संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| चतुर्थोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - चतुर्थोऽध्याय: विश्वक्सेना संहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम चतुर्थोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अत: परं प्रवक्ष्यामि शिलाग्रहणमुत्तमम् ।द्विविधा तु शिला ग्राह्या पर्वतेषु धरासु च ॥१॥पर्वतान् प्रथमं वक्ष्ये येषु शैलेषु गृह्यते ।त्रिकूटो हेमकूटश्च कैलासो गिरिसत्तम: ॥२॥मन्दरो माल्यवांश्चैव निषधो नीलपर्वत: ।मेरु: सह्यश्च विन्ध्यश्च किष्किन्धो गिरिसत्तम: ॥३॥वेङ्कटो दर्दरश्चैव श्रीगिरिश्चित्रकूटक: ।एवंभूतान् समन्वीक्ष्य पुरत: प्रणमेत् सदा ॥४॥पत्रं पुष्पं समादाय निक्षिपे?द्गिरिमूलके ।नमस्कृत्य हरिं ध्यात्वा पर्वतं पापनाशनम् ॥५॥अधिवासनानिसर्वाणि(कर्माणि?)अस्मिन् पूर्ववदाचरेत् ।भूगता या: शिला: प्रोक्ता: तासां लक्षणमुच्यते ॥६॥वारुणी चैव माहेन्द्री आग्नेयी वायवी तथा ।चतुर(चतस्र?)स्तु शिला: प्रोक्ता: तासांलक्षणमुच्यते ॥७॥या पुष्पवनसंकीर्णा जलाशयसमायु(वृ?)ता ।सा क्षितिर्वारुणी ज्ञेया शिला तत्र तु वारुणी ॥८॥यस्याश्चोत्तरसंस्थाया: व्रीहिक्षेत्रं तु दक्षिणे ।पश्चिमे क्षीरवृक्षाश्च सा माहेन्द्री प्रकीर्तिता ॥९॥पलाशा: खदिरा वृक्षा: काश्मर्य: पुष्प(-र्यश्चैव?)दक्षिणे ।तित्तिर्यश्च कपोताश्च गृध्राश्चैव वसाशना: ॥१०॥भ्रमराश्च वराहाश्च दृश्यन्ते यत्र सन्ततम् ।तोयमन्तर्गतां(तं?)स्वल्पां(ल्पं?)तामाग्नेयींप्रचक्षते ॥११॥बिल्वश्लेष्मातकाकीर्णा तथा स्नुहिविभीतके ।सृगाला यत्र दृश्यन्ते तथैव मृगतृष्णिका ॥१२॥तृणोदकविहीना च शर्करोषरसंयुता ।वायवी सा क्षिति: प्रोक्ता शिलां तत्र तु वर्जयेत् ॥१३॥नदीतीरे ह्रदतटे लवणोदपरिप्लुते ।ग्राममध्ये श्मशाने च तथा चैव चतुष्पथे ॥१४॥अमेध्यभूमौ वल्मीके ऊषरे शवदूषिते ।वायुसूर्याग्निदग्धे च न ग्राह्यास्तु शिला:सदा ॥१५॥वर्जिताभि: शिलाभिर्य: प्रतिमां लोभमोहित: ।कुर्याद्वा कारयेद्वापि तस्य स्यादाभिचारिकम् ॥१६॥प्रमिमार्थं तु निर्गच्छेदाचार्य: शिल्पिभि:सह ।ब्राह्मणान् भोजयित्वादौ तै: कृत्वा स्वस्तिवाचनम् ॥१७॥अय: कुठादिसंगृह्य प्राङ्मुखो वाप्युदङ्मुख: ।निर्गतस्तु शिलां पश्येत् तदा प्रभृति नित्यश: ॥१८॥प्रतिमाकर्म कुर्वीत तत्कर्मान्तं हविष्यभुक् ।दारुसंग्रहणाध्याये संप्रोक्तं चाधिवासनम् ॥१९॥तस्मिन् सर्वं प्रयोक्तव्यं विशेषं कथयामि ते ।शिल्पिभिश्च भुवं खात्वा शिलां पश्येत् समाहित: ॥२०॥दक्षिणोत्तरमायामं तथा वै पूर्वपश्चिमम् ।शान्तिदा दक्षिणग्रीवा पूर्वग्रीवाजयप्रदा ॥२१॥श्रीकरी पश्चिमग्रीवा कर्तुर्भवति नित्यदा ।पुष्टिदा चोत्तरग्रीवा कोणं तु परिवर्जयेत् ॥२२॥उत्पाट्यमाने दृश्यन्ते स्फुलिङ्गा यत्र चाग्निवत् ।नादाश्च कांस्यघण्टावच्छिलायाश्च शिरो मतम् ॥२३॥कांस्यवन्मध्यभागे तु मूले वै कांस्यतालवत् ।ध्वनिर्यस्या: शिलायास्तु सा पुमानिति कीर्तिता ॥२४॥तस्मात्किञ्चिद्विहीना तु छिद्रायाश्च ध्वनिर्भवेत् ।सा शिला स्त्रीति विज्ञेया तद्धीना स्यान्नपुंसकम् ॥२५॥पुल्लिङ्गे प्रतिमा प्रोक्ता स्त्रीलिङ्गे पादपीठिका ।रत्नन्यासादधस्तात्तु नपुंसकमुदाहृतम् ॥२६॥तत्र गर्भं परीक्षेत छेदने भेदनेऽपि च ।मण्डला यत्र दृश्यन्ते तत्र गर्भं विनिर्दिशेत् ॥२७॥माञ्जिष्ठवर्णसदृशे दर्दुरस्तत्र संभवे ।पीतके मण्डले गोष्णा (गोधा?)कृष्णे कृष्णाहिरेव च ॥२८॥कपिले मूषिक: प्रोक्त: कृकलासस्तथारुणे ।गुलवर्णे तु पाषाण: कर्बुरेगृहगौलिका ॥२९॥कु(अ?)म्भ: कृपाणसदृशे वालुका: पद्मसंनिभे ।विचित्रे वृश्चिको ज्ञेयो नीलपीते पतङ्गक: ॥३०॥मधुवर्णे तु खद्योत: मण्डले निर्दिशेद्बुध: ।गर्भदर्शनदोषांस्तु पुनर्वक्ष्ये यथातथम् ॥३१॥दर्दुरे स्यादनारोग्यं गोधायां दुर्गतो(ति:?) भवेत् ।विषेण म्रियते सर्पे अनपत्यस्तु मूषिके ॥३२॥कृकलासे य(त?)थाल्पायु: पाषाणेऽशनिना वध: ।गौलिकायां धनापायो जले वै गर्भनाशनम् ॥३३॥सिकातासु जलाभावो वृश्चिके कलहस्तथा ।शलभे राष्ट्रनाश: स्यात् खद्योते च कुलक्षय: ॥३४॥तस्माद्यत्नात् परीक्षेत नित्यं गर्भमतन्द्रित: ।गर्भेण सहितां लोभात् प्रतिमां कुरुते यदि ॥३५॥तन्मण्डलाधिपो राजा कारक: स्थापकस्तथा ।उन्मूमिला भवन्त्येते तस्माद्गर्भं विशोधयेत् ॥३६॥मणिजा लोहजाश्चैव दारुजा वा शचीपते ।गर्भागर्भमवेक्षेत नित्यं वृद्धिशुभप्रदा ॥३७॥अस्मिन् तन्त्रोत्तरे भागे प्रमिमालक्षणं क्रमात् ।नारदस्य(दाय?)मया प्रोक्तं गुह्याद्गुह्यमनुत्तमम् ॥३८॥तस्मात्पूर्वोत्तरं ज्ञात्वा प्रमिमां कारयेत्क्रमात् ।एवं शैलविधि: प्रोक्त: सारात्सार अनुत्तम: ॥३९॥इति श्रीपाञ्चरात्र विष्वक्सेनसंहितायांशिलासंग्रहणविधिर्नाम चतुर्थोऽध्याय:॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP