संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| अष्टपंचाशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टपंचाशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत अष्टपंचाशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि स्त्रीणां दीक्षाविनिर्णयम् ।स्त्रीणां दीक्षा कथं देया केन वा परमेश्वर ॥१॥ईश्वर उवाच ।पुत्रेण मातुर्दीक्षा वै देया भक्तिवशेन तु ।भक्तियोगे द्रढीयान्वै मन्त्रशास्त्रे महेश्वरि ॥२॥ऐक्यसम्भावनाद्देवि देवत्वमुपजायते ।मन्त्ररूपो भवेद्देवो देवरूपो गुरुः स्मृतः ॥३॥गुरुरूपो भवेदात्मा चात्मरूपो मनुर्भवेत् ।मन्त्रश्चैतन्य इत्युक्तश्चैतन्यं गुरुरूपकम् ॥४॥मन्त्रो देवो गुरुरिति त्वेकपर्यायवाचकः ।एतदभ्यासयोगेन तद्रूपरूपको भवेत् ॥५॥ताद्रूप्यरूपकं नाम तत्र त्वात्मैकविग्रहम् ।ताद्रूप्ये तु समापन्ने शिवयोगी स जायते ॥६॥अयं मानसिको धर्मः कारणं मन एव हि ।मात्रा दीक्षा प्रदेया वै स्त्रीणां नान्येन शाम्भवि ॥७॥देवीपरम्पराप्राप्ता दीक्षा स्त्रीणां शुभा मता ।देवीपरम्परायां तु विशेषं श्रृणु पार्वति ॥८॥देवीपरम्परोद्दिष्टपारम्पर्यक्रमागता ।स्त्रीणां दीक्षा परं जाता दीक्षा देवि शुभा मता ॥९॥तत्परम्परया प्राप्ता दीक्षा सिद्धिप्रदा मता ।पुरुषाणां तत्सकाशद्दीक्षा जाता परम्परा ॥१०॥मुख्यं श्रृणु महादेवि स्त्रीणां न नियमो मतः ।नियमः पुरुषे ज्ञेयो न योषित्सु कथञ्चन ॥११॥इदं पशुपरं बोध्यं नहि वीरपरं शिवे ।वीराणां देवदेवेशि सर्वत्र दीक्षणं वरम् ॥१२॥ देवीपारम्पर्यवरे स्त्रीणां दीक्षा तु या मता ।तेन दीक्षणयोगेन त्रैलोक्यविजया सती ॥१३॥तत्समानैव सा स्त्री स्यात् नान्यथा शांकरं वचः ।तस्या मुखोद्गता विद्या सिद्धविद्या प्रकीर्तिता ॥१४॥सा विद्या बालसंस्कारे रसनायां विलिख्यते ।त्रिवर्षादूर्ध्वतो देवि त्रैलोक्यविजयी कविः ॥१५॥शाक्ते विकल्पसहिते कथं दीक्षा भवेत् प्रिये ।गुरोः सकाशाच्चेद्दे या तदा सा भगिनी मता ॥१६॥स्वयं वै यदि चेद्देया तदा कन्या प्रकीर्तिता ।अन्यतो दापनीया चेन्मार्गभ्रष्टा तदा भवेत् ॥१७॥श्रीदेव्युवाच ।मन्त्रशास्त्रे बहुविधा मार्गा देव पुरोदिताः ।तदर्थं शङ्क्यते चित्तं किं कार्यं वद शङ्कर ॥१८॥श्रीशिव उवाच ।स्वसम्प्रदाये यः श्रेष्ठस्तत्सकाशात्तु दीक्षणम् ॥१९॥त्रयोदश्यां कृष्णपक्षे चन्द्रवासरसंयुते ।ताडपत्रे मनुं लिख्य संस्कारदशकं चरेत् ॥२०॥दशसंस्कारयोगेन सिद्धो मन्त्रो भविष्यति ।तद्दिने पायसं कृत्वा दक्षिणामूर्तिसन्निधौ ॥२१॥पायसाद्यं निवेद्याsथ बिल्वैः संपूज्य शङ्करम् ।शतं कृत्वा वाचनीयमष्टोत्तरसहस्रकम् ॥२२॥संजप्य होमयेद्देवि तत्र तंत्रोक्तवर्त्मना ।वाचने नास्ति चेच्छक्तिस्तदा किं वा विधीयते ॥२३॥पुत्रद्वारा वाचनीयं स पुत्रो गुरुरेव तु ।एवं गृहीतमन्त्रस्तु सिद्धिदो भवति प्रिये ॥२४॥अथवा तादृशी कार्या शास्त्रवाचनतत्परा ।धर्मशास्त्रं तु सम्पाद्य चार्णवानां च विंशतिः ॥२५॥शास्त्रज्ञां कारयित्वा तु समयाचारतत्पराम् ।शास्त्रसंवाचनपरां कारयित्वा महेश्वरि ॥२६॥ततः पूर्वोक्तविधिना वाचनीयो मनुः प्रिये ।एवं गृहीतविधिना देवीरूपैव सा मता ॥२७॥श्रीदेव्युवाच ।देवदेव महादेव सर्वसिद्धिप्रदायक ।पूर्वं प्रोक्तं त्वया देव स्त्रीणां नात्राधिकारिता ॥२८॥दक्षिणामुर्तिघोरादौ पञ्चाक्षर्य्यां महेश्वर ।प्रणवाद्येषु मन्त्रेषुं स्त्रीणां नात्राधिकारिता ॥२९॥विशेषाद्दक्षिणामुर्तौ स्त्रीणां वै नाधिकारिता ।त्वया प्रोक्तं महादेव सम्प्राप्तेsपि ध्रुवं त्यजेत् ॥३०॥इत्याद्युक्तं महादेव कथं ग्राह्यो मनुस्तथा ।शूद्राणां तु यथा यज्ञो नोक्तः प्रत्यक्षतस्त्वया ॥३१॥वेदादौ तु महादेव शूद्राणां नाधिकारिता ।तैर्यज्ञश्च कथं कार्यस्तथा स्त्रीणां महेश्वर ॥३२॥उपासनायां देवेश यस्य वै नाधिकारिता ।तस्य ध्यानं कथं कार्यं तत्सकाशात्कथं मनुः ॥३३॥ग्राह्यो वै देवदेवेश यथा वै सूतकद्वये ।उपस्थानाधिकारो न तस्य पूजा कथं मता ॥३४॥श्रीशिव उवाच ।अध्यातास्तु क्रियाः कार्या नोपस्थानं समाचरेत् ।तथा वै देवदेवेशि स्त्रीणां वै नाधिकारिता ॥३५॥पूर्णाभिषेकयुक्तानां सूतकाद्यं न च स्मृतम् ।स्नानं दानं तथा सन्ध्या पूजाद्यं कारयेच्छिवे ॥३६॥यस्य दर्शनमात्रेण पापिष्ठाः पुण्यरूपिणः ।तस्य पापं कुतो देवि वर्तते वद सत्वरम् ॥३७॥स एव पुण्यराशिर्वै नात्स्यत्र संशयः शिवे ।अन्यदीक्षादिभिर्युक्तास्तेषां वै सुतकं नहि ॥३८॥श्रीदेव्युवाच ।एकं तु सुतकं देव वर्तते तस्य देवते ।मन्त्रस्य च तथा होमस्यास्ति देव न चेतरम् ॥३९॥जन्मसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।दक्षिणामुर्तितो देव गृहीते मन्त्रवर्यके ॥४०॥गुरुः को वा तत्र पूज्यः का वा तत्र परम्परा ।श्रीशिव उवाच ।ध्यात्वा श्रीदक्षिणामुर्ति विहाय प्रणवं प्रिये ॥४१॥मन्त्रो ग्राह्यो महेशानि गुरुः श्रीदक्षिणेश्वरः ।महाविद्याविधौ देवि दक्षिणेशपरम्परा ॥४२॥तत्परम्परया पूजा गुरोः कार्या महेश्वरि ।यथा शूद्रेण देवेशि यज्ञमुख्याः क्रियाः शुभाः ॥४३॥कार्य्यं ते चान्यद्वारेण तथाsत्र प्रणवं त्यजेत् ।इयं दीक्षा पशूनां वै पाशवत्वप्रदायिनी ॥४४॥अथवाsन्यप्रकारेण दीक्षणं श्रृणु साम्प्रतम् ।नद्यां समुद्रगामिन्यां शुभलग्ने शुभे दिने ॥४५॥सम्प्रदायं पुरा पृष्ट्वा श्रीसूर्यमण्डलं लिखेत् ।साङ्गं सावरणं सूर्यं सम्पूज्य प्राणवल्लभे ॥४६॥ताडपत्रे मनुं लिख्य वाचयेत्तत्सकाशतः ।शताष्टवारं संवाच्यं चाङ्कानां वामतो गतिः ॥४७॥तत्र सूर्यं गुरुं पूज्य सर्वसिद्धीश्वरो भवेत् ।वीराणां कौलिकानां तु भर्ता दीक्षणमाचरेत् ॥४८॥इदं पशुपरं प्रोक्तं नहि दक्षिणदीक्षणम् ।स्वस्वकल्पोक्तविधिना संजप्य परमेश्वरि ॥४९॥पुरश्चर्यां प्रकुर्वीत यथोक्तेन तु वर्त्मना ।इति प्रोक्तं महादेवि किमन्यच्छ्रोतुमिच्छसि ॥५०॥श्रीदेव्युवाच ।पूर्वं संसूचितं देव न मह्यं वै प्रकाशितम् ।तदद्य कथ्यतां देव यद्यहं तव वल्लभा ॥५१॥श्रीशिव उवाच ।अथ तेsहं प्रवक्ष्यामि पूर्वं संगोपितं मया ।दुर्गां कालीं शूलिनीं तु विहाय सिद्धिमिच्छति ॥५२॥दघ्योदनं परित्यज्य दृषद्भक्षणमिच्छति ।दुर्गा काली शूलिनी तु सर्वसिद्धिप्रदा मता ॥५३॥महाविद्या कलौ देवि न देया यस्य कस्यचित् ।प्रमादाद्यदि वा दद्यात् नहि सिध्यति सर्वथा ॥५४॥तत्रापि सुन्दरी काली न देया सर्वथा प्रिये ।शक्ति स्वायम्भुवे बौद्धे वैष्णवे सौरचान्द्रयोः ॥५५॥गाणपे चीनकौलेषु तथा पाशुपतक्रमे ।शाबरे केरले दिव्ये मन्त्रमात्रे महेश्वरि ॥५६॥वरदानाधिकारी हि कालिकायां प्रकीर्तितः ।मन्त्रमात्रे प्रसादस्तु कालिकायाः प्रकीर्तितः ॥५७॥शैवशाक्ताद्यागमेषु कालिका वरदायिनी ।एकस्मिन्समये पूर्वं त्रिपुराजयवानहम् ॥५८॥पञ्चाशल्लक्षजापं तु कृतं तु शम्भुना शिवे ।प्रसन्ना वै तदा जाता सुन्दरी भक्तवत्सला ॥५९॥कालिकाग्रे त्वया गत्वा ग्राह्यं तु वरदानकम् ।शिवेनोक्तं महादेवि कोटिब्रह्माण्डनायिके ॥६०॥राजराजेश्वरी त्वं हि मया कुत्र प्रगम्यते ।आद्या श्री दक्षिणा काली अनिरुद्धसरस्वती ॥६१॥मम प्रकृतिभूता तु सैव विद्या महेश्वरी ।अन्या विकृतयः सर्वा विकृतौ नहि मुख्यता ॥६२॥श्रीदेव्युवाच ।अहं तु दक्षिणाकाली द्वितीया प्रकृतिर्वरा ।ब्रह्मसम्मोहनार्थाय प्रपञ्चार्थं महेश्वर ॥६३॥जाता तदाज्ञया देव साहं ज्येष्ठा महेश्वर ।तत्र गत्वा वरो ग्राह्यः सैवाहं नात्र संशयः ॥६४॥वरदानं मन्त्रमात्रे काल्या एव प्रकीर्तितम् ।एवमन्ये महामन्त्राः संजपन्ति महेश्वर ॥६५॥महामन्त्रैः कालिकाग्रे गत्वा सम्प्रोच्यते च यत् ।तत् श्रृणुष्व महादेव महद्गुह्यतरं वचः ॥६६॥कालकाली महाकाली विद्याराज्ञी महोदया ।सिद्धिनाथेश्वरी प्राणप्रिये सर्ववरप्रदे ॥६७॥उपासकप्रसादाख्यं वरदानं कृतं शिवे ।तत्रस्थं जायतां देवि त्विदं याचे तवाग्रतः ॥६८॥महामन्त्रादयो मन्त्रा यूयं गच्छन्तु मे गृहम् ।तथैव क्रियतेsस्माभिर्यथाकर्मानुसारतः ॥६९॥भगवत्याः प्रसादेत्युक्ते वै सुन्दरीं प्रति ।सुन्दर्या तु तथा प्रोक्तं प्रसादात्परमेव च ॥७०॥अहं प्रपञ्चभूतास्मि सा तु निर्गुणरूपिणी ।यथा यत्क्रियते सर्वं तंत्रं जातु विधीयते ॥७१॥त्वया यत्क्रियते शम्भो तन्मया क्रियतेsद्य तु ।क्रियाद्येषु च देवेश अधिष्ठात्री तु कालिका ॥७२॥सा शैवमूर्त्तिरित्युक्ता चाहं शक्तिस्वरूपिणी ।अहं शिवब्रह्मरूपा शक्तिरिति प्रकीर्तिता ॥७३॥श्रीमत्पाशुपताद्येषु अधिष्ठात्री तु कालिका ।उभयोरन्तरं देव प्रपञ्चार्थं प्रकीर्तितम् ॥७४॥श्रीशिव उवाच ।कालीसुन्दर्यन्तरं तु यः पश्यति महेश्वरि ।स पापिष्ठो महादुःखी रौरवं नरकं व्रजेत् ॥७५॥तस्य दर्शनजं पापं को दूरीकर्त्तुमिच्छति ।प्रमादाद्दर्शनं चेत्स्यात् पुनर्दीक्षां समाचरेत् ॥७६॥पूर्णाभिषेकदीक्षा तु पुनः कार्या महेश्वरि ।पुनर्दीक्षाविधानेन विद्या सिध्यति नान्यथा ॥७७॥नान्यथा ह्यधिकारोsस्ति कादिहादिमते शिवे ।काद्यं मतं तन्त्रराजं खण्डाष्टकमितीरितम् ॥७८॥तत्र कादिमते देवि मतद्वयमुदीरितम् ।पूर्वार्धं चोत्तरार्धं तु हादिकादिमतद्वयम् ॥७९॥वर्णसाम्यान्मन्त्रसाम्यात् कादिहादिमतं महत् ।कहेत्येवं महामन्त्रस्तूत्तराम्नायगोचरः ॥८०॥ककाराद् ब्रह्मरूपत्वं तत्कादिमतमीरितम् ।हकारात् शिवरूपत्वं तद्धादिमतमीरितम् ॥८१॥काद्यं कालीमतं देवि हाद्यं श्रीसुन्दरीमतम् ।द्वयं मिलित्वा कहाख्यं कादिहादिमतद्वयम् ॥८२॥सौन्दर्ये तु प्रपञ्चोsस्ति सौन्दर्यव्यतिरिक्तके ।न प्रपञ्चोsस्ति देवेश सौन्दर्यं सर्वदर्शकम् ॥८३॥ब्रह्मसन्दर्शनं देवि ह्यसौन्दर्यं महेश्वरि ।एतद्रहस्यमाख्यातं कालीमुखविनिर्गतम् ॥८४॥ग्रन्थेषु सुन्दरी काली सदा तिष्ठति शङ्करि ।द्वयोः प्रियकरो ग्रन्थः पूजयेद् गोपयेच्छिवे ॥८५॥रहस्यातिरहस्ये च रहस्यातिरहस्यकम् ।गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥८६॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे कालीविवरणं नाम नामाष्टपंचाशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP