संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
एकोनविंशोऽध्याय:

विश्वक्सेनासंहिता - एकोनविंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अत: परं प्रवक्ष्यामि चाङ्गन्यासादिलक्षणम् ।
श्रृणु गुह्यमना भूत्वा साधकानां हिताय वै ॥१॥
अङ्गन्यासक्रमं चैव मुद्राया लक्षणं तथा ।
फलानि विविधान्यत्र *सर्वविद्याप्रकाशकम्*(?) ॥२॥
आचार्य: प्रयतो भूत्वा प्राङ्मुखो वाप्युदङ्मुख: ।
पङ्कजं वासनं बद्ध्वा स्वस्तिकं वा यथेच्छया ॥३॥
पूजारम्भेऽञ्जलिं कृत्वा नमस्कृत्य यथाविधि ।
उत्ताने वामहस्ताग्रे तिर्यग्दक्षिणमञ्जसा ॥४॥
मण्डलाकृति संस्पृश्य(?)वामान्तमितरेण तु ।
वामाङ्गुष्ठं ततो बद्ध्वा मुष्ट्योर्ध्वाङ्गुष्ठया मुने ॥५॥
मुष्टिं कृत्वा गतो धाम ध्यात्वा मन्त्रं समाहित: ।
संस्पृश्य हृदयं देवं त्रिमात्रे शिरसा तथा ॥६॥
प्रणम्य पाणिव्यत्यासं बद्ध्वा मुद्रां तथा पुन: ।
प्रविश्याञ्जलिमुद्रां तु पूजामन्त्रेण मन्त्रवित् ॥७॥
नमोऽन्तं हृदयं मूर्ध्नि शिखायां कवचे तथा ।
अस्त्रे नेत्रे ततो ध्यात्वा तच्चिह्नेन न्यसेद्बुध: ॥८॥
मुद्राया लक्षणं चापि निरुक्तं च तत: श्रृणु ।
लब्धया तु यया यस्मात् साधको देववैरिणाम् ॥९॥
द्रावयीत मुदं तस्मात् मुद्रा तल्लक्षणं श्रृणु ।
बद्धायास्तु बहिर्मुष्ट्या ऋजुमङ्गुष्ठमायतम् ॥१०॥
कृत्वातो मध्यमायां तु तन्मूलं हृदये स्पृशेत् ।
आहृत्य तर्जनीं सम्यक् बद्ध्वाङ्गुष्ठेन मुष्टिकम् ॥११॥
अथाङ्गुष्ठललाटान्ते *शिखोर्ध्वमहतीं तथा*(?) ।
बृहदग्रद्वयेनैव क्षुद्रमुद्रस्य(?) बन्धनम् ॥१२॥
हस्ताभ्यामूर्ध्वमायम्य कृत्वा चानाभिमण्डलम् ।
कवचस्य धिया न्यस्य कवचस्य तु मुद्रिका ॥१३॥
अपराऽस्त्रस्य मुद्रैषा कथ्यते दक्षिणाग्रकम् ।
मुष्टिं बद्ध्वा ततस्तर्जन्यग्रमङ्गुष्ठरेखया ॥१४॥
स्पृष्ट्वा स्फोटमुदक्षेप: पूर्वादि दशदिक्ष्वपि ।
कनिष्ठानामिके बद्ध्वा नहता तलमध्यगे ॥१५॥
तर्जनीमध्यमाग्राभ्यां नेत्रयोर्नेत्रमुद्रिका ।
मध्यमुत्थापितं कृत्वा हस्तं संकोच्य यत्नत: ॥१६॥
कनीयसं तु संहृत्य शेषयोरुभयोरपि ।
*अथो वक्त्रमुखां शेषाङ्गुलिना वामकेन तु*(?)॥ १७॥
करेण दक्षिणं स्पृष्?ट्वा भ्रामयेद्दीपमुद्रिका ।
ललाटे हृदि वा सम्यक् संपुटोऽञ्जलिरूर्ध्वग: ॥१८॥
नाम्ना मुद्रेयं विज्ञेया प्रणामेऽञ्जलिमुद्रिका ।
उक्तानामिह वान्येष्वप्यनुक्तानां प्रयत्नत: ॥१९॥
प्रदर्शनेऽप्यशक्त: सन् अञ्जलिं तु प्रदर्शयेत् ।
अञ्जलिर्नाम मुद्रेयं सर्वमुद्रामया प्रिया ॥२०॥
विष्णो: प्रणाममुद्रैषा सर्वकामान् प्रदापयेत् ।
एताभिर्न्यस्तसर्वाङ्गो जपहोमादिकान् मुने ॥२१॥
य: करोति स्वरक्षां च दीर्घमायुर्यशस्करम् ।
सुखमैश्वर्यबलतां कल्प्यतां च लभेत्‌ पराम् ॥२२॥
विद्या हि विविधां श्रेष्ठां भुक्तिमुक्तिस्तथैव च ।
राष्ट्रो यस्योदितानां तु विद्यानामेकया मुने ॥२३॥
मूर्तिमन्त्रप्रकारेण साधक: सकृदर्चयेत् ।
तस्य सर्वमभिप्रायं सिद्ध्यत्येव न संशय: ॥२४॥
अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा ।
व्याधिदुर्भिक्षचोरादि पीडाकालमृतिस्तथा ॥२५॥
बहुनात्र प्रलापेन किं सर्वान् साधयिष्यति ।
यद्यत् कामयते स्वस्य समृद्धं पुरुषो भुवि ॥२६॥
तत्तदेव लभेत् सम्यक् हरेस्तस्य निवेदयेत् ।
साधकश्चापि वा भक्त्या प्रयत: सम्यगर्चयेत् ॥२७॥
तत्तत्सर्वं लभेदेवं मृष्टान्नं नात्र संशय: ।
नृपो वा नृपमात्रो वा वेदमन्त्रैस्तथा मुने ॥२८॥
मूर्तिमन्त्रैरशक्तो वा स्वद्रव्यैरर्चनादिकान् ।
कारयीत मुनिश्रेष्ठ साधकेन यथाविधि ॥२९॥
सफलं सुकृतं प्राप्य विष्णुसारूप्यमृच्छति ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [अङ्गन्यासादि-
विधिर्नाम] एकोनविंशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP