संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
चतुर्दशोऽध्याय:

विश्वक्सेनासंहिता - चतुर्दशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अत: परं प्रवक्ष्यामि चरुपाकविधिं परम् ।
श्रृणु नारद सर्वज्ञ व्रीहिक्षेत्रादिकान् क्रमात् ॥१॥
न चोषरधरायां च चण्डालादिगृहान्तिके ।
न श्मशानान्तिके भूम्यां धान्यसंग्रहणं भवेत् ॥२॥
शुभक्षेत्रोद्भवं धान्यं त्र्यहाब्दं (त्र्यब्दं वा?) वत्सरं तु वा ।
षण्मासं वा त्रिमासं वा सम्यक् पर्युषितं शुभम् ॥३॥
रक्तशालिं ततो (तु वा?) श्वेतं कृष्णशालिं तथैव च ।
संग्रहेऽस्मिन् मुनिश्रेष्ठ तण्डुलं श्वेतमुत्तमम् ॥४॥
कुन्देन्दुमुक्तासंकाशै: तत्कृतै: (?) शालितण्डुलै: ।
पाचयेद्धरिवेश्मस्य (-गेहस्य?) आग्नेय्यां पचनालये ॥५॥
मन्त्रज्ञो वंशसंपन्न: प्रात:स्नानपरायण: ।
हविषां पाकयोग्यस्तु बलवान् कर्मतत्पर: ॥६॥
मानादि चाधुना वक्ष्ये श्रृणु गुह्यमनुत्तमम् ।
द्विशतै: पञ्चविंशद्भि: व्रीहिभिश्चैव पूरितम् ॥७॥
शुक्तिमात्रमिति ख्यातं मानं तेनैव कल्पयेत् ।
तद्द्वयं तलमित्युक्तं प्रकुब्जं (-ञ्च:?)स्यात्तलद्वयम् ॥८॥
तद्द्वयं प्रसृति: प्रोक्ता कुडुम्बं(-बं?)प्रसृतिद्वयम् ।
अञ्जलिस्तद्द्वयं प्रोक्तं प्रस्थ: स्यादञ्जलिद्वयम् ॥९॥
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत् ।
तद्द्वयं शिवमित्युक्तं द्रोणं विद्याच्छिवद्वयम् ॥१०॥
द्रोणद्वयं भवेत् खारी भारं खारित्रयं भवेत् ।
मानमेवं मया प्रोक्तं पात्रशुद्धिमथो श्रृणु ॥११॥
चरुपात्रद्वयं प्रोक्तं ताम्रं मृण्मयमेव वा ।
ताम्राभावे मुनिश्रेष्ठ मृण्मयं वाथ कारयेत् ॥१२॥
दिने दिने नवं गृह्यं साधयेत् साधकोत्तम: ।
?B पात्राणि च शरावाणि संगृह्य परिचारक: ॥१३॥
शुद्धतोयेन संक्षाल्य विष्णुगायत्रिया पुन: ।
प्रोक्षयेद्गन्धतोयेन पञ्चोपनिषदै: क्रमात् ॥१४॥
पात्रशुद्धिरिह प्रोक्ता हवि:संख्या(?)प्रचक्षते ।
उत्तमोत्तममित्युक्तमष्टद्रोणैस्तु पूरितम् ॥१६॥
षड्द्रोणैस्तण्डुलै:सिद्धं भवेदुत्तममध्यमम् ।
द्रोणहीनं भवेत्तत्र उत्तमाधममुच्यते ॥१७॥
मध्यमोत्तममित्युक्तं खारिद्वयसमन्वितम् ।
द्रोणद्वयेन नैवेद्यं भवेन्मध्यममध्यमम् ॥१८॥
मध्यमाधममित्युक्तं *द्रोणद्वयसमद्वयम्*(?) ।
द्रोणं चैव तदर्धं च तस्यार्धमधमत्रयम् ॥१९॥
तण्डुलैराढकैर्हीनं नैवेद्यं न प्रकल्पयेत् ।
चरु:प्रस्थद्वय: प्रोक्त: हविराढकमुच्यते ॥२०॥
तस्मिन् (तत्तु?)श्रियादिदेवीनामाढकं वार्धमेव वा ।
निवेदयेन्मुनिश्रेष्ठ तण्डुलानां विधिं श्रृणु ॥२१॥
द्वितीयावरणे चैव तृतीयावरणेऽपि वा ।
कुर्याद्धान्यावघातस्य शालामीशानगोचरे ॥२२॥
दक्षिणे वाथ वायव्ये नैरृते वान्तरे तथा ।
शालां च भूषयित्वा तु वितानाद्यैर्मनोहरै: ॥२३॥
गोमयेन समालिप्य शालिपिष्टैर्विचित्रयेत् ।
ब्राह्मणी तु सुशीला च ब्राह्मण्येन समन्विता ॥२४॥
धान्यावघातं तत्रैव कुर्यादाममनुत्तमम् ।
उलूखलादि संप्रोक्ष्य हरिरित्युच्चरन् क्रमात् ॥२५॥
घातयेत् सर्वधान्यानि पश्चात्तण्डुलमेव च ।
आमं वाप्यथवा पक्वमेवमेव दिने दिने ॥२६॥
संस्कृत्य तण्डुलान् सर्वान् संगृह्य प्रणवेन तु ।
निरीक्ष्य तण्डुलान् पश्चात् शर्करादीनि सर्वश: ॥२७॥
हरिस्मृत्या क्रमेणैव शुचिर्भूत्वा समहित: (ता?) ।
परार्थे विष्णुपूजायां सच्छूद्रो वैष्णवो मुने ॥२८॥
न स्पृशेत् पक्वमामं...कुर्याद्यथारुचि ।
तदभावे मुनिश्रेष्ठ वैष्णवानां गृहे गृहे ॥२९॥
दिने दिने तु कर्तव्यास्तण्डुला: शूद्रकैर्विना ।
अस्मिन् (यस्तु?)शुद्रगृहे मोहाल्लेभाद्वा मुनिसत्तम ॥३०॥
तण्डुलं कुरुते पूजा निष्फला सा भविष्यति ।
सर्वनाशमवाप्नोति तस्माद्यत्नेन वर्जयेत् ॥३१॥
स्वार्थार्चने यथाकामं भक्त्या देवाय दापयेत् ।
अभिन्नास्तण्डुला ग्राह्या अखिन्नाश्च तथैव च ॥३२॥
अतुषाश्चाप्यपाषाणा: कृमिकीटविवर्जिता: ।
अकणाश्च रजोपेता: *पांसुस्पर्शनवर्जिता*(?) ॥३३॥
अपक्वास्तण्डुलाश्चान्या: ?न निवेद्या: कथंचन ।
पक्वमेव चरुं दद्यात् अपक्वं तु विवर्जयेत् ॥३४॥
वर्जितं च चरुं मोहात् निवेदयति चेन्मुने ।
राक्षसाश्च पिशाचाश्च हृष्टा गृह्णान्ति तच्चरुम् ॥३५॥
कुप्यते(?)तु हरिश्चापि नात्र कार्या विचारणा ।
तस्मात् सर्वप्रयत्नेन वर्जितं वर्जयेत् सदा ॥३६॥
उद्धरेत् सर्वपात्राणि प्रणवेन महामुने ।
पुरा पात्राणि प्रक्षाल्य पूर्वोक्तेन विधानत: ॥३७॥
अष्टाक्षरेण मन्त्रेण आज्येनैव तु लेपयेत् ।
स्पृशेच्च तण्डुलान् पश्चात् द्वादशाक्षरविद्यया ॥३८॥
क्षिपेद्द्वादशमुष्टिं तु क्रमाद्द्वादशनामभि: ।
नमस्कारान्तसंयुक्तं ध्यात्वा तु हृदये हरिम् ॥३९॥
ततश्च चतुरो मुष्टीन् प्रक्षिपेन्मूर्तिनामभि: ।
षड्भि:(?)प्रक्षालनं कृत्वा बीजेन परमेष्ठिना ॥४०॥
चुल्यामारोपयेत् पश्चाद्बीजेन पुरुषात्मना ।
अग्निं समेधयेत् पश्चाद्विश्वबीजेन साधक: ॥४१॥
निवृत्या अभिघार्याथ सर्वेणैवावतारयेत् ।
मूर्तिमन्त्रेण वा सर्वान् मूलमन्त्रेण वा मुने ॥४२॥
कारयेन्मुनिशार्दूल नित्ये नैमित्तिके क्रमात् ।
चरुपाकविधानेऽस्मिन् मन्त्रान् सर्वान महामुने ॥४३॥
नमस्कारविहीनेन(-नांस्तु?) योजयेन्मन्त्रवित्तम: ।
?हविरादिषु वक्ष्यामि वर्ज्यावर्ज्यविधिं क्रमात् ॥४४॥
नीलितं वर्जयेद्धव्यमतिपक्वं तथैव च ।
तथाप्यपाकसंपूर्णमर्धतण्डुलमेव च ॥४५॥
वर्णान्तरगतं चैव गन्धदुष्टं च धूपितम् ।
द्विपक्वं स्थापितं चैवाघ्रातं निष्वितनकम्(?) ॥४६॥
अपक्षुतं श्वासहतं मुखवायुहतं तथा ।
परस्पृष्टं शुनादृष्टमदीक्षितनिरीक्षितम् ॥४७॥
स्वेदबिन्दुहतं चापि धामहस्तगतं (वामहस्तहतं?) तथा ।
लङ्घितं शीतमत्युष्णं भिन्नपात्रगतं तथा ॥४८॥
कृमिकेशादिसहितं कोष्ठ(काष्ठ?)लोष्ठादिपाति(संयु)तम् ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनमतोषितम् (?) ॥४९॥
अर्कपात्रगतं चापि वर्जयेद्यत्नतश्चरुम् ।
फलानि यत्नपक्वानि वर्जनीयानि सर्वश: ॥५०॥
कदलीफलमेकं तु यत्नपक्वेषु गृह्यते ।
अपक्वम(-क्वं त्व?)ग्निनाशस्तं फलमत्र निवेदयेत् ॥५१॥
एवमुक्तं तु शुद्धान्नं पायसं त्वधुनोच्यते  ।
यजमानेच्छया तस्मिंस्तण्डुलं गृह्य साधक: ॥५२॥
तण्डुलद्विगुणं क्षीरं मुद्गसार: समो भवेत् ।
पाचितं पायसं प्रोक्तं शेषं पूर्ववदाचरेत् ॥५३॥
तण्डुलस्य चतुर्थांशांस्तिलान् प्रक्षिप्य चूर्णितान् ।
तच्चतुर्थं घृतं क्षिप्त्वा पाचयित्वा यथाविधि ॥५४॥
कृसरान्नमिति प्रोक्तं गौल्यान्नं त्वधुना श्रृणु ।
पायसं पूर्ववत् कृत्वा तण्डुलेन समं गुलम् ॥५५॥
गुलार्धं प्रक्षिपेदाज्यं कदल्यादिफलं क्षिपेत् ।
गुलान्नमिति संप्रोक्तं मुद्गान्नमधुनोच्यते ॥५६॥
तण्डुलेन समं मुद्गं नालिकेरुलान्वितम् ।
मुद्गान्नमिति संप्रोक्तं हरिद्रान्नमिहोच्यते ॥५७॥
मरीचिरजनीयुक्तं जीरकै: सर्षपैर्युतम् ।
उच्यते पाचितं ह्येतत् हरिद्रान्नं यथाविधि ॥५८॥
तद्विधिं चाधुना वक्ष्ये श्रृणु भागोत्तरं (पाकक्रमं?) मुने ।
द्रोणतण्डुलमादाय कुन्देन्दुधवलप्रभम् ॥५९॥
पूर्ववत् पाचयित्वा तु मरीच्यादीनि विन्यसेत् ।
मरीचं प्रस्थपादं च त्रिगुणं(णां?) रजनीं क्षिपेत् ॥६०॥
सर्षपं द्विगुणं चैव तदर्धं जीरकं क्षिपेत् ।
द्रोणस्यैवं मया प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥६१॥
इति भागोत्तरं प्रोक्तं हरिद्रान्नस्य ते मया ।
उपदंशान् प्रवक्ष्यामि श्रृणुष्व मुनिसत्तम ॥६२॥
गन्धवर्णरसोपेतं वस्त्रपूतं घृतं नवम् ।
द्वात्रिंशदंशमाज्यं स्यात् गृह्णीयादत्र गोघृतम् ॥६३॥
षोडशांशं तु गुल्माषं तदर्धं गुलमिष्यते ।
पक्वयुक्फलमूलं च सर्वं लवणमिश्रितम् ॥६४॥
घृतेन पाचयेत् सम्यक् तप्तकाञ्चनवन्मुने ।
मरीचै रजनीमिश्रै: सर्षपैश्च महामुने ॥६५॥
पाचयित्वोपदंशानि देवेशाय निवेदयेत् ।
शेषाणिं चोपदंशानि यजमानेच्छया पचेत् ॥६६॥
दधिखण्डरसैर्युक्तमष्टांशकमुदाहृतम् ।
सूपं चैव तथा कुर्यात् यथावित्तानुसारत:(?) ॥६७॥
अतस्तत् परिमाणं तु वक्ष्यामि मुनिसत्तम ।
यजमानेच्छया तस्मिन् गोदधि गृह्य साधक: ॥६८॥
तदर्धं तु गुलं क्षिप्त्वा तथा खण्डरसं क्षिपेत् ।
तस्याभावे तु सर्पि: स्यात् मरीचं निशि(?)चूर्णकम् ॥६९॥
विन्यसेत् पाचितं ह्येतत् सूपं तत्र यथाविधि ।
कदलीपनसाम्राणां परिपक्वफलानि च ॥७०॥
आम्रं चैवोपदंशं स्यात् श्रृणु पक्वोपदंशकान् ।
कदलीपनसं चैव कारवल्लीद्वयं तथा ॥७१॥
कर्कवल्लीद्वयं चैव कूष्माण्डोर्वारुकं तथा ।
बृहतीं कृष्णबृहतीं करवर्तं तथैव च ॥७२॥
कर्करीं क्षुद्रबृहतीमलसन्तीद्वयं तथा ।
तथा कृष्णालसन्ती च ग्राह्याणि मधुराणि च ॥७३॥
मधुरेषु च सर्वेषु तालमेकं तु वर्जयेत् ।
कदलीपनसाद्येषु(-द्यानां?)सारमुद्धृत्य नारद ॥७४॥
पात्रे निक्षिप्य देवाय दद्याच्चर्मादि वर्जयेत् ।
वर्जितं वर्जयेद्यत्नान्निवेदयति चेन्मुने ॥७५॥
तत्पूजा निष्फला याति सर्वरोगविवृद्धिकृत् ।
तस्माच्चर्मादि यत्नेन वर्जयेद्वर्जितं सदा ॥७६॥
कुलुत्थमाषनिष्पावं वर्जयेद्द्वे(-द्द्वि?) दलेषु च ।
मुद्गद्वयं च शीबं च तथा कृष्णालसन्ति च (-काम्?) ॥७७॥
शर्कराद्वयसंयुक्तं सम्यक्पक्वं सुशीतलम् ।
अन्नोपरि विनिक्षिप्य देवदेवं निवेदयेत् ॥७८॥
कोशातकीमलाबुं च पत्रजातीश्च वर्जयेत् ।
फलानि कथितान्यत्र मूलानि श्रृणु तत्परम् ॥७९॥
वल्ली चैव महावल्ली वनवल्ली तथैव च ।
पिण्डा चैव महापिण्डा क्षुद्रपिण्डा तथैव च ॥८०॥
सुगन्धोत्पलकन्दं च देवेशस्य प्रियं शुभम् ।
ग्राह्याणि मूलान्येतानि देवदेवं निवेदयेत् ॥८१॥
अलाभे शेष (सर्व?) मूलानि (-नां?) वर्जयेद्वनसूरणम् ।
तथैव नित्यपूजायां सूरणं मुनिसत्तम ॥८२॥
लोभान्मोहान्निवेद्यं चेत् (?) तत्पूजा निष्फला भवेत् ।
तस्मात् प्रयत्नतो वर्ज्यं सूरणं परिवर्जयेत् ॥८३॥
काम्ये महोत्सवे चैव महान्ने तु महामुने ।
यजमानेच्छया तस्मिन् (?) सूरणं तु निवेदयेत् ॥८४॥
विष्णुश्चैव महाविष्णुस्तथैव च महामुने ।
तृप्यत्व(न्त्य?)त्र महान्नेन हृष्टा गृह्णन्ति तच्चरुम् ॥८५॥
कटुकाश्च तथाम्लाश्च तिक्ताश्चेति विशेषत: ।
यथालाभोपदंशेन पाचयेल्लक्षणैर्युतम् ॥८६॥
मरीचिं निशिचूर्णं च तन्मध्ये कुडुबं क्षिपेत् ।
आम्लोपदंशमित्याहु: सर्वसंपत् सुखावहम् ॥८७॥
कथितानि निवेद्यानि नान्यानि तु कथंचन ।
पात्राणि च शरावाणि बाह्यशुद्धिश्च कारयेत् ॥८८॥
सर्वपात्रेषु बाह्येषु ऊर्ध्वपुण्ड्रं च भस्मना ।
कारयेन्मूर्तिमन्त्रेण पूर्वादिषु यथाक्रमम् ॥८९॥
शरावे विष्णुमन्त्रेण पूर्वपात्रे (-भागे?) तु लाच्छयेत् ।
महानसं समारभ्य गर्भगेहावसानकम् ॥९०॥
प्रथमेन जलै: प्रोक्ष्य भाण्डानुत्थापयेत् क्रमात् ।
तेन मन्त्रेण मतिमान् सर्वानुत्थापयेत् क्रमात् ॥९१॥
एतस्मिन्नेव काले तु शङ्खं दध्मु (?) स्त्रिभि: पृथक् ।
द्वारस्योत्तरपार्श्वे तु न्यसेत् पात्राणि सर्वश: ॥९२॥
सौवर्णं राजतं ताम्रमथवा कदलीदलम् ।
शुद्धकांस्येन वा कुर्यात् पात्रं शतपलेन तु ॥९३॥
तदर्धं वा मुनिश्रेष्ठ द्वात्रिंशत् पलेन (-लकेन?) वा ।
यथावित्तानुसारेण (?) पात्रं संगृह्य साधक: ॥९४॥
दर्वीघनं (?) समादाय आज्येनैवाभिघारयेत् ।
अन्नेन पूरयेत् पात्रं गुल्माषेण गुडेन च ॥९५॥
पलेनाज्येन दध्ना च सोपदंशं निवेदयेत् ।
चतुर्धास्मिन् विभज्यैकं भागं देवाय कल्पयेत् ॥९६॥
देवार्थं कल्पितं भागं देवेशाय निवेदयेत् ।
निवेद्य काले तन्त्रज्ञ: अर्घ्यपाद्यादिकं ददेत् ॥९७॥
पुष्पं दत्वा नमस्कृत्य हरे: पादौ तु साधक: ।
हस्तप्रक्षालनं कृत्वा देवस्यास्त्रेण मन्त्रवित् ॥९८॥
परिषेकं तत: कृत्वा पूर्ववत् साधकोत्तम: ।
कृत्वा सु(स्व?)पाणी प्रक्षाल्य मूलमन्त्रेण संस्पृशेत् ॥९९॥
शेषं तु पूर्ववत् कृत्वा हविराद्यं महामुने ।
स्वस्तिकासनसंयुक्ते देशिकोपेन्द्रतो मुख: ॥१००॥
दक्षिणे करशाखासु पञ्चोपनिषदं न्यसेत् ।
निवेदयेद्धविस्तस्मिन् पञ्चधा परमेष्ठिना ॥१०१॥
नमस्कृत्य जपेत् पश्चात् पञ्चोपनिषदा मुने ।
पाणिं प्रक्षाल्य यत्नेन पृथक् पात्रे निवेदयेत् ॥१०२॥
शङ्खदुन्दुभिसुयंक्तं नृत्तगेयसमन्वितम् ।
देवदेवस्य देवर्षे नित्ये नैमित्तिके पुन: ॥१०३॥
धूपं सुधूपितं भक्त्या पुनर्दधि निवेदयेत् ।
पानीयं च पुनर्दत्वा केलिपात्रेऽमले शुभे ॥१०४॥
तर्पणं पुनराचामं दत्वा तत्तत्प्रतिग्रहे ।
गन्धपिष्टै:समुद्वर्त्य पाणिं सुश्वेतवाससा ॥१०५॥
आच्छाद्य गन्धकल्केन पुनराचमनं ददेत् ।
मुखवासं ततो दत्वा विधिवत् साधकोत्तम: ॥१०६॥
पुनर्द्वितीयभागेन हविषा मूलविद्यया ।
जुहुयादग्निकुण्डे तु समिदाज्यपुर:सरम् ॥१०७॥
तृतीयेन बलिं दद्यात् प्राड्मुखो वाप्युदङ्मुख: ।
पुनर्दत्वा जलं सम्यक् नमस्कृत्य प्रदक्षिणम् ॥१०८॥
दत्वा तद्बलिशेषं तु बलिपीठे विनिक्षिपेत् ।
तुर्यभागं तु संगृह्य आचार्यो मन्त्रवित्तम: ॥१०९॥
प्राशयेत् प्राङ्मुखो भूत्वा पात्रशेषमनुत्तमम् ।
तच्छेषं सर्वपापघ्नं सर्वरोगनिकृन्तनम् ॥११०॥
सर्वतीर्थप्रदं तस्माद्भक्षयेच्छेदषमुत्तमम् ।
आलयस्योत्तरे वापि नैरृते वापि मन्त्रवित् ॥१११॥
भुक्त्वा चैव मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ।
नित्यपूजाविधौ ब्रह्मन् चरुपाकविधौ क्रमात् ॥११२॥
एवमुक्तप्रकारेण कारयेत्तु दिने दिने ।
महाहविर्विधिं वक्ष्ये ह्यष्टद्रोणं कनीयसम् ॥११३॥
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चाधमोत्तमम् ।
चतु: पञ्चगुणं षट्कं मध्यमस्य त्रयं विदु: ॥११४॥
सप्ताष्टनवमं प्रोक्तमुत्तमस्य त्रयं विदु: ।
पूर्ववत् पाचयित्वा तु सर्वानुत्थापयेत् पृथक् ॥११५॥
मण्डपस्योत्तरे भागे न्यसेद्भाण्डान्यथ क्रमात् ।
नैरृते वारुणे वापि विन्यसेच्च महाहवि: ॥११६॥
मण्डपं चतुरश्रं तु कृत्वालंकृत्य चाक्षतै: ।
पिष्टचूर्णैरलंकृत्य पद्मं कुर्यात् सकर्णिकम् ॥११७॥
पटेनाच्छाद्य भूमिं तु रम्भापत्राणि चोपरि ।
स्नानादिदेवकर्माणि पूर्ववत् कारयेत् क्रमात् ॥११८॥
देवस्नय पुरत: कृत्वा कार्यं विज्ञापयेच्छनै: ।
पीठादुत्थाप्य देवेशं पादुकाभ्यामुपासक: ॥११९॥
शङ्खध्वनिसमायुक्तमानयेद्भोजनासनम् ।
पाद्यार्घ्याचमनं दत्वा गन्धपुष्पै: प्रपूजयेत् ॥१२०॥
प्रोक्षयित्वाभिघार्याथ चरुपात्राणि चैव हि ।
पायसं कृसरं गौल्यं मुद्गान्नं च यथाक्रमम् ॥१२१॥
शुद्धान्नं चैव सूपान्नं द(दा?)धिकं च महाहवि: ।
आज्यं च गुडखण्डं च कदल्यादिफलत्रयम् ॥१२२॥
आज्यपक्वोपदंशं च पात्रे सर्वं निवेदयेत् ।
परिषेकं तत: कृत्वा ह्यन्नसूक्तेन संस्पृशेत् ॥१२३॥
दद्यात्तद्दक्षिणे हस्ते हवि: प्राशनमुद्रया ।
सुगन्धं स्वादुतोयं च दत्वा पानीयमुत्तमम् ॥१२४॥
पुनराचमनं दत्वा वस्त्रेण प्रमृजेत् करौ ।
गन्धकल्केन संमृज्य तत: पीठान्तरं नयेत् ॥१२५॥
पूर्वमालां विमुक्त्वा तु (-च्याथ?)वेष्टयेन्मालया पुन: ।
पुनराचमनं दत्वा हस्तौ संशोध्य वाससा ॥१२६॥
पृथुकान्युपहाराणि अपूपान्तं निवेदयेत् ।
नालिकेरफलं दत्वा पानीयाचमनं तत: ॥१२७॥
पुनराचमनं दत्वा मुखवासं निवेदयेत् ।
क्रमुकस्तु फलं भिन्नमपक्वं पक्वमेव वा ॥१२८॥
कर्पूरतैलै: संसिक्तमसिक्तं वा मुनीश्वर ।
ताम्बूलवल्लीपत्रैश्च सहितं क्षालितं क्रमात् ॥१२९॥
एलाकक्कोलजातीश्च कर्पूरसहितं क्रमात् ।
मातुलुङ्गफलैर्युक्तं नालिकेरुलान्वितम् ॥१३०॥
शिला(सिता?)चूर्णेन संयुक्तं कर्पूरसहितेन च ।
?B संस्कृतं प्रणवेनैव मुखवासं निवेदयेत् ॥१३१॥
दत्वा च राजवत् सम्यक् पितृवत् पूजयेद्धरिम् ।
पीठादुत्थाप्नय देवेशं प्रासादं तु परिभ्रमेत् ॥१३२॥
शङ्खदुन्दुभिसंयुक्तं स्वस्तिसूक्तसमन्वितम् ।
प्रासादं तु परिभ्राम्य गर्भागारं प्रवेशयेत् ॥१३३॥
महाहविर्विधि: प्रोक्त: संक्षेपेण महामुने ।
विशेषत: प्रवक्ष्यामि महान्नस्य विधिं क्रमात् ॥१३४॥
गुह्याद्गुह्यं मुनिश्रेष्ठ श्रृणु नारद सत्तम ।
चरुपाकविधानोक्तै: पूर्वोक्तैर्हव्यवृद्धिदानैश्च ॥१३५॥
समुपेतं शालीनां दशशतकैस्तण्डुलप्रस्थै: ।
सिद्धं महाहवि: स्यात्तु तदर्धं मध्यमं स्मृतम् ॥१३६॥
तस्याप्यर्धकृतं यत्तदधममुक्तं महाहविसतज्ज्ञै: ।
दुग्धानां तु गवां स्यादाढकषटकं गुणं चतुष्षष्टि ॥१३७॥
फलं सर्पिस्तथाढकं स्यात्पञ्चप्रस्थमुद्गान्नम् ।
(पलसर्पिराढकं स्यात् पञ्चप्रस्थं च मुद्गान्नम्?)
दलितानां शुद्धानां तोयं स्यादाढकद्वितयम् ॥१३८॥
*कंसद्वितयं* (?) शाल्यास्तण्डुलमिष्टं पयोगुलान्नविधौ ।
एतद्वरमस्यार्धं मध्यममस्यार्धमधमं स्यात् ॥१३९॥
पायसमेतद्विधिना गुलसर्पिभ्यां विना पक्वम् ।
समुद्गसारपक्वं शाल्यन्नं मुद्गसारान्नसमम् ॥१४०॥
गुलपिष्टं सिद्धं सर्पिभ्यामपूपमुद्दिष्टम् ।
कक्कोलैर्जा?तिफलै: पूगफलै: श्वेतभुजगपत्रै: ॥१४१॥
पाषाणचूर्णमिश्रं समातुलुङ्गदलनालिकेरफलम् ।
कर्पूरतैलमिश्रं संस्वङ्गं कथ्यते मुखवाससम् ॥१४२॥
एलाचम्पककेतक्या वासितं तु पानीयम् ।
कथितं यत्त्रिदशमुने महानिवेद्यादि तन्निखिलम् ॥१४३॥
सिद्धं देवगृहे वा तत्पार्श्वे वा[पि]मन्त्रयोग्यं स्यात् ।
यो मोहादन्यगृहे सिद्धं देवाय मन्त्रेण ॥१४४॥
हविराद्यं तु हि दद्यात् स किल्बिषी राष्ट्रनाशी स्यात् ।
भक्तैरन्यत्रापि क्वापि पक्वं समागतं यद्यत् ॥१४५॥
बिम्बस्याग्रे तत्तत् प्रदर्श्य दद्याद्धि पक्वेभ्य: ।
एतत् कृत्वा सम्यङ्महाहवि: प्रियतमं तु हरे: ॥१४६॥
भक्त:सामीप्यं मध्यमकृत्......... ।
सारूप्यं चाधमं च सालोक्यं परमम् ॥१४७॥
*पयोदिगुलान्नं निवेद्य भक्त्या हरैति शान्तिम्*(?) ।
*परमांशश्च मध्यमं ह्येति सर्वकामानि*(?) ॥१४८॥
विशेषश्चात्र संप्रोक्त: महान्नादिविधौ मुने ।
शेषं साधारणं कुर्या(विद्या?)दिति शास्त्रस्य निश्चय: ॥१४९॥
महाहविविधौ चात्र द्विविधं मानमीरि?तम् ।
द्विप्रकारं तु तन्त्रज्ञो यथायोगं समाचरेत् ॥१५०॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां चरुपाकविधिर्नाम
चतुर्दशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP