संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| चतुर्दशः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - चतुर्दशः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत चतुर्दशः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।शक्तौ पूजाक्रमं देव कथयस्व ममाधुना ।श्रीशिव उवाच ।शक्तिपूजां प्रवक्ष्यामि येन देवीमयो भवेत् ॥१॥नटी कापालिका वेश्या रजकी नापिताङ्गना ।मालाकारस्य कन्या च कुभ्मकारस्य कन्यका ॥२॥कन्याष्टकमिदं प्रोक्तं कुलाष्टकमथ श्रृणु ।राजवेश्या गुप्तवेश्या देववेश्या तथैव च ॥३॥नृत्ययात्रातीर्थवेश्या कुट्टिनी व्यभिचारिणी ।पञ्च x x हता वेश्या दश x x x x श्वरी ॥४॥पञ्चविंशति x x च x x तुष्टा प्रकीर्तिता ।पञ्चाश x x संयुक्ता x x सिद्धा प्रकीर्तिता ॥५॥शत x x x x नन्दा सहस्रा x x सुन्दरी ।असंख्य x x संयुक्ता x x ब्रह्मपरा मता ॥६॥कुलाष्टकमथेदानीं श्रृणु पार्वति तत्त्वतः ।मध्य x x महेशानि x x माला महोत्तमा ॥७॥विश्व x x सर्वयोनिः सर्वस्मादपि चोत्तमा ।कुलाकुलाष्टके देवि द्विविधा परिकीर्तिता ॥८॥राजवेश्यादिकायुग्मं गौडे पुष्पोपचारिकम् ।माता पुत्री तथा पौत्री स्वसा चैव स्नुषानुजा ॥९॥श्यालिका केलिकुञ्ची च मातृजाया तथाष्टमी ।कुलाष्टकमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥१०॥तरुणीं सुन्दरीं रम्यां चञ्चलां x x लोलुपाम् ।गुरुभक्तां मन्त्रयुक्तां सर्वलक्षणसंयुताम् ॥११॥ईदृग्विधां समानीय प्रसूनतूलिकोपरि ।x x तु कलशौ प्रोक्तौ सामान्यार्ध्यस्तु नाभिका ॥१२॥x x ध्वजो विशेषार्ध्यस्त्रिकोणं यन्त्रमीरितम् ।गमागमावृत्तिरुक्ता पुष्पं प्रहसितं स्मृतम् ॥१३॥आलापस्तु जपः प्रोक्तस्तवलोको वरः स्मृतः ।क्रोधस्तु निग्रहं प्रोक्तः करग्रहोsभयं भवेत् ॥१४॥x x पादप्रसारस्तु पृथिव्यास्तु प्रदक्षिणा ।x x x स्तोत्रपाठोsत्र x x धारस्तपःक्रिया ॥१५॥गले पादस्य निक्षेपः सिंहासनमितीरितम् ।विपरीतं दोलिकाख्या पूजा प्रोक्ता महेश्वरि ॥१६॥विसर्जनं बीजपातो मुद्रा त्वालिङ्गनं भवेत् ।ओष्ठ x x देवि खेचरीयोग ईरितः ॥१७॥कपोल x x देवि गुटिका परिकीर्तिता ।ललाट x x देवि लबका परिकीर्तिता ॥१८॥नेत्रसं x x देवि अञ्जनं परिकीर्तितम् ।करसं x x देवि खङ्गसिद्धिः प्रकीर्तिता ॥१९॥x x x x x देवि मनोरथमयी गतिः ।x x x x देवेशि कालवञ्चनमीरितम् ॥२०॥x x संलेहनं देवि ब्रह्मरूपं न संशयः ।आलोकनं पृथिव्यास्तु देवतादर्शनं भवेत् ॥२१॥तत्सङ्गिना सदा भाव्यं तामालोक्य जपेत्सदा ।कोटिब्रह्माण्डदानादि एकतः परिकीर्तितः ॥२२॥तच्छायालोकनं देवि सर्वाच्छ्रेष्ठतमं भवेत् ।तपस्या कोटितीर्थेषु यागानामपि कोटयः ॥२३॥देवालयानामानन्त्यं कृतं येन निरन्तरम् ।तेनेदं प्राप्यते देवि दर्शनं विन्दुरूपिणः ॥२४॥ब्रह्मणॊ दर्शनं देवि शब्दब्रह्म महत्तरम् ।चन्द्रामृतं राहुभीत्या तथा स्वर्गामृतं प्रिये ॥२५॥राक्षसानां तु संभीत्या ओष्ठे x x विराजते ।चन्द्रामृतं चाधरोष्ठे x x स्वर्गामृतं प्रिये ॥२६॥सदा तिष्ठति देवेशि ज्ञानात् सिध्यति नान्यथा ।अज्ञानाद्विषरूपं स्यान्नात्र कार्या विचारणा ॥२७॥मुखे हाला करे माला x x शाला तु तच्छविः ।हृदये स्त्री कराला तु दीपमाला गृहाङ्गणे ॥२८॥न करोति नरो यस्तु स कथं मम पूजकः ।संयोगो ग्रहनं देवि महाकल्पान्ततो तथा ॥२९॥सूर्यग्रहो यथा योगो विपरीते निशाकरे ।प्रमादान्मनसा वाsपि मोहतोsपि न गालयेत् ॥३०॥तया यदुच्यते वाक्यं तदेव कारयेत्प्रिये ।तथा योगे समारब्धे पूर्णयोगो यदा न च ॥३१॥पुरुषस्य न संजातस्तेन संक्रीड्यते मुहुः ।ग्रस्तास्तः स तु विज्ञेयः सर्वपर्वोत्तमोत्तमः ॥३२॥स्वयं योगे समारब्धे स्वस्य पूर्वं तु x x x ।तथा कार्यं समाचर्य तस्य पातो न जायते ॥३३॥ग्रस्तोदयः स विज्ञेयः सर्वसिद्धिप्रदायकः ।इदं रहस्यं परं प्रोक्तं दिवायोगं श्रृणु प्रिये ॥३४॥तस्याः स्वय्झं क्रमेणैव तस्यास्त्वर्द्धोदयो मतः ।महोदयः स्वयोगे स्यात् वार्ता दशहरा स्मृता ॥३५॥तद्वार्ताsक्षयरूपाख्या तृतीया परिकीर्तिता ।इति संक्षेपतः प्रोक्तं विशेषं श्रृणु पार्वति ॥३६॥मासद्वादशकं देवि क्रमेण परिकीर्तितम्ऋतुयोगे महेशानि महासाम्राज्यमीरितम् ॥३७॥दिव्यादीनामिदं प्रोक्तं पशूनां श्रृणु पार्वति ।सूर्यचन्द्रग्रहे देवि अङ्गुलद्वितयोर्धतः ॥३८॥सार्द्धद्वयाङ्गुलोत्तरं केचिदिच्छन्ति तान्त्रिकाः ।सूर्यग्रहे चतुर्यामं चन्द्रे यामत्रयं भवेत् ॥३९॥वेधः प्रोक्तो महेशानि पूर्वयोर्दृष्टिवेधनम् ।न भोक्तव्यं तत्र देवि स्नानदानादिकं चरेत् ॥४०॥ग्रस्तोदयं समारभ्य ग्रस्तास्ते च महेश्वरि ।शास्त्रदृष्ट्या समालोच्य स्नानदानादिकं चरेत् ॥४१॥कदा लग्नं कदा मुक्तिः सर्वं ज्ञात्वा प्रयत्नतः ।स्नानदानादिकं कार्यं नान्यथा शाङ्करं वचः ॥४२॥नोपवासं प्रकुर्वीत जीवत्पुत्रो हि कर्हिचित् ।ग्रस्तास्ते पूर्वमुक्तस्य नोपवासः प्रकीर्तितः ॥४३॥ग्रस्तोदये पूर्ववेधे न भोक्तव्यं कदाचन ।अत्र केचिदपीच्छन्ति पशवः शास्त्रमोहिताः ॥४४॥उपवासं प्रकृर्वीत ग्रस्तास्ते परमेश्वरि ।शास्त्रदर्शस्तु सन्दर्शः प्रत्यक्षे पूर्णरूपता ॥४५॥दिव्यानामपि देवेशि अङ्गुलद्वयतो भवेत् ।उपावासस्त्रिरात्रं तु शैवानां परिकीर्तितः ॥४६॥विष्णुगाणपसौराणां द्विरात्रं परिकीर्तितम् ।शाक्तानां पूर्वरात्रं तु पुरश्चर्यायुतो भवेत् ॥४७॥पुरश्चरणहीनानां नोक्तमेतन्मया तव ।चान्द्रे स्वायम्भुवे देवि द्विरात्रं परिकीर्तितम् ॥४८॥नैमित्तिकं द्वयं यत्र तत्राल्पं काम्यवाचकम् ।इति संक्षेपतः प्रोक्तं सर्वसिद्धिप्रवर्तकम् ॥४९॥केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः ।सम्प्रदायत्रयं प्रोक्तं सर्वसिद्धिप्रवर्तकम् ॥५०॥सम्यक् प्रदीयते ज्ञानं सम्प्रदायः प्रकीर्तितः ।कामादिदोषरहितः कादिहादिमतेश्वरः ॥५१॥वाञ्छिता कल्पिता सिद्धिः मनोरथमयी तथा ।सर्वैश्वर्यं भवेद्देवि लोके रत्नमिवापरः ॥५२॥ललाटरेखां संमार्ज्य नवीनां निर्मितां चरेत् ।विद्यारश्मिमहामन्त्रमन्त्रमण्डलसंयुतः ॥५३॥महाविद्यामण्डलेशः साम्राज्यमण्डलान्वितः ।अष्टाष्टकसमायुक्तः पञ्चपञ्चकसंयुतः ॥५४॥शाम्भवप्रश्नसंयुक्तो जन्मवर्षादिविद्भवेत् ।चतुःसन्ध्यासमायुक्तः पञ्चपारायणान्वितः ॥५५॥ वाच्छाकल्पलतायुक्तो मन्त्रमण्डलनाम च ।महाविद्यासमायुक्तः पादुकादशकान्बितः ॥५६॥पञ्चषोढासमायुक्तः कादिहादिमतेष्वपि ।यस्य प्राणमनो देवि मुर्तिस्फोटादिचालनम् ॥५७॥हासनं कल्पनं वाक्यं मुखादुच्चार्यते स्फुटम् ।षष्ठिसिद्धीश्वरो यस्तु केरलः परिकीर्तितः ॥५८॥काश्मीरं श्रृणु देवेशि सावधानमना भव ।कार्पण्यादिविरहितः वामादिगुणसंयुतः ॥५९॥उभयोर्ध्वाम्नाययुक्तो राज्यदातृत्वशक्तिवित् ।चतुर्विंशतिसिद्धानामधिपो नरपुङ्गवः ॥६०॥एवत्रोर्ध्वाम्नाययुक्तः स काश्मीरः प्रकीर्तितः ।उभयोर्ध्वाम्नाययुक्तो महाकाश्मीर ईरितः ॥६१॥अथ गौडं महेशानि कथ्यते श्रृणु साम्प्रतम् ।गीर्वाणगणसंवादी गारुडादिप्रणाशकः ॥६२॥श्रीमद्ज्ञानसरस्वत्याः पारगामी नरस्तु यः ।भुवनानन्दकृद्वीरः स्त्रीभक्तो विजितेन्द्रिंयः ॥६३॥डामर्यादिकलायुक्तः पूर्णदीक्षासमन्वितः ।उक्ताधिकारसंपन्नः पूर्वमत्रापि पार्वति ॥६४॥अष्टाष्टकादिसंयुक्तः समयाचारपालकः ।महाबलो महोत्साहो गौड इत्यभिधीयते ॥६५॥पूर्वगौडो मध्यगौडो द्विविधः पूर्ववद्भवेत् ।इति गौडस्तु संप्रोक्तः सर्वसिद्धिप्रदायकः ॥६६॥अणिमाद्यष्टसंयुक्तः श्रीगौडः परिकीर्तितः ।सम्प्रदायत्रये देवि विकल्पं पूर्वमीरितम् ॥६७॥परमेशजपासक्तः सर्वसत्त्वदयान्वितः ।त्यागी भोक्ता विनीतश्च तिथिनित्याप्रपूजकः ॥६८॥परनिन्दा परद्रोहो परीवादो महेश्वरि ।परस्त्रीपरवित्ते च षष्ठश्चैव प्रतिग्रहः ॥६९॥वर्जयेत्सर्वमेतद्धि सङ्ख्यामन्यां शतं भवेत् ।परद्रोहं परीवादं परवित्तं प्रतिग्रहम् ॥७०॥परवार्तां विशेषेण शाक्ते पञ्च विवर्जयेत् ।बटुकस्य मतं प्रोक्तं शङ्करस्य मतं श्रृणु ॥७१॥परांन्नं परहस्तं च सर्वथा परिवर्जयेत् ।परहस्तः सर्वपुण्यजपपूजाहरः स्मृतः ॥७२॥अन्यमन्त्रं जप्यमानस्त्वन्यदेवेषु तत्परः ।संप्रदायेन सम्भिन्नः सर्वदोषसमन्वितः ॥७३॥लोलुपश्चैव पाषण्डः प्रोक्तः कलियुगे नरः ।तेन यत्क्रियते पापं सदसदा महेश्वरि ॥७४॥तद्धस्तभोजी देवेशि तदंशं लभते ध्रुवम् ।मिताहारी जपासक्तो गुरुभक्तो जितेन्द्रियः ॥७५॥सत्यवक्ता महेशानि नरश्चैव सदा भवेत् ।दानादिगुणसंय़ुक्तो हस्ताद्भोंजनमाचरेत् ॥७६॥विशेषेण महेशानि स्त्रीहस्तं परिवर्जयेत् ।स्त्रीशूद्रालापनं देवि कर्तव्यं न कदाचन ॥७७॥इदं पशुमते प्रोक्तं दिव्यानां पूर्वमीरितम् ।पूर्वोक्तां शक्तिमानीय सर्वलक्षणलक्षिताम् ॥७८॥घृणालज्जादिरहितां समानीय प्रयत्नतः ।न्यासजालादिकं सर्वं पूर्ववत् परमेश्वरि ॥७९॥x x विकसितं कृत्वा सर्वसौगन्धसंयुतः ।पूजयेद्देवताबुद्ध्या विकापरिवर्जितः ॥८०॥x x x तु विधायादौ ततो ग्रहणमाचरेत् ।तत्कुण्ड x x x कुर्वन् जपं कुर्यान्निरन्तरम् ॥८१॥तत्र x x ततो दत्त्वा जपं कुर्यादनन्यधीः ।x x x देवि जपेदकमनाः प्रिये ॥८२॥पुनरालोच्य संजप्य सम्बुध्य परमेश्वरि ।सर्वसिद्धीश्वरो भूयाच्छिवतुल्यो नरो भवेत् ॥८३॥तद्धस्तनिःसृतजलं दिव्यमुक्तासमं भवेत् ।हीरकः स्फटिक भूयान्मन्त्रः स्वर्णकरं भवेत् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥८४॥ इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शक्तिपूजाकथनं नाम चतुर्दशः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP