संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| विंशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - विंशोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम विंशोऽध्याय: Translation - भाषांतर विष्वक्सेन:---श्रुणु नारद तत्त्वेन साधकानां हिताय वै ।पूजाभेदं प्रवक्ष्यामि परमात्मादिमूर्तिषु ॥१॥पूते मनोरमे देशे वने पुण्यतमेऽपि वा ।तीर्थे वा क्षेत्रवर्ये वा ग्रामे वा नगरेऽपि वा ॥२॥खर्वटे खेटके वापि पत्तने वा तटे तटे(?) ।महाग्रामे विशेषेण पश्चिमे मध्यमेऽपि वा ॥३॥कारयेन्मन्दिरं सम्यक् सौम्यं सुमनसां प्रभो: ।विष्णो: पूर्वोक्तमार्गेण कल्पयेद्बहुबेरकम् ॥४॥*लक्षणं पूर्वमुक्तेन तत्र यद्येकबेरकम्*(?) ।रामत्रयादिकानां तु कल्ययेद्बहुबेरकम् ॥५॥आत्मार्थबेरमेकं वा स्वतन्त्रपरतन्त्रयो: ।पूजाभेद: सुरमुने किञ्चि(कश्चि?)दस्ति तदुच्यते ॥६॥आवाहनं विसर्गं च स्वतन्त्रे त्रिषु सन्धिषु ।अग्निकार्यं बलिं चैव परतन्त्रेषु तैर्विना ॥७॥आत्मर्थे फलकायां वा पटे वालिख्य यत्नत: ।पूर्वोक्तलक्षणोपेतं प्रतिष्ठाया: क्रमेण च ॥८॥संप्रोक्ष्य नवरत्नान्वा आवाह्यभ्यर्चयेत वा ।स्थण्डिले प्रतिमायां वा लौह्यामिच्छानुरूपत:(?) ॥९॥इन्द्रनीलं मरतकं स्फटिकं वज्रमेव च ।पद्मरागं प्रवालं च वैडूर्यं मुक्तमेव च ॥१०॥माणिक्कमिति रत्नानि नव तेषां यथाक्रमम् ।कालं वक्ष्ये तथार्चाया: प्रातर्मध्याह्न एव च ॥११॥सायाह्नश्च प्रदोषश्चाप्यर्धरात्रमुषस्तथा ।इति षट्कं परार्थे तु पूजायामुत्तमं स्मृतम् ॥१२॥मध्यमाराधने सायमुषश्च परिवर्जयेत् ।अधमे चार्धरात्रं च सायाह्नं च विवर्जयेत् ॥१३॥प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ।नान्येषूत्तमपूजायामपि वा मध्यमार्चने ॥१४॥बलिहीने तु काले तु पूजाभेदमथो श्रृणु ।आह्वानमर्घ्यपाद्यं च आचामं गन्धपुष्पकम् ॥१५॥धूपो दीपो निवेद्यं च मुखवासविसर्जने ।इति कर्मोत्तमादीनां नाडीकाल: प्रवक्ष्यते ॥१६॥प्रथमा सप्तनाडी स्यात् मध्यमा पञ्चनाडिका ।कनीयसी त्रिनाडी स्यात् इति शास्त्रस्य निश्चय: ॥१७॥दिवाकरोदयात् पूर्वमाचार्य: स्नानमाचरेत् ।अर्कोदये मुनिश्रेष्ठ पूजाकर्म समाचरेत् ॥१८॥स्नानपूर्वा: क्रिया:सर्वा: फलसंसिद्धिहेतव: ।अतस्तान्(-स्तत्?)प्रथमं वक्ष्ये साधकानां हिताय वै ॥१९॥समुद्रगामिन्यो वापि ह्रदे नद्यां जलादिषु ।तटाके निर्झरे वापि स्नानं कुर्वीत साधक: ॥२०॥ब्राह्मे मुहूर्ते चोत्थाय धर्ममोक्षार्थचिन्तक: ।प्रागुदग्दिशमासाद्य साधक: स्नानमाचरेत् ॥२१॥प्राच्युत्तरे नीरराशौ स्नानं कुर्याद्विचक्षण: ।वायव्ये नैरृताग्नेय्यां वरुणायां विसर्जयेत् ॥२२॥वर्जिते देशनीरे तु यो मोहात् स्नानमाचरेत् ।तत् स्नानं निष्फलं याति पुन:स्नानं समाचरेत् ॥२३॥प्रातरुत्थाय मूर्तीनां यां मूर्तिं स्वयमर्चति ।तन्मूर्त्यर्चनमन्त्रेण साधक: स्नानमाचरेत् ॥२४॥विष्णुमन्त्रेण वा साङ्गमथवा मूलविद्यया ।अवगाह्य जले मध्ये त्रिराचम्य च मन्त्रत: ॥२५॥विसृज्यार्द्राम्बरं चान्यत् वस्त्रयुग्मेन वेष्टयेत् ।सपवित्रकरेणैव मन्त्राचमनमाचरेत् ॥२६॥सुवार्णाद्यङ्गुलीयैवा(-यं वा?)धारयेद्दक्षिणे भुजे (करे?) ।आपोहिष्ठेति मन्त्रेण प्रोक्षयेत् स्वशिरोपरि ॥२७॥तर्पयेत् स्वस्वमन्त्रेण स्नानकर्म समाचरेत् ।अशक्त: पुनराचम्य प्रोक्तां विद्यामनुस्मरन् ॥२८॥संप्रोक्ष्य स्नानकार्याणि कृत्वा कार्यं विशेद्बुध: ।प्रविश्य कृतसच्छौच: पूजामन्त्रेण मन्त्रवित् ॥२९॥कवाटोद्घाटनं कृत्वा मन्त्रेणाद्येन वा मुने ।वायुमन्त्रेण वा द्वारं कवाटोद्धाटनं क्रमात् ॥३०॥तद्द्वारं तु द्विधा कृत्वा साधको मन्त्रवित्तम: ।सूत्रस्योत्तरपार्श्वे तु प्रतिशेद्दक्षिणाङ्घ्रिणा ॥३१॥प्रणम्य साधको मन्त्रं षडक्षरमनुस्मरन् ।नित्यदीपं ततो ज्वाल्य विष्णुमन्त्रेण मन्त्रवित् ॥३२॥सूत्रस्य दक्षिणे पार्श्वे उत्तराभिमुख: स्वयम् ।समे शुचौ प्रदेशे तु कृष्णाजिनकुशास्तरे ॥३३॥फलके वा समासीन: स्वस्थान्त:करण:शुचि: ।पद्मं वा स्वस्तिकं वापि बद्ध्वा स्वेच्छानुरूपत: ॥३४॥तेन मन्त्रेण दिग्बन्धमष्टदिक्षु निवेशयेत् ।रक्षार्थं यागदेशं तदिति तत्त्वार्थदर्शिन: ॥३५॥एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ।सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ॥३६॥प्राणानायम्य यस्तिस्र: प्राणायामोत्तम: स्मृत: ।पञ्चविंशतिकृत्वान्त: प्राणानायम्य मानस: ॥३७॥अभ्यासोऽष्टाक्षरस्यैक: प्राणायाम: स मध्यम: ।प्राणो वायु: शरीरस्थ: तस्यायामो निरोधक: ॥३८॥पूरकं कुम्भकं चैव रेचकं त्रिविध स्मृतम् ।जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥३९॥क्रियते चाङ्गुलिस्फोट: सा(?)मात्रा परिकीर्तित: ।तथा द्वादशमात्राभि: पूरकं क्रियते क्रमात् ॥४०॥तस्माद्द्विगुणमात्राभि: कुम्भकं क्रियते बुधै: ।तथैव रेचकं कृत्वा बुधास्तत्त्वार्थदर्शिन: ॥४१॥प्राणायाममिदं प्रोक्तमधमं मुतिसत्तम ।त्रिप्रधाने विधानेऽत्र यथासंभवमाचरेत् ॥४२॥प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाथवा ।प्राणायामं प्रकुर्वीत प्राणायामविदां वर ॥४३॥ततस्तु कायशुद्ध्यर्थं वर्णं धूम्रादि विन्यसेत् ।शब्द:स्पर्शश्च रूपं च रसो गन्धश्च पञ्चम: ॥४४॥अहङ्कारमनो बुद्धियुक्तमात्मानमानयेत् ।सदाविष्णौ तु संयोज्य धातुदेहं सुशोधयेत् ॥४५॥यद्बीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।विशोषयेदशेषं तु ध्यायेद्देहस्थकल्मषम् ॥४६॥क्षौमं हृत्पद्ममध्यस्थं बीजं तेजोमयं स्मरेत् ।अथोर्ध्वतिर्यगाभिश्च ज्वालाभि: कल्मषं दहेत् ॥४७॥शशाङ्काकृतिवद्धायन्नम्बरस्थं सुधाम्बुधिम् ।हृत्पद्मव्यापिभिर्देहं स्वकर्म भ्रामयेत् सुधी: ॥४८॥सुषुम्ना योगमार्गेण सर्वनाडीविसर्पिभि:(?) ।पश्चाच्छब्दादिविषयान् योजयेन्मूर्ध्निमध्यमे ॥४९॥एवं चामृतरूपं तु मया प्रोक्तं तु नारद ।यद्बीजं तु न्यसेन्नाभौ अनामिक्या तु नारद ॥५०॥अङ्गुष्ठानामिकाभ्यां तु क्षौमबीजं हृदि न्यसेत् ।सर्वासामङ्गुलीनां तु मूर्ध्नीमं (?) बीजमुत्तमम् ॥५१॥यकारादि वकारान्तं धूम्रमव्यारुणासितम् ।एवं संशोध्य देहं तु ऊर्ध्वपुण्ड्रं समाचरेत् ॥५२॥ऊर्ध्वपुण्ड्रविधिं वक्ष्ये श्रृणु नारद तत्त्वत: ।सर्वाघनाशनं पुण्यं सर्वतीर्थफलप्रदम् ॥५३॥स्वमूर्त्यर्चनमन्त्रेण ललाटादि ककुत्परम् ।चन्दनं श्वेतमृद् बिल्वतुलसीमूलतोयकै: ॥५४॥ऊर्ध्वपुण्ड्रं लिखेद्विद्वाननामिक्या तु साधक: ।द्वादश (-शै: ?) द्वादशैर्मासैर्नामभिर्वा विशुद्धये ॥५५॥एवं पूतो भवेदूर्ध्वपुण्ड्राणां धारणान्मुने ।सृष्टिस्थित्यादिवशतो हस्ताङ्गन्यासयोर्द्वयो: ॥५६॥विनाभ्य(-प्य?)र्चा फलवती मूर्तिमन्त्रप्रभावत: ।आराधनक्रमं वक्ष्ये द्वारपूजादि नारद ॥५७॥साधक:सिद्धसर्वाङ्ग: सुभगो रोगवर्जित: ।कुष्ठापस्माररहितो द्वारपूजां समाचरेत् ॥५८॥चण्डप्रचण्डगरुडा: चतुर्थ्यन्तं नमोऽन्तकम् ।दक्षिणोत्तरपूर्वे तु(-पूर्वेषु?) द्वारे च प्रणवै: सह ॥५९॥चण्डाधरे तु चक्रं स्यात् प्रचण्डस्याधरेऽम्बुजम् ।गन्धपुप्पादिभिर्द्वारपूजामेवं समाचरेत् ॥६०॥अथवा द्वारपूजाया: क्रमं श्रृणु महामुने ।चण्डादीन् पूर्ववत् पूज्य चक्रादिरहितेन तु ॥६१॥धातारं पूजयेद्वामे विधातारं तु दक्षिणे ।सूत्रस्य दक्षिणे स्थित्वा आचार्यो मन्त्रवितम: ॥६२॥अधोभागे तु भूमि: स्यादुपर्यङ्गं पूजयेच्छ्रियम् ।दुर्गा गणपती चैव कवाटस्थौ प्रपूजयेत् ॥६३॥शङ्गपद्मनिधी चैव शाखयोर्मूलदेशत: ।गङ्गां च यमुनां चैव कवाटाधारके न्यसेत् ॥६४॥उत्कर्षणीं कर्षणीं च अन्तर्यन्त्रे ह्यधोपरि ।गन्धपुष्पाक्षतैर्धूपै: दीपाद्यैर्द्वारमर्चयेत् ॥६५॥अथ चण्डं प्रचण्डं च गरुडान्तं(-डं च?)समर्चयेत् ।प्रणवादि स्ननाम्ना च मन्त्रमित्?यभिधीयते ॥६६॥पूर्ववत् पूजयेद्द्वारदेवांस्तन्त्रविचक्षण: ।त्रिप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ॥६७॥प्रणवादिस्वनाम्ना च पूजयेदिह नारद ।एवं संक्षेपत: प्रोक्त: द्वारपूजाविधिक्रम: ॥६८॥कांस्यघण्टाध्वनिं कृत्वा द्वारमाच्छाद्य वाससा ।प्रविशेद्देवपार्श्वे तु साधक: संयतेन्द्रिय: ॥६९॥पूवोक्तमासनं कृत्वा देवस्यासनमारभेत् ।सौवर्णे राजते वाथ ताम्रे वाथ महामुने ॥७०॥कुशेन वाथ पुष्पेण कल्पयेदासनं हरे: ।देवस्य पुरत: कृत्वा ह्यासनं संयतेन्द्रिय: ॥७१॥आधार: प्रणवो ज्ञेय: शक्तिर्वागीश्वरी तथा ।कन्दं च पृथिवीं स्मृत्य(-त्वा?)नालमाकाशरूपकम् ॥७२॥नालस्याग्रे स्मरेत् पद्मं हृत्पद्मं परमालयम् ।आधारादीनि सर्वाणि ह्यासनस्य महामुने ॥७३॥अज्ञानात् कल्पयेन्मोहात् निष्फलं स्यान्न संशय: ।तस्मात् सर्वप्रयत्नेन आधारादीनि कल्पयेत् ॥७४॥आधारं प्रथमं न्यस्य शक्तिं चैव तत: परम् ।शक्त्योपरि न्यसेद्धीमान् कन्दं चैव महामुने ॥७५॥कन्दस्योपरि विन्यस्य नालमाकाशरूपकम् ।नालस्याग्रे तु विन्यस्य धर्मादीनि यथाक्रमम् ॥७६॥धर्मादीनां तु तन्मध्ये पद्मं श्वेताष्टपत्रकम् ।धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयम् ॥७७॥चत्वार्येतानि कोणेषु आग्नेयादिषु विन्यसेत् ।मध्ये तु रुद्रं विन्यस्य नालमूलस्य मध्यमे ॥७८॥अधर्माज्ञान (-ना?) वैराग्यानैश्वर्यं च चतुष्टयम् ।विन्यसेच्च चतुर्दिक्षु पूर्वादिषु यथाक्रमम् ॥७९॥धर्मादीनि न्यसेदादौ मन्त्रेणाद्येन संयुतम् ।स्वनाम्ना चैव सर्वेषां मन्त्रमित्यभिधीयते ॥८०॥अधर्मादीनि सर्वेषां स्वस्वनाम्ना च साधक: ।विन्यसेच्च चतुर्दिक्षु पूर्वादिक्रमयोगत: ॥८१॥एवं न्यासं क्रमात् कृत्वा ह्याधारादि महामुने ।नारद:---धर्मज्ञानादिरूपाणि श्रोतुमिच्छाम्यहं प्रभो ॥८२॥आयुधानि च सर्वेषां यथावद्वक्तुमर्हसि ।विष्वक्सेन:---श्रुणु नारद तत्त्वज्ञ विष्णुपादपरायण ॥८३॥धर्मादीनां स्वरूपाणि प्रवक्ष्याम्यायुधानि च ।चतुर्वक्त्रं चतुर्बाहुं द्विपादं चासिताननम् ॥८४॥शङ्खचक्रधरं सौम्यं पीताम्बरसमन्वितम् ।जातिपुष्पदलप्रख्यं सर्वाभरणभूषितम् ॥८५॥धर्ममूर्तिरिति ख्यातं ज्ञानमूर्तिं ब्रवीमि ते ।द्विपादं च चतुर्बाहुं चतुर्वक्त्रं सनातनम् ॥८६॥नीलोत्पलदलप्रख्यं शङ्कचक्रगदाधरम् ।ज्ञानमूर्तिरिति ख्यातं वैराग्यस्य वदाम्यहम् ॥८७॥रक्ताक्षित्रयसंयुक्तं चतुर्वक्त्रं चतुर्भुजम् ।पीताम्बरधरं सौम्यं शङ्खचक्रधरं सदा ॥८८॥कर्णिकारदलप्रख्यं वायव्यं दिशमाश्रितम् ।वैराग्यस्ये(-मि?)ति निर्दिष्टं ऐश्वर्यस्य वदामि ते ॥८९॥रक्तोत्पलदलप्रख्यं चतुर्वक्त्रं चतुर्भुजम् ।पीताभ्बधरं सौम्यं शङ्खचक्रधरं सदा ॥९०॥सिताननसमायुक्तं मुक्ताहारसमन्वितम् ।ऐश्वर्यस्येति निर्दिष्टमीश्वरस्य वदामि ते ॥९१॥कुन्देन्दुमुक्त(?)संकाशं द्विपादं च चतुर्भुजम् ।रक्ताक्षित्रयसंयुक्तं जटामकुटधारिणम् ॥९२॥पीताम्बरधरं सौम्यं परशुं(ईश्वरं?)शूलधारिण्?ाम् ।सर्वाभरणसंयुक्तं सर्वशोभितशोभनम् ॥९३॥इत्थं हरस्य रूपं तु देवर्षे विद्धि नारद ।एवं संक्षेपत: प्रोक्तं धर्मज्ञानादिरूपकम् ॥९४॥अधर्मादीनि गात्राणि (?) वक्ष्यामि श्रृणु नारद ।रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥९५॥एकवक्त्रं बृहत्कुक्षिं नेत्रत्रयसमन्वितम् ।रक्ताम्बरधरं रौद्रं खङ्गमुद्गरधारिणम् ॥९६॥अधर्मसयैवमुक्तं तु अज्ञानस्य वदामि ते ।पीतवर्णं बृहत्कुक्षिं महाकायं चतुर्भुजम् ॥९७॥शूलखङ्गधरं रौद्रं सर्वाभरणभूषितम् ।एतदज्ञानरूपं स्यादवैराग्यं वदामि ते ॥९८॥दूर्वाश्यामनिभं ब्रह्मन् द्विपादं च चतुर्भुजम् ।परशुपाशधरं रौद्रं रक्ताम्बरधरं सदा ॥९९॥अक्षित्रयसमोपेतं जटामकुटधारिणम् (-धारकम्?) ।अवैराग्यस्य रूपं स्यात् अनैश्वर्यं वदामि ते ॥१००॥धूम्राकारं बृहत्कुक्षिं चतुर्बाहुं महाहनुम् ।एकवक्त्रं महाकायं मुक्तकेशसमन्वितम् ॥१०१॥अश्रीकरमसौम्यं च अक्षित्रयसमन्वितम् ।अनैश्वर्यस्य रूपं तु निर्दिष्टमधुना मुने ॥१०२॥धर्मादिपञ्चपादानि अधर्मादीनि नारद ।तेषां रूपं स्मरेन्नित्यं न्यसेत्तस्मिन् यथाक्रमम् ॥१०३॥अन्यथा कल्पयेन्मोहात् आधारादिनिरूपकम्(?) ।तत्पूजा निष्फला याति ग्रामस्याग्निभयं भवेत् ॥१०४॥तस्मात् सर्वप्रयत्नेन स्मरेद्रूपाणि साधक: ।न्यसेदष्टदलं पद्मं तेषामुपरि नारद ॥१०५॥तत्रार्कसोमवह्नींश्च उपर्युपरि वन्यिसेत् ।वृत्ताकारं तु रक्ताभमर्कमण्डलकं न्यसेत् ॥१०६॥तत्रोपरि न्यसेद्ध्यात्वा श्वेतं वृत्तं शशाङ्ककम् ।अग्निमग्निनिभं ध्यात्वा त्रिकोणं मण्डलोपरि ॥१०७॥एवं रूपं तु संचिन्त्य मण्डलार्कादि नारद ।मण्डलोपरि विन्यस्य तामसादि गुणत्रयम् ॥१०८॥तामसं राजसं चैव सात्विकं च यथाक्रमम् ।तामसं कृष्णरूपं तु राजसं रक्तरूपकम् ॥१०९॥सात्विकं श्वोतवर्णं तु वर्णान्येतानि संस्मरेत् ।तत्र तद्वर्णकं चिन्त्य मण्डलोपरि विन्यसेत् ॥११०॥तामसादिनि विन्यस्य न्यसेदात्मद्वयं बुध: ।आत्मानं चान्तरात्मानं वासुदेवपरायणौ ॥१११॥आत्मा तु श्वेतवर्ण: स्यादन्तरात्मा तथैव च ।श्?तेषां वर्णं तु संचिन्त्य न्यसेदात्मान्तरात्मके ॥११२॥आधाराद्यन्तरात्मान्तं न्यासक्रममथो श्रृणु ।आधारं प्रथमं न्यस्य श्वेतवर्णं त्रिमूर्तियुक् ॥११३॥शक्तिन्यासं द्वितीये तु कन्दन्यासमत: परम् ।नालमाकाशरूपं स्यात्तमोवर्णं चतुर्थकम् ॥११४॥नालस्याग्नेयकोणे तु धर्ममूर्तिं तु पञ्चमम् ।षष्ठं तु नैरृते न्यस्य ज्ञानमूर्तिं तु नारद ॥११५॥सप्तमे तु न्यसेद्विद्वान् वैराग्यं वायुगोचरे ।ऐश्वर्यमष्टमं न्यस्य ईशाने तन्त्रवित्तम: ॥११६॥नवमं नालमूले तु रुद्रमूर्तिं सदाशिवम् ।दशमं नालस्याग्रे तु पूर्वेऽधर्मं तु विन्यसेत् ॥११७॥एकादशे तु विन्यस्य दक्षिणेऽज्ञानरूपकम् ।पश्चिमे तु न्यसेत् पश्चादवैराग्यं तु नारद ॥११८॥उदीच्यां विन्यसेद्देवमनैश्वर्यं त्रयोदश ।नालस्याग्रे स्मरेद्विद्वान् पद्मं तत्परमालयम् ॥११९॥एतत् पद्मासनं प्रोक्तं ?त्रिदशै: पूजितं सदा ।तत्रोपरि न्यसेत् पश्चात् मण्डलार्कादि नारद ॥१२०॥गुणत्रयं न्यसेन्मध्ये तामसादि यथाक्रमम् ।गुणमध्ये न्यसेद्धीमानात्मानं चान्तरात्मकम् ॥१२१॥एवं संक्षेपत: प्रोक्त आसनस्य क्रमो मया ।आसनस्यार्चनं वक्ष्ये संक्षेपाद्विधिपूर्वकम् ॥१२२॥आधाराद्यन्तरात्मान्तं मूर्तीनां मुनिसत्तम ।व्यस्तै:संपूजयेत् सर्वं समस्तैर्वा समाहित: ॥१२३॥अर्चयेद्गन्धपुष्पाद्यै: पूजयेत्तं मनोरमै: ।तेषां स्वनामकैर्मन्त्रैर्दद्यात् सर्वं यथाक्रमम् ॥१२४॥एतत् कल्प्यं मुनिश्रेष्ठ आह्वानं च वदाम्यहम् ।स्वर्णाद्यन्यतमं पात्रं कुडुबद्वयपूरितम् ॥१२५॥इत्थं हि लक्षणं प्रोक्तं सर्वपात्राणि नारद ।आवाहनादि पात्रं तत् पञ्चषट्सप्त एव वा ॥१२६॥पूजकस्याग्रत: स्थाप्य प्रोक्षयेन्मूलविद्यया ।एतेषामप्यलाभे तु शङ्खशुक्तिमथापि वा ॥१२७॥क्षालयेत् सर्वपात्राणि विष्णुगायत्रिया मुने ।आढकद्वयसंपूर्णां पक्वबिम्बफलाकृतिम् ॥१२८॥वर्धनीं वामपार्श्वे तु विन्यस्यापूरयेद्बुध: ।गालितैरुदकैर्यस्यां गन्धपुष्पयुतां न्यसेत् ॥१२९॥शेषं दक्षिणपार्श्वे तु परितो वाग्रतोऽपि वा ।स्थापयेत्तु क्रमेणैव पूजाद्रव्यं समस्तकम् ॥१३०॥तत् पात्रेष्वेकपात्रं तु संगृह्य मुनिसत्तम ।षडक्षरेण मन्त्रेण संप्रोक्ष्य तु पुन: पुन: ॥१३१॥तत्पात्रं तु पुन: प्रोक्ष्य गन्धोदेन प्रपूरयेत् ।*तस्मिन् शिरसि*(?)पुष्पं च न्यसेत्तोयं सपुष्पकम् ॥१३२॥उद्धृत्य पूजामन्त्रेण ध्यात्वाऽत्र महामुने ।यद्रूपं चिन्?िततं सम्यक् तद्रूपं चिन्त्य(?) साधक: ॥१३३॥अवतीर्णं महाबेरादागच्छान्तेन मूर्ध्नि च ।प्रोक्ष्य चैवासनं दद्यात् केवलेन जगद्गुरो: ॥१३४॥प्रक्षिप्य वादमूले तु पुष्पमुष्टिं तत: परम् ।नमस्कृत्याञ्जलिं पश्चात् दर्शयेन्मुनिसत्तम ॥१३५॥अर्ध्यं पाद्यं तथाचामं दत्वा देवाय मन्त्रवित् ।ततस्तु परिवाराणि पात्रशेषेण कल्पयेत् ॥१३६॥परिवारक्रमं वक्ष्ये यथातत्त्वेन (यथातथ्येन?) नारद ।आवाहनांशतोयेन कल्पेयत्तु यथाक्रमम् ॥१३७॥पूर्वे तु वासुदेवं तु शुद्धस्फटिकसंनिभम् ।शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥१३८॥संकर्षणं न्?यसेद्याम्ये शशिबालार्कसंनिभम् ।शङ्खचक्रसमोपेतं चतुर्बाहुविराजितम् ॥१३९॥प्रद्युम्नं पश्चिमे न्यस्य शातकुम्भ?निभं मुने ।शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥१४०॥अनिरुद्धं न्यसेत्तस्मिन्नुत्तरे नीलरूपिणम् ।शङ्खचक्रसमायुक्तं पीतवस्त्रं चतुर्भुजम् ॥१४१॥श्रियं सुवर्णवर्णाभां श्वेतरूपां सरस्वतीम् ।रक्तवर्णां रतिं पश्चात् शान्तिं कुङ्कुमसंनिभाम् ॥१४२॥आग्नेयादिषु कोणेषु विन्यसेच्छक्तिरूपकम् ।पैशाचे तु न्यसेत् पश्चात् शङ्खादीनां तु नारद ॥१४३॥पूर्वे शङ्ख नियुञ्जीत श्वेतवर्णं स(च?)नादयुक् ।कालाग्निसदृशाकारं दक्षिणे चक्रमुत्तमम् ॥१४४॥पश्चिमे तु गदां न्यस्य हरिद्राभामनुत्तमाम् ।रक्तवर्णनिभं पद्ममुत्तरे तु न्यसेद्बुध: ॥१४५॥मुसलं कृष्णवर्णं तु आग्नेय्यां दिशि विन्यसेत् ।नैरृतायां न्यसेत्तत्र खङ्गमाकाशसंनिभम् ॥१४६॥पञ्चवर्ण तथा शार्ङ्गं वायव्ये तन्त्रवित्तम: ।सर्ववर्णमयाकारां वनमालां तथैशके ॥१४७॥एतद्द्ब्रिजीयावरणं गर्भागारे प्रकीर्तितम् ।द्वारस्य दक्षिणे चण्डं कृष्णवर्णं चतुर्भुजम् ॥१४८॥शङ्खचक्रगदापाणिं त्रिणेत्रं रक्तलोचनम् ।एवं रूपं तु संचिन्त्य प्रचण्डं तु तत: श्रृणु ॥१४९॥शङ्खचक्रगदापाणिं रक्तवर्णं चतुर्भुजम् ।द्वारस्योत्तरपार्श्वे तु त्रिणेत्रं भीमरूपिणम् ॥१५०॥पुरतो वैनतेयं च सुवर्णाभं कृताञ्जलिम् ।करण्डमकुटं नीलवाससं प्रियदर्शनम् ॥१५१॥नीलाग्रनासिकायुक्तं नागाभरणभूषितम् ।एवं तु गरुडं चिन्त्य बलरामस्य मूर्तिवत् ॥१५२॥यो भक्त्या देवमभ्यर्चेत् तथैव गरुडं यजेत् ।भगवत्प्रमुखं पश्चाद्गरुत्मन्तं नियोजयेत् ॥१५३॥रक्तवर्णं चतुर्बाहुं द्विबाहुं वा मुनीश्वर ।सर्वाभरणसंयुक्तं सर्वशोभनशोभितम् ॥१५४॥कालाग्निसदृशाकारं चक्रधृङ्मकुटान्वितम् ।एवं चक्राधिदैवं तु पूजयेद्द्वारपार्श्वके ॥१५५॥शङ्खाभं सौम्यरूपं तु सर्वाभरणभूषितम् ।उपवीतयुतं श्वेतं शङ्खधृङ्मकुटान्वितम् ॥१५६॥चतुर्बाहुं द्विबाहुं वा ध्यायेद्द्वारस्य वामके ।धातारं पीतवर्णं विधातारमरुणप्रभम् ॥१५७॥श्यामवर्णा तु भूमि: स्यात् रक्तवर्णां हरिप्रियाम् ।दुर्गां च कोमलश्यामां श्वेतरूपं विनायकम् ॥१५८॥शङ्खपद्मनिधी चैव श्वेतरक्तनिभौ मुने ।गङ्गां च यमुनां चैव श्वेतकृष्णनिभे मुने ॥१५९॥उत्कर्षणीं तु रक्तां वै कर्षणीं रक्तवर्णकाम् ।एवं द्वारे तु संचिन्त्य त्रिसन्ध्यायां(-सु?) प्रपूजयेत् ॥१६०॥नार्चयेदुपसन्ध्यायां चण्डादीन् द्वारपालकान् ।अज्ञानादर्चयेन्मोहात् स्थाननाशो भविष्यति ॥१६१॥दुर्भिक्षं जायते राष्ट्रं धनधान्यविनाशकृत् ।तस्मात् सर्वप्रयत्नेन विधिनोक्तं समाचरेत् ॥१६२॥विमानाग्नेययाम्ये तु तन्मध्ये गणनायकम् ।पूर्ववद्वर्णकं चिन्त्य हस्तिवक्त्रं चतुर्भुजम् ॥१६३॥विमाने दक्षिणे कुर्यात् दक्षिणामूर्तिमीश्वरम् ।अक्षमालाधरं देवमष्टाक्षरपरायणम् ॥१६४॥त्रिणेत्रं श्वेतसंकाशं सौम्यं सोमार्धधारिणम् ।नारदाद्यृषिसंघैश्च सेवितं दक्षिणामुखम् ॥१६५॥एवं रहस्यरूपं ते संक्षेपेण विधीयते ।तस्य दक्षिणपाश्वे तु मातॄणामुत्तरामुखम् ॥१६६॥कल्पयेन्मुनिशार्दूल सर्वसंपत्सुखावहम् ।आलयस्योत्तरे मातॄ: कल्पयेद्बा मुनीश्वर ॥१६७॥तेषां नाम क्रमाद्गुह्यं श्रृणुष्वावहितोऽधुना ।वागीश्वरीक्रियाकीर्ति: लक्ष्मीसृष्टिस्तथैव च ॥१६८॥विद्याकान्तिश्च सप्तैता: कथिता विष्णुमातर: ।उत्तरे पश्चिमे चैव हयास्य: श्रीधरस्तथा ॥१६९॥वीरभद्रगणेशौ वा मातॄणां द्वारपालकौ ।साधकेच्छानुरूपेण कल्पयेद्विष्णुमातर: ॥१७०॥मातरश्च सुवर्णाभा: श्रीधर: श्याम एव च ।हयशीर्ष:सुवर्णाभो वर्णा एता: (-ते?) प्रकीर्तिता: ॥१७१॥तथैव वीरभद्रादि वर्णं तु परिपठ्यते ।विमानपृष्ठभागे तु अनन्तमथ साधक: ॥१७२॥पञ्चास्यपन्नगोर्ध्वे तु पञ्चवक्त्रै:(?)समावृतम् ।चतुर्भुजं समासीनं शङ्खचक्रगदाधरम् ॥१७३॥इत्थं हि लक्षणोपेतं सर्वदेवैर्नमस्कृतम् ।सौम्यास्येशानयोर्मध्ये दुर्गां श्यामनिभां यजेत् ॥१७४॥तस्योत्तरे तु विन्यस्य मम रूपं चमूपते: ।श्यामलं पिङ्गलाक्षं तु पिङ्गश्मश्रु: सनातनम् ॥१७५॥शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम् (?) ।पीताम्बरधरं सौम्यं विवृत्ताक्षिसमन्वितम् ॥१७६॥तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् ।एवं हि मम रूपं ते (तु?) पठ्यते मुनिसत्तम ॥१७७॥परिवारविधानोक्तमथ बाह्येषु विन्यसेत् ।द्वारस्य शङ्खचक्रे तु दक्षिणोत्तरत: स्मरेत् ॥१७८॥दक्षिणे शङ्खवर्णं तु शङ्खचक्रगदाधरम् ।चतुर्भुजं त्रिणेत्रं तु मूर्ध्नि शङ्खं न्यसेत् सदा ॥१७९॥वामपार्श्वे न्यसेच्चक्रमग्निरूपं चतुर्भुजम् ।त्रिणेत्रं भीमसंकाशं शङ्खचक्रगदाधरम् ॥१८०॥तन्मूर्ध्नि विन्यसेच्चक्रं नीलाम्बरकिरीटिनम् ।एवं तु लक्षणं प्रोक्तं शङ्चक्रादिरूपकम् (?) ॥१८१॥इन्द्रादीशानपर्यन्तं स्वेषु स्थानेषु योजयेत् ।वज्रहस्त्तं सहस्राक्षं सौम्यं तु श्यामलाकृतिम् ॥१८२॥सौन्दर्यमिन्द्रदैवत्यं ध्यायेदिन्द्रं किरीटिनम् ।त्रिशिखं रक्तवर्णाभं रक्तमाल्यैरलंकृतम् ॥१८३॥त्रिपादं चाष्टबाहुं च रक्तनेत्रत्रयं मुने ।रक्तकेशनखश्मश्रुवह्निरूपं सशक्तिकम् ॥१८४॥धर्मराजं ततो ध्यायेत् सर्वलक्षणलक्षितम् ।कालमेघनिभाकारं द्विभुजं दंण्डपाणिनम् ॥१८५॥किरीटहारकेयूरमकुटादिविभूषितम् ।सर्वप्रेताधिनाथस्य लक्षणं कथितं मया ॥१८६॥ततस्तु रक्षसामीशं निरृतिं रक्तमूर्धजम् ।खङ्गबाहुं महाकायं रक्तवक्त्रं त्रिणेत्रकम् ॥१८७॥एतत्तु लक्षणं प्रोक्तं राक्षसाधिपतेस्तत: ।सर्वलक्षणसंयुक्तं सर्वालंकारभूषितम् ॥१८८॥श्यामलं पाशहस्तं च जलेशं पङ्कजासनम् ।धूम्रवर्णनिभाकारं ध्वजयुक्तं महाभुजम् ॥१८९॥द्विपादं च द्विहस्तं च सर्वेषां प्राणसंज्ञितम् ।इत्थं ते मुनिशार्दूल लक्षणं परिपठ्यते ॥१९०॥ध्यायेत् सौम्ये तु मतिमान् यक्षेश्वरमनुत्तमम् ।तप्तहाटकसंकाशं सर्वलक्षणलक्षितम् ॥१९१॥द्विपादं च द्विहस्तं च दण्डपाणिं धनेश्वरम् ।श्वेताद्रिशिखराकारं द्विपादं च चतुर्भुजम् ॥१९२॥वृषध्वजं त्रिणेत्रं च शूलपाणीन्दुमौलिनम् ।एवं ध्यायेत् क्रमात् सर्वान् स्वनाम्ना पूजयेत् पृथक् ॥१९३॥एतत्तृतीयावरण्?ो द्वारपार्श्वेन्दुसूर्ययो: ।रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥१९४॥शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम् ।चिन्तचेद्दक्षिणे पार्श्वे तृतीयद्वारके रविम् ॥१९५॥कुन्दपुष्पनिभाकारं शङ्खचक्रगदाधरम् ।चतुर्भुजं त्रिणेत्रं च पीतवस्त्रं च चिन्तयेत् ॥१९६॥द्वारस्य वामपार्श्वे तु शशाङ्काकृतिमुत्तमम् ।मौलिपृष्ठस्य सूर्यादौ चिन्तयेन्मण्डलाकृतिम् ॥१९७॥एवं शशिं रविं ध्यात्वा तृतीयद्वारपार्श्वयो: ।कुमुदादीनि सर्वाणि न्यसेत् पूर्वादिषु क्रमात् ॥१९८॥कुमुद: कुमुदाक्षश्च पुण्डरीकोऽथ वामन: ।शङ्कुकर्ण:सर्पनेत्र: सुमुख: सुप्रतिष्ठित: ॥१९९॥एतेषां लक्षणं प्रोक्तं ध्यायेदस्मिन् महोत्सवे ।तद्वत् ज्ञात्वाऽत्र भूतेशान् पूजयेत् साधकोत्तम: ॥२००॥पुरत: स्थापयेत् सर्वान् विष्णुपारिषदान् बहून् ।सर्ववर्णधरा:सर्वे सर्वे शस्त्रास्त्रपाणय: ॥२०१॥महापीठे तु संस्मृत्य सर्वान् भूतगणान्वितान् ।पूजाकाले ततो ध्यायेत् स्वरूपं पूजक: क्रमात् ॥२०२॥स्वनाम्ना परिवाराणां प्रणवादिनमोन्तकम् ।अर्घ्यपाद्यादिभिर्वापि गन्धाद्यैर्वा मुनीश्वर ॥२०३॥अर्चयेन्नित्यपूजायां प्रणवादिमनुस्मरन् ।अस्मिन् तन्त्रे मया प्रोक्तं चण्डाद्यावरणार्चनम् ॥२०४॥उत्सवे परिवाराणामर्चनाविधिरुत्तम: ।तथैवाभ्यर्च्य मतिमान् परिवारानतन्द्रित: ॥२०५॥एवमभ्यर्च्य भूतेशान् पश्चात् पूजां समाचरेत् ।क्षालयेत् सर्वपात्राणि पूर्वोक्तेन विधानत: ॥२०६॥सर्वद्रव्याणि संप्रोक्ष्य निरीक्ष्याद्येन मन्त्रत: ।आवाहनादिभि: सर्वैरुपचारक्रमेण तु ॥२०७॥देवदेवं समभ्यर्च्य स याति परमां गतिम् ।उपचारक्रमं वक्ष्ये यथावदनुपूर्वश: ॥२०८॥पूर्वमावाहनं कुर्यात् पुनरासनमेव च ।तृतीयं पुष्पविक्षेपं तुरीयं तु नमस्कृतिम् ॥२०९॥पञ्चमोऽञ्जलिमुद्रा च (स्यात्?) षष्ठमर्ध्यं तथैव च ।पाद्यं तु सप्तमं कुर्यात् तथाचमनमष्टमम् ॥२१०॥स्नपनं नवमं विद्याद्दशमो वसनं भवेत् ।एकादशो भूषणं स्यात् द्वादशस्तूपवीतकम् ॥२११॥त्रयोदशश्चाचमनं गन्धश्चैव चतुर्दश: ।पुष्पं पञ्चदशश्चैव षोडशो धूप एव च ॥२१२॥दीप: सप्तदशश्चैव मुद्राष्टादश उच्यते ।हविरेकोनविंशश्च पानीयं विंशकस्तथा ॥२१३॥एकविंशस्तथाचाम: ताम्बूलं च* द्वाविंशक:* ।उपचारस्त्रयोविंश आचामस्तदनन्तरम् ॥२१४॥मुखवास: पञ्चविंश: षड्विंशो गेयमुच्यते ।पुराणं सप्तविंशश्च नृत्तहोममत: परम् ॥२१५॥बलिभ्रमणमेकोनत्रिंश अर्ध्यमत: परम् ।पुष्पं वा मुनिशार्दूल दद्यादिच्?छानुरूपत: ॥२१६॥एकत्रिंशो मुखवासश्चोद्वासनमत: परम् ।द्वात्रिंशदुपचाराणामुक्तमेवं महामुने ॥२१७॥वक्ष्ये कलोपचाराणि (-रांस्तु?) श्रृणुष्वावहितो भव ।आद्य आवाहनं पश्चात् आसनं तदनन्तरम् ॥२१८॥पाद्यं तृतीय अर्ध्यं स्यादाचामं पञ्चम: स्मृत: ।षष्ठं तु स्नपनं विद्यात् सप्तमो वसनं भवेत् ॥२१९॥अष्टमस्तूपवीतं स्यान्नवमं गन्ध उच्यते ।दशम: पुष्पविन्यास: धूप एकादशो भवेत् ॥२२०॥दीपस्तत: परं विद्यात् चरुणस्तु (चरोश्चैव?) निवेदनम् ।चतुर्दश्यञ्जलिमुद्रा प्रदक्षिणमत: परम् ॥२२१॥उद्वासनं षोडश: स्यादित्येवमपर:क्रम: ।एवं षोडशधा प्रोक्ता उपचाराणि(-रांस्तु?)नारद ॥२२२॥एकादशोपचाराणां क्रमं श्रृणु महामुने ।आवाहनं तु प्रथम: द्वितीयश्चासनं भवेत् ॥२३३॥अर्घ्य चानन्तरं विद्यात् पाद्यं चैव तत: परम् ।देवस्याचमनं विद्यात् पञ्चमं तु विचक्षण: ॥२२४॥गन्धं चानन्तरं विद्यात् सप्तमं पुष्पमेव च ।धूपं तु चाष्टमं विद्यात् दीपस्तु नवम: स्मृत: ॥२२५॥दशमस्तु निवेद्यं स्यादुद्वासनमत: परम् ।मुख्यगौणक्रमेणैव विनियोगं तत: श्रृणु ॥२२६॥यत्र पूजोत्तमा तत्र कुर्यान्मुख्योपचारकम् ।मध्यमाराधनं यत्तु त्रकृध्यमप्रयोजयेत् ॥२२७॥अर्चा कनीयसी यत्र तत्रैवैकादशेन तु ।प्रयोज्यमिति शास्त्रस्य निश्चय: साधकोत्तमै: ॥२२८॥सर्वे सर्वत्र वा पूजा देशकालानुरूपत: ।साधकेच्छानुरूपेण कुर्याद्वा मुनिपुङ्गव ॥२२९॥अनि(आरि?)राधयिषुर्मूत्रा यद्यद्वै साधकोत्तम: ।तत्तद्वै मूर्तिमन्त्रेण कुर्यात् सर्वोपचारकम् ॥२३०॥स्नपने मन्त्रभेदोऽस्ति मूर्तीनां मुनिसत्तम ।नित्ये नैमित्तिके वापि विष्णोर्नुकमथावपि ॥२३१॥नारायणोपनिषदं द्वादशाक्षरमेव च ।नारायणं ब्राह्मणं(?)वा अतो देवी(-वे?)ति वा पुन: ॥२३२॥सहस्रशीर्षं देवमष्टाक्षरमथापि वा ।सहस्रशीर्षा पुरुषो मन्त्रं वा परमेष्ठिन: ॥२३३॥एतेष्वन्यतमं वापि स्नपनं साधक: शुचि: ।कुर्वन् स्वराष्ट्रमुद्धृत्य विष्णुलोकमवाप्नुयात् ॥२३४॥केवलं मूलमन्त्रेण पूजक: पुरुषोत्तम ।आवाहनादिभि: सर्वैरुपचारै: समर्चयेत् ॥२३५॥सुगुणो वंशसंपन्नो निर्दोषो रोगवर्जित: ।आवाहनादि कर्माणि सर्वाण्येतानि सर्वदा ॥२३६॥अष्टाक्षरेण वा कुर्यात् मूर्तीनां मुनिसत्तम ।पूजकस्योत्तमत्वाच्च निर्दोषत्वान्महामुने ॥२३७॥केवलं पुष्पमात्रेण देवेशस्तृप्यतेऽत्र तु ।सा पूजा सफलं याति वृद्धिकृत् ग्रामराज्यो: ॥२३८॥एवं य: कारयेद्भक्त्या स याति परमां गतिम् ।यतिर्वा ब्रह्मचारी वा पूजको मुनिसत्तम ॥२३९॥द्विगुणं फलमाप्नोति नात्र कार्या विचारणा ।एवं संपूजयेद्भक्त्या विष्णुं सकलमव्ययम् ॥२४०॥इह लोके श्रियं प्राप्य परलोके तथैव च ।सर्वान् कामानवाप्नोति सर्वयज्ञफलं भवेत् ॥२४१॥विशेषमत्र वक्ष्यामि आत्मार्थस्य परस्य च ।उपचारक्रमं सर्वं साधकानां हिताय तु ॥२४२॥अर्घ्यादिमुखवासन्तं क्रमाद्देवाय कल्पयेत् ।अर्घ्यं पाद्यं तथाचाम: मधुपर्क: पुनश्च तत् ॥२४३॥ताम्बूलं गन्धपुष्पं च अक्षतो धूप एव च ।दीपो ह्यञ्जलिमुद्रा तु निवेद्यं तु महामुने ॥२४४॥पानीयाचमनीयं च मुखवासस्तथैव च ।एवं क्रमो मुनिश्रेष्ठ तत्क्रमेणाथवार्चयेत् ॥२४५॥क्षालयेत् सर्वपात्राणि पूर्ववत्तन्त्रवित्तम: ।तत्तत् पात्रेषु तद्द्रव्यं निक्षिप्यापूर्य पुष्पकम् ॥२४६॥अर्घ्यतोयं स्वमन्त्रेण मुखमालेपयद्धरे: ।पाद्यं देवस्य पादे च दीयते(दद्याद्वै?)स्वस्वविद्यया ॥२४७॥देवस्य दक्षिणे हस्ते ह्याचामं मधुपर्ककम् ।पुनराचामताम्बूलं तथैव च पुन: पुन: ॥२४८॥जातिश्रीकण्ठ(-खण्ड?)मादाय पेषयेत् पिष्ठपङ्कवत् ।कर्पूरेण समायुक्तं कुडुबद्वयपूरितम् ॥२४९॥केवलं चन्दनं वापि गन्धं षण्मुष्टिमात्रकम् ।पुष्पप्रस्थचतुष्कैस्तु मूर्तीनां तु पृथक्पृथक् ॥२५०॥दापयेत्तु प्रयत्नेन साधक: परमार्थवित् ।धूपं सुरभिणा व्याप्तं *प्राप्तज्वालोच्छ्रितोज्ज्ञितम्* ॥२५१॥*बहुरेखमनारग्न्यं दशमात्रं प्रदापेयत्*(?) ।दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम् ॥२५२॥धूपं तु दापयेद्गन्धं नासिकायां तु दक्षिणे ।दद्याद्यथाक्रमं सर्वं वासुदेवाय भक्तित: ॥२५३॥*कलमादीनि*(?) सर्वाणि शेषाङ्गं मर्दयेद्बुध: ।वामहस्तेन मन्त्रज्ञ: पुष्पं गृह्य समाहित: ॥२५४॥दक्षिणेन करेणैव दद्याद्देवस्य पादयो: ।मुष्टिमात्रं प्रदद्यात्तु त्रिवारेण (-रं च?) स्वविद्यया ॥२५५॥मध्यमानामिकामध्ये चाङ्गुष्ठेन समन्वितम् ।अक्षतं तु ततो दद्यात् तथैव च पुन: पुन: ॥२५६॥देवस्य वामनासौ च(-नासायां?) धूपं दद्यात् समाहित: ।दक्षिणे देवदृक्पार्श्वे दीपं दद्यात्तु मन्त्रवित् ॥२५७॥त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणादृशि ।कपिलाज्येन संस्राव्य ह्यन्नसुक्तेन संस्पृशेत् ॥२५८॥परिषिच्यादि मन्त्रेण *पाणिं दद्यात्तु पाणिना*(?) ।दद्यात्तद्दक्षिणे हस्ते हवि:प्राशनमुद्रया ॥२५९॥पानीयाचमनीयं च मुखवासं तथैव च ।एवं षोडशधा प्रोक्तं विशेषेणोपचारकम् ॥२६०॥दद्याद्यथाक्रमं सर्वं भक्तिपूतेन चेतसा ।ततस्तु साधक: सम्यक् प्रणम्याञ्जलिमुद्रया ॥२६१॥देवस्य पादौ हस्ताभ्यां संस्पृशेत्तत् समाहित: ।ततस्त्वथर्ववेदे तु शौनकायां तु शाखया ॥२६२॥नारायणोपनिषदं उच्चार्य च पुन: पुन: ।त्रिभि: काण्डै:समुच्चार्य मन्त्रेणैव महामुने ॥२६३॥देवेशस्तृप्यते चैव नात्र कार्या विचारणा ।राजराष्ट्रविवृद्धि: स्यात् ग्रामादिषु तथैव च ॥२६४॥अर्चयेन्नान्यथा मोहादाभिचारकरो भवेत् ।सा पूजा निष्फला चैव रोगवृद्धिर्भविष्यति ॥२६५॥तस्मात् सर्वप्रयत्नेन त्रिभि: काण्डै: समर्चयेत् ।अग्निकार्यं तु पूर्वोक्तं कुर्यात्तन्त्रविचक्षण: ॥२६६॥समिधो मूलमन्त्रेण आज्यमाज्येन मन्त्रत: ।चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुती: ॥२६७॥हुत्वा हुत्वाग्निमध्ये तु साधको मन्त्रवित्तम: ।शेषद्रव्याणि सर्वाणि पूर्वोक्तेनैव कारयेत् ॥२६८॥अग्निकार्यं समाप्यैवं बलिदानमथोच्यते ।बलिदानक्रम: सर्व: संक्षेपाद्वक्ष्यतेऽधुना ॥२६९॥नित्ये नैमित्तिके चैव सर्वसंपत् सुखावहम् ।स्वर्णादीनां तु पात्राणां लक्षणं कथ्यतेऽधुना ॥२७०॥तालं तु कर्णिका प्रोक्तं तत्पादार्धतलं तथा ।पादं तु तद्बहि: कुर्यात् तदन्ते वलयं भवेत् ॥२७१॥बलिपात्रं समाख्यातं ताम्रराजतहैमकम् ।उत्तमाधममध्यं स्यात् विभवस्यानुरूपत: ॥२७२॥कारयेद्बलिपात्रं तु एकद्रव्येण शिल्पिना ।आचार्योऽलंकृत: सम्यक् पात्रमादाय मण्डले ॥२७३॥साधितं प्रोक्षितं पश्चात् गालितेनोदकेन तु ।तस्मिन्मध्ये तु कुर्वीत सुदृढं हविषासनम् ॥२७४॥कर्णिकारपरीमाणं *यत्तावद्विस्तारमुच्यते* ।चतुरङ्गुलमुत्सेधमन्नपीठस्य नारद ॥२७५॥लक्षणं चात्र संप्रोक्तं नित्यपूजोत्सवस्य तु ।महोत्सवे न कुर्वीत चान्नपीठस्य चोपरि ॥२७६॥कारयेच्छिबिकाद्येषु बलिभ्रमणमुत्तमम् ।कल्पयेत् सपरीवारमन्तरावरणस्थितम् ॥२७७॥तस्मिन् पात्रोपरि न्यस्य स्वनाम्ना मुनिसत्तम ।अन्नोपरि पटं न्यस्य पुष्पैरन्यै: प्रकीर्य च ॥२७८॥वस्त्रैराभरणैश्चित्रै: गन्धै: पुष्पैरलंकृतम् ।सुवर्णकुसुमैश्चित्रै: *प्रभावासितसंयुतम्*(?) ॥२७९॥*वासिकाद्याभिर्मालाभि:*(?)भूषितं सुमनोरमम् ।सौवर्णं राजतं वापि ताम्रं वातीव सुन्दरम् ॥२८०॥तस्मिन् तिष्ठापयेद्बिम्बं स्वस्वमूर्त्यनुसारत: ।अलाभे काञ्चने वापि राजतं ताम्रमेव वा ॥२८१॥तण्डुलं च चरुं पुष्पं प्रातर्मध्याह्न एव च ।प्रदोषे च बलिं कुर्यात् यथायोगक्रमेण तु ॥२८२॥अर्घ्यादि चाष्टमं दद्यात् मुखवासान्तमेव वा ।दीपान्तं वा प्रदातव्यं स्वेन मन्त्रेण देशिक: ॥२८३॥अन्यपात्रे तु मन्त्रज्ञ: चान्नं तोयसमन्वितम् ।गन्धपुष्पसमायुक्तं स्वस्तिवाचनसंयुतम् ॥२८४॥पीठे पीठे मुनिश्रेष्ठ बलिदानं समाचरेत् ।शङ्खघोषसमायुक्तं धूपदीपसमन्वितम् ॥२८५॥वितानध्वजसंयुक्तं छत्रचामरशोभितम् ।तूर्यवादित्रघोषैश्च जयशब्दसमन्वितम् ॥२८६॥शिष्यमभ्यर्च्य गन्धाद्यै: गरुडं संस्मरेत् स्वयम् ।विद्यानामादिमन्त्रेण पात्रमुत्थापयेद्गुरु: ॥२८७॥स्थापयेन्मूर्ध्नि शिष्यस्य बलिपात्रमनुत्तमम् ।तत्पात्रे स्थापयेद्देवं गच्छमानं (-न्तं च?) प्रकल्पयेत् ॥२८८॥शनै: शनैर्मुनिश्रेष्ठ शङ्खाद्यैर्गेयसंयुतम् ।बलिभ्रमणकाले तु बिम्बाग्रे बलिमाचरेत् ॥२८९॥यो मोहाद्बिम्बहीने तु *बलिकर्मणि चेन्मुने*(?) ।तत्स्थानं निधनं याति *तत्रस्था नरकं व्रजेत्* ॥२९०॥तस्मात् सर्वप्रयत्नेन बिम्बाग्रे बलिमाचरेत् ।प्रतिमाचार्ययोर्मध्ये गमनं वर्जयेत्तत: ॥२९१॥गमनं यदि चेत्तत्र स्नपनं पञ्चगव्यकै: ।तदन्ते गन्धतोयेन स्नापयेत्तेन मूर्तिना (?) ॥२९२॥पुण्याहघोषसंयुक्तं स्वस्तिसूक्तरवैर्युतम् ।मन्त्राणामादिमन्त्रेण मूर्तिमन्त्रेण वा मुने ॥२९३॥समिदाज्येन चरुणा प्रत्येकैकाहुतिं क्रमात् ।हुत्वा स्वे स्वे तु जुहुयात् स्वाहान्तेन यथाक्रमम् ॥२९४॥पश्चात् पूर्णाहुतिं हुत्वा शेषकर्म समाचरेत् ।आद्यं प्रदक्षिणं कृत्वा नृत्तगेयसमन्वितम् ॥२९५॥द्वितीयं च परिभ्रम्य गेयतूर्यसमन्वितम् ।तृतीयं तु परिभ्रम्य तूर्यैर्नानाविधैर्युतम् ॥२९६॥चण्डप्रचण्डप्रभृति महापीठान्तमेव च ।अर्घ्यपाद्यादिनाभ्यर्च्य गन्धाद्यैर्जलसंयुतम् ॥२९७॥परिवारान् समभ्यर्च्य यथापूर्वं प्रकल्पितम् ।बलिभ्रमान्तं कृत्वा तु महापीठप्रदक्षिणम् ॥२९८॥तृतीयसवने गत्वा पुन: कुर्यात् प्रदक्षिणम् ।शङ्खशब्दत्रयं कुर्यात् गोपुरे नि:स्वनं गता(?) ॥२९९॥विमानद्वारमासाद्य आर्घ्यं वा पुष्पमेव वा ।दत्वा तन्मूर्तिमन्त्रेण गर्भागारे(-रं?) प्रवेशयेत् ॥३००॥पीठस्य दक्षिणे पार्श्वे बलिबिम्बं प्रसादयेत् ।पाद्यादि चतुरो दद्यात् कर्मार्चायां तथैव च ॥३०१॥बलिपात्रस्थितं पुष्पं ममाग्रे निक्षिपेद्बुध: ।अन्नपीठं सतोयं च महापीठे विनिक्षिपेत् ॥३०२॥प्रक्षाल्य पादौ हस्तौ च आचम्य विधिना पुन: ।न्यासं कृत्वा विधानेन मूर्तिमन्त्रेण पूर्ववत् ॥३०३॥ककुदन्तं ललाटादि न्यसेद्देहे यथाक्रमम् ।सहस्रं वा शतं वापि अष्टाविंश्?ामथापि वा ॥३०४॥स्वेन स्वेन तु मन्त्रेण यथाशक्ति जपेत् क्रमात् ।नमस्कारं क्रमात् कृत्वा तन्मूर्तिस्तुतिभि: क्रमात् ॥३०५॥जपेन्मन्त्री स्वमन्त्रेण देवदेवस्य संनिधौ ।अस्मिन् काले तु देवेशस्तृप्यते(?)नात्र संशय: ॥३०६॥सर्वान् कामानवाप्नोति ग्रामराज्ञोश्च वृद्धिकृत्(?) ।अन्यथा देवदेवेश: कुप्यते(?)नात्र संशय: ॥३०७॥तस्मात् सर्वप्रयत्नेन जपेन्मूर्तिस्तुतिं बुध: ।पुष्पं दत्वा नमस्कृत्य मूलबेरे नयेद्धरिम् ॥३०८॥आवाहनं यथापूर्वं तद्वदुद्वासनं कुरु ।आलोक्य दत्तमित्याहु: बलिदानोत्तमं परम् ॥३०९॥संक्षेपेण मया प्रोक्तं वक्ष्ये दत्तावलोकनम् ।अथवा परिवाराणां बलिदानविधिक्रमम् ॥३१०॥प्रवक्ष्यामि मुनिश्रेष्ठ गुह्याद्गुह्यतरं श्रृणु ।झल्लरीमद्दलैर्युक्तं नानावाद्यसमन्वितम् ॥३११॥नित्योत्सवस्य पूर्वे तु बलिदानं समाचरेत् ।सर्वालंकारसंयुक्तं वितानध्वजसंयुतम् ॥३१२॥नृत्तगीतसमायुक्तं पश्चाद्बिम्बं परिभ्रमेत्(?) ।मध्यमं बलिदानं तच्चण्डादिभ्यो ह्यतन्द्रित: ॥३१३॥दत्तावलोक्यकं(-कनं?) नाम राज्ञो राष्ट्रस्य वृद्धिकृत् ।एवं दिने दिने कुर्यात् परिवारबलिक्रमम् ॥३१४॥एवं संक्षेपत: प्रोक्तो नित्योत्सवबलिभ्रम: ।विशेषं चात्र वक्ष्यमि परार्थे बलिकर्मणि ॥३१५॥शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।इन्द्रादिलोकपालान् वा कल्ययेत् क्रमयोगत: ॥३१६॥एकावरणमार्गं चेत् परिवारबलिक्रमम् ।प्रथमावरणे कुर्यात् विघ्नेशादीन् विवर्जयेत् ॥३१७॥चण्डादिशर्वपर्यन्तं संस्थाप्य बलिमाचरेत् ।पश्चाद्बलिं महापीठे संस्?थाप्य प्रथमं मुने ॥३१८॥शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ।नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ॥३१९॥पश्चाद्देवं महाभागो नीत्वार्घ्याद्यै:समर्चयेत् ।शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ॥३२०॥नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ।पश्चाद्देवं महाभागो नीत्वार्घ्याद्यै: समर्चयेत् ॥३२१॥पाद्योदकं गृहीत्वा तु भक्तान् संप्रोक्ष्य मन्त्रवित् ।एवं बलिविधि: प्रोक्तो एकावरणपूजने ॥३२२॥पुन:* प्राकारमत्रैव कल्पितश्चेन्मुनीश्वर*(?) ।चण्डादीशावसानं तु प्रथमावरणे न्यसेत् ॥३२३॥शेषाणि परिवाराणि द्वितीये च तृतीयके ।इन्?द्रादि सुप्रतिष्ठान्तं पुन:संस्थाप्य मन्त्रवित् ॥३२४॥पूर्वोक्तेन विधानेन बलिदानं समाचरेत् ।सा पूजा सफला भूत्वा वर्धते श्रीर्दिने दिने ॥३२५॥राज्ञो राष्ट्रस्य वृद्धि: स्यात् आलयस्य तथैव च ।एवं दिने दिने कुर्यात् तृतीयावरणावृतम्(?) ॥३२६॥एवमेव बलिं कुर्यात् द्वितीयावरणालये ।अर्घ्यावसानं पूवोक्तमार्गेण प्रथमे न्यसेत् ॥३२७॥विध्नेशादि(?)मुनिश्रेष्ठ प्रथमं(मे?) बलिमाचरेत् ।प्रथमावरणे पश्चात् इन्द्रादीनां बलिं हरेत् ॥३२८॥तृतीयावरणे पश्चात् कुमुदादिबलिं हरेत् ।*तं बलिं मध्यममिदं पूर्वा पूर्वा गरीयसी*(?) ॥३२९॥अन्यथाफलमाप्नोति दुर्भिक्षानर्थदा भवेत् ।तस्मात् कुर्यात् प्रयत्नेन बलिं विणोर्विधानत: ॥३३०॥वृक्षमूलेऽद्रिमूले वा कुड्ये वाऽत्र गुहान्तरे ।किंचिदस्मिन् विशेषोऽस्ति तत्क्रमं श्रृणु नारद ॥३३१॥देवाग्रे पूर्ववत् कल्प्य मण्डपं सपरिच्छदम् ।तत्रोपलिप्य विधिवत् हस्तमात्रं समंतत: ॥३३२॥तन्मध्ये शक्तिमावाह्य पात्रे पादुकसंयुते ।अर्घ्यादिसप्तमं दत्वा पृथक् पाद्यादिभि: क्रमात् ॥३३३॥मण्डपं परित: कल्प्य परिवारान् विशेषत: ।एकावरणमार्गेण मण्डपं भ्रामयेत् क्रमात् ॥३३४॥मत्स्यादीनां तु देवर्षे एवमेव समाचरेत् ।बलिदानं मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ॥३३५॥अन्यथाफलमाप्नोति कर्ता भर्ता च नश्यति ।केवलं बलिदानं तु प्रवक्ष्यामि श्रृणु क्रमात् ॥३३६॥होमोत्सवविहीनं चेत् साधको मुनिसत्तम ।पञ्चोत्तरदशान् सर्वान् चण्डादिद्वारपालकान् ॥३३७॥पूजयेन्मुनिशार्दूल गन्धपुष्पादिभि: क्रमात् ।तद्द्वारे बलिरित्याहुरधम: परिपठ्यते ॥३३८॥उत्तमेऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ।अधमेऽप्यधमं कुर्यात् विभवस्यानुरूपत: ॥३३९॥नित्योत्सवस्य पूर्वे तु कारयेत्तु विशेषत: ।बलिदानं मुनिश्रेष्ठ पश्चाद्देवं परिभ्रमेत् ॥३४०॥अधमाधममित्याहु: परिवारवि?हीनत: ।दत्तावलोक्यकं नाम तद्ग्रामस्यैव वृद्धिकृत् ॥३४१॥अलंकाराणि सर्वाणि चास्मिन् पूर्ववदाचरेत् ।इत्युत्तमादि संप्रोक्तो बलिकर्मविधिर्मया ॥३४२॥एवं सक्षेपत: प्रोक्तो नित्योत्सवविधिर्मुने ।साधकेच्छानुरूपेण कारयेदेकधाऽत्र तु ॥३४३॥आत्मार्थं वैदिकेनैव तान्त्रिकेणैव वा मुने ।परार्थे तान्त्रिकेणैव मिश्रितं वा हरिं परम् ॥३४४॥अर्चयेत् पूर्ववद्धीमान् राज्ञो राष्ट्रस्य वर्धनम् ।परार्थे वैदिकेनैव न कुर्यात्तु कथंचन ॥३४५॥तस्मात् सर्वप्रयत्नेन मिश्रितं तान्त्रिकेण तु ।स्वार्थ आवाहनं कुर्यात् फलकाद्वा पटादपि ॥३४६॥सूर्यमण्डलमध्याद्वा परार्थे मूलबेरकात् ।एकबेरं तु सन्त्यज्योद्वासनावाहनेन तु ॥३४७॥कुर्यात् स्वार्थे परार्थे च शैलबिम्बे विशेषत: ।तथैव बालगेहस्य बिम्बस्य मुनिसत्तम ॥३४८॥आवाहनं विसर्गं तु न स्मरेच्छेषमाचरेत् ।अशक्तोऽनधिकारी वा स्वार्थं य: कारयत्यपि ॥३४९॥परेण तत्कुलं सर्वं स्वकुलं तारयिष्यति ।विष्णोर्निवेदितं सर्वं ममापि प्रियमेव च ॥३५०॥हस्तयोरङ्गुलीनां तु स्वाङ्गुष्ठानामिकेन तु ।निर्माल्यं मोचयित्वा तु प्राणानायम्य मानस:(?) ॥३५१॥तेन(?) माल्यं च तद्द्रव्यं मम प्रीतिकरं शुभम् ।तन्माल्यं चैव तद्द्रव्यं भक्तानां चैव दापयेत् ॥३५२॥मत्पूजा तद्विमाने तु विना चेन्मुनिसत्तम ।सा पूजा निष्?फला भूयात् ग्रामस्यानर्थकृद्भवेत् ॥३५३॥काकश्वानादि(?)जन्तूनां पाषण्डीनां तथैव च ।वेदविक्रयकानां च वेदनिन्दकमेव च (?) ॥३५४॥शूद्रान्नतत्पराणां च नास्तिकानां विशेषत: ।एवमादीनि जातीनां(?) भक्षणार्थं न दापयेत् ॥३५५॥अविचारेण वा मोहात् दत्वा रौरवमाप्नुयात् ।न लङ्घयीत निर्माल्यं ममापि पुरुषोत्तम ॥३५६॥यश्?चेत्तु लङ्घयेत्(-ते?)मोहात् महान् दोषो भविष्यति ।महारौरवमायाग्नौ निमग्नस्तत्र दोषभाक् ॥३५७॥?द्विजात्यादित्रिवर्णान्तं वैष्णवानां विशेषत: ।त्रेताग्नीनां व्रतस्थानं यतीनां शान्तचेतसाम् ॥३५८॥दीक्षितानां तपस्वीनां वन्ध्यादिषु तथैव च ।एवमादीनि भक्तानां(?)दापयेद्देवसंनिधौ ॥३५८॥तस्मात् सर्वप्रयत्नेन वर्जितानां न दापयेत् ।एवं य: कारयेद्भक्त्या विष्णुपूजामनुत्तमाम् ॥३६०॥मोक्षदं मोक्षमिच्छूनां धनदं धनकामिनाम् ।अन्नदं चान्नमिच्छूनां सर्वकामप्रदं शुभम् ॥३६१॥इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाभेदकथनं नाम]विंशोध्याय:॥ N/A References : N/A Last Updated : January 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP