विश्वक्सेनासंहिता - चतुस्त्रिंशोऽध्याय:
विश्वक्सेनासंहिता
विष्वक्सेन:---
प्रासादलक्षणं वक्ष्ये संक्षेपेण मुनीश्वर ।
नदीतीरे ह्रदे वापि पर्वताग्रे समे तले ॥१॥
समुद्रसङ्गमे तीरे तटाके सङ्गमेषु च ।
पुण्यक्षेत्रे महारण्ये पुण्यतीर्थे महामुने ॥२॥
ग्रामे वा नगरे वापि पत्तने खेटकेऽपि वा ।
कुग्रामेऽथ महाग्रामे मध्यमे पश्चिमेऽपि वा ॥३॥
यत्स्थानं मनसो रम्यं कारयेद्विष्णुमन्दिरम् ।
उत्तमं तु शिलावेश्म मध्यमं दारु चोच्यते ॥४॥
कनिष्ठमिवि(-ष्ट?) कावेश्म कुर्याद्वित्तानुसारत: ।
मृदा वा कारयेद्धीमान् विष्णोरायतनं क्रमात् ॥५॥
त्रिविधं त्रिविधं हस्तमुत्तमाधममध्यत: ।
यत्त्रिंशद्धस्तसंख्या च उत्तमोत्तममुच्यते ॥६॥
एकविंशतिहस्तं तु त्रिविधं चोत्तमं विदु: ।
तत्?पञ्चदशहस्तं तु मध्यमोत्तममुच्यते ॥७॥
एकादशं च हस्तं तु मध्यमं परिकीर्तितम् ।
मध्यमे तु कनिष्ठं च नवहस्तमिहोच्यते ॥८॥
तत्कनिष्ठोत्तमं प्रोक्तं सप्तहस्तमिहोच्यते ।
मध्यमं पञ्चहस्तं तु त्रिहस्तं तु कनीयसम् ॥९॥
तत्तद्वित्तनुसारेण तत्तत्कुर्यात् समाहित: ।
कनिष्ठमूले चतुष्कोणे वाहनं स्थापयेत् क्रमात् ॥१०॥
सिंहं वा गरुडं वापि मारुतात्मजमेव वा ।
विमानस्योपरि न्यस्य पूर्वादिचतुरो दिशि ॥११॥
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
कारयेत् स्वस्वरूपेण ह्युत्तरेऽनन्तमेव वा ॥१२॥
नरो नारायणश्चैव हरि: कृष्णस्तथैव च ।
पूर्वादि चतुरो दिक्षु कारयेत्तु यथाक्रमम् ॥१३॥
कारयित्वा तदूर्ध्वे तु शिखरं मण्डलं तत: ।
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ॥१४॥
मूर्धेष्टकाविधानेन तदूर्ध्वे कारयेत् क्रमात् ।
स्तूपिं संस्थाप्य तन्त्रज्ञो तन्मध्ये मुनिसत्तम ॥१५॥
स्तूपिमध्येऽब्जमालिख्य कर्णिका केसरान्वितम् ।
द्वादशाष्टदलं वापि षोडशं वा सुकारयेत् ॥१६॥
तदूर्ध्वे कारयेत् कुम्भं हस्तं वा द्विगुणं तु वा ।
तत्पादहीनकं वापि कारयेत्तं सुशोभनम् ॥१७॥
सुधाकर्म तत: कुर्यात् चित्रकर्म च कारयेत् ।
एवं कृत्वा विमानं तु कारयेन्मण्डपं क्रमात् ॥१८॥
प्राकारं द्वित्रिरेकं वा गोपुरेण समन्वितम् ।
कारयेन्मुनिशार्दूल आग्नेये पचनालयम् ॥१९॥
पुष्पस्थानं जलस्थानं प्राकारे तु प्रकारयेत् ।
वायव्ये नैरृते वापि ईशाने वा मुनीश्वर ॥२०॥
विनोदमण्डपं कृत्वा सर्वालंकारसंयुतम् ।
अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत् ॥२१॥
एवं संक्षेपत: प्रोक्तं प्रासादस्येह लक्षणम् ।
विमानाख्यमथो वक्ष्ये श्रृणु तत्त्वेन नारद ॥२२॥
मन्दरं निषधं चैव नागरं च समन्वितम् ।
द्राविडं वेसरं चैव पञ्चभेदेन कीर्तितम् ॥२३॥
कूटशालासमायुक्तं सर्वदिङ्नासिकायुतम् ।
कण्ठोपरि सुविस्तीर्णं पर्वतो मन्दर: स्मृत: ॥२४॥
पादप्रभृति सिंहान्तं चतुरश्रं सुविस्तरम् ।
यत्कूटशालारहितं पर्वतो निषध: स्मृत: ॥२५॥
कष्ठात्प्रभृति स्तूप्यन्तं चतुरश्रं समन्तत: ।
नागरं तत् समाख्यातं द्राविडं चाधुनोच्यते ॥२६॥
कण्ठात्प्रभृति र(चा?)ष्टाश्रं प्रासादं द्राविडं भवेत् ।
शयने तु मुनिश्रेष्ठ गोपुराकृतिरुच्यते ॥२७॥
त्रिचतु: पञ्चषट्कुम्भसंयुक्त्र वात्र कारयेत् ।
कुमुदादि(-त्?)स्तूपिमूलान्तं षोडशाष्टाश्रमेव वा ॥२८॥
द्वात्रिंशदश्रकं वापि कारयेन्मुनिसत्तम ।
तत्प्रासादं समाचक्ष्व द्राविडांश भेवद्ध्रुवम् ॥२९॥
कण्ठात् प्रभृति वृत्तं स्याद्वेसरं तत्समं भवेत् ।
त्रिपूर्णकुम्भयुक्धाम वेसराकाररूपिणम् ॥३०॥
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रेलोक्?यभूषणम् ।
प्रागायतं विमानोऽय(?)मुत्तमं परिपठ्यते ॥३१॥
दग्धेष्टकाभिस्तु शिलामयैस्तु
यत्तत्तु क्लृप्तं पुरुषाख्यमेव ।
शिलामयैर्दारुमयेष्टकामयै:
समाश्रितं भाव्यमिदं नपुंसकम् ॥३२॥
कृतं दृढं दारुमयेन केवलं
तदङ्गनाख्यं त्रिविधं विमानम् ।
अथात: संप्रवक्ष्यामि मूर्धेष्टकाविधिं परम् ॥३३॥
प्रासादस्योत्तरे कुर्यात् पूर्वे वा मुनिसत्तम ।
षोडशस्तम्भसंयुक्?तं चतुस्तोरणभूषितम् ।
सर्वालंकारसंयुक्तं शालिभिर्वेदिसंयुतम् ॥३५॥
अष्टद्रोणसमायुक्तं सर्वशोभनशोभितम् ।
तदर्धं तण्डुलं कुर्यात् तदर्धं तिलमेव च ॥३६॥
उपर्युपरि कर्तव्यं वेदिकां च सुशोभनाम् ।
कुशै: परिस्तरेत्तत्र उदक्प्रागग्रत: क्रमात् ॥३७॥
नववस्त्रैस्तु संवेष्ट्य तदूर्ध्वे तु क्रमान्न्यसेत् ।
इष्टकां(का:?)पूर्ववत् कृत्वा चत्वार: पूर्ववत्क्रमात् ॥३८॥
मूर्तिमन्त्रेण संस्थाप्य मूलमन्त्रेण मन्त्रवित् ।
स्तूपिं संस्थापयेत्तत्र मूलमूर्तिमनुस्मरनु ॥३९॥
तत्तन्मध्ये तु संस्थाप्य पुन: प्रच्छाद्य वाससा ।
होमं कुर्याच्चतुर्दिक्षु अथवा पश्चिमे दिशि (?) ॥४०॥
एकाग्निं वा प्रतिष्ठाप्य होमयेन्निशि पूर्ववत् ।
मूर्तिमन्त्रेण सकलं समिदाज्यचरूंस्तथा ॥४१॥
स्थण्डिले मुनिशार्दूल एकैकं शतमाहुती: ।
तुरीयेण तु मन्त्रेण पूर्णाहुतिमथाचेरत् ॥४२॥
कुम्भं च सुदृढं स्थाप्य पूर्वभागे तु मन्त्रवित् ।
नानारत्नसमोपेतमथवा हेमसंयुतम् ॥४३॥
सापिधानं सवस्त्रं च सुदृढं तन्तुवेष्टितम् ।
कलशान् साधयेदष्टविद्येशान् परित: क्रमात् ॥४४॥
सवस्त्रान् सापिधानांश्च सहिरण्यान् चकूर्चकान् ।
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ॥४५॥
पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगै: ।
रात्रिशेषं नयेत्तत्र गेयनृत्तसमन्वितम् ॥४६॥
प्रभातायां तु शर्वर्यामाचार्य: सर्वमन्त्रवित् ।
स्नात्वा वस्त्रादिभिर्भूष्य दैवज्ञं पूजयेत्तदा ॥४७॥
तक्षकं कर्मयोग्यत्वादाचार्यानुज्ञया मुने ।
नववस्त्राङ्गुलीयैस्तु पूजयेत्तक्षकान् क्रमात् ॥४८॥
तक्षकेण विना किञ्चित् कर्मात्र हि न विद्यते ।
स एव विश्वकरणात् स्रष्टेति परिकीर्त्यते ॥४९॥
तक्षकेण तु यत्कर्म पूर्वमारब्धमुत्तमम् ।
तक्षकेण तु कर्तव्यं नान्येन तु कदाचन ॥५०॥
तस्यैव कर्मयोग्यत्वं विधातृविहितं यत: ।
तस्मात् सर्वप्रयत्नेन तेनैव सह चोदितम् ॥५१॥
मूलमग्रं विदित्वा तु चतुरश्रेष्टका न्यसेत् ।
मध्ये स्तूपिं प्रतिष्ठाप्य पुण्याहं वाचयेत्तत: ॥५२॥
मूर्धेष्टकां न्यसेन्मन्त्री पूर्वे पुरुषमन्त्रत: ।
विश्वेन दक्षिणे न्यस्य निवृत्या पश्चिमे न्यसेत् ॥५३॥
ऐश्वर्यं(सर्वेण?)चोत्तरे न्यस्य स्तूपिं तु परमेष्ठिना ।
कलशै: स्नापयेद्विद्वान् सूक्तेन पुरुषेण च ॥५४॥
कुम्भं च मूलमन्त्रेण स्थापयेत् स्तूपिमूर्धनि ।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥५५॥
ऋग्वेदं पूर्वभागे तु यजुर्वेदं तु दक्षिणे ।
पश्चिमे सामगानं तु उत्तरेऽथर्ववेदिन: ॥५६॥
क्रमात् संभोज्य विधिवत् पुण्याहं वाचयेत्तत: ।
एवमेव प्रकुर्यात्तु परिवारालयस्य च ॥५७॥
प्राकारस्यैव कुर्यात्तु रत्नन्यासं विना क्रमम् ।
गोपुरे मण्डपे चैव मूर्तिहोमं विना भवेत् ॥५८॥
एतत् संक्षेपत: प्रोक्तं मूर्धेष्टकाविधिं परम् ।
एवमुक्?तप्रकारेण कारयेद्गेहमुत्तमम् ॥५९॥
ब्राह्मण: क्षत्रियो वापि वैश्य: शूद्रोऽथ एव वा ।
तक्षको वा मुनिश्रेष्ठ यथाशास्त्रानुसारत: (!) ॥६०॥
कारयेच्छिल्पकर्माणि पूर्वपूर्वा गरीयसी ।
आद्येष्टकादिकान् सर्वान् कारयेत् क्रमयोगत: ॥६१॥
तक्ष्णस्तु सर्वथालाभे मूर्धेष्टकाविधिं परम् ।
सुधाकार्यं च चित्रार्धं चित्राभासं तथैव च ॥६२॥
मूलबेरविधानं च परिवारालयादिकम् ।
अन्यैरपि कुलालाद्यै: कारयेद्वा यथाक्रमम् ॥६३॥
उपानस्तूपिपर्यन्तं मूलालयविधिं (धि: ?) परम् (र:?) ।
तक्षकेणैव कर्तव्यमन्यथा राज्यनाशकृत् ॥६४॥
इति मूर्धेष्टकान्यासं कारयीत क्रमाद्गुरु: ।
राज्ञो राष्ट्रस्य कर्तुश्च स्वस्यापि हितकाम्यया ॥६५॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रासादलक्षणादिविधि-
र्नाम चतुस्त्रिंशोऽध्याय:
N/A
References : N/A
Last Updated : January 09, 2021
TOP