विश्वक्सेनासंहिता - षड्विंशोऽध्याय:
विश्वक्सेनासंहिता
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि ध्वजोत्थापनमुत्तमम् ।
येनोपसर्गा(?)नश्यन्ति सर्वसंपत्सुखावहम् ॥१॥
अध्वजो विष्णुयागस्तु निष्फल: स्यान्न संशय: ।
तीर्थस्नानदिनात् पूर्वं सप्तविंशतिकेऽहनि ॥२॥
एकविंशतिके वा स्यात्(वापि?) ध्वजोत्थापनमाचरेत् ।
अथवारम्भदिवसे सद्य: कालोद्भवो भवेत् ॥३॥
आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ।
एकत्र दिवसे यागे न ध्वजोद्धार इष्यते ॥४॥
अङ्कुरार्पणपूर्वं तु द्वितीयं परिकीर्तितम् ।
गोपुर(-रा?) स्थानयार्मध्ये ध्वजपीठं प्रकल्पयेत् ॥५॥
अथवा बलिपीठस्य वैनतेयस्य वा पुन: ।
हस्तमात्रं परित्यज्य बलिपीठस्य चान्तरे ॥६॥
कल्पयेद्ध्वजपीठं तु मानं तस्य प्रचक्षते(?) ।
तस्यार्धं वाप्यपोह्यैव ध्वजपीठं प्रकल्पयेत् ॥७॥
चतुर्हस्तं तदर्धं वा विस्तारायामत: समम् ।
हस्तोच्छ्रायं द्विहस्तं वा स्थाप्य स्तम्भस्य मध्यत: ॥८॥
एकहस्तं तथा भूमौ गर्तं पीठादध: शुभम् ।
स्तम्भस्य परित: कुर्यात् मेखलात्रितयं बुध: ॥९॥
वृत्तं वा चतुरश्रं वा षोडशाष्टाश्रमेव वा ।
अन्तरादि तदुत्सेधमङ्गुलीनां यथाक्रमम् ॥१०॥
मेखलोच्छ्रायमायाममेकैकं चतुरङ्गुलम् ।
तालमात्रं विसृज्यैव वेदिकायां समन्तत: ॥११॥
पश्चात्तु मेखला: सम्यक् कारयेन्मन्त्रवित्तम: ।
मेखलानामथोर्ध्वे तु वृत्तवेदिं समाचरेत् ॥१२॥
चतुरङ्गुलमुत्सेधं तदूर्ध्वेऽब्जदलं(पद्मकं?)लिखेत् ।
षोडशद्वादशं वापि चाष्टपत्रमथापि वा ॥१३॥
द्व्यङ्गुलं तु घनं ज्ञेयं कर्णिकासहितं मुने ।
त्र्यङ्गुलं तु तदुत्सेधं द्व्यङ्गुलं तद्घनं भवेत् ॥१४॥
इति पद्मदलं (-विधि:?) प्रोक्त उत्तमाधममध्यत: ।
स्तम्भस्य परित: कुर्यात् सर्वालंकारसंयुतम् ॥१५॥
एवमुक्तप्रकारेण ध्वजपीठं प्रकल्पयेत् ।
पूर्वं वाप्यथवा पश्चात् कल्पयेत् पीठमुत्तमम् ॥१६॥
अन्यथा यदि चेद्वेदिमनर्थमशुभावहम् ।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ॥१७॥
ध्वजस्तम्भं प्रवक्ष्यामि विविक्तेन महामुने ।
चन्दनं चम्पकं वापि बिल्वमर्जुनमेव च ॥१८॥
तेकवृक्षं च खदिरं सालं तिन्दुकमेव च ।
चम्पकं चाष्टकं चैव क्रमुकं नालिकेरकम् ॥१९॥
तालं वेणुं तथैवात्र संभवेन तु कारयेत् ।
शततालार्धमर्धं च मुख्यमध्याधमं क्रमात् ॥२०॥
अशीतितालमिच्छन्ति केचित्तस्यार्धमेव वा ।
गोपुराकृतितुल्यं स्यात् स्तम्भमध्यर्धमेव वा ॥२१॥
स्तम्भप्रमाणमथवा तुल्यमध्यर्धमेव वा ।
प्रासादेन समुच्छ्रायं सुषिरादिवि?वर्जितम् ॥२२॥
त्रिंशदङ्गुलनाहं तु मूलदण्डस्य नारद ।
मध्यमं चाष्टविंशत्(?)तदग्रं षड्विंशकं भवेत् ॥२३॥
सच्छिद्रयन्त्रत्रियते ह्यधस्ताद्गरुडालयम् ।
लोहं दारुमयं वापि गरुडं तत्र योजयेत् ॥२४॥
देवाभिमुखमासीनमल्पकायं कृताञ्जलिम् ।
षोडशाङ्गुलकं वापि द्वादशाङ्गुलकं तथा ॥२५॥
अष्टाङ्गुलमथ ज्ञात्वा कल्पयेद्गरुडं मुने ।
तथा वा फलकं (-कां?)कृत्वा यथाकामं मुनीश्वर ॥२६॥
तन्मध्ये गरुडं लिख्य स्वस्थाने विनतासुतम् ।
योजयित्वा तत: खेशं स्थापयेत् स्वस्वमन्त्रत: ॥२७॥
वेदिकोपरि मन्त्रज्ञ: सुप्रपां परिकल्पयेत् ।
दर्भमालासमायुक्तं मुक्तादामसमन्वितम् ॥२८॥
प्रपायां पूर्वभागादि पताकास्तत्र योजयेत् ।
दशहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥२९॥
अन्यामष्टकरां यष्टिं स्तम्भे यन्त्रेषु योजयेत् ।
पटस्य लक्षणं तस्मिन् विशेषं कथय मि ते ॥३०॥
श्रृणुष्वावहितो भूत्वा सर्वसंपत्सुखावहम् ।
द्वादशं(!)दशहस्तं वा नवसप्तपटं भवेत् ॥३१॥
आयाममिति संप्रोक्तं विस्तारमधुनोच्यते ।
षट्सप्ततालविस्तारं द्वा[र]विस्तारमुच्यते ॥३२॥
पुच्छायामं द्वितालं स्यात्तत्समं शिर उच्यते ।
शिरसा तु समौ ज्ञेयौ भूजौ तस्यार्धमेव वा ॥३३॥
भुजद्वयविहीनं वा पटमेतद्विशिष्यते ।
क्षुद्रप्रासादरूपं चेत् नवसप्तपटं भवेत् ॥३४॥
नवहस्ताच्च नू(न्यू?)नं वै महागेहे तु नेष्यते ।
यो मोहात् कुरुते ?तस्मिन् क्रिया भवति निष्फला ॥३५॥
आलिखेद्गरुडं तत्र सुवर्णाभं सुवर्चसम् ।
ध्रुवदृग्गलनाभ्यन्तं गरुडेत्सेधमिष्यते ॥३६॥
नवतालपरिच्छिन्नं मानोन्मानप्रमाणत: ।
किञ्चिदायतवृत्ताक्षं रक्ताक्षं नीलनासिकम् ॥३७॥
उत्कु?ञ्चितं वामपादं दक्षिणं पृष्ठत: स्थितम् ।
गगने गमनारम्भं पक्षविक्षेपणान्वितम् ॥३८॥
पुष्पाञ्जलिपुटोपेतं रौद्रं च विनतासुतम् ।
नागाभरणसंवीतं स्मितास्यं कनकाङ्गदम् ॥३९॥
करण्डमकुटं नीलवाससं प्रियदर्शनम् ।
सुरक्तपाण्यङ्घ्रितलं दंष्ट्राभ्यामुज्ज्वलाननम् ॥४०॥
अनन्तो वामकटको यज्ञसूत्रं तु वासुकि: ।
तक्षक: कटिसूत्रं तु हार: कर्कोटकस्तथा ॥४१ १ ।
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामत: ।
शङ्ख्?ा: शिर: प्रदेशे तु गुलिकस्तु भुजान्तरे ॥४२॥
एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमै: ।
अनन्तगुलिकौ विप्रौ रक्तौ वह्निसमुद्भवौ ॥४३॥
वासुकि: शङ्खपालश्च पीतौ चन्द्रोद्भवौ नृपौ ।
महाक्ष(-ब्ज?) तक्षकौ वेश्यौ शुक्लौ वारिसमुद्भवौ ॥४४॥
पद्मकर्कोटकौ शूद्रौ कृष्णौ वायुसमुद्भवौ ।
लिखित्वा गरुडं तत्र छत्रं चोपरि कल्पयेत् ॥४५॥
अथोऽमृतस्य कलशं पद्मं चैवात्र संलिखेत् ।
ताभ्यामुभयत: कुर्यात् दीपौ द्वौ शुभदर्शनौ ॥४६॥
चित्राभासप्रतिष्ठां तु कारयेन्मन्त्रवित्तम: ।
छायाधिवासनं कुर्यात् जलं संहृत्य देशिक: ॥४७॥
शाययित्वा ततो वेद्यां संहृत्योत्पाद्य तत्त्वत: ।
धान्यराशिं विनिक्षिप्य वेदिमध्ये समन्तत: ॥४८॥
वेदिकाकलशेष्वष्टावनन्तादीन् प्रपूजयेत् ।
शङ्खादिमङ्गलानां तु विन्यसेत् परित: क्रमात् ॥४९॥
पूर्वे शङ्खं नियुञ्जीत आग्नेये चक्रमेव च ।
याम्ये तु विन्यसेत् केतुं श्रियं वै नैरृते तथा ॥५०॥
दर्पणं वारुणे भागे वृषभं वायुगोचरे ।
सोमे तु मत्स्ययुग्मं तु कुम्भमीशानगोचरे ॥५१॥
एवं तु मङ्गलान्(?)न्यस्य पूर्वादिक्रमयोगत: ।
पूजयेत् कलशेष्वष्टमङ्गलानि यथाक्रमम् ॥५२॥
वासोभिर्वेष्टितेष्वेषु निक्षिप्तकनकेषु च ।
वासांसि मध्ये संस्तीर्य गरुडं तत्र शाययेत् ॥५३॥
प्रत्यग्ग्रीवं ततो वस्त्रै: संच्छाद्य पतगेश्वरम् ।
तस्य दक्षिणत: कुम्भं विन्यसेत्तण्डुलोपरि ॥५४॥
वारिपूर्णं सुसंवीतं सदशेनाहतेन तु ।
शुक्लेनाम्बरयुग्मेन मृदुना सुशुभेन च ॥५५॥
सरत्नं हेमसंयुक्तं सापिधानं सकूर्चकम् ।
तस्मिन्नावाहयेद्देवं गरुडं विनतासुतम् ॥५६॥
आवाहनविधिं सम्यक् प्रवक्ष्यामि महामुने ।
सौवर्णं राजतं पात्रं ताम्रं मृण्मयमेव वा ॥५७॥
आढकेन तु संपूर्णं पयोभिर्वारिभिस्तु वा ।
तत्पात्रे देवमावाह्य आकाशान्मन्त्रवित्तम: ॥५८॥
एह्येहि खगराजेन्द्र वैनतेय महाबल ।
सांनिध्यं पार्षदै: सार्धं कुरु तुभ्यं नमो नम: ॥५९॥
तत्पात्रपतितं देवमानयेत् कुम्भतोयके ।
मूलमन्त्रेण मन्त्रज्ञस्तन्मन्त्रमधुनोच्यते ॥६०॥
ओं नमोऽष्टकुलनागभूषणाय वैनतेयाय ।
नागशोणितदिग्धाङ्गाय सुपर्णाय सप्तपातालवासिने
पक्षिराजाय भगवद्वाहनाय गरुडाय त्रैलोक्यक्षोभणाय
ब्रह्मादिचतुरक्षरानुसाराय(?)युगान्तबीजाय मातुरर्थे(?)
शोकनाशाय हनहन(?)विघ्ननाशाय स्वाहा ।
अनेन तु स्वमन्त्रेण स्तुत्वा तु विहगेश्वरम् ।
सांनिध्यं कल्पयेत्तत्र पक्षिराजस्य सर्वदा ॥६१॥
एवमाहूय गरुडं ध्वजमुद्रां प्रदर्शयेत् ।
वामस्योपरि संस्थाप्य दक्षिणं तु करं समम् ॥६२॥
अङ्गुष्ठं चालयेत्तत्र ध्वजमुद्रां प्रदर्शयेत् ।
एवं मुद्रां प्रकुर्वीत गरुडं सर्पभूषणम् ॥६३॥
गन्धादिभि: समभ्यर्च्य धूपदीपान्तमेव हि ।
तत: पटगतं बिम्बं शयानं गरुडस्य तु ॥६४॥
लयमार्गेण संहृत्य पुनरुत्पादयेत् क्रमात् ।
पृथिव्यादिनि तत्त्वानि बीजादीने यथाक्रमम् ॥६५॥
सवाचकानि विन्यस्य मन्त्रदेहं प्रकल्पयेत् ।
सकलीकरणं कृत्वा ध्यानमार्गेण देशिक: ॥६६॥
कुम्भस्थितेन तोयेन प्रोक्षयेत्तं स्वविद्यया ।
पूर्वादिकलशस्थाद्भिरनन्तादीन् स्वनामभि: ॥६७॥
प्रणवादिनमोन्तैश्च कुशै: संप्रोक्षयेत् क्रमात् ।
सांनिध्यं प्रार्थयित्वा तु यावद्यागावसानकम् ॥६८॥
तत: संपूजयेत् सर्वैरुपचारै: खगेश्वरम् ।
घृताप्लुतं तु मुद्गान्नं नैवेद्यं परिकल्पयेत् ॥६९॥
मुखवासं प्रदायाथ होमकर्म समारभेत् ।
स्थण्डिलं तु चतुर्दिक्षु कृत्वा तत्र विधानत: ॥७०॥
वैष्णवाग्निं निधायात्र होमकर्म समारभेत् ।
समिदाज्येन चरुणा प्रत्येकं शतमष्ट च ॥७१॥
आहुतीर्जुहुयुर्विप्राश्चत्वार: सममेव तु ।
दीक्षिता एव जुहुयु: सोत्तरीया: स्वलंकृता: ॥७२॥
चतस्रो मूर्तय: प्रोक्ता: पक्षिराजस्य देशिकै: ।
स्वाहान्तं जुहुयु: सर्वे मूर्तिपा: मूर्तिभाविता: ॥७३॥
एवं समाप्य होमं तु स्पृशेयुस्ते खगेश्वरम् ।
पादयोर्जठरे चास्ये मूर्ध्नि चैव यथाक्रमम् ॥७४॥
अथवा मूलमन्त्रेण होममेकं तु वा मुने ।
प्राचीं दिशं समासाद्य कारयेत्तन्त्रवित्तम: ॥७५॥
विना होमं तु वा कुर्याद्गरुडस्थापनं मुने ।
ध्वजादन्यत्र कर्तव्यं चतुर्होमं यथाक्रमम् ॥७६॥
एवं समाप्य होमं तु स्थापनं गरुडस्य च ।
अथवास्मिन् मुनिश्रेष्ठ अधिवासनमुत्तमम् ॥७७॥
प्रवक्ष्यामि समासेन सुपुण्याहपुर:सरम् ।
पुण्याहं कारयित्वा तु ब्राह्मणै: सह मन्त्रवित् ॥७८॥
बन्धयेत् कौतुकं पश्चाद्वैनतेयस्य मन्त्रत: ।
वेदिकोपरि धान्यैश्च पूरयेद्भारसंमितै: ॥७९॥
अष्टपत्रं लिखेत् पद्मं वस्त्रेणाच्छादयेत् पुन: ।
तदर्धं तण्डुलं चैव तस्यार्धं तिलमेव च ॥८०॥
वेदिकायां तु संस्तीर्य वस्त्रैराच्छादयेत् पुन: ।
रक्तपुष्पं तु संस्तीर्य गन्धपुष्पै: समर्चयेत् ॥८१॥
तत्रैव शाययेद्देवं पूर्वोक्तेन विधानत: ।
अर्चयेद्गरुडं तत्र धूपदीपान्तमेव हि ॥८२॥
देवस्य दक्षिणे पार्श्वे स्थापयेत् कुम्भमुत्तमम् ।
तस्मिन्नावाहयेत् कुम्भे वैनतेयं महाबलम् ॥८३॥
आकाशात् पतितं खेशं ध्वजरूपे हि संस्थितम् ।
एहि खेश महाबाहो वैनतेय महाबल ॥८४॥
सांनिध्यं कुरु पक्षीश प्रसीदात्र नमोऽस्तु ते ।
अनेनावाहयित्वा तु मन्त्रेणैव तु देशिक: ॥८५॥
गन्धपुष्पादिभिर्द्रव्यै: वीशं कुम्भे ततोऽर्चयेत् ।
ततस्तु कलशानष्टौ कुम्भस्य परितो न्यसेत् ॥८६॥
इन्द्रादीशानपर्यन्तमिन्द्रादींश्च क्रमान्न्यसेत् ।
कलशेष्वर्चयित्वा तु लोकेशान् गन्धपुष्पकै: ॥८७॥
तद्बाह्ये विन्यसेदष्टमङ्गलान्(!) परितस्तथा ।
अर्चयित्वा ततो होमं प्राच्यां च स्थण्डिले क्रमात् ॥८८॥
समिदाज्यचरून् सम्यग् अष्टोत्तरशतं पृथक् ।
जुहुयाद्वैनतेयस्य मूलमन्त्रेण देशिक: ॥८९॥
प्रणवं पूर्वमुच्चार्य नमस्कारं तत: क्रमात् ।
चतुर्विंशतिकं पश्चात् व्यञ्जनं तु तृतीयकम् ॥९०॥
स्वरेणाद्येन संयुक्तमूनत्रिंशत्तथैव च ।
षोडशं चोच्चरेत् पश्चात् स्वरेणैकादशेन च ॥९१॥
वैनतेयपदं पश्चात् चतुर्थ्यन्त समन्वितम् ।
स्वाहाकारसमायुक्तं मूलमन्त्रं विदुर्बुधा: ॥९२॥
होमं समाप्य विधिवत् कुम्भादावाहयेत् पटे ।
तं पटं प्रोक्षयित्वा तु हंस: शुचिषदि त्यृचा ॥९३॥
मूलमन्त्रेण चावाह्य गरुडं सर्पभूषणम् ।
तद्रात्रौ विधिवत् प्रोक्ष्य पूजयेद्गन्धपुष्पकै: ॥९४॥
सक्तुखण्डरसोपेतं(-तै:?) मुद्गान्नैश्च गुलौदनै: ।
भक्ष्यैश्च विविधैश्चान्यै: पूजयेत्तं खगेश्वरम् ॥९५॥
मुखवासं ततो दद्यात् स्तुतिमन्त्रेण तोषयेत् ।
पूर्वादीशानपर्यन्तमिन्द्रादींश्चैव पूजयेत् ॥९६॥
नेष्यतेऽस्मिन् मुनिश्रेष्ठ प्रलयादिक्रियाक्रम: ।
द्विप्रकारो मया प्रोक्तो अधिवासविधिक्रम: ॥९७॥
आचार्येच्छानुरूपेण कारयेदेकधाऽत्र तु ।
ततस्तु देवताह्वानं स्वस्वमन्त्रेण तन्निशि ॥९८॥
कारयेन्मुनिशार्दूल जगत्संरक्षणार्थकम् ।
प्रासादस्याग्रभागे तु गरुडाभिमुखं यथा ॥९९॥
द्रोणद्वयेन संपूर्णं सतोयं रक्तवर्णकम् ।
त्रिसूत्रं तन्तुनावेष्ट्य पञ्चरत्नै: सपल्लवै: ॥१००॥
कूर्चद्वयसमायुक्तं रक्तमाल्यैरलंकृतम् ।
वस्त्रयुग्मेन संवेष्ट्य गन्धपुष्पैस्तु पूरितम् ॥१०१॥
एवं लक्षणसंयुक्ते कुम्भे चावाहयेद्बुध: ।
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥१०२॥
वायुं सोमं तथेशानं चन्द्रादित्यमरुद्गणान् ।
वसूनष्ट तथा रुद्रानेकादश विनायकम् ॥१०३॥
कार्तिकेयं वीरभद्रं द्वादशादित्यसंज्ञकान् ।
त्र्यक्षं पञ्चमुखं देवं नीलकण्ठमुमापतिम् ॥१०४॥
भूतेशांश्च तथा सर्वान् सगणानाह्वयेत्तत: ।
मातॄश्चैव तथा दुर्गां ज्येष्ठां चैव सरस्वतीम् ॥१०५॥
कान्तिं शान्तिं शुचिं मुद्रामुमां लक्ष्मीं तथैव च ।
सगणै: परिवारैश्च तान् नयेत् कुम्भतोयके ॥१०६॥
ततस्त्वावाहयेद्देवान् कुमुदादींश्च नारद ।
तेषां च परिवाराणि प्रयत्नेनानयेद् घटे ॥१०७॥
इन्द्रादीशानपर्यन्तमावहेत् कुम्भतोयके ।
कुंभ्?ातोयस्थदेवानामर्चनं गन्धपुष्पकै: ॥१०८॥
धूपदीपै: समाप्येवं घण्टाशब्दसमन्वितम् ।
हविर्निवेदयेत् पश्चात् सर्वदेवप्रियार्थकम् ॥१०९॥
अन्यथाकृततुल्यं स्यात् महान् दोषो भविष्यति ।
तद्ग्रामनाशकृद्वापि तत्रस्थो नरकं व्रजेत् ॥११०॥
तस्मात् सर्वप्रयत्नेन तत्कुम्भे पार्षदान् न्यसेत् ।
मण्डपे चैन्द्रभागे तु चतुर्हस्तप्रमाणत: ॥१११॥
गोमयेन समालिप्य शालिना वेदिमाचरेत् ।
अष्टद्रोणं तदर्धं वा तस्यार्धं वार्धमेव वा ॥११२॥
पूरयेत् स्थण्डिले मध्ये चाष्टपत्राब्जमालिखेत् ।
नववस्त्रेण संछाद्य पद्मं प्रणवमुच्चरन् ॥११३॥
दक्षिणादिक्रमेणैव शाययेद्दक्षिणाशिर: ।
तन्मध्ये भेरिकां न्यस्य नवं लक्षणसंयुतम् ॥११४॥
उत्तर्योष्णीषसंयुक्त आचार्यो मन्त्रवित्तम: ।
पश्चिमाभिमुखो भूत्वा तां भेरीं पूजयेत् क्रमात् ॥११५॥
गन्धादिभि: समभ्यर्च्य हरिं स्मृत्वादिमन्त्रत: ।
यावद्रात्र(-त्र्य?)वसानं तु तावत्तन्निशि ताडयेत् ॥११६॥
पश्चात् पञ्चमहाशब्दं नृत्तगीतसमन्वितम् ।
उत्तर्योष्णीषसंयुक्तो *यामलाचार्यत: *क्रमात् ॥११७॥
कारयेत् सर्वपार्षद्यान् वैनतेयादिकान् क्रमात् ।
एवं संघोषयित्वा तु *यामलाचार्यसंयुतम्* ॥११८॥
रात्रान्तकं(आरात्र्यन्तं?)विशेषेण सर्वदेवप्रियार्थकम् ।
कुर्यात् पञ्चमहाशब्दं सदा शुभविवर्धनम् ॥११९॥
ग्रामराज्ञोश्च वृद्धि: स्यात् तथैव नगरादिषु ।
तस्मात् सर्वप्रयत्नेन भेरीं तां निशि ताडयेत् ॥१२०॥
अन्यथा चेन्महादोषो राष्ट्रभ्रंशो भवेद्ध्रुवम् ।
तद्ग्रामं निधनं यति व्याधिभि: पीडनं ध्रुवम् ॥१२१॥
एवं कृत्वा विधानेन ध्वजोत्सवमथाचरेत् ।
तत: प्रभाते विमले शङ्खभेरीरवाकुलम् ॥१२२॥
सर्वालंकारसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
परिभ्रमणवेलायां बलिं कुर्यात् समाहित: ॥१२३॥
सलाजं रजनीचूर्णं क्षीरं दधिसमन्वितम् ।
पूर्वमिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्रैव पूजयेत् ॥१२४॥
नालिकेरफलं चैव पञ्चद्रव्यसमन्वितम् ।
बल्यन्नमेतै: संयोज्य बलिदानं तु चोत्सवे ॥१२५॥
क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ।
ध्वजोत्थानं दिवा कुर्याद्रात्रावाहनमेव च ॥१२६॥
स (तद्?)ध्वजे देवताह्वानं मध्याह्ने तु विशेषत: ।
आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ॥१२७॥
हविषा बलिदानं तु कृत्वा द्वाराग्रपीठयो: ।
मध्ये हस्तसमां वेदिं मध्ये देवान् समर्चयेत् ॥१२८॥
आरम्य बलिदानं तु कुर्याद्ग्रामादिवास्तुषु ।
इन्द्रादि ब्रह्मपर्यन्तं दिग्विदिक्षु क्रमान्न्यसेत् ॥१२९॥
तत्कुम्भे देवमावाह्य तत्तोयेन समर्चयेत् ।
पूर्वादिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्र सुपूजयेत् ॥१३०॥
ततस्तु गणसंयुक्तं कृत्वा ग्रामादिवास्तुषु ।
कुमुदादींश्च देवांश्च पूजयेत्ताननुक्रमात् ॥१३१॥
आचार्यो धौतवासास्तु उत्तराभिमुख: स्थित: ।
गन्धपुष्पादिनाभ्यर्च्य ऐन्द्राद्यैशान्तकादिषु ॥१३२॥
तेषां नाम समुच्चार्य बलिं दद्याद्विचक्षण: ।
यावद्यागावसानं तु तिष्ठन्ति बलिदेवता: ॥१३३॥
अत्र कश्चिद्विशेषोऽस्ति देवतानां बलिक्रमे ।
ध्वजारोहणकाले वै चोत्सवेषु विशेषत: ॥१३४॥
यागावसानं यावत्तु तावदैन्द्रादिकान् मुने ।
यावल्लक्ष्म्यवसानं तु मध्याह्ने क्रमयोगत: ॥१३५॥
पूजयेद्गन्धपुष्पाद्यैर्हविषा वेदिमध्यमे ।
बलिं दद्याद्यथालब्धं मध्याह्ने रात्रिषु क्रमात् ॥१३६॥
तेषां तु बलिकार्याणि विष्णो: प्रीतिकरं शुभम् ।
अङ्कुरोत्सवकालान्ते उत्सवार्थं महामुने ॥१३७॥
कारयेद्यागसिद्ध्यर्थं यागमण्डपपूजनम् ।
तत्पूजान्ते मुनिश्रेष्ठ होमं कुर्याद्यथाविधि ॥१३८॥
होमान्ते कुमुदादीनामारभ्य बलिमाचरेत् ।
यावत्तीर्थावसानं तु तावद्ग्रामादिवास्तुषु ॥१३९॥
अन्यथावाहनबलिर्ध्वजयागे कृतो भवेत् ।
ध्वजयागविनाशेन उत्सवो निष्फलो भवेत् ॥१४०॥
उत्सवस्य विनाशेन नित्यपूजा च निष्फला ।
नित्यपूजाविनाशस्तु सर्वसंहारकारणम् ॥१४१॥
तस्मात् सर्वप्रयत्नेन आवाहनबलिं कुरु ।
आनीय गरुडं वेश्म कृत्वा चैव प्रदक्षिणम् ॥१४२॥
स्मृत्वा कालविधिं पश्चात् कृत्वा पुण्याहघोषणम् ।
पीठस्य याम्यपार्श्वे तु ध्वजदण्डं तु शाययेत् ॥१४३॥
तदग्रं दक्षिणे स्थाप्य मूलमुत्तरतो न्यसेत् ।
विमाने पश्चिमद्वारेऽप्युत्तरे शाययेद्गुरु: ॥१४४॥
दक्षिणद्वारमेवं चेत्(-के चेत्तु?)ध्वजस्तम्भं महामुने ।
पीठस्य पूर्वपार्श्वे तु शाययेदैन्द्रशीर्षकम् ॥१४५॥
तन्मूलमवटे न्यस्य मूलमन्त्रमनुस्मरन् ।
उत्तरद्वारमेवं स्यात्(?)तद्ध्वजारोहणं प्रति ॥१४६॥
अन्यथा चेन्महादोषो ग्रामराज्ञोरवृद्धिकृत् ।
दिने दिने मुनिश्रेष्ठ धर्ममार्गो विनश्यति ॥१४७॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
महाकुम्भस्थतोयेन स्तम्भं प्रक्षाल्य मन्त्रत: ॥१४८॥
तद्ध्वजं तु समादाय प्रोक्षयेन्मन्त्रवित्तम: ।
मूलमन्त्रेण मतिमान् ध्वजयष्ट्या(-ष्टिं?)तु बन्धयेत् ॥१४९॥
निश्चलं स्थापयित्वा तु ध्वजदण्डेन चोद्धरेत् ।
यन्त्रेण चोद्धरेद्वापि रज्जुना सह देशिक: ॥१५०॥
वेदिं कुर्यात्तु पूर्वोक्तां लक्षणेन समन्विताम् ।
वेदिकां तु समालिप्य कृत्वा च स्वस्तिवाचनम् ॥१५१॥
यष्ट्यग्राद्दण्डमूलान्तं दर्भानावेष्ट्य साधक: ।
दर्भमालादिनावेष्ट्य दण्डमूलान्तमेव हि ॥१५२॥
पाद्याचमनगन्धं च पुष्पं धूपं तथैव च ।
दीपं चैव यथायोगं घण्टानादसमन्वितम् ॥१५३॥
अर्चयेद्गरुडं चैव चरुं पश्चान्निवेदयेत् ।
फलसक्तुसमोपेतं मुद्ग्रान्नं च घृताप्लुतम् ॥१५४॥
पृथक् पात्रे तु संस्थाप्य गरुडाय निवेदयेत् ।
पानीयाचमनं दत्वा मुखवासं तथैव च ॥१५५॥
एवमभ्यर्च्य गरुडं सर्वदेवप्रियं शुभम् ।
दिक्पालान्तमनाद्यन्तं परिवारमथार्चयेत् ॥१५६॥
ततस्तु लोकपालांस्तु पूजयेद्वेदिकाधरे ।
पूर्वादिक्रमयो?गेन स्वनाम्ना परिपूजयेत् ॥१५७॥
एवं दिने दिने कुर्यात् सन्ध्ययोरुभयोरपि ।
निवेदितं च यद्द्रव्यमन्नं पुष्पं फलं तथा ॥१५८॥
तत्पिण्डमिति विज्ञेयं स्त्रीणां चैव प्रदापयेत् ।
सुमङ्गली च नारी च सती शुद्धा शुभव्रता ॥१५९॥
तत् प्रसादमिति स्मृत्वा स्नात्वोपोष्य शुभानना ।
प्राशयेद्गरुडं ध्यात्वा वन्ध्या पुत्रं प्रसूयते ॥१६०॥
रोगार्तो मुच्यते रोगात् बद्धो मुच्येत् बन्धनात् ।
भयान्मुच्येत आपन्न: सम्यग् ज्ञानमवाप्नुयात् ॥१६१॥
आवाहनार्थं देवानां गरुडं तु पटे न्यसेत् ।
तत्पटे सर्वदेवांश्च आह्वयेत्तु दिने दिने ॥१६२॥
लोहं दारुमयं बिम्बं विना वा स्थाप्यते ध्वजम् ।
यदि ध्वजपटे बिम्बं गरुडस्य कृतं भवेत् ॥१६३॥
पताकाध्वजसंयुक्तं कृत्वा चित्रमपि ध्वजम् ।
उपरि प्रतिमां कृत्वा स्थापयेद्देशिकोत्तम: ॥१६४॥
[समाप्ते वैष्णवे यागे स्नपनान्ते यथाविधि ।
रात्रौ भूतबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ॥१६५॥
कारयेत् पुष्पयागं तु यथाविधिपुर:सरम् ।
(*पुष्पयागविधि: प्रोक्तो मया शक्र विधानके ॥१६६॥
तद्वन्मण्डलमालिख्य तद्विधानेन पूजयेत्* ।)
पुष्पयागविधिं वक्ष्ये समासान्मुनिपुङ्गव ॥१६७॥
देवेशयजनं यत्तु मण्डले पुष्पपूरिते ।
पुष्पयाग इति प्रोक्त उत्सवान्ते तु कारयेत् ॥१६८॥
प्रासादाग्रेऽथवा याम्ये वारुणे सौम्यकेऽथवा ।
पूर्वोक्तमण्डपं कृत्वा मण्डपे तु समालिखेत् ॥१६९॥
विनोदमण्डपे वाथ यत्र वा रमते मति: ।
मण्डलं तु महानन्तं चक्राब्जं च तथैव च ॥१७०॥
भद्रकं वाथ विधिवत् सूत्रपातं तथा भवेत् ।
एकहस्तं द्विहस्तं वा गर्भगेहसमं तु वा ॥१७१॥
चतुरश्रं समं कृत्वा सूत्रेणैव तु देशिक: ।
एकविंशतिसूत्राणि प्राक्प्रत्यग्दक्षिणोत्तरम् ॥१७२॥
आस्फालयेद्भवन्त्यत्र कोष्टकानि चतु:शतम् ।
मध्ये षोडशकोष्ठानि पद्मक्षेत्रमुदाहृतम् ॥१७३॥
बहि: पङ्क्तिं विसृज्याथ त्रिपङ्क्तिं ग्राहयेत्तत: ।
पादगात्रकभेदेन विमृजेत् परित: क्रम त् ॥१७४॥
अन्त: षट् च बहि: षट् च मध्ये तु चतुरश्रकम् ।
विसृजेत्तु चतुर्दिक्षु गात्रार्थं तु विचक्षण: ॥१७५॥
अन्त: षट् च बहि: पञ्च कोणपादार्धमाचरेत् ।
पङ्क्तिद्वयं तु तद्बाह्ये वीथ्यर्थं परितो मृभेज् ॥१७६॥
द्वारकण्ठोपकण्ठं च शोभां बाह्यपदद्वये ।
अन्तर्द्वे चतुरो बाह्ये द्वारार्थं तु चतुर्दिशि ॥१७७॥
त्रीण्यन्तर्बहिरेकं स्याद्विपर्यासेन मार्जयेत् ।
अन्तरेको बहि: पञ्च कोणेषु परिमार्जयेत् ॥१७८॥
मण्डलं भ्रामयेत् क्षेत्रं पद्मार्थं तु पुरोदितम् ।
पद्मक्षेत्रार्धमानं तु भागं द्वादशमं (-कं?) बहि: ॥१७९॥
विसृज्य भ्रामयेच्छीर्षं त्वरक्षेत्रं तु वर्तलम् ।
प्रथमं कर्णिकाक्षेत्रं केसराणां द्वितीयकम् ॥१८०॥
तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।
आस्फल्य कोणसूत्राणि कोणदिङ्मध्यमं तत: ॥१८१॥
केसराग्रेषु संस्थाप्य दलान्तं भ्रामयेत्तत: ।
दलान्तरालमानं तु सन्धौ सूत्रं तु विन्यसेत् ॥१८२॥
दलाग्रं भ्रमयेत्तत्र तस्याग्रां तदनन्तरम् ।
एतत् साधारणं प्रोक्तं चक्राब्जं तु तत: श्रृणु ॥१८३॥
द्विषट्काङ्गुलमानेन अक्षक्षेत्रं परिभ्रमेत् ।
अक्षक्षेत्रसमा नाभि: बाह्यरेखाद्वयं लिखेत् ॥१८४॥
एकाङ्गुलप्रमाणेन अरक्षेत्रं ततो बहि: ।
पद्मं पूर्वोक्तवत् कुर्यात् कर्णिकाकेसरैर्युतम् ॥१८५॥
अरक्षेत्रस्य विस्तारं नाभ्यक्षक्षेत्रयो: समम् ।
नेमिक्षेत्रान्तवलयमक्षक्षेत्रार्धकं भवेत् ॥१८६॥
अराणि कारयेत्तत्र द्वौ द्वौ कुर्याद्दलं प्रति ।
अरक्षेत्रं त्रिधा कृत्वा गुणत्रयविधानत: ॥१८७॥
प्रथमं सात्त्विकं चैव द्वितीयं राजसं भवेत् ।
तृतीयं तामसं चैव समं कुर्याद्द्विजोत्तम ॥१८८॥
सात्त्विकं कलशाकारं दूर्वाकारं तु राजसम् ।
तामसं को(कू?)र्पराकारं पीठाकारं तथोपरि ॥१८९॥
प(पी?)ठस्य पृष्ठतश्चापि मणिबन्धवदाचरेत् ।
अधोवक्त्रं तु कलशं नाभिक्षेत्रं तु मध्यमम् ॥१९०॥
शिखाकारमरान्तं स्याच्छेषमिच्छानुरूपत: ।
एवमेव प्रकारेण चक्रब्जं परिभाषितम् ॥१९१॥
मण्डलं पूरयेत् पुष्पै: कर्णिकादि यथाक्रमम् ।
पञ्चवर्णानि पुष्पाणि पुष्पयागे शुभानि तु ॥१९२॥
श्वेतं रक्तं च पीतं च कृष्णं हरितमेव च ।
शुद्धवर्णानि चैतानि मिश्रितान्यपराणि च ॥१९३॥
पुष्पेषु पुष्पवर्गेषु छेदयित्वा विचक्षण: ।
पीतेषु कर्णिकां पूर्य रक्तं वै केसराणि च ॥१९४॥
कर्णिकावलयं रक्तं हरितं वा द्विजोत्तम ।
केसरान्ते च वलयं श्वेतपुष्पेण पूरयेत् ॥१९५॥
दलेषु मूलभागेषु श्वेतरक्तविमिश्रितै: ।
दलाग्रान् रक्तपुष्पेण पूरयेद्देशिकोत्तम: ॥१९६॥
दलानां सन्धिदेशे तु श्यामपुष्पेण पूरयेत् ।
दलान्तरेखां विप्रेन्द्र कुसुमैर्हरितेन च ॥१९७॥
पूरयेन्नाभिरेखां च सितै: पुष्पैर्मनोरमै: ।
मध्यरेखां मुनिश्रेष्ठ पीतपुष्पेण पूरयेत् ॥१९८॥
अन्ता रेखास्तु मन्त्रज्ञ: कुसुमै रक्तकैसतथा ।
अरं चोत्तररेखां वै हरितै रक्तकैस्तथा ॥१९९॥
नेम्यादिरेखां कृष्णेन नेम्यन्तं(न्तां?)सितपुष्पकै: ।
नेमिं रक्तेन पूर्याथ पीतपुष्पेण वा द्विज ॥२००॥
पुष्पमण्डलमुद्दिष्टं पुष्पयागे विशेषत: ।
एवं लक्षणसंयुक्तं चक्राब्जं कारयेत् सुधी: ॥२०१॥
ध्वजारोहादिजीर्थान्तं प्रायश्चित्तं तु यद्भवेत् ।
तस्य दोषविघातार्थं पुष्पयागं च कारयेत् ॥२०२॥
प्रासादस्याग्रत: कुर्याद्दक्षिणे पश्चिमेऽपि वा ।
उत्तरे वा द्विजश्रेष्ठ मण्डपं पूर्ववत् क्रमात् ॥२०३॥
तस्य मध्ये लिखेद्विद्वान् चक्राब्जं लक्षणान्वितम् ।
द्वारे द्वारे तु घटिका द्वे द्वे चैव तु विन्यसेत् ॥२०४॥
शरावं विन्यसेत्तद्वत् पूर्वादिषु यथाक्रमम् ।
ऐन्द्राद्यैशानपर्यन्तं पालिका विन्यसेत् क्रमात् ॥२०५॥
तत्पार्श्वे मङ्गलान् न्यस्य(?)शङ्खादींश्च यथाक्रमम् ।
मण्डलं पूरयेत् पुष्पै: कर्णिकादि यथाक्रमम् ॥०६॥
प्राच्यादिदिक्चतुष्केषु वासुदेवादिकान् यजेत् ।
श्रियादीन् कोणदेशेषु न्यसेत् पद्मोपरि क्रमात् ॥२०७॥
इन्द्रादिपरिवारांश्च दिक्षु चैव यथाक्रमम् ।
विष्वक्सेनं गरुत्मन्तं यजेत्तत्रैव संनिधौ ॥२०८॥
इत्येवं योगयेद्विद्वान् पुष्पविन्यासमण्डले ।
स याति विष्णुसालोक्यं ज्ञानयज्ञेन संयजेत् ॥१०९॥
पुष्पयागविधि: प्रोक्तो मया शक्र विधानके ।
तन्मण्डलं समालिख्य तद्विधानेन पूजयेत् ॥२१०॥]
भूतक्रूरबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ।
स्नात्वाचम्य शुचिर्भूत्वा समभ्यर्च्य खगेश्वरम् ॥२११॥
उद्वसयेद्यथापूर्वमाहूतास्तत्र देवता: ।
नित्ये नैमित्तिके काम्ये ध्वजसंस्थानं मतम् ॥२१२॥
आचार्यं पूजयेत् पश्चात् यथाशक्ति समाहित: ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [ध्वजारोहणादिविधर्नाम]
षङ्विशोऽध्याय:॥
N/A
References : N/A
Last Updated : January 09, 2021
TOP