संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|विश्वक्सेनासंहिता| पञ्चदशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - पञ्चदशोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम पञ्चदशोऽध्याय: Translation - भाषांतर नारद:---ब्रूहि मे हरिसेनेश मूलमन्त्रेण विस्तरात् ।होमक्रमं कृपाधार शुश्रूषोर्भक्तवत्सल ॥१॥विष्वक्सेन:---श्रृणु नारद तत्त्वेन पूर्वभागे यथामुने ।कुण्डानि स्रुक्स्रुवं (वौ?)चैव प्रस्पष्टं प्रोक्तवानहम् ॥२॥तत्क्रमेण विना वापि सह वा मूलविद्यया ।होमं कुर्याद्यथाशक्ति सिद्धं(द्धिं?)विन्देत सर्वथा ॥३॥वैष्णवै: करणैर्युक्तमतस्तं प्रथमं श्रृणु ।पिप्पलं च शमीगर्भमरणिं परिकल्पयेत् ॥४॥मथित्वा वैष्णवैरग्निमथवा रत्नसंभवम् ।लौकिकं वा समानीय प्रोक्षयेद्द्वादशाक्षरै: ॥५॥आचार्योऽग्निं समादाय स्वात्मन्येवोपसंहरेत् ।तेन बीजेन मतिमान् तर्जन्यङ्गुष्ठया मुने ॥६॥अञ्जलिमुद्रया चाग्निं नमस्कृत्य पुन: पुन: ।कुण्डं वा स्थण्डिलं वापि चतुरश्रं तु कारयेत् ॥७॥वैष्णवीकरणार्थाय अग्नेर्हस्त(?)मतन्द्रित: ।चतुरङ्गुलमानेन खानयेदवटं धराम् ॥८॥खाताद्धि द्व्यङ्गुलं हित्वा मेखलां परिकल्पयेत् ।चतुरङ्गुलविस्तारमुत्सेधं तु तथैव च ॥९॥कारेयन्तमुनिशार्दूलद मेखलैका समन्तत: ।इत्येकमेखलाकुण्डं तन्त्रेऽस्मिन् परिकीर्तितम् ॥१०॥वैष्णवानलकुण्डस्य वलयं योनिकल्पनम् ।यथाकामं प्रकर्तव्या योनि: पिप्पलपत्रवत् ॥११॥कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ।वैष्णवीकरणार्थाय संप्रोक्तं कुण्डलक्षणम् ॥१२॥संप्रोक्ष्याभ्युक्ष्म शा(चा?) स्त्रेण साधको मुनसित्तम ।उपलिप्योल्लिखेद्रेखामर्गलां(?) यज्ञनामिकाम् ॥१३॥सौम्याग्रां प्रथमां तस्या रेखे पूर्वाग्रिके तयो: ।मध्ये तिस्रस्तथारूपा: दक्षिणादिक्रमेण तु ॥१४॥एवमुल्लिख्य चाभ्युक्ष्य प्रणवेनैव मन्त्रवित् ।शय्यां तु चिन्तयेत् पूर्वं कुण्डमध्ये तु देशिक: ॥१५॥धर्मादिपादं(दान्?)विन्यस्य तथाधर्मादिकत्रयम् ।अनन्तं विन्यसेन्मध्ये तत: पाशास्त्रयो गुणा: ॥१६॥तत: प्रोक्तविधानेन मूलमन्त्रेण साधक: ।पृथिव्यादीनि भूतानि करणादीनि कर्तृके(?) ॥१७॥परिस्तरणसंछन्नां* धूपामोदसुधूपिताम्*(?) ।ध्यायेच्च लक्ष्मीं तन्मध्ये प्रकृतिं त्रिगुणात्मिकाम् ॥१८॥तस्मिन् शयनमध्ये तु संप्राप्तनवयौवनाम् ।अतीव रूपसंम्पन्नां मदघूर्णितलोचनाम् ॥१९॥सर्गशक्तिसमोपेतां वैष्णवीं शुभविग्रहाम् ।दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम् ॥२०॥दिव्यगन्धानुलिप्ताङ्गीं दिव्याभरणभूषिताम् ।साभिलाषामृतुस्नातां प्रार्थयन्तीं हरिं प्रति ॥२१॥एवं रूपां च संचिन्त्य देवीं पङ्कजधारिणीम् ।गन्धमाल्योदकादीनि मुखवासान्तकानि च ॥२२॥यानि क्रीडोपचाराणि तानि ध्यात्वा समन्तत: ।अतीव रूपसम्पन्नं प्रथमे वयसि स्थितम् ॥२३॥मकुटाङ्गदचित्राङ्गं नीलकुञ्चितमूर्धजम् ।दिव्यमाल्याम्बरधरं दिव्यरत्नविराजितम् ॥२४॥श्रीवत्सेनाङ्कितोरस्कं वनमालाविराजितम् ।सर्वरत्नप्रभाजालकौस्तुभेन विराजितम् ॥२५॥अन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ।आजानुबाहुं श्रीमन्तं सौम्यं प्रहसिताननम् ॥२६॥लावण्यामृततोयेन सिञ्चन्तमिव सर्वत: ।चतुर्भुजमनुध्यायेत् शङ्खचक्रगदाधरम् ॥२७॥एवं रूपं ततो ध्यात्वा देवीं देवं तथैव च ।अर्चयेद्गन्धपुष्पाद्यैरुपचारैर्मनोरमै: ॥२८॥संपूजयेत्ततो भक्त्या स्वयं तु विगतस्पृह: ।एकशय्यागतौ ध्यात्वा समालिङ्ग्य व्यवस्थितौ ॥२९॥पश्चात्तु ग्राम्यधर्मेण परं हर्षमुपागतौ ।देवस्य शुक्लमध्यस्थं वह्निबीजं तु साधक: ॥३०॥तेन बीजेन मतिमान् न्यसेदग्निमनुत्तमम् ।गर्भशय्यां प्रतिष्ठाप्य तद्रत्नेन समन्वितम् ॥३१॥देवं विसर्जयेत् पश्चात् गर्भाधाने कृते सति ।अग्निं समेधयेत् पश्चात् शुष्ककाष्ठैरनन्तरम् ॥३२॥प्रादेशमात्रा:समिध: कृत्वाधानं तत: पुन: ।परिसमूह्य ततो दर्भै: परिस्तीर्य त्रिधा त्रिधा ॥३३॥अग्रैराच्छादयेद्यद्वत् मूलं पूर्वादित: क्रमात् ।पात्राण्यासादयेत्तस्मिन् इध्मबर्हिद्वयं तथा ॥३४॥स्रुक्स्रुवौ च प्रणीतेन(च?)क्ष(स्था?) पयित्वात्र साधक: ।प्रोक्षणी च प्रणीते द्वे आज्यस्थालीमुखं(द्वयं) तथा ॥३५॥युग्मं युग्मं व्यवस्थाप्य अन्यदप्युपयोगि यत् ।तत्सर्वं प्रोक्षायित्वा तु गृहीत्वा प्रोक्षणीं तत: ॥३६॥अद्भि: संपूर्य चोत्पूय पवित्रान्तर्हिते करे ।अवस्थाप्य च तत्तोयं प्रोक्षयित्वात्र साधक: ॥३७॥प्रोक्षण्यामेव तत्कृत्वा ध्यात्वा ज्योतिषमव्ययम् ।पूर्ववत् स्थापयेदग्ने:(ग्निं?) संस्कृत्यान्तर्जलेन तु ॥३८॥त्रि:संप्रोक्ष्य तत:सर्वं इध्मं विस्रस्य साधक: ।गन्धपुष्पाक्षतयुतां पवित्रान्तर्जलेन तु ॥३९॥प्रणीतामग्रत: कृत्वा तस्यां साङ्गं न्यसेद्धरिम् ।गन्धादिभि:समभ्यर्च्य सर्वरक्षाकरं प्रभुम् ॥४०॥ध्यात्वा नीत्वोत्तरे भागे स्थापयित्वार्चयेद् बुध: ।आज्यस्थालीमथाज्येन संपूर्याग्रे निधाय तु ॥४१॥संप्लवोत्प्लवनाभ्यां तु कुर्यादाज्यस्य संस्कृतिम् ।आखण्डिताग्रौ निहतौ कुशौ प्रादेशमात्रकौ ॥४२॥ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ।तानन्तयोस्तु संगृह्य त्रिर्नीत्वा त्रिरथानयेत् ॥४३॥स्रुक्स्रुवौ चापि संमृज्य पुन: प्रक्षाल्य चैव हि ।निष्टप्य स्थापयित्वा तु प्रणवेनैव साधक: ॥४४॥तेन बीजेन मतिमान् गर्भाधानादि होमयेत् ।गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥४५॥जातकर्मनामकरणान्नप्राशनमेव च ।चौलं तथोपनयनं प्राजापत्यं तु सोमकम् ॥४६॥वैश्वदेवं च शुक्रियं समावर्तनमेव च ।विवाह इति विज्ञेयो मुनेऽत: परमेव हि ॥४७॥संस्कारानुक्रम: प्रोक्तस्तत्क्रिया वक्ष्यतेऽधुना ।अग्निं समर्च्य गन्धाद्यै: गर्भाधानादि होमयेत् ॥४८॥आचार्योऽनलजिह्वासु सप्तस्वेवारभेन्मुने ।अन्यथाकृततुल्यं स्यात् विपरीतफलप्रदम् ॥४९॥नारद:---ब्रूहि यत्कथितं पूर्वं श्रवणीयं मया यदि ।जिह्वा सप्तेति किं नाम किं पदं किं गुणं मुने ॥५०॥विष्वक्सेन:---श्रृणु वक्ष्याम्यहं सम्यक् रहस्यं परमं मुने ।जिह्वाख्यां स्थानरूपे च विनियोगमत: परम् ॥५१॥जिह्वाग्ने: प्रथमा काली कराली तदनन्तरा ।मनोजवा या तृतीया तु तुर्या लोहिता भवेत् ॥५२॥सुधूम्रा पञ्चमी षष्ठ स्फलिङ्गिन्यभिशब्दिता ।सप्तमी विश्वरूपाख्या सप्तजिह्वा: प्रकीर्तिता: ॥५३॥काल्यास्तु मध्यमं स्थानं कराल्या: पूर्वदिग् भवेत् ।मनोजवाया: कीनाशं वारुणी(-णं?) लोहितापदम् ॥५४॥सूधूम्रा सोमनीलाय (-निलया?)स्फुलिङ्गिन्यनलालया ।विश्वरूपी(-पे?)शवसतिरेवं स्थानं क्रमान्मुने ॥५५॥आसां काल्यां विवाहान्तं गर्भाधानादि कारयेत् ।वैष्णवानलरूपे तु प्रणेवन हुनेद् घृतम् ॥५६॥एकैकमष्टाहुतिभि: संस्काराणि विशेषत: ।स्मरंस्तत्तद्भावनया साधक: प्रौढमानस: ॥५७॥षोडशेध्मान् समादाय सकृत् प्रणवमुच्चरन् ।जुहुयात् कुण्डमध्ये तु काल्यां चान्नावसानके(कम्?) ॥५८॥पुनराज्याहुतिं हुत्वा प्रणवेनाष्टधात्र तु ।चरुं हुत्वाक्षमात्रेण प्रत्येकैकाहुतिं क्रमात् ॥५९॥अष्टाक्षरेण मन्त्रेण अ(-णाप्य?)ष्टाविंशतिसंख्यया ।पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधक: ॥६०॥वौषडन्तेन मन्त्रेण प्लुतं प्रणवमुच्चरेत् ।गन्धपुष्पादिनाभ्यर्च्य नमस्कृत्याग्निमन्त्रत: ॥६१॥कुण्डादग्निं समादाय पूर्वकुण्डे नियोजयेत् ।ततस्तु दक्षिणे न्यस्य पश्चिमे तदनन्तरम् ॥६२॥उत्तरेऽग्निं विनिक्षिप्य मूलमन्त्रेण साधक: ।अथवात्र मुनिश्रेष्ठ सर्वं वै प्र?थमेन तु ॥६३॥कुण्डे कुण्डे विनिक्षिप्य पावकं परमार्थवित् ।एवं संस्कृत्य विधिना पावकं पावनं हरे: ॥६४॥एवं तथाग्निसंस्कारं सर्वयागेषु कीर्तितम् ।वैष्णवीकरणे चैवं वैष्णवाग्निस्ततो भवेत् ॥६५॥परिधिप्रभृतीन् दग्ध्वा प्रणवेन तु साधक: ।एतत्क्रमेण चोत्पाद्य वैष्णवाग्निं तु नारद ॥६६॥कारयेद्विधिवत् सर्वं कर्षणादिक्रियादिषु ।अथवा मुनिशार्दूल पूर्वकुण्डे तु कारयेत् ॥६७॥वैष्णवीकरणं सर्वं शेषं साधारणं भवेत् ।कुण्डे वा स्थण्डिले वापि वैष्णवीकरणं कुर१ ॥६८॥अन्यदेशे तु यो मोहादग्निमुत्पादयेद्यदि ।तत्क्रिया निष्फला ज्ञेया सस्यादिनिधनं भवेत् ॥६९॥तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।चतुरश्रादिकुण्डानि संप्रोक्ष्यास्त्रेण मन्त्रत: ॥७०॥विन्यसेन्न्यासमार्गेण शशाङ्काद्यक्षरै: क्रमात् ।तत्र न्यासक्रमं वक्ष्ये श्रृणु कुण्डेषु नारद ॥७१॥कुण्डे वा स्थण्डिले वापि प्रणवाभ्युक्षणे कृते ।प्रोक्षयेद्वसुसूत्रेण दक्षिणाद्युत्तरान्तकम् ॥७२॥पश्चिमादीन्द्रपर्यन्तं कोष्ठं कृत्वा विभज्य च ।तन्मध्?यकोष्ठं प्रस्तीर्य शालिना कुडुबेन च ॥७३॥तण्डुलेनाक्षतेनात्र चन्द्रमण्डलमालिखेत् ।तन्मध्ये बीजमालिख्य पूर्वादष्टाक्षरं लिखेत् ॥७४॥तद्बहिर्वसुकोष्ठेषु आऋकारान्तमालिखेत् ।*इन्द्रादीशानपर्यन्तं तद्बहि: स्वरकोष्ठके*(?) ॥७५॥*पूर्वादीन्द्रेशपर्यन्तं* जान्तरप्रभृतीन् न्यसेत् ।तद्बहिस्तत्त्वकोष्ठेषु झादिसान्तमथो लिखेत् ॥७६॥पूर्वाद्युत्तरपूर्वान्तं ततो वै मेखलासु च ।पूर्वादिसोमपर्यन्तं पठन्तं च सुदर्शनम् ॥७७॥योनिमध्ये तु विप्रेन्द्र विष्णुबीजमनुत्तमम् ।विन्यसेत् पञ्चधा तस्मिन्ननामिक्या तु साधक: ॥७८॥एवं न्यासं क्रमात् कृत्वा साधकानां हिताय तु ।न्यासहीनेऽग्निकार्यं स्यात् तत्क्रिया निष्फला भवेत् ॥७९॥तद्ग्रामो निधनं याति तत्स्थानां निधनं भवेत् ।तस्मात् सर्वप्रयत्नेन न्यासं कुर्याद्विचक्षण: ॥८०॥कुण्डे कुण्डे मुनिश्रेष्ठ स्थण्डिले वाप्यतन्द्रित: ।गन्धादिदीपपर्यन्तमभ्यर्च्याञ्जलिमुद्रिकाम् ॥८१॥दर्शयित्वा यथान्यायं कुर्यात् पञ्चशतं (?) क्रमात् ।तथैव मेखलायां तु पूजयेद्योनिमेव च ॥८२॥अत: परं प्रवक्ष्यामि होमानुक्रममुत्तमम् ।कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ॥८३॥आचार्य: प्रक्रमेद्धोमं बर्हिंषि समिधस्तथा ।परिधिस्रुक्स्रुवान्नं चाप्याज्यं लाजं तिलं तथा ॥८४॥तदिन्धनबलिद्रव्यं गन्धं पुष्पं सुधूपकम् ।दीपं वर्धनीं गन्धोदं प्रोक्षणीपात्रकं तथा ॥८५॥प्रणीताज्यमथान्यच्च हस्तमुत्सृज्य विन्यसेत् ।उत्तरेणानिलस्थानात् युग्मं युग्मेन साधक: ॥८६॥प्रोक्षण्यां वर्धनीनीरमासिच्य प्रोक्ष्य विद्यया ।मूलया साधनद्रव्यमाहूयाग्निं ततो मुने ॥८७॥अनलं पूर्ववत् प्रोक्ष्य अ(चा?)ग्निमूर्तिमनुस्मरेत् ।अग्निं प्रोक्ष्यावटस्थं तं सानुस्वारे तु बीजके ॥८८॥हस्ताभ्यामनलं स्थाप्य पूर्वोक्तेन विधानत: ।एधांसि ज्वालयित्वोक्ष्य परिस्तीर्याग्निमध्यमे ॥८९॥पद्ममष्टदलं ध्यात्वा तत्र वै मूलबेरत: ।आवाहयित्वा देवेशमर्चयेद्विधिचोदितम् ॥९०॥अत्र कश्चिद्विशेषोऽस्ति होमकर्मणि नारद ।देवं श्वेताद्रिसंकाशं त्रिपादं सप्तबाहुकम् ॥९१॥वेदशृङ्गं द्विवदनं पीताम्बरधरं हरिम् ।शङ्खचक्रगदापाणिं सप्तजिह्वं सुभूषणम् ॥९२॥सौम्यं[च] सर्वाभरणैर्दिव्यै: परिवृतं बुध: ।अग्नौ वह्निस्वरूपेण स्थितमर्चामुखं स्मरेत् ॥९३॥तस्मादर्ध्यादि दत्वा च दक्षिणेऽग्नेर्विधिं न्यसेत् ।तं पूज्य विधिवत् पश्चात् होमद्रव्याणि मध्यमे ॥९४॥प्रणीताभाजनं न्यस्य तत्र साङ्गं न्यसेद्धरिम् ।देवमभ्यर्च्य गन्धाद्यै: होमकर्म समाचरेत् ॥९५॥नित्ये नैमित्तिके काम्ये समिदाज्यैर्य?थाक्रमम् ।समित्(?) पालाशखदिरबिल्वोदुम्बरपिप्पला: ॥९६॥सद्वृक्षा विदुषा ग्राह्यास्तन्मानं द्वादशाङ्गुलम् ।कनिष्ठिकाघना *वक्रग्रन्धिन्यासान्यवृत्तत:* ॥९७॥परिधिर्हस्तमात्र:स्यात् स्थण्डिले कुण्ड एव वा ।मध्यमेखलया तुल्यमङ्गुष्ठानां घनं विदु:(?) ॥९८॥देवानां परिधीन् दिक्षु चतसृष्वपि कारयेत् ।विष्णुयागे विशेषेण द्विजानामग्निकर्मणि ॥९९॥*त्रिष्वेव तु मुने बुद्धि होमान्तं पश्चिमादिकम्(?)* ।विष्णोर्मखे महेन्द्रादिदर्भान् सर्वासु चोभयो: ॥१००॥निशाचराणां रक्षायै विशेषं मुनिसत्तम ।महेन्द्रप्रभृतीनां तु होमद्रव्यापहारिणाम् ॥१०१॥एवं ज्ञात्?वा मुनिश्रेष्ठ इध्माद्यैर्होममाचरेत् ।कराल्यां समिधो हुत्वा मूलमन्त्रेण मन्त्रवित् ॥१०२॥मनोजवायामाज्येन वेदाद्येनैव देशिक: ।लोहितायां तथान्नेन जुहुयान्मूर्तिमन्त्रत: ॥१०३॥सुधूम्रायां तथा लाजान् विधायाथ द्वितीयया ।तृतीयेन तु मन्त्रेण स्फुलिङ्गिन्यां तिलं तथा ॥१०४॥विश्वरूप्यां चतुर्थेन तत्तद्द्रव्यं दिने दिने ।अधोमुखाङ्गुष्ठसहितानामिका सहमध्यमा ॥१०५॥आमध्यपर्व गृह्णाति क्रियां तेनैव कारयेत् ।होमद्रव्येण होमं तु सर्पिषा शुक्तिकाहुतिम् ॥१०६॥प्रायश्चित्ताहुतिं पूर्णां परिध्यादि तथा (तत:?) परम् ।अनुक्तस्थानकं सर्वं काल्यां तु जुहुयात् पुन: ॥१०७॥समिदादितिलान्तं च द्रव्यमष्टोत्तरं शतम् ।प्रायश्चित्ताहुतिं कुर्यादेकां मूलेन विद्यया ॥१०८॥पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधक: ।वौषडन्तेन मन्त्रेण द्वादशाक्षरसंज्ञया ॥१०९॥परिधिप्रभृतीन् सर्वान् वौषडन्तं तथा हुनेत् ।स्वाहान्तं मूलमन्त्रेण मुष्ट्याज्येन च पूरणम् ॥११०॥आहुतीश्च यथाशास्त्रं जुहुयात् साधकोत्तम: ।पूर्णाहुत्यवसाने तु मूलेनाष्टोत्तरं जपेत् ॥१११॥परिधीनुत्सवान्ते च दाहयेदुत्सवे मुने ।नित्याग्नौ च यथाकामं सर्वं नैमित्तिकं तथा ॥११२॥उत्सवानुत्सवाग्नौ वा कुर्यान्नैमित्तिकं बुध: ।आचार्येभ्यो यथाकामं दक्षिणामाददेत्तत: ॥११३॥दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव हि ।तस्मादाचार्यतृप्त्यर्थं राजराष्ट्रविवृद्धये ॥११४॥आचार्यं पूजयेच्छिष्यं भूषणाच्छादनैरपि ।धान्यैश्चैव धनैश्चैव यजमानेन सत्कृत: ॥११५॥दक्षिणां गुरवे दद्यात् यजमानो यथाबलम् ।अन्यथाकृतमेतच्चेत् सर्वं राष्ट्रं विनश्यति ॥११६॥तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ।कुण्डस्?थ पूजयेद्देवमुपचारेण यत्नत: ॥११७॥अनन्तरं प्रविश्याथ मुद्रामञ्जलिसंज्ञिताम् ।उद्वासयेत्तत: कुण्डात् मूलबेरे विधानवित् ॥११८॥कर्षणाद्युत्सवे काले नित्योत्सवविधावपि ।एवमुक्तप्रकारेण होमं कुर्याद्विचक्षण: ॥११९॥*हरेर?तिप्रियाशेषलोकान् समविकारयेत्* (?) ।नित्यहोमे तु परिधीन् बर्हींषि च न दाहयेत् ॥१२०॥एतद्रहस्यं कथितं मुने होमविधिक्रमम् ।हरेरतिप्रियकरं य: कुर्यात् कारयेदपि ॥१२१॥भक्त्या गुरोरशेषं (?) स्यात् स हरिर्नात्र संशय: ।इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [होमविधिर्नाम]पञ्चदशोऽध्याय: । N/A References : N/A Last Updated : January 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP