विश्वक्सेनासंहिता - पञ्चत्रिंशोऽध्याय:
विश्वक्सेनासंहिता
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि परिवारस्य लक्षणम् ।
श्रृणु देवमुनिश्रेष्ठ महापीठावसानकम् ॥१॥
तालद्वयं तदर्धं वा प्रासादात् परिवारकम् ।
विसृज्य कल्पयेद्धीमान् द्वित्रिहसतमथापि वा ॥२॥
चतुर्हस्तं पञ्चहस्तं व्यपोह्यन्ते महामुने ।
कल्पयेत् परिवाराणां हस्तमात्रं समन्तत: ॥३॥
शिलाभिरिष्टकाभिर्वा आचार्याङ्गुलिना मुने ।
चतुरङ्गुलमुत्सेधं मध्ये पद्मं सकर्णिकम् ॥४॥
कारयेत् परित: पीठं मेखलाद्वयसंयुतम् ।
तालमात्रेण वा कुर्यात् बलिपीठं समन्तत: ॥५॥
तथैव परिवाराणां प्राकारान्मानमत्र तु ।
एवं कल्प्य ततो पीठं परिवारस्य तु सर्वश: ॥६॥
मण्डपाद्वा महापीठं प्राकाराद्वा महामुने ।
हस्तं षोडशमुत्सृज्य आचार्याङ्गुलिनाग्रत: ॥७॥
अष्टहस्तं तदर्धं वा विसृज्यान्ते महामुने ।
कारयेद्वा महापीठं पूर्वापूर्वा गरीयसी ॥८॥
तल्लक्षणं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम् ।
विविक्तने परं गुह्यं श्रृणु नारद तत्त्वत: ॥९॥
त्रिचतु:पञ्चहस्तं वा विस्तारायामतादृशम् (-त: समम्?) ।
पादुकाद्यब्जपर्यन्तमुत्तमादिक्रमेण तु ॥१०॥
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ।
उत्तमेऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ॥११॥
अधमेऽप्यधमं कुर्यात् विभवस्यानु रूपत: ।
षट्सप्तहस्तायतं वापि(?)तत्समं विस्तृतं भवेत् ॥१२॥
एवं ज्ञात्वा महापीठं कल्पयेत् सुमनोरमम् ।
युक्त्या युक्तिविशेषेण कारयेद्बलिपीठकम् ॥१३॥
एकविंशतिभागेन तत्क्रमं शृणु सुव्रत ।
अड्गेन पादुकं (का?) चैव पञ्चकैर्जगती तथा ॥१४॥
त्रियंशं कुमुदं चैव एकांशेन तु पट्टिका ।
गलं चैव चतुर्भागं भागं चैवोर्ध्वपट्टिका ॥१५॥
त्रियंशेर्वलभी छन्द: त्रियंशं कर्णिकोच्छ्रयम् (-य:?) ।
एवं कृत्वा महापीठं शित्र्पिना कुशलेन तु ॥१६॥
शिल्पकार्यावसाने तु प्रोक्षयेत्तन्त्रवित्तम: ।
अथात: संप्रवक्ष्यामि प्रोक्षणं बलिपीठके ॥१७॥
अयने चोत्तरे कुर्यात् पूर्वपक्षे शुभेऽहनि ।
कल्याणवारे सुतिथौ पूर्वेद्यु: कारयेद्बुध: ॥१८॥
तक्षक्रियां समाप्याथ प्रोक्षयेत्तन्त्रवित्तम: ।
पुण्याहं कारयेत्तत्र प्रोक्षयेत् पञ्चमन्त्रकै: ॥१९॥
देवाग्रपीठयोर्मध्ये मण्डपं कारयेत् सुधी: ।
मण्डपस्य विधानेन तोरणानि तु पूर्ववत् ॥२०॥
कृत्वा तु पूर्ववत् सम्यक् वेदिं कुर्यात्तु मध्यत: ।
चतुर्हस्तं द्विहस्?तं वा एकहस्तोच्छ्रयं मने ॥२१॥
सुस्निग्धं (-ग्धां?) कारयेत्तत्र दर्पणोदरसंनिभ (-भा?)म् ।
गोमयेनोपलिप्याथ प्रोक्षयेद्गन्धवारिणा ॥२२॥
तद्वेदिपीठयोर्मध्ये वृत्तं वा चतुरश्रकम् ।
कारयेत्तत्र कुण्डं तु मध्यमे होममाचरेत् ॥२३॥
शालिद्रोणद्वये वेद्यां सकूर्चं सापिधानकम् ।
सहिरण्यं सवस्त्रं च सरित्सलिलपूरितम् ॥२४॥
ससूत्रं कालरहितं द्रोणपूर्णं सुशोभनम् ।
मध्यमे तु न्यसेद्धीमान् विष्णुपारिषदान् बहून् ॥२५॥
ऐन्द्रादीशानपर्यन्तं कलशान् स्थापयेत् पृथक् ।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥२६॥
शङ्कुकर्णं सर्पनेत्रं सुमुखं सुप्रतिष्ठितम् ।
गन्धादिभि: समभ्यर्च्य होमं कुर्यादनन्द्रित: ॥२७॥
समिदाज्यचरून् दध्ना मधुना पयसापि च ।
यवान् सिद्धार्थसलिलान् प्रत्यकं शतमाहुती: ॥२८॥
मन्त्रेणाष्टाक्षरेणैव द्वादशाक्षरमेव वा ।
नृत्तगीतसमातोद्यै रात्रिशेषं नयेद्बुध: ॥२९॥
सुमुहूर्ते तु संप्राप्ते ब्राह्मणानामुनज्ञया ।
स्वस्तिसूक्ति(-क्त?)युतो गत्वा विमानं तु प्रदक्षिणम् ॥३०॥
स्वस्वस्थाने तु संप्रोक्ष्य तत्तत्स्थानान् स्मरन् बुध: ।
कुम्भोदकादशेषं तु महापीठेऽभिषेचयेत् ॥३१॥
विष्णुपारिषदान् सर्वान् संस्मरेत् साधकोत्तम: ।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम् ॥३२॥
साज्यं दधिपयोयुक्तं नारिकेलपयांसि च ।
निवेदयेन्महापीठे चादिमूर्तिमनुस्मरन् ॥३३॥
निवेद्य शेषं संगृह्य चण्डादिभ्यो बलिं क्षिपेत् ।
शङ्खभेर्यादिसंयुक्तं गेयनृत्तसमन्वितम् ॥३४॥
वेदाध्ययनसंयुक्तं ?बलिकर्म समापयेत् ।
बल्यन्ते परमात्मानं स्नापयेदधमोत्तमम् ॥३५॥
महाहविर्निवेद्याथ पुण्याहं पुनराचरेत् ।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥३६॥
आचार्यं पूजयेत् पश्चात् हेमरत्नाङ्गुलीयकै: ।
इदं धन्यं यशस्यं च सर्वशान्तिकरं भवेत् ॥३७॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां महापीठ-
प्रतिष्ठाविधिर्नाम पञ्चत्रिंशोऽध्याय:
N/A
References : N/A
Last Updated : January 09, 2021
TOP