संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
पञ्चविंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चविंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
महाराजक्रमं देव कथयस्व मम प्रभो ।
श्रीशिव उवाच ।
महाराजक्रमो देवि कथ्यते श्रृणु साम्प्रतम् ॥१॥
नानाविचित्रसोपानमण्डिते चित्रमण्डपे ।
सौधाट्टाअलकसंशोभिवितानध्वजसम्मिते ॥२॥
नानोपवनसंयुक्त हंसमायूरशोभिते ।
नानाचित्रगृहे रम्ये गजवाजिविराजिते ॥३॥
सर्वतोभद्रसंयुक्ते नानाभरणभूषिते ।
धूपामोदसमायुक्त चित्रदीपैरलङ्कृते ॥४॥
रत्नसिंहासने रम्ये रत्नाभरणभूषिते ।
जातिचम्पकपुन्नागकेतकीगन्धशोभिते ॥५॥
कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमं तथा ।
जटामांसीरसं गन्धसौगन्धगृहभूषितः ॥६॥
घण्टानिनादसंयुक्तः सर्वदा शुद्धमानसः ।
आनन्दमग्नहृदयो दिव्यवस्त्रैरलङ्कृतः ॥७॥
दिव्यमाल्याम्बरधरो दिव्यवस्त्रैरलङ्कृतः ।
ताम्बूलपूर्णवदनो रदच्छन्दविराजितः ॥८॥
देवपात्रैर्नृत्यपात्रैर्भोगपात्रैर्निनादिभिः ।
नृत्यगीतैश्च वादित्रैश्चतुर्विंशतिवाचकैः ॥९॥
सङ्गीतरागतालैश्च ध्वनिभिश्च निनादिभिः ।
नानादेशीयभाषाभिर्गद्यपद्यैरलङ्कृतः ॥१०॥
नानाविचित्रभूषाभिर्भूषितः साधकोत्तमः ।
समस्तराजचर्याणां मोहनाद्राजनायिका ॥११॥
श्रीमहाराजमातङ्गी सर्वदेवप्रमोहिनी ।
तस्यास्तु तिलकं देवि कथ्यते श्रृणु साम्प्रतम् ॥१२॥
कुचन्दनं भ्रुवोर्मध्येsगुरुसारस्तदन्तरे ।
कस्तूरिकात्रिपुण्ड्रं च तन्मध्ये केशरं शिवे ॥१३॥
महाराजक्रमो देवि कथितस्तु मया तव ।
अथवा देवदेवेशि स्वयं गानपरो भवेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥१४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे महाराजक्रमो नाम पञ्चविंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP