संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| द्वाविंशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - द्वाविंशोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम द्वाविंशोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अथात: संप्रवक्ष्यामि स्नपनस्य विधिं परम् ।प्रासादाग्रे मुनिश्रेष्ठ मण्डपं कारयेत् क्रमात् ॥१॥त्रिंशद्धस्तायतं ब्रह्मन् तदर्धं विस्तृतं भवेत् ।एवं ज्ञात्वा मुनिश्रेष्ठ मण्डपं तु शुभं परम् ॥२॥शिल्पशास्त्रानुसारेण शेषमस्मिन् समाचरेत् ।यथासंभवतो वापि चाग्रे मण्डपमाचरेत् ॥३॥मण्डपं तु त्रिधा कृत्वा तन्मध्ये कलशान् न्यसेत् ।पश्चिमस्यां तृतीये तु भागे तु स्नानवेदिकाम् ॥४॥कारयेच्छास्त्रदृष्टेन (-दृष्ट्या तु?) तत्क्रमं चाधुना श्रृणु ।द्विहस्तमेकहस्तं वा संज्ञात्वा मानमत्र तु ॥५॥कारयेद्वेदिकां पूर्वं विस्तारायामतादृशम् ।हस्तोद्धृतं तदर्धं वा वेदिकालक्षणं मुने ॥६॥चतुरङ्गुलमुत्सेधं घनं तादृशमुच्यते ।वेदिकायां तदूर्ध्वे तु मेखलां परितो न्यसेत् ॥७॥कर्णिकासहितं मध्ये चाष्टपत्रकमुत्तमम् ।कारयेदुत्तरे तस्य स्नानकुल्यं यथाक्रमम् ॥८॥तालमानेन कर्तव्यं स्नानकुल्यं समेखलम् ।पूर्ववन्मेखलां कुर्यात् मध्ये धारां समाचरेत् ॥९॥उत्तरे वेदिकायां तु स्नानश्वभ्रं तु कारेयत् ।शिलाभिरिष्टकाभिर्वा मृदा वा वेदिमाचरेत् ॥१०॥एवं संक्षेपत: प्रोक्तं विशेषं कथयामि ते ।नित्ये नैमित्तिके चैव सर्वसंपत्सुखावहम् ॥११॥सौवर्णं राजतं वापि ताम्रं वा रीतिकां तथा ।मिश्रलोहमयं वापि संगृह्यास्त्रेण नारद ॥१२॥कारयेद्वेदिकां तत्र चतुर्गात्रसमन्विताम् ।कारयेच्छिल्पिभि: सम्यक् आचार्यानुज्ञया मुने ॥१३॥पेवौक्तेन विधानेन काष्ठैर्वा ?वेदिमाचरेत् ।एवं संक्षेपत: प्रोक्?तं सूत्रपातविधिं श्रृणु ॥१४॥प्राक्प्रत्यग्ब्रह्मसूत्रं तु कारयेत् प्रथमं मुने ।मध्यभागं समाश्रित्य तत्सूत्रं ब्रह्मवृद्धिदम् ॥१५॥क्षत्रियस्य जयार्थ तत् वैश्यस्य सुखवृद्धिदम् ।शूद्र: सद्गतिमाप्नोति तस्मात्तत्सूत्रमाचरेत् ॥१६॥प्रागग्रानुदगग्रान् भास्करसूत्रान् सुशालिपिष्टाक्तान् ।*पद्मातो तमिस्राष:*(?) पार्श्वस्था:सर्वतस्त्यक्त्वा ॥१७॥*चतस्रोली*(?)वीथ्यर्थं प्रमृज्य पङ्क्त्यापि पार्श्वयो: ।सूत्रं व्यूहानां तव नवपदकाङ्गुलायामान् ॥१८॥कृत्वा विभजेत् पश्चात् प्रणवेनाभ्युक्ष्य पदशुद्ध्यै ।प्रत्येकं प्रस्थेनापूर्य कलशानि शालीनाम् ॥१९॥प्रस्थाप्य कूर्चयुक्तान्यथ सर्वद्रव्याणि सापिधानम् ।*शुद्धान्याढकपूर्णापूर्णान्यथ* गन्धाद्यर्च्यदिवसान्तम् ॥२०॥प्रतियूपं नववस्त्रैरावेष्ट्य पुनस्तु पाद्यादि यवोदकम् ।......रामं कुर्यात् स्नपनं शास्त्रार्थतत्त्वज्ञ: ॥२१॥एतल्लक्षणहीनान् देवान् मानुषाद्वापि विरोधात् ।तत्स्थानस्यानुपपत्या सूत्रपातेऽप्यकौशल्यात् ॥२२॥?Bनारद:---प्रत्यासन्ने स्नपने किं कर्तव्यं त्रिभिर्हरेर्भक्तै: ।स्नपनं प्रश्नमिमं लोकहितार्थ ब्रवीतु भगवान् ॥२३॥विष्वक्सेन:---वक्ष्याम्युत्तरमस्य श्रृणु भक्तानां हिताय तव साधो ।............तत्स्थाने व्रीहिर्नास्ति यत्र तत्रापि ॥२४॥व्रीहिस्थाने विलिखेत् विष्णुबीजं सबिन्दुनामिकया ।प्रणवं जपन् प्रसन्नस्तदुपरि संस्थाप्य कलशानि ॥२५॥अष्टाक्षरेण कुर्यात् स्नपनं सर्वार्थसाधको भवति ।इत्युक्तं मम गुरुणा स्नपनमिदं सारतस्तवोद्दिष्टम् ॥२६॥द्रव्याणां परिमाण्?ां *द्रव्याख्यानामाढकं*(?)कथितम् ।*तदलाभेऽर्धं वापि नि त्रिदशमुने त्रीणि रणानाम्* ॥२७॥...*इध्मानां शुष्कानामेतत्त्रिगुणं तथात्राणाम्*(?) ।*सुस्निग्धं तनुसूत्रपञ्चरत्न्यायतं नवं वस्त्रम्*(?) ॥२८॥स्नपनान्ते पूर्वोक्तं पङ्कजमालिख्य तत्र हरिबीजम् ।कूर्चस्योपरि कुर्यात् रजनीचूर्णमाढकपूर्णम् ॥२९॥संप्रोक्ष्य प्रागुक्ताभावेऽर्धाढकं वापि ।प्रणवं जपन् मथित्वा कूर्चेनाधोमुखं तदेवात्र ॥३०॥प्रक्षिप्य सापिधानं पूज्य यथापूर्वमभिषेकम् ।कृत्वार्धस्नपनं वालुकवृक्षाम्रकशुक्लोदै: ॥३१॥आच्छाद्यांशुकमुख्यैरर्घ्याद्यभ्यर्च्य दीपान्तम् ।निवेद्य हविर्महता त्रिदशमुने साधक: सिद्ध: (?) ॥३२॥द्रव्याणां देवतानां च लक्षणं कथयामि ते ।संक्षेपेण मुनिश्रेष्ठ स्नपनेऽस्मिन् यथाक्रमम् ॥३३॥आढकेन तु संपूर्णं कपिलाज्यमनुत्तमम् ।संगृह्य मुनिशार्दूल देवेशमभिषेचयेत् ॥३४॥शुद्धतोयं तु संगृह्य क्षीरवृक्षोद्भवेन्?धनै: ।सिद्धं देवगृहे सम्यक् उष्णोदकमनुत्तमम् ॥३५॥वज्रं च मौक्तिकं चैव मणिवैडूर्यमेव च ।प्रवालं स्फटिकं चैव कदलीफलमेव च ॥३६॥बिल्वमामलकं चैव कदलीफलमेव च ।नारिकेलं च हव्यं च तथा वै बीजपूरकम् ॥३७॥पनसाम्रं तथाष्टाङ्गं फलाम्भ: परिकीर्तितम् ।सुवर्णं रजतं ताम्रं रीतिमायसमेव च ॥३८॥त्रपुकं लोहतोयस्य चाङ्गानि परिपठ्यते ।रजनी सहदेवी च शिरीषं सूर्यवर्तनी ॥३९॥कुशाग्राणि सदद्राभ (सदाभद्रं?) मार्जनद्रव्यमुच्यते ।कुङ्कुमं चागरुं चैव चन्?दनोशीरमेव च ॥४०॥हरिबेरं (ह्रीबेरं च?) मुरं चैव कोष्ठं मांसीते पठ्यते ।गन्धद्रव्यमिति प्रोक्तमक्षतोदकमुच्यते ॥४१॥क्षालितं शुद्धतोयेन पञ्चमन्त्रै: क्रमान्मुने ।प्रस्थस्यार्धाक्षतं चैव कलशे निक्षिपेद्बुध: ॥४२॥पञ्चविंशतिभिर्वापि तस्यार्धं वार्धमेव वा ।यवं गृह्य मुनिश्रेष्ठ तोयमध्ये विनिक्षिपेत् ॥४३॥श्यामाकं विष्णुपर्णी च दूर्वा चाम्बुजमेव च ।पाद्यद्रव्यमिति प्रोक्तं समासेन महामते ॥४४॥घृतवद्दधि संगृह्य मन्त्रेणाद्येन मन्त्रवित् ।पूरयेत् कलशे मध्ये चार्घ्यद्रव्यमिहोच्यते ॥४५॥एवं गन्धं फलं पुष्पं सिद्धार्थाक्षतमेव च ।कुशाग्राणि तिलं चैव अष्टाङ्गं चार्घ्यमुच्यते ॥४६॥क्षीरमाज्येन संयुक्तं मध्यमे कलशे न्यसेत् ।अक्षतं जातिकक्कोलं लवङ्गं तिलमेव च ॥४७॥द्रव्याण्याचमनीयार्थपात्रतोये विनिक्षिपेत् ।वृक्षोद्भवं नवं गृह्य मधु चाढकमेव च ॥४८॥तस्यालाभे तु सर्पि: स्यात् इत्थं लक्षणमुच्यते ।प्रस्थपादं घृतं चैव दधि तद्द्विगुणं भवेत् ॥४९॥त्रिगुणं ?क्षीरसंयुक्तं गोमयं तु चतुर्गुणम् ।षड्गुणं चैव गोमूत्रं पञ्चगव्यस्य लक्षणम् ॥५०॥पलाशखदिराश्वत्थबिल्वमौदुम्बरं तथा ।वैकङ्कतशमीजालां (-जम्बू?)कषायाङ्गमिति स्मृतम् ॥५१॥कपिलाज्यस्याभावे तु चान्यद् गोघृतमुच्यते ।उष्णोदकस्याभावे तु पुष्पतोयं प्रशस्यते ॥५२॥रत्नानामप्यलाभे तु मुक्तमेकं (?) प्रशस्यते ।फलानामप्यलाभे तु कदलीफलमुत्तमम् ॥५३॥लोहानामप्यलाभे तु सुवर्णं शस्यते परम् ।मार्जने सहदेवी च शेषालाभे प्रशस्यते ॥५४॥गन्धद्रव्ये तथोशीरं शेषालाभे प्रशस्यते ।अभावे चाक्षतस्यैव यथासंभवमाचरेत् ॥५५॥यवाभावे तु शाली (-लि?) स्यात् वेणुबीजमथापि वा ।द्रव्याणामप्यलाभे तु पाद्ये दूर्वा प्रशस्यते ॥५६॥एतेषामप्यलाभे तु अर्घ्ये सिद्धार्थकं परम् ।शेषालाभे तु कक्कोलं शस्तमाचमनीयके ॥५७॥अभावे पञ्चगव्यस्य गोमयाद्यं प्रशस्यते ।दधिगोमयदुग्धाज्यं यथालाभं प्रशस्यते ॥५८॥अश्वत्?थं च प्रशस्तं स्यात् शेषालाभे कषायके ।द्रव्याणामप्यलाभे तु पुष्पैरेव प्रकल्पयेत् ॥५९॥नववस्त्राणि सर्वाणि सर्वद्रव्यसमं भवेत् ।तस्मात् सर्वप्रयत्नेन वस्त्राभावे तु नेष्यते ॥६०॥द्रव्याणां लक्षणं प्रोक्तं घृतादि मुनिसत्तम ।यावद्वस्त्रावसानं हि तावद्द्रव्याणि निक्षिपित् ॥६१॥शेषास्तु कलशा:सर्वे शुद्धोदकसमन्विता: ।अत्र सप्तदश प्रोक्ता: प्रधानकलशास्तु ये ॥६२॥तान् सर्वान् विष्णुगायत्र्या स्थापयेच्च पृथक्पृथक् ।शेषानन्यांश्चतुष्षष्टि द्वादक्षाक्षरविद्यया ॥६३॥स्थापयेत् कलशान् सर्वान् प्राङ्मुखो वाप्युदङ्मुख: ।नववस्त्राणि सर्वाणि मूर्तिमन्त्रमनुस्मरन् ॥६४॥कलशानां तदूर्ध्वे तु प्रागग्रेण तु साधक: ।तोरणान् कलशान् सर्वान् गन्धपुष्पादिनार्चयेत् ॥६५॥चर्मरोगादिरहितं कृमिकीटविवर्जितम् ।*रज:स्वेन गुहा:शुक्योलूखले क्षिप्य साधक:*(?) ॥६६॥पुन:पुनर्मुनिश्रेष्ठ द्वादशाक्षरविद्यया ।गणिकादीनलंकृत्य मङ्गलालापनैर्युतम् ॥६७॥शङ्खभेर्यादिसंयुक्तं घातयेद्वैष्णवै:सह ।मुसलं संग्रहेत्तत्र घातयेच्च पुन: पुन: ॥६८॥तत: परागं संगृह्य पूरयेत् कलशं क्रमात् ।कलशान्ते मुनिश्रेष्ठ देवेशमभिषेचयेत् ॥६९॥एवं द्रव्याणि (द्रव्यं तु?) संप्रोक्तमुद्धारणमथो मुने ।पाद्यं तु प्रथमं दद्यात् द्वितीयं चार्घ्यमुच्यते ॥७०॥तृतीयमाचमनीयं पञ्चगव्यं चतुर्थकम् ।घृतं तु पञ्चमं विद्यात् दधि षष्ठं तथैव च ॥७१॥सप्तमं तु तत: क्षीरं मधु चैव तथाष्टमम् ।कषायं नवमं चैव उष्णाम्भो दशमं स्मृतम् ॥७२॥एकादश्यां(-शं?) फलाम्भस्तु द्वादश्या(-शं?)मार्जनोदकम् ।त्रयोदशं च सांभोजं रत्नतोयं चतुर्दशम् ॥७३॥लोहं पञ्चदशं ज्ञेयं षोडशं गन्धवारि च ।यवोदकं सप्तदशं एवं चोद्धारणक्रम: ॥७४॥स्वे स्वे च नवके चाष्टौ सह तेन समुद्धरेत् ।मध्यमं नवकं मुक्त्वा ऐन्द्रादिक्रमयोगत: ॥७५॥मध्यमान् कलशान् सर्वान् विष्णुगायत्रियोद्धरेत् ।शेषमष्टाक्षरेणैव वासस्तेनैव मोचयेत् ॥७६॥तत: पुरुषसूक्तेन दद्याद्वा मुनिसत्तम ।देवदेवमनुस्मृत्य दद्यात् पाद्यादिकान् क्रमात् ॥७७॥पाद्यादिनवकान् स्नाप्य उपस्नानं तु कारयेत् ।वस्त्रं दत्वा तु पाद्यादीन् गन्धादीनपि दापयेत् ॥७८॥नवकानां तथान्ते तु कुर्यादेवं विचक्षण: ।मध्यमे नवकेप्येवं कलशान्[सं]प्रदापयेत् ॥७९॥एवं चोद्धारणं प्रोक्तं कथयाम्यधिदैवतम् ।घृतस्य दैवतं विष्णुरुष्णाम्भस्य(?)दिवाकर: ॥८०॥रत्नानां देवतं ब्रह्मा कुबेरश्च फलाम्भस: ।लोहोदकस्य वसवो विश्वेदेवाश्च मार्जनम्(ने?) ॥८१॥गन्धर्वा गन्धतोयस्य निरृतिश्चाक्षतस्य तु ।आप्या यवोदकस्यापि पाद्यस्य पितरस्तथा ॥८२॥क्षीरर्घ्यस्य भवेद्देव: सरस्वत्याचमनीयके ।पञ्चगव्यस्य दक्षस्तु दध्न: शक्रस्तु दैवतम् ॥८३॥पयसो दैवतं सोमो महेन्द्रो मधुनस्तथा ।कषायस्य यमो देवो [वराहस्तु गुलाम्भस: ॥८४॥तथा चेक्षुरसस्यापि नारसिंहस्तु दैवतम् ।श्रीधरो नारिकेलस्य हयास्य: शान्तिवारिण: ॥८५॥मूर्तयो वासुदेवाद्याश्चतस्रो मङ्गलाम्भस: ।]शुद्धोदकानां सर्वेषां देव्य: शान्त्यादय: क्रमात् ॥८६॥कलशानां तु सर्वेषामश्विनौ दैवतं परम् ।चक्रिकाणां तु सर्वेषां दैवतं सप्तमातर: ॥८७॥वासवो(-सां?)देवतं विष्णु: सर्वेषां विष्णुरेव वा ।मूलमन्त्रेण वा सर्वं कुर्यान्मन्त्रविचक्षण: ॥८८॥अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ।कोणे तु कलशा ये तु द्वात्रिंशच्छुद्धवारय: ॥८९॥?तैर्विहीनं तु यत्स्नानं तत्स्यादधममध्यमम् ।यच्छुद्धवारिकलशैर्हीनं सर्वैर्यथादिशम् ॥९०॥केवलं सप्तदशभि: कृतं तदधमाधमम् ।स्नपनादौ तु कर्तव्यं क्रमात् कौतुकबन्धनम् ॥९१॥ऊर्णासूत्रयुतं सूत्रं साधितं तण्डुलोपरि ।सौवर्णं रजनीचूर्णमाढकं वाधिकं तु वा ॥९२॥आढकार्धं तदर्धं वा *चूर्णं कृत्य*(?) यथाविधि ।स्नपनानां क्रमादन्ते देवमूर्ध्नि निधापयेत् ॥९३॥शुद्धस्नानं तत: कृत्वा अलंकृत्यार्चयेद्धरिम् ।पुनराचमनं दत्वा दर्पणं दर्शयेत् क्रमात् ॥९४॥नृत्तगीतसमायुक्तं वेदाध्ययनसंयुतम् ।छत्रचामरसंयुक्तं धूपदीपसमन्वितम् ॥९५॥देवस्य शिरसि भ्राम्य चाष्टपिण्डानि दीपयुक् ।इन्द्रादीशानपर्यन्तं निक्षिपेत् पिण्डमस्त्रत: ॥९६॥महापीठे नयेद्देवं यथायोग्यं प्रवृद्धिकृत् ।महाहविर्नवेद्याथ पूर्ववद्देशिकोत्तम: ॥९७॥पूर्वे वा चोत्तरे वापि नित्याग्नौ वा तु होमयेत् ।समिदाज्यचरूणां तु यथाकलशसंख्यया ॥९८॥आचार्यं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकै: ।अत्रोपयोग(-युक्त?)द्रव्याणि आचार्याय प्रदापयेत् ॥९९॥यवैश्च वेणुबीजैश्च नीवारैर्गौरसर्षपै: ।नीलैश्च तुलसीपत्रै: भवेद्धात्र्युदकं क्रमात् ॥१००॥एतेषामप्यलाभे तु तुलसीपत्रमुत्तमम् ।इन्द्रवल्यङ्कुरं चैव अश्वत्थाङ्कुरमेव च ॥१०१॥एकपत्रं(-द्मं?) च पद्मं च भवेद्वै मङ्गलोदकम् ।एतेषामप्यलाभे तु चाश्वत्थाङ्कुरमुत्तमम् ॥१०२॥तदलाभे मुनिश्रेष्ठ इन्द्रवल्यङ्कुरो भवेत् ।एकपद्मं च पद्मं च यथासंभवमाचरेत् ॥१०३॥एवं संक्षेपत: प्रोक्तं स्नपनं सर्वसिद्धिदम् ।[नारद:]---भगवन् विष्णुभूतेश विष्णुपारिषदेश्वर ॥१०४॥स्नपनं श्रोतुमिच्छामि कुम्भोत्तरसहस्रकम् ।बहुश: स्नपनं पूर्वं श्रुतं विष्णुमुखात् प्रभो ॥१०५॥त्वया च कथितं यद्वै इममेव विधिं प्रति ।तस्माद्यथा महाबाहो प्रीतिर्यद्यस्ति चेन्मयि ॥१०६॥विष्वक्सेन:---अथात: संप्रवक्ष्यामि कुंभोत्तरसहस्रकम् ।प्रासादाग्रे तु कर्तव्यं मण्डपं च यथाविधि ॥१०७॥द्वात्रिंशद्धस्तमायामं विंशद्धस्तं तु विस्तरम् ।*चत्वारिंशच्च पङ्क्तोना*(?)मष्टतालं पृथक्पृथक् ॥१०८॥तद्भागे कलशस्थाने पञ्चविंशतिपङ्क्तिके ।तस्य मध्यमभागे तु द्वादशं तालसंमितम् ॥१०९॥चतुस्तंभसमायुक्तमुत्सेधं तावदेव तु ।परित: सप्ततालानि द्वादशस्तम्भसंयुतम् ॥११०॥तद्बहि: सप्ततालानि विंशतिस्तम्भसंयुतम् ।पश्चिमे स्नानभागे तु तत्पञ्चादशभागिके ॥१११॥तस्य मध्यमभागे तु द्वादशं तालमिष्यते ।स्तंभाष्टदशसंयुक्तं स्नानवेदिं यथाविधि ॥११२॥शेषाणामपि पङ्क्तीनां सप्ततालेन मीयते ।सर्वेषामपि तालानां चतुष्षष्टिर्यथाक्रमम् ॥११३॥चत्वारिंशत् सुविस्तारं तालानां परिमीयते ।चतुरुत्तरपञ्चाशत् स्तंभानां परिकीर्तितम् ॥११४॥भूमिभाग इति प्रोक्त: शेषाणां कथयामि ते ।चतुस्तालेन विस्तीर्णं तदर्धायामसंयुतम् ॥११५॥तदर्धमुपपीठं तु उपरिष्टादुपानहम् ।जगतीकुमुदं चैव पट्टिकोपरि शोभितम् ॥११६॥समं स्निग्धं प्रकुर्वीत पीठं तत्र विचक्षण: ।उत्तरे वेदिकायास्तु स्नानश्वभ्रमं तु कारयेत् ॥११७॥धाराकुल्या च कर्तव्या श्वभ्रं वा वेदिकोपरि ।मूलमध्याग्रपर्यन्तं नहनं तु प्रमाणत: ॥११८॥पीठिकावलयं कुर्यात् पादपीठस्य चोपरि ।तत् पात्रं तु तत: कुर्यात् वृत्तं वा चतुरश्रकम् ॥११९॥चतुरङ्गुलमुत्सेधं तावद्विस्तारसंयुतम् ।कुल्या तदनुयुक्ता स्यादुदकश्वभ्रगोचरम् ॥१२०॥पीठिकालक्षणं प्रोक्तं शेषान् वक्ष्याम्यशेषत: ।चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥१२१॥चामरैस्तालवृन्तैश्च घण्टा नानापताकयुक् ।लम्बयेन्मुक्त(?)दामानि द्वारदेशेषु मन्त्रवित् ॥१२२॥अलंकृत्य तत: पश्चात् पुण्याहं तत्र कारयेत् ।मार्जनं विधिना सम्यक् मण्डपालेपनं तत: ॥१२३॥प्रोक्षयेत् पञ्चगव्येन साधको मन्त्रवित्तम: ।पश्चात्तु पूजयेत् सर्वद्वारेषु द्वारपालकान् ॥१२४॥कुम्भांस्तु पूजयेद्द्वौ द्वौ द्वारदेशविधानत: ।ततस्तु तोरणान् पूज्य केतूंश्चापि तथैव च ॥१२५॥स्वनाम्ना पूजयित्वा तु गन्धपुष्पादिभि: क्रमात् ।वेष्टयेत्तोरणस्तम्भानृ क्षौमै: कौशेयकैरपि ॥१२६॥कलशस्थानमासाद्य शालिपिष्टैर्विचित्रयेत् ।?ब्राह्मं तु मध्यमं भागं दैविकं तदनन्तरम् ॥१२७॥तृतीयं मानुषं भागं पदमेवं न्यसेत् क्रमात् ।ब्रह्मस्थाने पदं कुर्यात् एकाशीतिविधानत: ॥१२८॥घृतमुष्णोदकं चैव रत्नाम्भ: फलवारि च ।लोहाम्भो मार्जनं चैव गन्धाम्भोऽक्षतमेव च ॥१२९॥यवोदकं च इत्येते मध्यमे नवके न्यसेत् ।तस्यैव परित: कुर्यात् दिक्ष्वष्टसु समन्तत: ॥१३०॥पाद्यार्घ्याचमनीयं च पञ्चगव्यं ततो दधि ।पयोमधुकषायं च दिक्ष्विन्द्रादिषु विन्यसेत् ॥१३१॥पाद्यादि पञ्चगव्यान्तं महादिक्षु निवेशयेत् ।दध्यादि च कषायान्तं कोणेषु विनिवेशयेत् ॥१३२॥एवं द्रव्याणि चोक्तानि विन्यसेन्नवकं प्रति ।मध्ये मध्ये विनिक्षिप्य द्रव्याणां तु यथाक्रमम् ॥१३३॥शेषान् शुद्धोदकान् सर्वान् चतुष्षष्टिं तु कारयेत् ।ततस्तु दैविके भागे पदं कुर्वीत साधक: ॥१३४॥दिशि चापि तथा कोणे कुर्यात् सप्तदशं क्रमात् ।मध्ये मध्ये तथा कुर्यात् द्रव्यकुम्भं विचक्षण: ॥१३५॥ऐन्द्रे तु मध्यभागे तु न्यसेच्चन्दनकर्दमम् ।याम्ये तु मध्यभागे तु न्यसेत् कुङ्कुमकर्दमम् ॥१३६॥वारुणे मध्मभागे तु न्यसेत् कर्पूरकर्दमम् ।सौम्ये तु मध्यभागे तु न्यसेदौशीरकर्दमम् ॥१३७॥आग्नेये मध्यभागे तु विन्यसेत्तिलतैलकम् ।नैरृते मध्यभागे तु न्यसेदामलतैलकम् ॥१३८॥वायव्ये मध्यभागे तु न्यसेत् सर्षपतैलकम् ।ईशाने मध्यभागे तु न्यसेत् कर्पूरतैलकम् ॥१३९॥[चन्दनं कर्दमांभयच कुङ्कुमं कर्दमं तथा ।कर्पूरकर्दमांभश्च औशीरं कर्दमं तथा ॥१४०॥ऐन्द्रादि सोमपर्यन्तं विन्यसेत्तु विचक्षण: ।तिलं चामलकं तैलं तथा सर्षपतैलकम् ॥१४१॥तथा कर्पूरतैलं च आग्नेयादिषु विन्यसेत् ।]पुरुषश्चैव सत्यश्च नरो नारायणोऽच्युत: ॥१४२॥अनिरुद्धो हरि: कृष्णश्चन्दनाद्यष्टदैवता: ।शेषान् शुद्धोदकै: सर्वान् अष्टाविंशच्च तत्क्रमात् ॥१४३॥पूरयेत् सर्वत: पश्चादाचार्य: सुसमाहित: ।तृतीये मानुषे भागे चैन्द्रादीन् षोडश क्रमात् ॥१४४॥प्रत्येकं तु पदं कुर्याच्चत्वारिंशन्नवोत्तरम् ।तेषां मध्ये तु विन्यस्य द्रव्यकुम्भं विचक्षण: ॥१४५॥गुलं तु विन्यसेत् प्राच्यादि(-मि?)क्षुतोयं तु दक्षिणे ।प्रतीच्यां नालिकेराम्भ: उदीच्यां शान्तिवारि च ॥१४६॥वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।गुलाद्यानि च चत्वारि तस्य तस्याधिदैवतम् ॥१४७॥आग्नेयादिषु कोणोषु मङ्गलांश्चोपविन्यसेत्(?) ।मूर्तयो वासुदेवाद्याश्चतस्रो मङ्गलाम्भस: ॥१४८॥इन्द्राग्न्योर्मध्यभागे तु विन्यसेद्धिमतोयकम् ।धर्मपावकयोर्मध्ये विन्यसेच्च तिलोदकम् ॥१४९॥यमनैरृतयोर्मध्ये विन्यसेत्तण्डुलोदकम् ।निरृतेर्वरुणस्यापि मध्ये निर्झरवारि च ॥१५०॥मध्ये वरुणवाय्वोश्च विन्यसेद्वृष्टितोयकम् ।वायव्यसोमयोर्मध्ये विन्यसेच्च कुशोदकम् ॥१४१॥ईशानसोमयोर्मध्ये विन्यसेत्तुलसीजलम् ।तथेशानेन्द्रयोर्मध्ये न्यसेत् सामुद्रकं जलम् ॥१५२॥तत: सप्तदशान् कुम्भान् उत्तराननषष्टिकान् ।पूरयेत् पूर्ववत् सम्यक् गन्धपुक्तेन वारिणा ॥१५३॥अर्चयेच्च तत: पश्चात् मूलमन्त्रेण मन्त्रवित् ।अर्चयित्वा यथान्यायं कुम्भान् सर्वान् यथाविधि ॥१५४॥वेष्टयित्वा यथा वस्त्रै: कुम्भान् सर्वान् यथाक्रमम् ।पाद्यादीनां तु सर्वेषां मन्त्रं पुरुषसूक्तकम् ॥१५५॥मूलमन्त्रेण वा कुर्यादिदं विष्णुरिति त्र्यृचा ।अर्चयेद्देवदेवेशं द्रव्याणां (द्रव्यै: सं?) स्नापयेद्बुध: ॥१५६॥ततो द्वितीयावरणे स्नापयेच्च विचक्षण: ।विष्णोरराट मन्त्रेण चन्दनाम्ब्वादि भेदत: ॥१५७॥मूलमन्त्रेण वा कुर्यादिदं विष्णुरिति त्र्यृचा ।स्नापयेच्च चतुर्दिक्षु चत्वार: क्रमयोगत: ॥१५८॥तिलतैलादि चत्वारि आपोहिष्ठाक्रमादिना ।एवं द्वितीयावरणे कोणेषु स्नापयेद्बुध: ॥१५९॥पश्चाद्गुलोदकाद्यैस्तु इदं विष्णुरिति मन्त्रत: ।मङ्गलाम्भांसि चत्वारि विष्णोर्नुकमिति त्र्यृचा ॥१६०॥स्नापयेद्दिक्षु चाष्टासु मन्त्रवच्च यथाक्रमम् ।हिमाद्यंभांसि चत्वारि आपो अस्मादिति त्र्यृचा ॥१६१॥अग्निमीले तिलाम्ब्वादि चत्वारि स्नापयेत् क्रमात् ।पाद्यादीनां तु सर्वेषां द्रव्याणां तु सुविस्तरम् ॥१६२॥श्रृणु गुह्यमना भूत्वा संक्षेपाद्वक्ष्यतेऽधुना ।तुलसीपद्मदूर्वा(-र्वे?) च श्यामाकं विष्णुपर्णिका ॥१६३॥बिल्वपत्रं च इत्येते(-वं?)पडङ्गं पाद्यमुच्यते ।व्रीहिस्तण्डुलसिद्धार्थं(-र्थो?)गन्धपुष्पे फलं पय: ॥१६४॥तिला यवा: कुशाश्चैव अर्घ्यस्य दश चोच्यते ।कर्पूरजातिकक्कोलं(?) पुष्पमेलालवङ्गकम् ॥१६५॥षडङ्गानि तु चैतानि ह्युक्तान्याचमनीयके ।न्यग्रोधाश्वत्थशम्यश्च *प्लक्षजम्बूकपित्थकम्*(?) ॥१६६॥खादिरोदुम्बरश्?चैव मधूकश्च विकङ्कतम् ।बिल्वं पलाश इत्येते कषाय(-ये?) द्वादश स्मृतम् ॥१६७॥वज्रं प्रवालं मुक्ता च वैडूर्यं मरकतं मणि: ।पुष्यकं ब्रह्मरागं च इन्द्रनीलं च गारुडम् ॥१६८॥रत्नोदकस्य द्रव्याणि दशरत्नानि संग्रह: ।पनसाम्रकपित्थं च कदल्यामलकं तथा ॥१६९॥बिल्वं हव्यं मातुलुङ्गं नालिकेरं च दाडिमम् ।बदरीकुटजं चैव फलं द्वादश उच्यते ॥१७०॥शिरीषं च कुशाश्चैव राजसूर्यविवर्तनी ।भूस्तृणं च सदाभद्रा असनं तुलसीद्वयम् ॥१७१॥सहदेवी च इत्येते(-वं?) दशाङ्गानि तु मार्जने ।उशीरं च तथा कुष्ठं कुङ्कुमं चन्दनं तथा ॥१७२॥अगरुर्देवदारुश्च मांसीरं(?)मुरमेव च ।हरिबेरश्च कर्पूरं *नाटरं मुक्तमेव च*(?) ॥१७३॥गन्धोदकस्य इत्येते *गन्ध द्वादश उच्यते*(?) ।वैणवं च यवं चैव पालाशं पद्ममेव च ॥१७४॥*तुलसीदलनीवारगौरसर्षपमेव च*(?) ।शान्त्युदकस्य चैतानि कथितानि समासत: ॥१७५॥इन्द्रवल्यङ्कुरं चैव वंशकाङ्कुरमेव च ।अश्वत्थस्याङ्कुरं चैव एकपद्मं तथैव च ॥१७६॥पलाशस्याङ्कुरं चैव पद्मपुष्पं तथैव च ।एतानि चाङ्कुराण्यष्टौ मङ्गलाम्भसि विन्यसेत् ॥१७७॥सुवर्णं रजतं ताम्रमायसं त्रपुकं तथा ।फलं कनकचूर्णं च पैत्तलोहं (-लं च?) तथेव च ॥१७८॥अष्टाङ्गानि तु लोहाम्भ: कथितानि समासत: ।नीवारवैणवं चैव यवसर्षपमाषका: ॥१७९॥प्रियङ्गुतण्डुलं ब्रीहिरक्षताष्टाङ्गमुच्यते ।पात्रवस्त्रादिके द्रव्ये क्रियाद्रव्यं तु कारयेत् ॥१८०॥स्वीकृतो यजमानेन स्नपनाय समारभेत् ।अन्यथा हि न कर्तव्यं क्रिया भवति निष्फला ॥१८१॥शेषाणामपि वस्तूनामेवं कुर्यात् प्रकीर्तितम् ।कलशानां तु सर्वेषां देवो नारायण: स्मृत: ॥१८२॥चक्रिकाणां तु सर्वेषां *ब्रह्माणं परमेष्ठिनम्*(?) ।शेषाणामपि वस्तूनां देवो विष्णु: सनातन: ॥१८३॥स्नपनं विधिवत् कृत्वा ह्याचार्यस्तन्त्रवित्तम: ।यच्चूर्णं स्नापेयत् पश्चात् गन्धयुक्तैर्विमिश्रितै:(?) ॥१८४॥चूर्णं तु विमृजेत् पश्चात् स्नापयेद्गन्धवारिणा ।आराधयेत्ततो देवं वस्त्राभरणमादित: ॥१८५॥मधुपर्कं ततो दद्याद्देवदेवाय भक्तित: ।चरुभि: पूजयेद्भक्त्या राजवत् पुरुषोत्तमम् ॥१८६॥अन्ते बहुविधैर्भक्ष्यै: पायसौश्च गुलौदनै: ।विचित्रान्नैश्च विविधैरुपदंशैरनेकश: ॥१८७॥सर्वभक्ष्यैरपूपैश्च स्वादूनि रसवन्ति च ।सौगन्धिकेन चाज्येन दद्याद्देवाय मन्त्रवित् ॥१८८॥दद्याद्गुलद्वयं चैव कदलीफलमेव च ।पनसाम्रफलं चैव क्रमेणैवं निवेदयेत् ॥१८९॥दध्योदनं ततो दद्यात् बहिरन्तश्च देशिक: ।निवेदितं च यद्द्रव्यं पुष्पं फलमथापि वा ॥१९०॥ममाग्रे स्थाप्य तन्त्रज्ञो मद्दक्षिणकरे ददेत् ।अर्घ्यपाद्यादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तम: ॥१९१॥निवेद्य शेषं सर्वेषां वैष्णवानां तु दापयेत् ।हुतशेषं तथाचार्य: प्राशयेत् प्राङ्मुख: शुचि: ॥१९२॥कुञ्जरं वा तुरङ्गं वा ग्रामं दासीगणं तथा ।गाश्चैव विविधं वस्त्रं हिरण्यं वापि शक्तित: ॥१९३॥आचार्याणां तु देयं स्यात् (दद्याद्वै?) यथावित्तानुसारत:(?) ।एवमुक्तविधानेन सहस्रकलशै:शुभै: ॥१९४॥स्नाप्य भक्त्या हरिं सम्यक् अश्वमेधफलं लभेत् ।इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [स्नपनविधिर्नाम]द्वाविंशोऽध्याय:॥ N/A References : N/A Last Updated : January 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP