संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
सप्तविंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तविंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि कमलाक्रमनिर्णयम् ।
श्रीशिव उवाच ।
भ्रूयुग्मे घुसृणं देवि सिन्दूरं तदनन्तरम् ॥१॥
श्वेतत्रिपुण्ड्रं देवेशि तन्मध्ये केशरं शिवे ।
स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥२॥
शुक्लभूषणभूषाढ्यस्त्रिसन्ध्यं स्नानमाचरेत् ।
हविष्याशी भूमिशायी मधुरान्नप्रियो नरः ॥३॥
भृगुवासरतो यत्तद्वितीयं भृगुवासरम् ।
दिनवृद्धिक्रमेणैव कुमारीं पूजयेत्सदा ॥४॥
द्वितीयभृगुमारभ्य ग्रासयेद्दिनवृद्धितः ।
प्रत्यहं पूजयेद्देवि नानावादित्रनिःस्वनेः ॥५॥
दिनषोडशपर्यन्तं प्रत्यहं तु समाचरेत् ।
पुनस्तद्दिनमारभ्य तद्दिनान्तं महेश्वरि ॥६॥
पूजयेत्प्रयतो नित्यं देवताभावतत्परः ।
प्रदक्षिणा प्रकर्तव्या कलाभावक्रमेण च ॥७॥
दीपास्तत्र प्रदातव्याः कलावृद्धिक्रमेण च ।
ब्राह्मणान्भोजयेन्नित्यं कलाभावक्रमेण च ॥८॥
इत्याचारपरः श्रीमान् विश्वरूपो नरो भवेत् ।
राजचिन्हानि सर्वाणि प्रयतः पूजयेत्सदा ॥९॥
सर्वसाम्राज्यलक्ष्म्यास्तु नाथो भूयान्न संशयः ।
धनदा तस्य गेहस्था राजा च किङ्करो भवेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥१०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कमलाक्रमनिर्णयो नाम सप्तविंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP