संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
चतुःषष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - चतुःषष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
यन्न कस्यचिदाख्यातं तदेव कथ्यते श्रृणु ॥१॥
दग्धे च स्फुटितं नष्टं यद्वा चौरेण संहृतम् ।
विदीर्णं घृष्टरेखं च तदुपायं श्रृणु प्रिये ॥२॥
उपोष्य रजनीमेकां हविष्याशी जितेन्द्रियः ।
लक्षमात्रं जपेन्मन्त्रं सम्प्रदायानुसारतः ॥३॥
दशाष्टपञ्चयोगेन सद्भक्त्या गुरुतोषणम् ।
ब्राह्मणान्भोजयेद्यत्नात् कुमारीं तु सुवासिनीम् ॥४॥
शक्तिपूजा ततः कार्यां कुर्यादष्टाष्टकं बुधः ।
पंचपंचककं वापि कालीतारानुसारतः ॥५॥
अथवा लुप्तचिन्हञ्च स्फुटितादिविदूषितम् ।
भग्नं नष्टं यः करोति तस्य मृत्युस्त्रिमासतः ॥६॥
तीर्थराजे गिरिगर्भे समुद्रे सरितां तटे ।
क्षिपेद्यत्नेन देवेशि त्वन्यथा मृत्युमाप्नुयात् ॥७॥
विद्यामात्रे त्विदं कार्यं विशेषं श्रृणु सादरम् ।
लिङ्गवाणे नर्म्मदोत्थे यवयुग्मं न दूष्यति ॥८॥
शाले कायादितो भग्ने तदा लिङ्गं न दूष्यति ।
शालिग्रामशिलामात्रभङ्गे मृत्युकरो भवेत् ॥९॥
मूर्तौ पादकराघाते नेत्रादिमस्तके शिवे ।
हृदयाघातमापन्ने सर्वं नश्यति पार्वति ॥१०॥
तां मूर्तिं विसृजेद्देवि पुनर्मूर्तिं समाचरेत् ।
महाविद्याविधौ देवि विशेषं श्रृणु सादरम् ॥११॥
यत्र देवो गतो देवि तद्देशं तत् स्थलं त्यजेत् ।
प्रायश्चित्तं ततः कृत्वा सुखमाप्नोति साधकः ॥१२॥
बालामानीय कौमारीं चार्वङ्गीं चारुचर्चिताम् ।
प्रसूनमञ्चे संस्थाप्य सांगां सावरणां यजेत् ॥१३॥
देव्यां स्वरूपं देवेशि तद्वत्तस्याः स्वरूपकम् ।
विभाव्य प्रजपेद्देवि सम्प्रदायानुसारतः ॥१४॥
उपवासं प्रकुर्वीत दिनमेकमतन्द्रितः ।
लक्षमात्रं जपेत्तत्र जपतर्पणभेदतः ॥१५॥
कुमार्यामेव संपूज्य सप्तदीपान् समाचरेत् ।
त्रिशक्तिबालविद्यादौ दीपराजं समाचरेत् ॥१६॥
दीपाग्रे दीपिनीं जप्त्वा दोषहीनो नरो भवेत् ।
वेदाद्या कमला काली वाग्भवा कमलेश्वरी ॥१७॥
एषा तु दीपिनी विद्या कालिकावशकारिणी ।
सिंदूरेण कृतं यंत्रं मूलेनावेष्टितं ततः ॥१८॥
तत्कोणे कुल्लुकां लिख्य तत्र दीपं समाचरेत् ।
अष्टगन्धेन केनापि गन्धेन घुसृणेन च ॥१९॥
दिव्यवर्णेन देवेशि तेन सिद्धीश्वरो भवेत् ।
अयं च नित्यदीपो हि त्रिशक्तिविषये मतः ॥२०॥
प्रायश्चित्तप्रसङ्गेन कीर्तितः परमेश्वरि ।
दीपे स्वदेवीं सम्पूज्य साङ्गां सावरणां शिवे ॥२१॥
पश्चिमाभिमुखं दीपं पात्रं त्रिपलमात्रकम् ।
सौवर्णं राजतं ताम्नं मार्त्तिक्यं धान्यसम्भवम् ॥२२॥
दीपं कृत्वा प्रयत्नेन एकविंशतितन्तुभिः ।
त्रिपञ्चनवरुद्रैश्च वितस्तिवर्तिकां चरेत् ॥२३॥
गोघृतेन पलाष्टेन आज्यपात्रं समाचरेत् ।
चतुरङ्गुलं प्रोक्तं कवचं सप्तधा चरेत् ॥२४॥
रन्ध्रं गुणाङ्गुलं प्रोक्तं कवच्ण सप्तधा चरेत् ।
एवं क्रमेण देवेशि सिद्धिमाप्नोति साधकः ॥२५॥
बलिदानं ततः कुर्यात्सात्त्विकादिप्रभेदतः ।
आपदुद्धारकं जप्त्वा दोषहीनो नरो भवेत् ॥२६॥
महाविद्याविधौ प्रोक्तं शैववैष्णवयोः श्रृणु ।
उपोष्य रजनीमेकामघोरक्षेत्रमात्रकम् ॥२७॥
तद्दशांशं होमकर्म दोषहीनस्ततो भवेत् ।
सुदर्शनं वैष्णवे तु सौरे हंसं जपेच्छिवे ॥२८॥
गाणपे श्रीहरिद्राख्यं जप्त्वा सिद्धीश्वरो भवेत् ।
अन्यथा कुरुते यस्तु तस्य पातो भविष्यति ॥२९॥
अयुतत्रमिच्छन्ति दिव्योघाश्चात्र पार्वति ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे प्रायश्चित्तनिर्णयो नाम चतुःषष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP