श्रीशक्तिसङ्ग्मतन्त्रम् - चतुर्थः पटलः ।
तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.
श्रीदेव्युवाच ।
देवेश ब्रूहि यत्नेन चाम्नायादिविनिर्णयम् ।
श्रीशिव उवाच ।
आम्नायो नवधा प्रोक्तश्चोत्तमादिप्रभेदतः ॥१॥
त्रिभेद बहुभेदत्वात् त्रितयं त्रितयं त्रिषु ।
उत्तमं शृणु तत्रादौ शैवादिदर्शनेन च ॥२॥
शाक्तं शैवं वैष्णवं च सौरं गाणपमेव च ।
बौद्धं च देवदेवेशि दर्शनानि च षत्क्रमात् ॥३॥
षड्दर्शनस्य षण्मंत्रा ऊर्ध्वाम्नाये प्रकीर्तिताः ।
अनेनैव प्रकारेण पूर्वदक्षिणपश्चिमाः ॥४॥
उत्तरार्धेत्यूर्द्ध्वसंज्ञा षडाम्नायाः प्रकीर्तिता ।
अयं श्रेष्ठो निगदितो देव लोके विराजते ॥५॥
मध्यमः कुत्र कुत्रापि तिष्ठत्येव न संशयः ।
मध्यमः सूचितो देवि दशविद्यादिभेदतः ॥६॥
ऊर्ध्वाम्नाये महाषोढा उत्तरे तारिणी स्मृता ।
कनिष्ठश्चैव षट्चक्रभेदैरेवं त्रिधा शिवे ॥७॥
अयं हादिमते प्रोक्तः शृणु कादिमतेsधुना ।
पूर्वोक्त एव श्रेष्ठः साद्दशविद्यादिमध्यतः ॥८॥
महःकामकला काली तूर्ध्वाम्नायेsत्र देवता ।
दशकाल्यादिभेदैश्च कनिष्ठः परिकीर्तितः ॥९॥
शाक्तं शैवं वैष्णवं च गाणपं सौरमेव च ।
ऊर्ध्वं पूर्वं दक्षयोगे प्रत्यक् चोदक् च पार्वति ॥१०॥
क्रमेण योजनाद्देवि तदन्यः परिकीर्तितः ।
बौद्धाम्नाये चेन्द्रकाश्च गन्धर्वाद्यप्सरादयः ॥११॥
इन्द्रजालादिकं देवि पातालाम्नायमध्यगम् ।
पूर्वाम्नाये वामकौलौ दिव्यदक्षौ तु दक्षिणे ॥१२॥
पश्चिमे वीर कौलाश्च उत्तरे वाम एव च ।
ऊर्ध्वदिव्यौ महेशानि पातले पशुमार्गकः ॥१३॥
तदिच्छया तु तन्मार्गः कीर्तितः परमोत्तमे ।
ब्रह्मकाली सिद्धरूपा ह्यनिरुद्धसरस्वती ॥१४॥
शिवरूपी चित्स्वरूपी श्रीमद्गन्धर्वसुन्दरी ।
तत्रापि ब्रह्मवीराया योगं संशृणु पार्वति ॥१५॥
षट्त्रिंशच्छक्तिमध्ये च संपूज्या चोत्तरोत्तरम् ।
उत्तरा कादिहादीनां मतभेदाद् द्विधा स्मृता ॥१६॥
पार्वतीया कादिरूपा हादिर्मातंगिनी परा ।
मातंगिनी तु या नारी सा नारी xxx यदि ॥१७॥
सापि xx यदि भवेत्सादि प्रथम xxx ।
आषोडशादनूढा तु प्रोक्ता सर्वोत्तमोत्तमा ॥१८॥
ईदृग्विधां पार्वतीया केवला कालिका स्मृता ।
ईदृग्विधां समानीय सुन्दरीं xx लालसाम् ॥१९॥
न्यस्त्वा शक्तयादयो न्यासान् तस्याः सर्वाङ्गके प्रिये ।
एवं भूतं जीवचक्रं xx चक्रं प्रपूजयेत् ॥२०॥
सांगां सावरणां देवि सार्घ्यस्थापनपूर्वकम् ।
सबल्यन्तं च सम्पाद्य संलोक्य xx मण्डलम् ॥२१॥
संजपेत्परमेशानि ध्यानपूजापुरःसरम् ।
xx ध्यानं प्रकुर्वीत स सिद्धो भुवि जायते ॥२२॥
एतस्यालाभतो देवि पार्वतीयां च पुष्पिणीम् ।
पूजयेद्देवदेवेशि त्वभावे स्त्रियमप्यलम् ॥२३॥
पूर्वोक्तान्यतमां वीक्ष्य सामरस्यप्रयोगतः ।
निर्गुणोsहं तया युक्तः सगुणः प्रभवाम्यहम् ॥२४॥
सगुणोsहं तया युक्तो निर्गुणः प्रभवाम्यहम् ।
ब्रह्मज्ञानाद्भवेन्मुक्तस्तद्रूपा xx रेव च ॥२५॥
xx शक्तिं विहायाय कालीं तारां च यः स्मरेत् ।
स दरिद्रो महापापी वीरहा सैव सम्मतः ॥२६॥
एतदभ्यासबाहुल्यात्किं तद्यन्न करे स्थितम् ।
तत्र मुण्डासनं वापि द्वाविंशत्यासनानि च ॥२७॥
एतन्मध्ये ग्राह्यमेकं तत्र जप्त्वा तु तारिणीम् ।
वीरासनं समादाय वीरमालां कराम्बुजे ॥२८॥
वीरपात्रं वीरशक्तिं वीरविद्यां ततो जपेत् ।
आनखान्तं च सन्धार्या महामोहनमालिका ।
एवं तद्रूपतां कृत्वा ब्रह्मकालीमयो भवेत् ॥२९॥
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे आम्नायादिविनिर्णयो नाम चतुर्थः पटलः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP