संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
अष्टत्रिंशोऽध्याय:

विश्वक्सेनासंहिता - अष्टत्रिंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि जलसंप्रोक्षणं परम् ।
रहस्यं परमं गुह्यं सर्वपापप्रणाशनम् ॥१॥
तव स्नेहात् प्रवक्ष्यामि त्रिदशेरपि दुर्लभम् ।
सद्य एव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥२॥
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
दु:स्थितं सुस्थितं वापि देवबिम्बं न चालयेत् ॥३॥
शिलाबिम्बं तथा लौहं बिम्बं वा चैकबेरकम् ।
दैवाद्वा मानुषाद्वापि मोहाद्वा मुनिसत्तम ॥४॥
चालयेद्यदि तद्बिम्बं प्रायश्चित्तं विशेषत: ।
कारयेन्मुनिशार्दूल सर्वसंपत्सुखावहम् ॥५॥
प्रासादकरणे काले नवकर्मकृते सति ।
चित्रकर्मकृते वापि चित्रकारादि संस्पृशेत् ॥६॥
स्पृश्यते वा निकृष्टैस्तु देवश्चण्डालपातकै: ।
पीठे श्वभ्रस्थिते काले चलिते पूर्ववत् कृते ॥७॥
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च ।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वत: ॥८॥
योजयेत् पञ्चगव्येन प्राङ्मुख: सकुशोदकम् ।
अर्चयित्वार्घ्यगन्धाद्यै: साङ्मूलं समुच्चरन् ॥९॥
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं तत: ।
देवतायतनग्रामनगरेष्वपि पल्लिके ॥१०॥
स्थापनास्पदमासाद्य शोधनं पञ्चगव्यकै: ।
तत्र मध्ये खनेत् श्वभ्रं मूलमन्त्रमुदीरयन् ॥११॥
अङ्गुष्ठोदरमावर्त्य त्रिधा सूत्रेण वेष्टयेत् ।
तेनैव भ्रामयेन्मध्ये स्थाप्य तत्रावटं खनेत् ॥१२॥
हस्तमात्रमधस्ताच्च षडङ्गुलसमन्वितम् ।
संप्रोक्ष्य पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥१३॥
शेषं ध्यात्वा तदूर्ध्वे तु अभ्यर्च्यार्घ्यादिभि: क्रमात् ।
वाससाच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥१४॥
संस्पृश्च गव्यकुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरु: ।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीं क्रियाम् ॥१५॥
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्त्मना ।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरु: ॥१६॥
पद्मपत्राव(वृ?)तु कुम्भं श्वभ्रे तारेण विन्यसेत् ।
परित: सर्वधान्येन पूरयित्वा चशलं (?) यथा ॥१७॥
पञ्चगव्यं समुद्धृत्य घटस्थं कलशं लबन्(?) ।
तेनैव पूरयेत् कुम्भं श्वभ्रस्थं मूलमुच्चरन् ॥१८॥
समभ्यर्च्यार्घ्यपुष्पाद्यै: पूरयेन्मृद्भिराहृतै: ।
शंसूक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाक्कृते(?) ॥१९॥
एतत् साधारणं प्रोक्तं बहुबेरैकबेरयो: ।
सर्वलक्षणसंपन्नमङ्गयुक्तं द्विजोत्तमम् ॥२०॥
पदवाक्यप्रमाणज्ञं देवयज्ञ व्रतस्थितम् ।
एवं लक्षणसंयुक्तमाचार्यं तन्त्रपारगम् ॥२१॥
ज्ञात्वा तेनैव कर्तव्यं जलसंप्रोक्षणं शुभम् ।
प्रासादाग्रे मुनिरेष्ठ कुर्यान्मण्डपमुत्तमम् ॥२२॥
दक्षिणेऽप्यथवा कुर्यात् उत्तरे वा महामुने ।
ऐशाने वात्र मतिमान् यथालाभं सुदिक्षु च ॥२३॥
चतुरश्रं सुखं सम्यक् विस्तारायामतादृशम्(-त: समम्?) ।
करषोडशकं वापि हस्तं पञ्चदशं तु वा ॥२४॥
स्तम्भषोडशसंयुक्तं चतुर्द्वारसमन्वितम् ।
इष्टकादारुपाषाणै: कृतां सम्यक्सुवेदिकाम् ॥२५॥
हस्तमात्रसमायुक्तं ध्वजाशामुख्?ातोरणम् ।
दर्भमालापरिवृतं पुष्पमाल्यैरलंकृतम् ॥२६॥
फलपल्लवमालाद्यैर्धूपदीपसमन्वितम् ।
शालिसंचयसंपूर्णं प्रागुदक्प्रवणं शुभम् ॥२७॥
वितानेनोर्ध्वमाच्छाद्य नानावस्त्रैरलंकृतम् ।
छत्रचामरसंयुक्तं मुक्तादामै(!) रलंकृतम् ॥२८॥
ध्वजैर्नानार्विधेश्चित्रैर्दीपमालाविराजितम् ।
वर्षवातैर्न चाक्रान्तं पालिकाभिरलंकृतम् ॥२९॥
एतस्य मण्डपस्याग्रऽप्यत्तरे वा यथाक्रमम् ।
ईशाने वा मुनिश्रेष्ठ कुर्यात् स्नपनमण्डपम् ॥३०॥
हस्तद्वयप्रमाणेन विसतारायामतादृशम् (-त: समम्?) ।
मण्डपस्यैशपूर्वे तु स्नपनार्थं सुवेदिकाम् ॥३१॥
हस्तोच्छ्रयां तदर्धां वा ह्युत्तरे श्वभ्रसंयुताम् ।
धारायुग्वेदिकां कुर्यात् पश्चिमे कलशान् न्यसेत् ॥३२॥
स्नपनं कारयेदेवं एकाशीतिक्रमेण तु ।
एकबेरविधानं चेत् मूलार्चायां प्रयोजयेत् ॥३३॥
कर्मार्चायां तु कर्तव्यं बहुबेरविधौ सति ।
स्नपनं विधिवत् कृत्वा तत: कर्म समारभेत् ॥३४॥
पीतवस्त्रैस्तु शुक्लैर्वा वेष्टयेद्देवपीठकम् ।
ततोऽस्मिन् मण्डपे द्वारि कलशांस्तोरणध्वजान् ॥३५॥
गन्धपुष्पै: समभ्यर्च्य स्वनाम्नैव पृथक्पृथक् ।
ततो मण्डपवेद्यां च निक्षिपेच्छालिसंचयम् ॥३६॥
शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।
सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा ॥३७॥
द्रोणद्वयेन संपूर्णं निम्नोषं (निर्दोषं?) कलशं शुभम् ।
वस्त्रपूतजलै: पूर्णं सकूर्चं सापिधानम् ॥३८॥
ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।
अष्टशक्तिसमायुक्तं सौवर्णायुधपञ्चयुक् ॥३९॥
तत्कुम्भं प्रणवेनैव शालिपद्मे तु विन्यसेत् ।
तत: पद्मदलेष्वष्टकलशान् परितो न्यसेत् ॥४०॥
पूर्ववत्तोयसंपूर्णान् सहिरण्यान् सवस्त्रकान् ।
सापिधानान् सकूर्चांश्च मुखे चाश्वत्थपल्लवान् ॥४१॥
अर्चयेद्गन्धपुष्पैश्च दीपैरन्यै: पवित्रकै: ।
पूजयेन्मूलमन्त्रेण तत्तन्मूर्तिमनुस्मरन् ॥४२॥
विष्णुं चैव महाविष्णुं सदाविष्णुं च मध्यमे ।
वासुदेवानिरुद्धान्तं(?)न्यसेत् पूर्वादिदिक्षु च ॥४३॥
न्यसेच्छ्रियादिशान्त्यन्तमाग्नेयादिविदिक्षु च ।
एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ॥४४॥
एतानपि समभ्यर्च्य होमकर्म समारभेत् ।
पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥४५॥
वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके ।
अर्धचन्द्राग्निकुण्डे तु याम्ये संकर्षणं यजेत् ॥४६॥
वारुण्यां वर्तुले कुण्डे प्रद्युम्नं तु यजेद्बुध: ।
उत्तरेऽब्जे त्रिकोणे वा अनिरुद्धं यजेत् प्रभुम् ॥४७॥
पालाशं खादिरं वापि बैल्वमौदुम्बरं तथा ।
अष्टोत्तरशतं हुत्वा पृथक्पूर्वादित: क्रमात् ॥४८॥
समिदाज्यचरून् लाजै: जुहुयुर्मूर्तिपा: पृथक् ।
एवं होमं प्रशंसन्ति एकहोमेन चाप्यलम् ॥४९॥
कारयेच्चतुरश्रे तु जुहुयात्तद्विधानत: ।
वैष्णवीकरणार्थाय कुण्डं पूर्ववदाचरेत् ॥५०॥
तत्कुण्डे मुनिशार्दूल आचार्यो होममाचरेत् ।
समिदाज्येन चरुणा जुहुयात्तु पुन: पुन: ॥५१॥
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुती: ॥५२॥
एवं हुत्वा विधानेन पुनराज्येन होमयेत् ।
पौरुषेण च सूक्तेन जुहुयाद्विष्णुभक्तित: ॥५३॥
ततो नारायणं सूक्त सृष्ट्यादिप्रतिपादकम् ।
सम्यग्ज्ञात्वा मुनिश्रेष्ठ काल्यां तु जुहुयात् क्रमात् ॥५४॥
पञ्चोपनिषदैर्मन्त्रै: जुहुयात्तु पुन: पुन: ।
पूर्ववच्छान्तिहोमं तु कारयेच्च विधानत: ॥५५॥
एवं हुत्वा मुनिश्रेष्ठ कौतुकं बन्धयेद्धरिम् ।
पूर्वोक्तेन विधानेन पूजयेद्धविरन्तकम् ॥५६॥
द्वादशाक्षरमन्त्रेण मूर्तिमन्त्रेण चैव हि ।
क्षौमसूत्रेण वा तत्र कार्पासं वा महामुने ॥५७॥
प्रोक्षयेन्मूलमन्त्रेण तत्सूत्रं तु पुन: पुन: ।
रात्रौ महोत्सवं कुर्यात् शङ्खतूर्यादिनिस्वनै: ॥५८॥
कौतुकं समलंकृत्य तण्डुलोपरि नारद ।
पश्चाद्ग्रामं परिभ्रम्य महादीपसमूहयुक् ॥५९॥
बन्धयेत् कौतुकं पश्चात् पूर्वोक्तेन विधानत: ।
रात्रौ होम: प्रकर्तव्य: जलसंप्रोक्षणं दिवा ॥६०॥
न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं प्रकल्पयेत् ॥६१॥
प्रभाते सुमुहूर्ते तु जलसंप्रोक्षणं क्रमात् ।
प्रोक्षयेत्तु विधानेन बिम्बाद्यावरणान्तिकम् ॥६२॥
आवाहयेत्ततो देवं नारायणमनामयम् ।
शङ्खचक्रधरं देवं पीतवाससमच्युतम् ॥६३॥
सर्वाभरणसंयुक्तं वनमालावि?राजितम् ।
राजावर्तमणिप्रख्यं हारकेयूरभूषितम् ॥६४॥
श्रीवत्सवक्षसं चारु मकराकृतिकुण्डलम् ।
कम्बुग्रीवं महाबाहुं किञ्चित्प्रहसिताननम् ॥६५॥
एवं ध्यात्वा महाविष्णुं गरुडोपरि संस्थितम् ।
सह द्वादशभिश्चैव मूर्तिभिर्दशभिस्तथा ॥६६॥
लोकपालैस्तथादित्यै रुद्रैर्वसुभिरेव च ।
ऋषिभिश्चारणै: सिद्धै: किंनरैरप्सरो गणै: ॥६७॥
एवं ध्यात्वा महाविष्णुं नारायणमनामयम् ।
तत्तन्मन्त्रेण संस्थाप्य प्रोक्षयेद्गन्धवारिणा ॥६८॥
शेषोदकेन मतिमान् प्रोक्षयेत् परिवारकम् ।
प्रणवादिस्वमन्त्रैस्तु परिवारानशेषत: ॥६९॥
पूर्वादिकलशान् गृह्य महापीठेऽभिषेचयेत् ।
तत: पुरुषसूक्तेन पूजयेत् पुरुषोत्तमम् ॥७०॥
हविर्निवेदयेत् पश्चात् पूर्वोक्तेन विधानत: ।
चण्डादिभ्यो बलिं दद्याद्दिक्षु चैव विदिक्षु च ॥७१॥
बलिबिम्बसमायुक्तं बलिभ्रमणमाचरेत् ।
एवं बलिं क्रमात् कुर्यात् शङ्खतूर्यादिसंयुतम् ॥७२॥
प्रदक्षिणं तत: कुर्यात् प्रणिपत्य क्षमापयेत् ।
आचार्यदक्षिणां दत्वा ब्राह्मणान् भोजयेत्तत: ॥७३॥
होतॄंश्चैव सुसंपूज्य आचार्यं पूजयेत् पुन: ।
हारकेयूरसंयुक्तं कटिसूत्राङ्गुलीयकै: ॥७४॥
विविधानि च वस्त्राणि आचार्याय निवेदयेत् ।
दक्षिणां चोत्तमां दद्यात् गां च दत्वा पयस्विनीम् ॥७५॥
अर्धं वापि धनं देयं मूर्तिपानां हितैषिणाम् ।
पादोनं साधकानां च दीक्षितानां तदर्धकम् ॥७६॥
अन्नदानं च सर्वेषां दद्याद्देवसमीपत: ।
पवित्रारोपणेप्येवं दक्षिणां दापयेन्मुने ॥७७॥
इति सम्यक् समाख्यात: जलसंप्रोक्षणक्रम: ।
एतद्विचार्य कर्तव्यं(?)पञ्चरात्रविशारदै: ॥७८॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां पीठचलनादिनिमित्त-
प्रोक्षणविधिर्नामाष्टत्रिंशोऽध्याय:

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP