संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|विश्वक्सेनासंहिता| पञ्चमोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - पञ्चमोऽध्याय: विश्वक्सेना संहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम पञ्चमोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अथात:संप्रवक्ष्यामि शूलस्थापनमुत्तमम् ।स्थापयेत् प्रतिमाशूलं रत्नन्यासस्य चो(स्तथो?)परि ॥१॥खदिरादीनि गृह्णीयात् याज्ञिकानि विशेषत: ।तल्लक्षणं प्रवक्ष्यामि श्रृणु पूर्वं शचीपते ॥२॥पञ्चोत्तरद्विपञ्चाशत्*सपादं*(अङ्गुलं?)शूलमुच्पते ।रहितं वृक्षदोषैस्तु मितमङ्गुलिभि: क्रमात् ॥३॥द्विषट्कद्व्यङ्गुलयुतं मुखं प्रोक्तं प्रमाणत: ।भाग: सपादकं वा स्यादधस्तात् सप्तविंशति: ॥४॥नाभेरधोमुखं प्रोक्तमर्धाङ्गुलिसमायुतम् ।ऊरुदण्डस्य चायाम: पञ्चविंशाङ्गुलो भवेत् ॥५॥भाग:सपादं जानु: स्यात् जङ्घा चोरुसमायुता ।गोलकद्वयमुद्दिष्टमधस्ताद्द्व्यन्तरं तथा ॥६॥वक्षोदण्डस्य विस्तार: पञ्चविंशाङ्गुलो भवेत् ।कटिदण्डस्य विस्तार: षोडशाङ्गुल उच्यते ॥७॥आयामो बाहुदण्डस्य पञ्चविंशाङ्गुलो भवेत् ।आयामोऽपरबाह्वोस्तु भवेत् सप्तदशाङ्गुलम् ॥८॥मणिबन्ध: कलायामो बन्धकान् प्रतिमस्करम् ।आयामो मध्यमाङ्गुल्यां पञ्चाङ्गुल इति स्मृत: ॥९॥एतत्प्रमाणं शूलं स्यात् उक्तमन्यन्निरीक्ष्यते(तु?) ।देवीनां तु शचीनाथ शूलानुक्तान् प्रयोजयेत् ॥१०॥शिल्पशास्त्रानुसारेण कारयेच्छूललक्षणम्(मुत्तमम्?) ।शूलमृत्पटरज्वादिजीर्णं चेत्तु शचीपते ॥११॥पुनरन्यत् समुत्पाद्य पूर्वोक्तेनैव कारयेत् ।हीनाधिकं न कर्तव्यं जीर्णदण्डवदाचरेत् ॥१२॥एवमेतन्मया प्रोक्तं, जीर्णोद्धारणकर्मणि ।युक्त्या युक्तिविशेषेण क्रियतेऽस्मिन्नतन्द्रितै: ॥१३॥शूलाधिवासनादीनि प्रवक्ष्यामि शचीपते ।श्रृणुष्वैकाग्रचित्तेन विविक्तेन मयाधुना ॥१४॥प्रासादस्याग्रत: कुर्यात् मण्डपं चतुरश्रकम् ।चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥१५॥वितानवस्त्रसंछन्नमलंकारैरलंकृतम् ।पञ्चोत्तरशतं हस्तं विस्तारं तावदेव तु ॥१६॥तन्मध्ये वेदिकां कृत्वा दशतालप्रमाणत: ।दशहस्तं भवेद्वापि द्वादशं वा शचीपते ॥१७॥तन्मण्डपं(द्वेदिकां?)त्रिधा कृत्वा मध्ये वेदिं तु कारयेत् ।दशतालविहीनेन (प्रमाणेन) कारयेद्वेदिमुत्तमाम् ॥१८॥तालद्वयोच्छ्रितां वेदिं दर्पणोदरसंनिभाम् ।वेदिकां क्रमश: कृत्वा सम्यक्कुण्डानि कल्पयेत् ॥१९॥चतुस्तालं त्रितालं वा दूरीभूतानि सर्वश: ।वेदिकायां तु परित: चतुरश्रादि कल्पयेत् ॥२०॥स्थण्डिले वा प्रकर्तव्यं शूलस्थापनकर्मणि ।कृत्वैवं मण्डपं सम्यक् प्रपां वास्मिन् समाचरेत् ॥२१॥अङ्कुरार्पणपूर्वं तु स्थापयेच्छूलमुत्तमम् ।शुलादि देवदेवीत्वाप्यूहं कृत्वा क्रमेण तु ॥२२॥त्रिरात्रमेकरात्रं वा जलवासं प्रकल्पयेत् ।जलाधिवासनं गुह्यं श्रृणु शक्र शचीपते ॥२३॥नद्यां वाथ तटाके वा निर्झरे वा शचीपते ।*समुद्रगामिनी नद्यां*जलवासं समाचरेत् ॥२४॥तस्मिन्मनोरमे तीरे संस्थाप्य हरिमव्ययम् ।शूलमध्ये हरिं ध्यात्वा साधक: परमार्थवित् ॥२५॥केवलं लोहबिम्बं वा स्थापयेत् साधकोत्तम: ।अर्घ्यपाद्यादिनाभ्यर्च्य न्यासकर्म समारभेत् ॥२६॥अष्टाक्षरं महामन्त्रं ज्ञात्वा मन्त्रविचक्षण: ।न्यासं कृत्वा स्वदेहे तु पश्चाद्देवे न्यसेत् क्रमात् ॥२७॥सृष्टिन्यासं न्यसेत्तस्मिन् संहारं न स्मरेदिह ।षडक्षरं न्यसेद्धीमान् स्थितिन्यासं न्यसेत् क्रमात् ॥२८॥देवाग्रे तु ततो भूमिं गोमयेनानुलेपयेत् ।तन्मध्ये शालीनास्तीर्य चाष्टपत्राब्जकं लिखेत् ॥२९॥पञ्चगव्यं न्यसेन्मध्ये कर्णिकायां शचीपते ।पूर्वे गन्धोदकं न्यस्य दक्षिणे पुष्पतोयकम् ॥३०॥पश्चिमे नालिकेराम्भ: चोत्तरे तु कुशोदकम् ।आग्नेय्यां दधि विन्यस्य नैऋते क्षीरमेव च ॥३१॥वायव्ये मङ्गलोदं तु ऐशाने तु यवोदकम् ।एवं तु नवकं चाब्जमध्ये संस्थापयेत् क्रमात् ॥३२॥पद्मस्य परितश्चाष्टौ लोकपालान् प्रकल्पयेत् ।प्रत्येकं कलशस्यान्त: तोयं संस्थापयेत्क्रमात् ॥३३॥नववस्त्रैश्च संछाद्य कलशानां तथोपरि ।प्रत्येकैकं त्रिभिर्वापि नववस्त्रं शचीपते ॥३४॥पुण्याहं वाचयित्वा तु स्वस्तिसूक्तं तथोच्चरेत् ।गन्धपुष्पादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तम: ॥३५॥स्मरन् नारायणं पश्चात् स्नापयेत् क्रमयोगत: ।पञ्चगव्यादिकलशान् पूर्ववत् परमेष्ठिना ॥३६॥पुष्पमाल्यैरलंकृत्य चित्रवस्त्रैस्तु वेष्टयेत् ।गन्धपुष्पादिनाभ्यर्च्य स्मरन् नारायणं प्रभुम् ॥३७॥जलमध्ये प्रपां कृत्वा वितानैरुपशोभिताम् ।सप्तहस्तसमां वापि पञ्चहस्तसमां तु वा ॥३८॥दर्भसूत्रैस्तु संवेष्ट्य पुनर्माल्यैस्तु वेष्टयेत् ।चतुर्हस्तं तु देवेन्द्र विस्तारायामतादृशम्(त: समम्?) ॥३९॥दर्भमालासमायुक्तं मुक्तादामैरलंकृतम्(मभिरन्वितम्?) ।पुष्पमाल्यैरलंकृत्य पताकैरुपशसोभितम् ॥४०॥एवं प्रपामलंकृत्य तन्मध्ये चासनं न्यसेत् ।चतुष्पादसमायुक्तं काष्ठासनमनुत्तमम् ॥४१॥तन्मध्ये देवमावाह्य क्षीरार्णवमनुस्मरन् ।शाययेत्तु शचीनाथ मूर्तिमन्त्रेण मन्त्रवित् ॥४२॥प्राक्शीर्षं वा[पि]देवेन्द्र दक्षिणे वाथ शाययेत् ।पञ्चोपनिषदं ज्ञात्वा आचार्यस्तन्त्रपारग: ॥४३॥पुरुषेण ततो गन्धपुष्पाद्यैरर्चयेद्धरिम् ।लोकपालाष्टकलशान् देवस्य परितो न्यसेत् ॥४४॥स्वनाम्ना पूजयेत् सर्वानिन्द्रादिक्रमयोगत: ।प्रणवादिनमोन्तेन घण्टाशब्दसमन्वितम् ॥४५॥गन्धा(अर्घ्या?)दिदीपपर्यन्तं साधक: परमार्थवित् ।तां प्रपां परितश्चाष्टदिग्बलिं कारयेत् क्रमात् ॥४६॥अनेन लोकपालांस्तु स्मरंस्तन्त्रविदां वर: ।गन्धपुष्पादिनाभ्यर्च्य उक्तमन्येन (न्यच्च?)कारयेत् ॥४७॥शचीपते मया प्रोक्तो जलवासविधि: क्रमात् ।अपरेऽहनि देवेन्द्र अपराह्णे समाहित: ॥४८॥जलादुत्तीर्य तन्त्रज्ञ: शङ्खभेर्यादिभि: सह ।संपूजयेत्तयो देवमलंकृत्य स्रगादिभि: ॥४९॥मण्डपेशानभागे तु स्थापयेत् स्नानमण्डपे ।स्नपनं विधिवत् कृत्वा गन्धाद्यैरर्चयेत् क्रमात् ॥५०॥उत्तरेऽस्मिन् मया प्रोक्तं तन्त्रे तु स्नपनं क्रमात् ।तत्क्रमं स्नापयित्वा तु कल्पयेच्छयनं क्रमात् ॥५१॥शयनं कल्पयित्वा तु शाययेच्छूलसंचयम् ।तन्मध्ये देवशूलं तु देवीशूलं तु पार्श्वयो: ॥५२॥वस्त्रै: संछादयेच्छूलान् गन्धपुष्पै: समर्चयेत् ।सूक्तेन पु(पौ?) रुषेणैव सृष्टिन्यासं ततो न्यसेत् ॥५३॥संहारो नेष्यते तस्मिन् तत्वानि विनियोजयेत् ।मूलप्रकृतिमहदहङ्काराकाशवायुवह्णिवारिवसुन्धरावाक्पा-णिपादपायूपस्थश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणमन:प्राणापानव्या-नोदानसमानजीवा: पञ्चविंशतितत्त्वानि ।एवं तत्त्वानि विन्यस्य तन्नामानि नियोजयेत् ॥५४॥ततस्तु वेदिकायां तु पूर्वादिक्रमयोगत: ।स्थापयेत् पूर्णकुम्भांस्तु धान्यराशौ समाहित: ॥५५॥वराहादीन् समभ्यर्च्य स्वनाम्नाष्टदले(घटे) षु च ।नेष्यते वेदिकायां तु ब्रह्मकुम्भाधिवासनम् ॥५६॥न्यासभेदानि सर्वाणि अनुक्तं न स्मरेदिह ।अर्घ्यपाद्यादिनाभ्यर्च्य स्मरन्नारायणं हरिम् ॥५७॥वासुदेवादिमूर्तीनां पूर्वादिक्रमयोगत: ।कुण्डे वा स्थण्डिले वापि जुहुयुर्मूर्तिपा: पृथक् ॥५८॥समिदाज्येन चरुणा अष्टोत्तरशतं क्रमात् ।मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ॥५९॥सूक्तेन पौरुषणैव पूर्वादिक्रमयोगत: ।कुण्डे कुण्डे तु कर्तव्यं (कुर्याच्च?) प्रत्येकं षोडशाहुती: ॥६०॥पूर्णाहुतिं ततो हुत्वा होममस्मिन् समापयेत् ।पायसं कृसरं गौळ्यं देवेशाय निवेदयेत् ॥६१॥शङ्खदुन्दुभिनिर्घोषं तस्मिन् काले नियोजयेत् ।रक्षार्थं हविषाऽस्त्रेण चाष्टदिग्बलिमाचरेत् ॥६२॥घण्टाशब्दसमोपेतं शङ्खदुन्दुभि घोषयेत् ।ततस्तु नववस्त्रैश्?च वेष्टयेदुपरि क्रमात् ॥६३॥गन्धपुष्पं विनिक्षिप्य प्रणम्याञ्जलिमुद्रया ।रात्रिशेषं नयेत् गेयनृत्तवीणादिभि: क्रमात् ॥६४॥प्रभातायां तु शर्वर्यामाचार्य: स्नानमाचरेत् ।ऊर्ध्वपुण्ड्रं क्रमात् कृत्वा वस्त्रालंकारभूषित: ॥६५॥मूर्तिपै:सह चोत्थाय शूलमूलमनुस्मरन् ।अर्घ्यपाद्यादिनाभ्यर्च्य हाविरस्मिन्न (स्मैप्र?) दापेयत् ॥६६॥वेश्वमप्रदक्षिणं कुर्वन् गर्भागारं प्रवेशयेत् ।आचार्य: स्थापयेच्छूलं ततस्तु परमेष्ठिना ॥६७॥देवीशूलं तु संस्थाप्य स्वनाम्नास्मिन् श्रियादिना ।वेदान् सस्वरमुद्धृत्य काले तस्मिन् समुच्चरेत् ॥६८॥वाराहादीनि चावाह्य शूलाग्रे सेचयेत् क्रमात् ।आसनं च तत: पुंसा विश्वेन शयनं तत: ॥६९॥निवृत्या यानकं चापि सिञ्चेत्तन्मू?र्ध्नि(?र्ति?) धारक: ।मूर्धादिपादपर्यन्तं वाराहादीननुक्रमात् ॥७०॥विन्यसेच्छूल (लं?) देहे तु स्वनाम्ना च पृथक्पृथम् ।सहैव स्थापयेच्छूलं श्रीपुष्ट्योर्देवपार्श्वयो: ॥७१॥चित्रार्धं शेलदारुभ्यां साङ्गोपाङ्गसमायुतम् ।कारयेत् प्रतिमां तत्र स्थापयेच्छूलवत् पुरा ॥७२॥वस्त्रं तत्र नवं स्निग्धं नीलरोमादिवर्जितम् ।संगृह्य प्रणवेनैव छादयेत् प्रतिमोपरि ॥७३॥वर्णं तत्कारयेद्विद्वान् यद्यत् पूर्वानुरूपत: ।पुन:संस्थापनं कृत्वा स्थापनाशास्त्रत: क्रमात् ॥७४॥शूलमस्थिमवेत्तस्मिन् रज्जुस्तत्र सिरा भवेत् ।मृण्मासं त्वक्पटं तत्र शरीरवदिदं स्मृतम् ॥७५॥यथा शरीरे संकल्प्य चतुष्षष्टि सिरास्तथा ।नारिकेले(ल?)त्वच:सारं गृह्णीयाद्रज्जुकर्मणि ॥७६॥शूले पाशा: प्रकर्तव्या: तत्कर्मकशलै: शुभै: ।एवं रज्जुमयं कृत्वा सर्वाङ्गेषु सुवेष्टयेत् ॥७७॥संक्षेपात् कथितं रज्जुबन्धनं परमं शुभम् ।एवं कृत्वा यथान्यायं शूलस्थापनमुत्तमम् ॥७८॥आचार्यं पूजयेत् पश्चात् धनै:कनककुण्डलै: ।शिल्पिनं पूजयेत् पश्चात् तथैव नववस्त्रकै: ॥७९॥दैवज्ञं पूजयेत् पूर्वं वस्त्रहेमाङ्गुलीयकै: ।ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ॥८०॥एवं संस्थापनं प्रोक्तं संक्षेपा*च्छूलमुत्तमम्*॥इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां शूलस्थापन-विधिर्नाम पञ्चमोऽध्याय: । N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP