संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
पञ्चविंशोऽध्याय:

विश्वक्सेनासंहिता - पञ्चविंशोऽध्याय:

विश्वक्सेनासंहिता


नारद:---
भगवन् विष्णुभूतेश विष्वक्सेन नमोऽस्तु ते ।
ज्ञातुमिच्छाम्यहं सर्वं मङ्गलाङ्कुररोपणम् ॥१॥
पालिकालक्षणं चैव घटिकालक्षणं तथा ।
शरावस्तु कथं प्रोक्तं संख्यानां तु कथं भवेत् ॥२॥
तेषां वर्णश्च वै नाम द्रव्याणां च कथं भवेत् ।
तेषां चैवाधिदैवं च अङ्कुराणां शुभाशुभम् ॥३॥
एतत्सर्वं समाचक्ष्व परं कौतूहलं हि मे ।
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि मङ्गलाङ्कुरविस्तरम् ॥४॥
सौवर्णां पालिकां कुर्यात् राजतीं घटिकाकृतिम् ।
ताम्रैरेव शरावं तु सर्वेषां ताम्रमेव वा ॥५॥
मृद्भिर्वाप्यथ सर्वेषां(सर्वाणि?)कारयित्वा विचक्षण: ।
यथावित्तानुसारेण(?)कुर्याद्वा पालिकादिकान् ॥६॥
षट्त्रिंशच्चाङ्गुलोत्सेधं विस्तीर्णं तु तदर्धकम् ।
?B पादं च द्वादशं(!)ज्ञेयं पालिकानां प्रकीर्तितम् ॥७॥
चतुर्विंशाङ्गुलोत्सेधं विस्तारं द्वादशं(!)भवेत् ।
पञ्चास्या घटिका कार्या पञ्चाङ्गुलसुविस्तरम्(-रा) ॥८॥
पादं चाष्टाङ्गुलं ज्ञेयं घटिकानां प्रकीर्तितम् ।
द्वादशाङ्गुलमुत्सेधं विस्तारं तावदेव तु ॥९॥
पादं षडङ्गुलं ज्ञेयं शरावाणां तु सर्वश: ।
तत्तुद्रूपानुसारेण नालं कर्तृवशान् मुने ॥१०॥
कारयेत् क्रमयोगेन सुश्लक्ष्णं सुषिरान्वितम् ।
यथाकामं तु वा कुर्यात् पालिकादीन् क्रमेण तु ॥११॥
एवं ज्ञात्वा मुनिरेष्ठ कारयेदङ्कुरार्पणम् ।
प्रतिष्ठाद्युत्सवे चैव स्नपने यागदर्शने ॥१२॥
विषुवे चैव संक्रान्त्यामयने ग्रहणे तथा ।
शुभनक्षत्रयोगे च नामर्क्षेत्वथवा मुने ॥१३॥
अङ्कुरार्पणकार्यं तु कारयेत् सर्वकर्मणि ।
अनङ्कुरार्पणं कुर्यादनर्थमशुभावहम् ॥१४॥
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् ।
प्रत्येकं षोडश स्युर्वै मङ्लाङ्कुररोपणै:(-णे?) ॥१५॥
तेषां चैव तु नामानि वक्ष्यामि मुनिसत्तम ।
सुन्दरोऽसुन्दरश्चैव विक्रमो मुरशासन: ॥१६॥
वीरसेनो विरामश्च सोमदत्तो महाहनु: ।
यज्ञभुक् सर्वभुक् चैव मनुजो मर्दनस्तथा ॥१७॥
अग्निग्रीवो हयग्रीवो वायुग्रीवो महाहनु:(?) ।
इत्येते षोडश प्रोक्ता: पालिकानां तु(अत्र?)नामत: ॥१८॥
घटिकानां तु वक्ष्यामि याथातथ्यं हि नारद ।
वेगोऽवेग: सुवेगश्च वायुवेगस्तथैव च ॥१९॥
अग्निनाथो वायुनाथो हविर्नाथो हयांपति: ।
सर्वभुक् सर्वधृक् सर्वी सर्वभक्षस्तथैव च ॥२०॥
सुभुजो दुर्भुजश्चैव भुजगो वह्निजेश्वर: ।
इत्येते षोडश प्रोक्ता घटिकानां तु (-श्चापि?)नामत: ॥२१॥
शरावाणां तु नामानि तद्वक्ष्यामि यथाक्रमम् ।
राजराजो विराजश्च सुकेतु: कीर्तिवर्धन: ॥२२॥
इन्द्रकर्मा महाकर्मा देवकर्मा मनीषिण:(?) ।
यज्ञनाथो हविर्नाथ: सुलग्न: सुरनन्दन: ॥२३॥
मणिप्रियो महामायो देवमाय: सुखप्रिय: ।
इत्येते षोडश प्रोक्ता: शरावाणां तु(-श्चैव?)नामत: ॥२४॥
वर्णानां तु (वर्णांश्चापि?)प्रवक्ष्यामि यथावदनुपूर्वश: ।
सुन्दराद्यास्तु चत्वार: शुक्लवर्णा: प्रकीर्तिता: ॥२५॥
वीरसेनादयो रक्ता: श्यामा यज्ञभुगादय: ।
शेषास्तु पालिका: सर्वा: कृष्णवर्णा: प्रकीर्तिता: ॥२६॥
पालिका: षोडश(अथवा?)सर्वा: शुक्लवर्णापि वा मुने ।
एवमेव तु वर्णानि(-श्च?)घटिकानां तु सर्वश: ॥२७॥
सितरक्त: शरावाणां सर्वेषां तु प्रकीर्तित: ।
शरावाणां तु सर्वेषां रक्तवर्ण अथापि वा ॥२८॥
पालिका: शुक्लवर्णास्तु घटिका: कृष्णमेव च (-वर्णका:?) ।
शरावे षोडशेनैव रक्तवर्णमिति स्मृतम् ॥२९॥
उक्तस्तु वर्णविस्तारो बीजन्यासविधिं श्रृणु ।
प्रासादे मण्डपे वापि प्राकारे मुनिसत्तम ॥३०॥
तत्रोपलिप्य विधिवत् मण्डलं चतुरश्रकम् ।
तत्रस्थं वै पदं कुर्यादष्टचत्वारिकं क्रमात् ॥३१॥
शालिपिष्टं सतोयेन(?) सूत्रं संलिप्य मूलया ।
प्राक् प्रत्यक् नवसूत्रं तु प्रसार्यास्फाल्य भूतले ॥३२॥
तथैव कारयेत् सूत्रं द्वादशं मुनिसत्तम ।
दक्षिणाद्युत्तरान्तेन चास्फाल्यास्त्रेण मन्त्रत: ॥३३॥
विमृजेत्तु पदान् सम्यक् वीथ्यर्थं मुनिसत्तम ।
द्विपदं द्विपदं त्यक्त्वा तृतीयं मार्जयेत् क्रमात् ॥३४॥
सार्धतालप्रमाणं वा तालमानमथापि वा ।
संज्ञात्वात्र मुनिश्रेष्ठ कारयेत् सुपदान् पृथक् ॥३५॥
तत्पदेषु पुन: सम्यक् अर्चयेद्गन्धवारिणा ।
पश्चात्तु पूरयेद्धान्यैस्तण्डुलै: शालिसंभवै: ॥३६॥
त्रिपङ्क्तीकृत्य तान् सर्वान् प्रत्येकं क्रमयोगत: ।
आग्नेयादीशपर्यन्तं विन्यसेद्धान्यपूर्वकम् ॥३७॥
स्थापयित्वा तु मन्त्रेण द्वादशार्णेन वै तत: ।
व्यस्तै: पृथक् पृथक् स्थाप्य सर्वानेव यथाक्रमम् ॥३८॥
ततस्तु पूरयेत् सम्यक् मृद्वालुककरीषकै: ।
पूरयित्वा समान् सर्वान् अर्चयित्वा तत: क्रमात् ॥३९॥
गन्धपुष्पादिभिश्चैव पूजयित्वा विचक्षण: ।
पूजयित्वा तत: पश्चात् बीजानादाय मन्त्रवित् ॥४०॥
तिलमुद्गं तथा माषनिम्बनिष्पावशालय: ।
यवश्यामाकनीवारकुलुत्थकंकुसर्षपा: ॥४१॥
एतानि द्वादश प्रोक्ता(?) मङ्गलाङ्कुरकर्मणि ।
पयोभि: क्षालयेत् पूर्वं बीजेन परमेष्टिना ॥४२॥
पुनश्च क्षालयेत् पश्चात् बीजेन पुरुषात्मना ।
जितन्त इति मन्त्रेण विन्यसेत्तु शनै: शनै: ॥४३॥
आग्नेयादीशपर्यन्तं प्रतिपङ्क्ति यथाक्रमम् ।
ततस्तु दूर्वाङ्कुरयुक् घृतारोपणमाचरेत् ॥४४॥
ततस्तु चाहतैर्वस्त्रैर्वेष्टयित्वा पृथक् पृथक् ।
पालिकां क्षेत्रपूर्वे वा चोत्तरे वा तु होमयेत् ॥४५॥
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुती: ।
संपाताज्येन संप्रोक्ष्य पालिकादीन् विशेषत: ॥४६॥
निवाते संप्रकुर्वीत मण्डपेशानकोणके ।
नवाहं सप्तरात्रं वा अर्चयेद्गन्धवारिणा ॥४७॥
शिरीषाङ्कुरपूर्वैस्तु माल्यैर्वेष्ट्य पृथक् पृथक् ।
दुर्वाङ्कुरैर्मुनिश्रेष्ठ पूर्वे वा वेष्टयेत् पृथक्(?) ॥४८॥
पुण्याहूपर्वं संपूज्य गन्धाद्यक्षतसंयुतम् ।
बलिं च सर्वतो दद्यादष्टदिक्षु समन्तत: ॥४९॥
हविषा गन्धपुष्?पैस्तु पूजयेत्तु दिने दिने ।
बीजन्यास इति प्रोक्त: देवतानां ब्रवीमि ते ॥५०॥
चतस्रो वासुदेवाद्या मूर्तयो *दैविकास्तथा* ।
शङ्खादीन्यायुधान्यष्टौ पालिकानां तु देवता: ॥५१॥
वाराहो नारसिंहश्च श्रीधरो हयशीर्षक: ।
जामदग्न्यश्च रामश्च वामनो यदुनन्दन: ॥५२॥
नरो नारायणश्चैव हरि: कृष्णस्तथैव च ।
मत्स्य: कूर्मश्च तार्क्ष्यश्च अनन्तो भुजगोत्तम: ॥५३॥
इत्येते षोडश प्रोक्ता: घटिकानां तु देवता: ।
विष्ण्वाद्या द्वादश ये च हंसोऽथ बल एव च ॥५४॥
कपिलश्च हलश्चैव शरावाणां तु देवता: ।
अपरे चन्द्राग्न्यादित्यदेवतात्रयमेव तु ॥५५॥
विष्णुं च ब्रह्मरुद्रौ च अङ्कुराणां मुनीश्वर ।
शुभमाप्नोति पीतेषु शुक्ले देवत्वमाप्नुयात् ॥५६॥
कृष्णरक्तावुभौ वर्णौ अशुभं कुर्वते सदा ।
पञ्चत्वमाप्नुयाच्छीघ्रमप्ररूढे सकर्तृकम् ॥५७॥
श्यामाङ्कुरो(-राद्?)द्रव्यनाश: कर्तु: कारयितुर्भवेत् ।
एतेषां चापि नीरोगमुत्सवस्य मयेरि?तम्(?) ॥५८॥
एतत्ते कथितं सम्यगङ्कुराणां सुविस्तरम् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां अङ्कुर्रापणविधिर्नाम
पञ्चविंशोध्याय:॥

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP