संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| आचार्यलक्षण पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - आचार्यलक्षण पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः आचार्यलक्षण पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि आचार्यस्य तु लक्षणम् ।फलपाकविधिं श्रुत्वा शिवभक्तिर्भवेद्यथा ॥१॥तदा प्रवर्तते पुंसो लिङ्गसंस्थापनेरतिः ।आचार्यं पूर्वमन्वेष्य मूर्तिपांस्तदनन्तरम् ॥२॥आदिशैव कुलोद्भूतः पञ्चगोचरसंस्थितः ।सर्वशास्त्रार्थ तत्वज्ञः शिवज्ञानविशारदः ॥३॥शिवसिद्धान्त तत्वज्ञः शिवाग्निगुरुपुजकः ।सर्वावयवसंपूर्णः सर्वलक्षणसंयुतः ॥४॥वयः षोडशकादूर्ध्वं सप्ततेरध उच्यते ।शिखी वा बद्धकेशश्च कृतज्ञः प्रियदर्शनः ॥५॥गृहस्थश्चोत्तमो ज्ञेयो भौतिक ब्रह्मचार्यपि ।क्रियादि ज्ञानपर्यन्त शास्त्रेषु कृतनिश्चयः ॥६॥क्रियापादे तु निपुणश्चर्या पादानुवर्तकम् ।योगपादे क्रियाभ्यासो ज्ञानपादानुरञ्जकः ॥७॥हेयो पादेय तत्वज्ञस्तत्वार्थे संव्यवस्थितः ।परं भाव विद श्रेष्ठं पञ्चधा वा परं विदुः ॥८॥देहबन्धनिमित्तञ्च विधिवद्दीक्षितो बुधः ।शिवज्ञानामृतानन्दस्तूहापोह विधानवित् ॥९॥ईदृक् भूतस्तु यो विद्वान् स्थापनादीनि कारयेत् ।स एव स्थापको वत्सनेतरः सर्वदा विभोः ॥१०॥अनुशैवादिभिर्नैव स्थापनादीनि कारयेत् ।कण्वादिरादि शैवैस्तु कर्तव्यं स्थापनान्तकम् ॥११॥अन्यथा तु कृते राज्ञस्त्वाभिचारश्च देवताः ।नतं गृह्णीत देवेशो न फलञ्जायते ततः ॥१२॥यदि मोहेन कुर्वीत सान्निद्ध्यं न कदाचन ।मूर्तिपांस्तु ततो वक्ष्ये आदिशैव कुलोद्भवान् ॥१३॥आचार्यारम्भशास्त्रे तु तस्मिन्विगत संशयान् ।तदभि प्रायतत्व ज्ञानाचार्यस्यानुकूलकान् ॥१४॥मूर्तिञ्च मूर्तिधारांश्च ज्ञातान् सम्यक् समाहितान् ।एभिर्गुणैः समायुक्तान् गृह्णीयातान्विचक्षणः ॥१५॥वामनांश्च ततोज्ञात्वा वर्जयेत् तान् प्रयत्नतः ।स्वशास्त्रसमयद्वेक्षी त्वङ्गप्रत्यङ्गहीनकः ॥१६॥नास्तिकोमत्सरोरोगी बधिरोवृद्धिजीवकः ।भिषक् शास्त्रोपजीवी च तथा रंगोपजीवकः ॥१७॥पिशुनः क्रूरकर्मस्थश्च पलः पारदारिकः ।सभीपुरोधसोगर्वीनिः सत्यश्च कृतघ्नकः ॥१८॥सन्यासीतार्किको भ्रष्टः कृशाङ्गः शल्यजीवकः ।परापवादशीलश्च नैष्ठिकश्च कपालिकः ॥१९॥अति ह्रस्वस्त्वति स्थूलो अतिदीर्घोकुदर्शकः ।विकटदन्तः कुनवीमधु वै खलतिस्तथा ॥२०॥शिपिविष्टोव्रणोपेतश्मश्रुभ्रू चक्षुपिङ्गलाः ।गुल्मी चैव बृहद्बीजीत्वर्शसादीनि पिडितः ॥२१॥प्रतिष्ठा तन्त्र किञ्चित् ज्ञः पशुशास्त्रानुरञ्जितः ।तन्वोपदेश हीनश्च विमनस्कामनस्ककः ॥२२॥न्यूनाङ्गी चातिरिक्ताङ्गी शठः पण्योपजीवकः ।षण्डश्च गुह्यकश्चैव नैर्गकः श्वापदन्तकः ॥२३॥ईदृशान्वर्जयेद् विद्वान् सर्वकर्मबहिष्कृतान् ।यदि मोहेन कुर्वीत सान्निध्यं न कदाचन ॥२४॥आचार्यमूर्तिपांश्चैव पूर्वोक्तान् संप्रगृह्य च ।ततश्चापेक्षयेद् वत्स शिल्पिनं सुकुलोद्भवम् ॥२५॥स्थपतिं सूत्र गृहिणं वर्धकं तक्षकं तथा ।स्थापकेनोदितं सर्वं शिल्पशास्त्रेण निर्दिशेत् ॥२६॥प्रासादादि प्रकर्ताथ सोऽपि हस्तपतिः स्मृतः ।सूत्रग्राही च मानज्ञो द्रुमाभिख्यो च वर्द्धकी ॥२७॥तनूकरणयोग्यो यस्त्वसौ तक्षक उच्यते ।च्छेद्यांश्च च्छेदयेत् सर्वान् भेद्ये तु द्रव्यभेदकः ॥२८॥वेद्ये तु वेदयेद् द्रव्यां च्छिल्पिकर्मस्त्रिधा भवेत् ।स्थपतिः सूत्रग्राही च प्रासादान् प्रतिमादिकान् ॥२९॥कुर्यात् तदक्षिमोक्षादीन् तक्षकेन समाचरेत् ।शेषे तु वर्जयेत् तत्र मन्त्रकर्मसु सर्वदा ॥३०॥तेषान्तु शिल्पिकार्येऽपि स्थपतेस्तु नियोगतः ।स्थपतिः शिल्पकार्येषु स्थापकस्यानुसारतः ॥३१॥स्थपतिः शास्त्रकर्मज्ञः कृतकर्माभिजात्यवान् ।न हीनाङ्गोतिरिक्ताङ्गो धर्मिष्ठः सत्यवाचकः ॥३२॥शल्य ज्ञानान्वितः साधु दृढबन्धुरतन्द्रितः ।ईदृशं शिल्पिनङ्ग्राह्य प्रारभेत् सर्वकर्मकम् ॥३३॥आचार्यलक्षणं प्रोक्तं करणानां विधिं शृणु ।इति आचार्यलक्षण पटल एकविंशतितमः॥ २१॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP