समाचरेत् ।
सादाख्यं लिङ्गरूपेण अन्वलिङ्गन्तु नेष्यते ॥१३६॥
एवं यः कुरुते मर्त्यः शिव सा युज्यमाप्नुयात् ।
लिङ्गसंस्थापनं प्रोक्तं सकलानां विधिं शृणु ॥१३७॥
इति लिङ्गप्रतिष्ठाविधिपटलः सट्त्रिंशत्तमः ॥३६॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP