विश्वक्सेनासंहिता - षट्त्रिंशोऽध्याय:
विश्वक्सेनासंहिता
विष्वक्सेन:---
पुण्याहं वाचयेत्तत्र ब्राह्मणै: सह मन्त्रवित् ।
पञ्चभारप्रमाणं वा तदर्धं वार्धमेव वा ॥१॥
तन्न्यूनं न हि कर्तव्यं शालिसंचयमुत्तमम् ।
तत्रोर्ध्वे विकिरेद्विद्वान् तदर्धं तण्डुलं तथा ॥२॥
तण्डुलोपरि विन्यस्य चाष्टपत्राब्जमुत्तमम् ।
तत्र मध्ये लिखेद्बीजं दले चाष्टाक्षरं न्यसेत् ॥३॥
मध्यमे नवकुम्भं तु स्थापयेत् साधकोत्तम: ।
सूत्रवस्त्रसमायुक्तं रत्नमाल्येरलंकृतम् ॥४॥
गन्धोदकेन संपूर्णं वस्त्रग्युग्मेन वेष्टितम् ।
पूर्वादि चाष्टकुम्भस्य वस्त्रमेकैकमेव वा ॥५॥
दिङ्मूर्त्यादीनि चाष्टानामेकवस्त्रमथापि वा ।
कर्णिकायां न्यसेत् कुम्भं दलेष्वष्टघटान् न्यसेत् ॥६॥
त्रिसप्तपञ्चदर्भैर्वा कृत्वा कूर्चं विनिक्षिपेत् ।
?तस्मिन् पूर्णघटे मध्ये देवागारं तु चिन्तयेत् ॥७॥
सहस्रशीर्षा पुरुष: सहस्राक्षा: सहस्रपात्(?) ।
सहस्रकुन्तलोपेतं सहुस्रमकुटान्वितम् ॥८॥
सहस्रादित्यसंकाशं सहस्रेन्दुनिभाननम् ।
शङ्खचक्रगदापाणिं सर्वप्रहरणान्वितम् ।
प्रासादरूपमित्याहु: पूर्वरात्रेऽधिवासयेत् ॥१०॥
तद्ध्यानेनैव देवर्षे सम्यक् स्नानमवाप्नुयात्(?) ।
मोक्षार्थी मोक्षमाप्नोति तस्माद्ध्यानं विशिष्यते ॥११॥
मण्डपादिषु सर्वेषु ध्यानमेवं प्रकीर्तितम् ।
तस्मिन् मध्ये नयेद्विद्वान् स्मरन् तत् परमेष्ठिना ॥१२॥
पूर्वादि चोत्तरान्ते तु तन्मूर्तिं तु विचिन्तयेत् ।
आग्नेयादिषु कोणेषु वैनतेयादिकान् न्यसेत् ॥१३॥
मृतगस्याधिपतिं सिंहं वैनतेयांशकं न्यसेत् ।
तस्मिन् पूर्णघटे मध्ये पौरुषं सूक्तमभ्यसेत् ॥१४॥
दिग्देवादिषु कुम्भेषु तत्तन्मूर्तिं जपेत् क्रमात् ।
ऋगादीनां तु वेदानां सारमुद्धृत्य नारद ॥१५॥
पूर्वादिसोमपर्यन्तमुच्चरेत् सुस्वरेण तु ।
तत: पूर्णघटादीनि चार्चयेत्तेन मन्त्रत: ॥१६॥
हविर्निवेदयेत् पश्चात् मन्त्रेण परमेष्ठिना ।
मुखवासं ततो दद्यात् रक्षां कृत्वाष्टदिक्क्रामत् ॥१७॥
घण्टाध्वनिसमायुक्तं गन्धपुष्पादिभि: सह ।
हविषा बलिदानं तु कारयेदष्टदिक्षु च ॥१८॥
कुमुदादीनि सर्वाणि गृह्णन्ति बलिमुत्तमम् ।
शङ्क्षदुन्दुभिनिर्घोषं कृत्वास्मिन् मुनिसत्तम ॥१९॥
तत: पुष्पाञ्जलिं कृत्वा साधक: परमार्थवित् ।
नमस्कृत्याखिलान् सर्वान् मङ्गलानुच्चरेत्क्रमात् ॥२०॥
प्रभातायां तु शर्वर्यामाचार्य: स्नानमाचरेत् ।
सूक्तेन पुरुषेणैव मन्त्रं वा परमेष्ठिना ॥२१॥
कुम्भस्थितेन देवेशं पूजयेत् पुरुषोत्तमम् ।
गन्धादि दीपपर्यन्तं तत्तन्मन्त्रेण साधक: ॥२२॥
पूर्वादीशानपर्यन्तमर्चयेदष्टदिग्घटान् ।
महामुम्भादि संगृह्य प्रासादं तु परिभ्रमेत् ॥२३॥
शङ्खभेर्यादिनादैस्तु नृत्तगीतसमन्वितम् ।
स्वस्तिवाचनसंयुक्तं गर्भागारं प्रवेशयेत् ॥२४॥
देवस्याग्रे तु संस्थाप्य तण्डुलोपरि नारद ।
महाकुम्भस्थदेवेशं विधिनाधिपतिं परम् ॥२५॥
तत्पूर्वपार्श्वे संस्?थाप्य तण्डुलेषु घटान् क्रमात् ।
अर्घ्यपाद्यादिनाभ्यर्च्य मुखवासावसानकम् ॥२६॥
एवमभ्यर्च्य मतिमान् क्षम्यतामिति चोच्चरन् ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ॥२७॥
क्षन्तुमर्हसि देवेश परिपूर्णं तदस्तु मे ।
एवं कृत्वा तु मन्त्रज्ञो मङ्गलानि समीरयेत् ॥२८॥
आचार्य: पुष्पमादाय नमस्कृत्य हरिं प्रभुम् ।
कुम्भस्थितेन देवेशे मूलबेरे नियोजयेत् ॥२९॥
तथैवाष्टघटाच्छक्तिं तद्देहे विनिवेशयेत् ।
परमेष्ठ्या न्यसेत् पूर्वं दिङ्मूर्त्यादीन् स्वविद्यया ॥३०॥
मूलबेरस्य मूर्ध्नेव सेचयेत्तांस्त्रिबिन्दुना ।
देवपादे तु हस्ताभ्यां पुष्पं दत्वा पुन: पुन: ॥३१॥
तत: पुरुष्?ासूक्तं तु ब्राह्मणै: सह संजपेत् ।
तस्मिन् काले महाप्राज्ञ आचार्यं पूजयेद्धनै: ॥३२॥
नववस्त्राङ्गुलीयैस्तु कटकादिविभूषणै: ।
कुम्भस्थितेन तोयेन प्रोक्षयेद्गेहमुत्तमम् ॥३३॥
अत्रोपयुक्तं यद्द्रव्यं देवतालंकृतं (-ति:?) विना ।
आचार्याय प्रदातव्यं वस्त्रं व्रीह्यादिभि: सह ॥३४॥
निवेदितं तु तत्सर्वं सात्त्वतेभ्यो निवेदयेत् ।
शिल्पिनं पूजयेत्तत्र दैवज्ञमनुपूजयेत् ॥३५॥
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
क्रियावसाने मतिमान् चित्रकर्म च कारयेत् ॥३६॥
हवनं मण्डपाद्येषु एवमेव समाचरेत् ।
एवमुक्तप्रकारेण कारयेदधिवासनम् ॥३७॥
वासाधिवासनं चैव प्रासादप्रोक्षणे मुने ।
अङ्कुरार्पणकार्ये तु होममत्र न विद्यते ॥३८॥
बालगेहं तु देवर्षे कल्पयेत् पूर्ववत् क्रमात् ।
जगती कुमुदादीनि वर्जयेत्तरुणालये ॥३९॥
बालालयप्रतिष्ठायां स्थण्डिले होममाचरेत् ।
अधिवासादिकर्माणि वासवादीनि(?) कारयेत् ॥४०॥
एवमुक्तप्रकारेण शक्तिमुद्वास्य नारद ।
जीर्णोद्धारं तत: कुर्यात् ?शिल्पिना कुशलेन तु ॥४१॥
अन्यथा कुरुते मोहात् ग्रामनाशो धनक्षय: ।
स्थाननाशो भवेत्तत्र संभवेन्नात्र संशय: ॥४२॥
तस्मात् सर्वप्रयत्नेन विमानस्थ हरिं परम् ।
उद्वासयेन्महाबेरे क्रमात् पूर्वं यथाविधि ॥४३॥
तस्मात् सर्वप्रयत्नेन शक्त्युद्वासनमारभेत् ।
मार्गेणैकेन संयोज्य प्रासादस्याधिदैवतम् ॥४४॥
विनोदमण्डपं चैव वप्रप्राकारके तथा ।
परिवारालयाद्येषु बहि: प्राकारके तथा ॥४५॥
एवमुक्तप्रकारेण कारयेदधिवासनम् ।
एवं संक्षेपत: प्रोक्तं जीर्णोद्धारमथारभेत् ॥४६॥
अत: परं प्रवक्ष्यामि जीर्णोद्धारविधिं परम् ।
आचार्यं यजमानं च तक्षाचार्यं महामुने ॥४७॥
मृण्मयप्रतिमाजीर्णे शूलमृत्पटरज्जव: ।
पुनस्तु मृण्मया: कार्या शिलया वापि कारयेत् ॥४८॥
शैलजप्रतिमाजीर्णे लोहजा: शैलजास्तथा ।
रत्नजप्रतिमाजीर्णे सौवर्णं वापि राजतम् ॥४९॥
दारुमृच्छैललोहाद्या रुक्मरत्नादिका: क्रमात् ।
उत्तमा इति विज्ञेया उत्तरोत्तरमग्रत: ॥५०॥
रुक्मं रत्नं समानं च केचिदाहुर्मनीषिण: ।
शिलालोहं च सदृशं देवर्षे इति केचन ॥५१॥
हाटकं रजतं ताम्रं समानमिति नारद ।
लोहशब्देन संज्ञात्वा कारयेदुत्सवादिकम् ॥५२॥
यजमानस्य वाञ्छा चेत् यथावित्तानुसारत:(!) ।
अस्मिन् मुनिवरश्रेष्ठ त्रपुकं चायसं विना ॥५३॥
आत्मार्थे च परार्थे च प्रतिमाकरणे मुने ।
अधमद्रव्यसंपन्नं परकार्यमनुत्तमम्(?) ॥५४॥
सदृशने तु यत्कार्यं मध्यमं प्रोच्यते बुधै: ।
नोत्तमं त्वधमै: कार्यं कुर्वन् मोहात् प्रणश्यति ॥५५॥
राजराष्ट्रं च सकलं इति शास्त्रस्य निश्चय: ।
द्रव्य एव विसंवादो मानोन्मानप्रमाणकै: ॥५६॥
न न्यूनमतिरिक्तं च यदि चेत्सिद्धिमात्मन: ।
मूलबेरादिबेराणं जीर्णोद्धारविधौ मुने ॥५७॥
आत्मार्थे वा परार्थे वा तुल्यमेतद्द्विजोत्तम ।
आत्मार्थे वंशनाश: स्यात् परार्थे राष्ट्रनाशनम् ॥५८॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
विमानं प्रतिमां वापि प्राकारं गोपुरं तथा ॥५९॥
मण्डपं पूर्ववत् कुर्यात् नवकर्मानुलेपने ।
नष्टालयं चेत्तद्भूमौ पुराणोक्तं चार्षं तु वा ॥६०॥
दैविकं मानुषं वापि यथाकामं तु कारयेत् ।
उत्तमालयमत्रैव उत्तमोत्तममेव वा ॥६१॥
अधमोत्तमं वा विप्रेन्द्र जीर्णं चेन्मुनिसत्तम ।
मध्यमेनाधमेनैव कारयेदालयं पुन: ॥६२॥
यजमानस्य वाञ्छा चेन्मध्यमेऽप्येवमेव तु ।
अधमालयं भवेत्तस्मिन् अधमोत्तममेव वा ॥६३॥
अधमाधममेवाथ जीर्णोद्धारणकर्मणि ।
उपपीठसमायुक्तं द्वितलं त्रितलं तु वा ॥६४॥
यथावित्तानुसारेण(!) कुर्यादेकतलं तु वा ।
उत्तमादिक्रमं ज्ञात्वा यथाकामं तु वर्धयेत् ॥६५॥
वर्धनाच्छ्रियमाप्नोति राज्ञो राष्ट्रस्य नारद ।
तथैव नगरादीनामालयस्य विशेषत: ॥६६॥
भवनं गोपुराकारं शालकूटादिकं मुने ।
जीर्णं चेदिह लोके तु कारयेद्वा प्रपाकृतिम् ॥६७॥
नगरादीनि संज्ञात्वा ग्रामराजानुकूलत: ।
यथावित्तानुसारेण(!) कुर्याद्वेश्म यथापरुचि ॥६८॥
ग्रामानुकूलतो वापि धाम कुर्यादनुत्तमम ।
प्रतिमां पुनरत्रैव कुर्यात् प्रासादमात्रत: ॥६९॥
द्वारमानेन वा चास्मिन् गर्भमानेन वा मुने ।
उत्तमाधममध्येन नष्टोद्धारणकर्मणि ॥७०॥
तद्गेहात् पश्चिमे याम्ये निर्गमाकृति नेष्यते ।
पूर्ववत् कारयेज्जीर्णस्योद्धारे मुनिसत्तम ॥७१॥
संमोहात् पश्चिये याम्ये निर्गमं कारयेद्यदि ।
ग्रामस्य कलहं कुर्यात् धर्ममार्गं(-र्गो?)विनश्यति ॥७२॥
तद्राष्ट्रं यजमानश्च नश्यत्येव न संशय: ।
तस्मात् सर्वप्रयत्नेने न कुर्यान्निर्गमाकृतिम् ॥७३॥
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ।
यजमानस्य वाञ्छा चेद्यथाकामं तु वर्धयेत् ॥७४॥
सर्वश: प्रतिदिक्ष्वादि पश्चिमं नेष्यते मुने ।
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ॥७५॥
जीर्णोद्धारे मुनिश्रेष्ठ सर्वं पूर्ववदाचरेत् ।
तस्मात् सर्वप्रयत्नेन यथाकामं तु वर्धयेत् ॥७६॥
वर्धनाच्छ्रियमाप्नोति तद्गेहस्य दिने दिने ।
प्राकारादिषु भूषाणां भेदो वा दोषकारणम् ॥७७॥
न भवेदिति भाषन्ते मुनयो नारदादय: ।
गोपुरेऽधिकभावं च प्राकारेऽपि विशेषत: ॥७८॥
एवं परीक्ष्य मतिमान् नवकर्मानुलेपने ।
नष्टोद्धारे च वै चास्मिन् जीर्णोद्धारादिषु क्रमात् ॥७९॥
कारयेत् साधक: पश्चात् शिल्पाचार्यसमन्वित: ।
मूलबेरे मुनिश्रेष्ठ भिन्नं छेद्यं भवेद्यदि ॥८०॥
स्फुटितं चेत्तु तद्बेरं त्यक्त्वा पश्चान्महामुने ।
शक्तिमुद्वासयेद्बेरात् क्षिप्रं शान्तिं समाचरेत् ॥८१॥
तस्याग्रे विधिवत् कुम्भे संस्थाप्य हरिमव्ययम् ।
तत्कुम्भमध्ये मूलेन मूलबेरान्नयेद्धरिम् ॥८२॥
शान्तिहोमं तत: कृत्वा चक्रमन्त्रेण मन्त्रवित् ।
सुदर्शनमहामन्त्रं सर्वशन्तिकरं भवेत् ॥८३॥
आवाहनविसर्गं तु कुम्?भात् पूर्ववदाचरेत् ।
बालस्थानं क्रमात् कल्प्य स्थापयेद्विधिचोदितम् ॥८४॥
जलाधिवासनं तस्य नेष्यते मुनिसत्तम ।
सद्योऽधिवासनेनैव स्थापयेद्धरिमव्ययम् ॥८५॥
जीर्णोद्धारे मुनिश्रेष्ठ कालवेलादि नेष्यते ।
निरीक्ष्य बहुधा दोषान् पूजाकाले दिने दिने ॥८६॥
पश्चात् संपूजयेद्देवं दोषहीनं भवेद्यदि ।
एवं दोषसमायुक्तं मोहाल्लोभाद्यजेद्धरिम् ॥८७॥
तत्पूजा निष्फला याति कर्ता भर्ता च नश्यति ।
तद्ग्रामं निधनं याति रोगवृद्धिर्भविष्यति ॥८८॥
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारणमाचरेत् ।
ध्वजे वारोहिते पश्चात् वैगुण्यं यदि दृश्यते ॥८९॥
उत्सवं च मुनिश्रेष्ठ शान्तिहोमसमन्वितम् ।
बालस्थाने समासाद्य उत्सवं तत्र कारयेत् ॥९०॥
अन्यथा चेन्महादोषो राज्ञश्चैव विनाशकृत् ।
तस्मात् सर्वप्रयत्नेन शेषकर्म समाचरेत् ॥९१॥
नित्योत्सवादि कर्माणि बालस्थानेऽपि नारद ।
पूर्ववत् कारयेद्धीमान् इति शास्त्रस्य निश्चय: ॥९२॥
मन्त्रज्ञो वंशसंपन्नो कुलीन: शास्त्रपारग: ।
तन्त्रज्ञो वेदपाठी च स्थापनादिक्रियापर: ॥९३॥
सर्वावयवसंपूर्ण: सर्वरोगविवर्जित: ।
सुशान्त: कुशलो दान्तो यदृच्छालाभतोषक: ॥९४॥
अमत्सरी जितक्रोध: धूद्रसंकरवर्जित: ।
वर्ज्यावर्ज्य: कृतज्ञश्च पूर्वकारी च भक्तिमान् ॥९५॥
तद्वंश्यो वापि शिष्यो वा प्रशिष्यस्तन्त्रपारग: ।
तन्त्रवान् दीक्षितो वापि गुणवान् गुणवित्तम: ॥९६॥
राजयक्ष्मा(?)च कुष्ठी च गुल्मी च शिबि(पि?) विष्टक: ।
खल्वाट: चातिवृद्धश्च बालो वृषणरोगवान् ॥९७॥
ह्रस्वाकारोऽतिदीर्घश्च कृशचिबुक एव च ।
बधिरो विकलाङ्गश्च विप्रो रदनदोषयुक् ॥९८॥
वर्जयेद्देवकार्येषु कुनखी च विशेषत: ।
स्थापकाचार्ययोश्चैव लक्षणं विद्धि नारद ॥९९॥
संग्रहेल्लक्षणोपेतमाचार्यं स्थापकं तथा॥
एवं परीक्ष्य मतिमान् प्रतिष्ठाराधनादिषु ॥१००॥
जीर्णोद्धारे विशेषेण लक्षयेल्लक्षणान् क्रामत् ।
सुमुहूर्ते सुलग्ने च स्थापकस्तक्षकान्वित: ॥१०१॥
तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद ।
यत्तन्त्रेण समारब्धं तत्तन्त्रेण समाचरेत् ॥१०२॥
अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत् ।
विशेषांश्च मुनिश्रेष्ठ चान्यथा राष्ट्रनाशकृत् ॥१०३॥
चातुर्वर्ण्यसमोपेत:(?)सदाचारपरायण: ।
सद्वंश्य: सर्वशास्त्रज्ञो लोकज्ञ: सर्वधर्मवित् ॥१०४॥
भक्तिमान् धनवान् वाग्मी सर्वसंकल्पवृद्धियुक् ।
सुशीलश्च सुरूपश्च श्रद्धालु: शुद्धमानस: ॥१०५॥
आचार्य: तक्षकश्चैव वंशग: सुमुखोत्तम: ।
शास्त्रप्रामाण्यकश्चैव दीन: सुबहुभृत्यवान् ॥१०६॥
यथोक्तकारी मतिमान् कुशल: सर्वकर्मसु ।
पूर्वकारी च तद्वंश्य: तच्छिष्यो वा प्रशिष्यक: ॥१०७॥
तज्जातीयोऽन्यजातीय: पूर्वापूर्वगुणाधिक: ।
पूर्वापलोभे तु गृह्णीयात् उत्तरं नान्यथा मुने ॥१०८॥
मोहेन यदि गृह्णीयात् तस्य स्यात् कर्तृसंकर: ।
कर्तृसंकरदोषेण राजराष्ट्रस्य रोगकृत् ॥१०९॥
तस्मात् सर्वप्रयत्नेन शास्त्रदृष्ट्या समाचरेत् ।
तक्षकं तक्षसूत्रज्ञं कुशलं सर्वकर्मसु ॥११०॥
लघुहस्तं सुरूपं च सुशान्तं दैविकं तथा ।
वंशानुवंशसम्पन्नं कुशलं सत्परायणम् ॥१११॥
वैष्णवं सूत्रकालज्ञं क्रियाज्ञं पूर्वकारिणम् ।
दयालुं शान्तमनसं सतीर्थं(?)सत्समादृतम् ॥११२॥
तदलाभे तु तद्वंश्यान् तच्छिश्यान् वा प्रशिष्यकान् ।
संनिमन्त्रितमेवं तत्(?)न कुर्याज्जातिसंकरम् ॥११३॥
अन्यजातिसमालब्धमादिकाले महामुने ।
अन्यजात्या कृतं मोहाद्राजराष्ट्रविनाशकृत् ॥११४॥
एवं लक्षणमालभ्य कर्तुरिच्छापुर:सरम् ।
यो मोहादन्यमार्गेण कारयेन्मुनिसत्तम ॥११५॥
आचार्यस्य च कर्तुश्च तक्ष्णश्चाप्यशुभं भवेत् ।
इति सुबहु निरीक्ष्य बुद्धिदृष्ट्या
सततमनन्यमति: स कर्तृमत्या ॥११६॥
स्थपतिमति च(?)कारयीत जीर्णो-
द्धरणमसौ जगतां गुरुर्गुरुर्य: ।
विष्वक्सेन:---
अत: परं प्रवष्यामि प्रासादस्य विशेषत: ॥११७॥
रथादिशिबिकादीनां प्रोक्षणं परमं शुभम् ।
सर्वशान्तिकरं पुंसां सर्वतीर्थफलाप्रदम् ॥११८॥
पूर्वोक्तमण्डपे शुद्धे सर्वमङ्गलसंयुते ।
तन्मध्ये हस्तकां वेदिं वृत्तां वा चुतरश्रकाम् ॥११९॥
कारयेच्छास्त्रदृष्टेन तन्नाम अधुनोच्यते ।
वृत्तं सुशोभनं नाम चतुरश्रं सुमङ्गलम् ॥१२०॥
राजराष्ट्रविवृद्ध्यर्थं वृत्तकारं भवेत् सदा ।
ग्रामायतनवृद्ध्यर्थं चतुरश्रं तु नारद ॥१२१॥
वृत्तं वाकृति विज्ञेय:(?) चतुरश्रं तु वाधि: ।
आमेष्टकाभि: पक्वाभि: कुर्याद्वेदिमनुत्तमाम् ॥१२२॥
हस्तोच्छ्रायां तदर्धं वा दर्पणोदरसंनिभाम् ।
पूर्ववद्वेदिमालिप्य प्रोक्षयेत् पूर्ववत् क्रमात् ॥१२३॥
पुण्याहं वाचयेत्तत्र ब्राह्मणानामनुज्ञया ।
पूर्ववत् स्थण्डिलं कृत्वा शालिना मुनिसत्तम ॥१२४॥
तदर्धं तण्डुलं कृत्वा शालिभिर्वान्यमेव वा ।
वेदिकायां तदूर्ध्वे तु पीठं कृत्वा लिखेत् पुन: ॥१२५॥
वेदिकायां तु परित: शालिभिर्वेदिमाचरेत् ।
शालिमध्ये मुनिश्रेष्ठ चाष्टदिग्दलमालिखेत् ॥१२६॥
छन्दोमूलादिवचनं लिखेत्तद्दलमध्यमे ।
सूत्रवस्त्रपरिच्छन्नं सर्वलक्षणसंयुतम् ॥१२७॥
चन्द्रमण्डलमध्ये तु स्थापयेत्तेन मन्त्रत: ।
तत्कुम्भजलमध्ये तु सितपुष्पं विनिक्षिपेत् ॥१२८॥
पुष्पमाल्यैरलंकृत्य वस्त्रयुग्मैरलंकृतम् ।
नवरत्नसमायुक्तं नवकूर्चयुतं तथा ॥१२९॥
तस्मिन्नावाहयेन्मध्ये प्रासादस्याधिदैवतम् ।
मध्ये कुम्भं च परित: स्थापयेदष्टदिग्दले ॥१३०॥
तत्तन्मन्त्रेण मतिमान् अष्टकुम्भाननुक्रमात् ।
नववस्त्रेण संछाद्य सूत्रपुष्पजलान्वितम् ॥१३१॥
कूर्चद्वयसमोपेतं पुष्पमाल्यैरलंकृतम् ।
पूर्वादीशानपर्यन्तं कुम्भे पूर्ववदानयेत् ॥१३२॥
आचार्य: समलंकृत्य हेमवस्त्राङ्गुलीयकै: ।
कुम्भस्य दक्षिणे पार्श्वे उत्तराभिमुख: स्थित: ॥१३३॥
पुण्पाञ्जलिपुटं कृत्वा इमं मन्त्रं जपेद्बुध: ।
सहस्रशीर्षादीनि (-दि?) सूक्तं तु पुरुषेण तु ॥१३४॥
मुलबेरान्नयेत् कुम्भे देवं प्रासादरूपिणम् ।
अथवा मुनिशार्दूल चानयेत् परमेष्ठिना ॥१३५॥
दिग्दलाष्टघटे विद्वान् तत्तन्मन्त्रेण चानयेत् ।
पूर्ववद्बलिदानं तु कारेयन्मन्त्रवित्तम: ॥१३६॥
तथैव प्रोक्षयेद्विद्वान् सूक्तेन पुरुषेण तु ।
गर्भगेहं तथा प्रोक्ष्य बहिरन्त: समन्तत: ॥१३७॥
कुम्भस्थितेन देवेशं विमानादिषु योजयेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हविस्तत्र न विद्यते ॥१३८॥
बलिं तु कारयेत्तत्र चाष्टदिक्षु समन्तत: ।
तस्मिन् काले महाप्राज्ञो आचार्य पूजयेत् क्रमात् ॥१३९॥
हेमवस्त्राङ्गुलीयैस्तु पूजयेद्देववत्तदा ।
शिल्पिनं पूजयेत्तत्र नववस्त्राङ्गुलीयकै: ॥१४०॥
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
एवमेव तु कर्तव्यं त्रिरधा (?) शिबिकानि च ॥१४१॥
रथादिवाहनानां तु खगेशाच्छक्तिमानयेत् ।
तेन मन्त्रेण मन्त्रज्ञो प्रोक्षयेत् पूर्ववत् क्रमात् ॥१४२॥
चण्डालपतितोदक्यानिषाद्यै(-दै?)स्तक्षकादिकै: ।
लोभाद्वा यदि वा मोहात् स्पर्शनं चेन्मुनीश्वर ॥१४३॥
प्रासादप्रोक्षणेनैव प्रासादं शुद्ध्यतेऽत्र वै ।
अथवा मुनिशार्दूल पञ्चगव्यं समानयेत् ॥१४४॥
देवाग्रे हस्तमात्रं तु समालिप्य समाहित: ।
द्रोणशालिं तु विस्तीर्य तदर्धं तण्डुलं तथा ॥१४५॥
तत्र मध्ये लिखेत् पद्मं पूर्वोक्तेन विधानत: ।
पञ्चगव्यं तु संस्थाप्य तेन बीजेन साधक: ॥१४६॥
पुण्याहं वाचयेत्तत्र गन्धपुष्पादिनार्चयेत् ।
हविर्निवेदयेत् पश्चात् स्मरन् देवस्य रूपिणम् ॥१४७॥
प्रोक्षयेद्गव्यकैर्मन्त्रै: पञ्चोपनिषदै: क्रमात् ।
तत: सप्तदशा भिन्नान् कलशान् बलिबेरगे ॥१४८॥
स्नपनं कारयेत्तस्मिन् शुद्ध्यते नात्र संशय: ।
चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तमिदं स्मृतम् ॥१४९॥
प्रासादप्रोक्षणं पश्चात् कारयेद्विधिचोदितम् ।
आचार्यं पूजयेत्तत्र यथावित्तानुसारत:(!) ॥१५०॥
दिङ्मूर्तीनां तु सर्वेषां न शुद्धिरिह नारद ।
अत्र कश्चिद्विशेषोऽस्ति दिङ्मूर्तिस्थापनाविधौ ॥१५१॥
अर्धचित्रप्रतिष्ठायां यत्प्रोक्तं संहितान्तरे ।
तथैव कारयेत्तस्मिन् दिङ्मूर्तीनां तु नारद ॥१५२॥
आयुरारोग्यपुत्रादीन् लभते नात्र संशय: ।
उत्सवान्ते प्रलेपान्ते दुर्जनस्पर्शने तथा ॥१५३॥
दुर्निमित्ता(-त्तो?)दये चैव कार्यं संप्रोक्षणाविधि: ।
दिङ्मूर्तीनां तु सर्वेषां उत्सवान्ते न कारयेत् ॥१५४॥
अर्धचित्रप्रतिष्ठास्मिन् शेषं साधारणं भवेत् ।
दुर्जनस्पर्शनं चेत्तु प्रासादं मुनिसत्तम ॥१५५॥
चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तं समाचरेत् ।
तेनैव शुद्ध्यते तस्मिन् नात्र कार्या विचारणा ॥१५६॥
दिङ्मूर्तीनां तु सर्वेषामस्मिंस्तेनैव तुष्यति ।
गेहस्यालेपनान्ते च दुर्जनस्पर्शनेऽपि च ॥१५७॥
दिङ्मूर्तीनां तु सर्वेषां विशेषं न तु कारयेत् ।
तथैव दुर्निमित्तेषु शेषं पूर्ववदाचरेत् ॥१५८॥
प्रासादप्रोक्षणेनैव शुद्ध्यते नात्र संशय: ।
नास्तिक्येनैव यो मोहात् अन्यथाकुरुते मुने ॥१५९॥
तत् स्थानं नाशकृद्वापि तद्ग्रामस्य तथैव च ।
तस्मात्तु विधिवत् सम्यक् कारयेत्तन्त्रवित्तम: ॥१६०॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां जीर्णोद्धारादिविधिर्नाम
षट्त्रिंशोऽध्याय:
N/A
References : N/A
Last Updated : January 09, 2021
TOP