संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकोनसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनसप्ततिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकोनसप्ततिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।गोपितं कोटिशास्त्रेषु रहस्यं कथ्यतां प्रभो ॥१॥श्रीशिव उवाच ।रहस्यमपि देवेशि कथ्यते शृणु साम्प्रतम् ।कालरात्रिर्महारात्रिर्वीरमोहोsपि पार्वति ॥२॥ग्रहणे संक्रमे वापि शनिभौमदिनेsथवा ।रणवीरं महावीरं तथा पाशगतं प्रिये ॥३॥शूलवीरं वेषवीरं आवेशभैरवं तथा ।एतत्स्थाने नरो धीरः सर्वमन्त्रपरायणः ॥४॥दीपोत्सवचतुर्दश्यां फाल्गुनोत्सवकेsपि च ।वीरवेषं समासाद्य मुक्तकेशो दिगम्बरः ॥५॥सिन्दूरकूर्चतिलकः सुरासम्बित्परदायकः ।सामग्रीं पूर्ववत्कृत्वा मुण्डग्रहणमाचरेत् ॥६॥शूलारोपितवीराग्रे तथा पाशगतेsपि वा ।गत्वा यत्नेन देवेशि शिवपूजापुरःसरम् ॥७॥शिवामभ्यर्च्य यत्नेन ततो वीरं प्रपूजयेत् ।फाल्गुनोत्सवके प्राप्ते पताकां कामरूपिणीम् ॥८॥कृत्वा संपूज्य यत्नेन नववर्णमयीं च ताम् ।अथवा काममूर्तिं वा कृत्वा यत्नेन पूजयेत् ॥९॥एकस्मिन्समये शम्भुं जपजापपरायणम् ।दृष्ट्वा कामोsतिदुर्वृत्तो बालभावपरायणः ॥१०॥होढानाम्नीं महामायां राक्षसीं पर्यकल्पयत् ।वसन्तकाले संप्राप्ते तपस्याभङ्गहेतवे ॥११॥राक्षसीमायया देवाः पीडया चातिविव्हलाः ।होढायै वरदानं च ब्रह्मणा पूर्वमीरितम् ॥१२॥महादेवतपस्यान्ते तव मृत्युर्भविष्यति ।इति दत्त्वा वरं ब्रह्मा तत्रैवान्तरधीयत् ॥१३॥ब्रह्मणो वरसंप्राप्ता राक्षसी देववेदना ।देवयागध्वंसपरा भर्त्सने दूरगामिनी ॥१४॥ईदृशीं राक्षसीं वीक्ष्य ऋषयो देवकिन्नराः ।ब्रह्मप्रभृतयो देवाः श्रीविष्णुसन्निधौ ययुः ॥१५॥श्रीब्रह्मोवाच ।पुराणपुरुष स्वामिन्देवताप्रतिपालक ।होढ्या पीडिता देवास्तत्रोपायं वद प्रभो ॥१६॥श्रीनारायण उवाच ।शृणुध्वं मुनयः सर्वे काममन्त्रः प्रजप्यताम् ।श्रीशिव उवाच ।अवतीर्णोsभवत्कामः शंभुध्यानविनाशनः ॥१७॥तत्रैव वह्निना कामो भस्मीभूतः क्षणेन तु ।मलादितस्ततः कामो होढायोनौ प्रवेशितः ॥१८॥शिववह्निस्तत्र गत्वा द्वयोर्दहनतत्परः ।अन्तर्भूतस्ततः कामस्त्वनङ्गनामतां गतः ॥१९॥अपशब्दपरा होढा तेन दूरतरं गता ।दीपोत्सवे दीपदानं फाल्गुन्यां होढिकार्च्चनम् ॥२०॥द्वयं न कुरुते यस्तु सर्वापि निष्फला क्रिया ।कीटादि ब्रह्मपर्यन्तं जन्तुमात्रस्य पार्वति ॥२१॥वसन्तकाले सम्प्राप्ते बुद्धिरन्या भवेद् ध्रुवम् ।रक्तमातृप्रदोषेण दुःखिताः संभवन्ति च ॥२२॥तद्दोषशमनार्थं तु फाल्गुन्यां सर्वपूजनम् ।रक्तमाता प्रकर्तव्या लगुडान् विविधान्क्षिपेत् ॥२३॥चत्वारिंशतिवादित्रैः सम्पूज्योत्सवमाचरेत् ।दीपोत्सवो यथा प्रोक्तस्तथैव फाल्गुनोत्सवः ॥२४॥नवरात्रद्वयं यद्वत् तद्वदेतद्द्वयं मतम् ।नानाविधा वर्णरूपा दीपा दीपोत्सवे मताः ॥२५॥नानागन्धाष्टकैर्देवि होढाग्निं परिवर्त्तयेत् ।तद्भस्म विकिरेद्देहे गेहे कार्मणनाशनम् ॥२६॥दिनमन्यतमं ज्ञात्वा शूलवीरसमीपगः ।पञ्चगव्यं पुरा दत्त्वा ततः पञ्चामृतं चरेत् ॥२७॥सम्विद्दुग्धं सर्वमद्यं सर्वमांसानि पार्वति ।नानमत्स्यास्तथाभक्ष्यभोज्यादीन्यपि पार्वति ॥२८॥सुरया स्नानमासाद्य नाना शृङ्गारमाचरेत् ।पादद्वये दीपमालां दापयेज्जाग्रताप्तये ॥२९॥तत्पादयोस्तु फाल्गुन्यां दीपां बहुलिकां च वा ।कृत्वादौ जागृयाद्वीरं तदंते खङ्गपूजनम् ॥३०॥खङ्ग सम्पूज्य विधिवद्वाराहीसंहिताक्रमात् ।स्वयं च कर्त्तयेद् वीरं ब्रह्माण्डबलिमर्पयेत् ॥३१॥एवं संगृह्य मुण्डं तु मुण्डसाधनमाचरेत् ।श्मशाने पर्वतप्रान्ते विपिने वा चतुष्पथे ॥३२॥एकलिंगे रणे वापि मुण्डसाधनमाचरेत् ।हस्तमात्रं खनित्वा च सदिग्बन्धपुरःसरम् ॥३३॥सकामं चैव बल्यन्तं ततश्चैव जपं चरेत् ।लक्षद्वयं ततो जप्त्वा पुरश्चर्यापुरःसरम् ॥३४॥तदन्ते मुण्डमानीय कालीप्रत्यक्षसाधनम् ।साधयेत्परमेशानि सकज्ज्वलपुरःसरम् ॥३५॥तदन्ते यन्त्रपात्रे च मालिकां कारयेदपि ।एवं साधितमुण्डानां माला सिद्धा भवेद् ध्रुवम् ॥३६॥इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मालामुण्डसाधनं नामैकोनसप्ततिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP