अथ क्रियापादः - परिवारविधिपटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि परिवारविधिक्रमम् ।
द्वारपालादि पीठान्तं परिवारमिति स्मृतम् ॥१॥
द्वारस्थात् प्रथमंयिष्येत् द्वारपालां ततः परम् ।
वृषभं वै तृतीयन्तु इन्द्रादींस्तु चतुर्थकम् ॥२॥
पञ्चमं भद्रपीठन्तु तथैवबहिरावृतम् ।
यत्र यत्र मुखद्वारे कवाटाभ्यान्तु देशिकाः ॥३॥
तत्र तत्र विशेषेण नवधैवं विसर्जयेत् ।
भुजंगञ्च पतंगञ्च ऊर्ध्वाधः संप्रकल्प्य वै ॥४॥
उत्तरञ्च पताकाञ्च तिष्ठतः सव्यवामयोः ।
विमलञ्च सुबाहुञ्च विन्यसेद्वामदक्षयोः ॥५॥
श्रियं सरस्वतीञ्चैव स्कन्दोर्ध्वाधः प्रकल्प्य वै ।
तस्य मध्ये तु विघ्नेशं स्वनाम्नाबासने सदा ॥६॥
स्वनामाद्यक्षरेणैव गन्धपुष्पादिभिर्यजेत् ।
एवं कृत्वा यथा न्यायं द्वारेद्वारे विशेषतः ॥७॥
सुदृढं वृक्षसारैस्तु कवाटौ तु सलक्षणौ ।
शून्यमेक कपाटञ्चेत् द्विकपाटे तु शान्तिकम् ॥८॥
दण्डानुपरिबध्वाथ अथस्थाद्दारुजानपि ।
पुलकान्नर्धचंद्रादीञ्छल्पशास्त्रोक्तमार्गतः ॥९॥
उत्सेधस्याष्टभागैक ऊर्ध्वाधस्तु घनं क्रमात् ।
विस्तारस्तु चतुर्भागं घनं वै दक्षिणोत्तरे ॥१०॥
कपाटलक्षणं ह्येवं तत्रस्थान् प्रथमं यजेत् ।
द्वारे तु देवता प्रोक्ता द्वारपालां ततः शृणु ॥११॥
अभ्यन्तरग्रहद्वारे शक्तिद्वारमिति स्मृतम् ।
दक्षिणे ज्ञानदाशक्ति धर्मदा चैव चोत्तरे ॥१२॥
एकवक्त्रो द्विहस्ते च मध्यक्षामेस्तनान्विते ।
कुंकुमाभो महाकालः परशुच्छायुधस्तथा ॥१३॥
अनन्तेशः पशुपतिर्दक्षिणे द्वारपालकौ ।
अनन्तो रक्तवर्णस्तु वस्त्रायुधसमन्वितः ॥१४॥
पशुपद्मोत्पलवर्णः शक्तिहस्तोग्रलोचनः ।
पश्चिमद्वारपालौ च दण्डिमुण्डीशसंज्ञकौ ॥१५॥
दण्डी सुरेन्द्र चापास्त्र खट्गहस्तोग्रदंष्ट्रकः ।
मुण्डीकुंदेन्दु वर्णाभभिण्डिपालायुधस्तथा ॥१६॥
विजयश्चैव भृंगीशश्चोत्तरद्वारपालकौ ।
भ्रंशो भृंगश्चवर्णस्तु क्षुरिकायुधहस्तकः ॥१७॥
विजयश्चेन्द्रकोलोहः शूलहस्तोभयंकरः ।
सर्वेत्रिभंगियुक्तश्च सर्वेकुञ्चित पादकाः ॥१८॥
उग्रदंष्ट्राः सुवृत्ताश्च सर्वां निर्देशहस्तकाः ।
सर्वे चतुर्भुजोपेता द्विभुजा वा त्रिणेत्रकाः ॥१९॥
द्विनेत्राश्चोग्रदंष्ट्राश्च हलपल्लवहस्तकाः ।
द्वारोत्सेध समाभद्राः किरीटाद्यङ्गदोज्वलाः ॥२०॥
प्रासादे मण्डपेद्वारे द्वारेद्वारे च कीर्तिताः ।
महामर्यादिभित्तिस्था द्वारगोपुर पार्श्वयोः ॥२१॥
चतुर्दिक्षु विशेषेण महाकाराणि कारयेत् ।
संवर्तकं श्रियावर्तं कुण्डोदर बृहोदरौ ॥२२॥
सिंहमुखोहय मुखस्त्वेक पादस्त्वधोमुखः ।
श्वेतवर्णस्तथा न्यस्त्वास्त्व परांश्यामसन्निभः ॥२३॥
द्विनेत्रा द्विभूजाः सर्वे शूलखट्गायुधास्तथा ।
भूतौ द्वौ द्वौ प्रकर्तव्यौ वासवादिप्रदक्षिणम् ॥२४॥
अथाहपरिवाराणां पिठञ्चेदन्तरावृते ।
तेषां विमानमन्विच्छेत् द्वितीयेपि च हारके ॥२५॥
मातृंस्तु दक्षिणे भागे वीरविघ्नसमन्वितम् ॥२६॥
विष्णुं वा तत्र संस्थाप्य आसीनमथवा स्थितम् ।
विघ्नेशन्नै-ऋते भागे सुब्रह्मण्यन्तु पश्चिमे ॥२७॥
ज्येष्ठायां वायुदिक्भागे श्रियं वै स्थापयेत् गुरुः ।
दुर्गां वै चोत्तरे कुर्यात् ब्रह्माणमथवापि वा ॥२८॥
चण्डेशमैशदिग्भागे भास्करं पूर्वतोदिशि ।
कूपस्थानं तथैशान्यामाग्नेय्यां पचनालयम् ॥२९॥
अन्तरालेष्वनुक्तेषु यथा रुचिविशेषतः ।
शयनस्थानमाख्यातं पार्वती सहितं तथा ॥३०॥
परिवारालयं सर्वं बाह्येवाभ्यन्तरेपि वा ।
द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ॥३१॥
इन्द्रादिलोकपालांश्च स्वेस्वेस्थानेऽष्टदिक्षु वै ।
शक्रशांकरयोर्मध्ये पित्रस्थानं विधीयते ॥३२॥
नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ।
वरुणवायुदिशोर्मध्ये आदित्या द्वदशोच्यते ॥३३॥
भास्करक्षेत्रपालौ च शंकरे वा विशेषतः ।
चक्रपावकयोर्मध्ये अश्विन्यौ द्वौ तु विन्यसेत् ॥३४॥
आग्नेयधर्मयोर्मध्ये संस्थाप्यसप्तरोहिणीः ।
याम्यनै-ऋतयोर्मध्ये पितृस्थानं विधीयते ॥३५॥
नि-ऋतिर्वरुणयोर्मध्ये पित्रस्थानं विधीयते ।
नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ॥३६॥
वरुणवायव्ययोर्मध्ये मुनीनां स्थानमुत्तमम् ।
वायव्यसोमयोर्मध्ये चान्ते तु वसवस्तथा ॥३७॥
उत्तरेशानयोर्मध्ये रुद्रैकादश एव हि ।
बलिपीठं ततः कृत्वा चतुर्दिक्षु विचक्षणः ॥३८॥
बाह्याभ्यन्तरयोः पीठौ पूर्वद्वारे प्रकल्पयेत् ।
अन्तरे सर्वभूतांस्तु पिशाचान् बाह्यपीठके ॥३९॥
यक्षाणां दक्षिणेपीठे राक्षसानां तु पश्चिमे ।
अधमं हि तदग्रे तु अथवाभ्यन्तरे बुधः ॥४०॥
गर्भगेहस्य पञ्चांशे चतुष्कञ्चोत्तमोन्नतम् ।
त्रिभागं मध्यमप्रोक्तं द्विभागमधमं स्मृतम् ॥४१॥
द्वारोत्सेध समञ्ज्येष्ठं तत्त्रिभागन्तु मध्यमम् ।
द्वाराणामधमं विद्धि उत्सेधसमविस्तृतम् ॥४२॥
उत्सेधसंविभज्याथ भागमेकोनविंशतिः ।
भागेनोपानमेकेन चतुर्भुजगतिस्तथा ॥४३॥
कुम्भं कृत्वा त्रिभिर्भागैस्तदूर्ध्वे केन पट्टकम् ।
कण्ठं कुर्यात् त्रिभिर्भागैरेके चैवोर्ध्वपट्टिका ॥४४॥
महापट्टिका द्विंशेन दलोत्सेधं गलोष्टकम् ।
कर्णिकाचैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥४५॥
प्रवेशनिर्गमं वक्ष्ये विस्तारं षोडशांशकम् ।
समस्तांशमुपानं तु मन्वन्तं जगतीं तथा ॥४६॥
भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिकास्तथा ।
अष्टांशं कण्ठविस्तारं दशांशञ्चोर्ध्वपट्टिका ॥४७॥
द्वादशांशं महापट्टं वेदिकायां दशांशकम् ।
अष्टांशं दलविस्तारं त्रियंशेन तु कर्णिका ॥४८॥
चतुरश्रं यथा पीठं कुर्यात् पददलं विना ।
स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥४९॥
प्रतिष्ठाविधि मार्गेण कारयेद् देशिकोत्तमः ।
एवं तथोत्तमं विद्धि सर्वसिद्धिप्रदायकम् ॥५०॥
द्वारकान् भूतपीठान्तं कल्पयेच्चक्रमाद्गुरुः ।
सूर्यार्कवारुणेयात् तु नांशेहर्म्याणु कल्पयेत् ॥५१॥
आग्नेय्यान्तु प्रकर्तव्यं च्छात्रादीनान्तु मण्डपम् ।
नै-ऋत्यां दिशिकर्तव्यं धर्मश्रवणमण्डपम् ॥५२॥
गीताभ्यां सर्वविख्यातं वायव्यान्तु विशेषतः ।
यागानामुत्सवादीनां ऐशाने मण्डपं स्मृतम् ॥५३॥
विख्यातं मध्यहारायां मर्यादिभित्तिके शृणु ।
गोपुरेशानयोर्मध्ये धान्यस्थानमुदाहृतम् ॥५४॥
कुर्याज्जननशालान्तु याम्यपावकमध्यगः ।
याम्यनै-ऋतयोर्मध्ये कुर्यादायुधमण्डपम् ॥५५॥
वरुणनै-ऋतयोर्मध्ये कुर्यादास्थानमण्डपम् ।
पाशभ्रद्वायुमध्ये तु नृत्तांव्यासस्यमण्डपम् ॥५६॥
कुबेरानिलयोर्मध्ये धनसञ्चितमण्डपम् ।
ईशानसोमयोर्मध्ये कर्तव्यं पुष्पमण्डपम् ॥५७॥
मर्यादिभित्तिके ख्यातं महामर्यादिके शृणु ।
चतुर्दिक्षु महाद्वारे गोपुराणिप्रकल्पयेत् ॥५८॥
अन्तरालेषु सर्वेषु क्रमेणैवप्रदक्षिणम् ।
ऋग्यजुः सामधर्वाणाञ्छन्दो ज्योतिषयोस्तथा ॥५९॥
शीक्षाकल्पनिरुक्तानां ततो व्याकरणस्य च ।
शैवसिद्धान्त शास्त्रस्य तथा पाशुपतस्य च ॥६०॥
सोमसिद्धान्त तन्त्रस्य बौद्ध अर्हतयोस्तथा ।
पाचरात्राख्य तन्त्रस्य व्याख्यानाभ्यासनानि वै ॥६१॥
विप्राणां भोजनार्थाय लिङ्गानां भोजनाय वै ।
आदिशैवानुशैवानां स्थापनापरिकल्पयेत् ॥६२॥
परिवारसमायुक्तं प्राकाराणां प्रकीर्तितम् ।
अतः परं विशेषेण वृषभस्थापनं शृणु ॥६३॥
इति परिवारविधिपटल एकोनचत्वारिंशत्तमः ॥३९॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP