श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तचत्वारिंशतिः पटलः ।
तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि यन्त्रस्थापननिर्णयम् ।
श्रीशिव उवाच ।
स्फाटिकं स्वर्णजं रोप्यं यन्त्रं च कारयेत् प्रिये ॥१॥
यन्त्रं तु गृहमित्युक्तं यन्त्रं पीठं प्रकीर्तितम् ।
यन्त्रे तु पूजिता देवि सहसैव प्रसीदति ॥२॥
शालिग्रामे बाणलिङ्गे जीवचक्रे महेश्वरि ।
स्थिरयन्त्रे प्रतिकृतौ नावाहनविसर्जनम् ॥३॥
प्रतिष्ठाप्य महायन्त्रं न तद्यन्त्रं विसर्जयेत् ।
यन्त्रप्रतिष्ठामासाद्य विद्यां तत्र विभावयेत् ॥४॥
जीवन्यासं तत्र कृत्वा विद्यां तत्रैव भावयेत् ।
यन्त्रप्रतिष्ठां कृत्वादौ देवं तत्र प्रतिष्ठयेत् ॥५॥
तदा विसर्जनं नास्ति न चावाहनमेव च ।
अन्तः कालं प्रविन्यस्य यन्त्रमेवं प्रतिष्ठयेत् ॥६॥
मूर्तिं स्वहृद्गतां तत्र ध्यात्वा पूज्य विसर्जयेत् ।
देवप्रतिष्ठा चेद्भूयात्तदा नैव विसर्जयेत् ॥७॥
इति संक्षेपतः प्रोक्तं दशविद्याक्रमेण च ।
दशधूपान् श्रृणु प्राज्ञे सावधानमना भव ॥८॥
लोहबाणः षोडशाङ्गः श्रीविद्यायां प्रकीर्तितः ।
कालीविद्याविधौ देवि अगुरुश्च दशाङ्गकः ॥९॥
अष्टादशाङ्गं श्रीखण्डं ताराविद्याविधौ स्मृतम् ।
छिन्नाविद्याविधौ देवि पञ्चाङ्गो गुग्गुलुस्तथा ॥१०॥
कृष्णागुरुः पीतसारो ब्रह्मास्त्रमनुगोचरः ।
आलोड्यागुरुधूपं च मातंग्यां परिकीर्तितम् ॥११॥
कस्तूरी चैव कर्पूरमष्टगन्धं तथैव च ।
भैरव्यां कीर्तितं देवि न विनैव शिलारसम् ॥१२॥
भुवनेश्यां मया प्रोक्तं श्रीखण्डं कमलामनौ ।
लाक्षागुडो हि धूम्रायां सिद्धविद्याविधौ शिवे ॥१३॥
सर्वधूपस्तु संप्रोक्तः श्रृणु देवि वरासनम् ।
वरासनानि देवेशि कथ्यन्ते सुमुखी भव ॥१४॥
बाणदुन्दुभिवीणादिभेरीवादित्रवेणवः ।
शङ्खघण्टापताकादि त्रिशतं पञ्चविंशतिः ॥१५॥
स्तोत्रपाठश्च वरासनप्रयोगो हि सर्वत्र दुर्लभो मतः ।
स्तोत्रपाठस्च कवचं नामसाहस्रकं तथा ॥१६॥
पूजाजपस्तथा देवि वरयोगे प्रकीर्तितम् ।
यदैव कार्यमुत्पन्नं यत्र कुत्रापि पार्वति ॥१७॥
जपः क्कचिद्भवेद्देवि होमपूजा क्कचिद्भवेत् ।
यत्र यल्लभते देवि तत्र तच्च समाचरेत् ॥१८॥
तर्पणं च क्कचित्कार्यं पाठश्चैव क्कचिद्भवेत् ।
पूजाहोमौ क्कचित्कार्यौ क्कचिद् ब्राह्मणभोजनम् ॥१९॥
यथालाभेन कर्तव्यं शाबरादौ विशेषतः ।
वरप्रयोगे देवेशि द्विधा वाsसनसंहतिः ॥२०॥
देहासनानि देवेशि परिभाषासनानिच ।
भद्रादीनि महेशानि देहजानि भवन्ति च ॥२१॥
व्याघ्रमुण्डं कम्बलाश्च चर्माणि भेषजान्यापि ।
उष्ट्रजासनरूपाणि कुशादीनि यथाक्रमात् ॥२२॥
परिभाषासनान्येव कथितानि मया तव ।
प्रत्येकं द्विविधो भेदस्त्वासनानां महेश्वरि ॥२३॥
निर्जीवानि सजीवानि सर्वसिद्धिकराणि च ।
सजीवानामभावे तु निर्जीवानि महेश्वरि ॥२४॥
मुख्यानि तु सजीवानि रहस्यानि महेश्वरि ।
अश्वासनं गजश्चैव पल्लकी मानुषस्तथा ॥२५॥
महिषो वृषभश्चेति भल्लुको वानरस्तथा ।
व्याघ्रश्वजम्बुको देवि मेषाजौ परमेश्वरि ॥२६॥
उष्ट्रश्च मृगभेदश्च कुशमृत्प्रकृतिश्च वा ।
कुक्कुरः कुक्कुटो देवि मकरः शरभस्तथा ॥२७॥
गवयः शूकरश्चैव शिविरः शबरः स्मृतः ।
तरणिश्च रथश्चिव शकटश्च सुखासनम् ॥२८॥
दण्डिका दोलिकाचक्रं चक्रदोला गृहाभिधां ।
पादासनमथारोहो नारिकेलासनं तथा ॥२९॥
पूगो मधुकश्चाम्रश्च वटोश्वत्थसतालकौ ।
खर्जुरः पिप्पलः प्लक्षः शमी जंबुस्तथैव च ॥३०॥
तारा काली छिन्नमस्ता श्रीविद्याकल्पवृक्षजम् ।
कुक्कुरः कच्छपः खड्गी गजाख्यं च सुखासनम् ॥३१॥
गजाश्वासनकं देवि तथा नररथं शिवे ।
वृषभाख्यो हयाख्यश्च महिषाखोsपि पार्वति ॥३२॥
नरयानं राजयानं छत्रयानञ्च पार्वति ।
तथा नरपतेर्यानं अश्वनाशाभिधं तथा ॥३३॥
गजनाथाभिधं देवि साम्राज्याख्यरथस्तथा ।
वरासनानि देवेशि कथितानि मया तव ॥३४॥
शतं सप्तति देवेशि भेदांस्तेषां श्रृणु प्रिये ।
ब्रह्मक्षत्रियविट्शूद्रजातिभेदैश्चतुर्विधाः ॥३५॥
देशभेदैर्महेशानि संख्यां श्रृणु महेश्वरि ।
अश्वाः पञ्चविधाः प्रोक्ता जातयोष्टादश स्मृताः ॥३६॥
वाह्लीकाश्चव काम्बोजाः कोंकणैराकसम्भवाः ।
वनजोत्थाः पञ्चमाः स्युवर्णांस्तेषां श्रृणु प्रिये ॥३७॥
सर्वेsपि सूर्यहयाः स्युर्वर्णभेदाद् ग्रहत्वता ।
सूर्यः सोमस्तथा भौमो बुधश्च गुरुरेव च ॥३८॥
शुक्रः शनिस्तथा राहुः केतुश्च नवमः स्मृतः ।
नववर्णक्रमेणैव पञ्चवर्णक्रमेण च ॥३९॥
प्रत्येकसंकरत्वेन नवतिश्चन्द्रन्यूनता ।
पञ्चवर्णक्रमेणैव पञ्चविंशतिभेदभाक् ॥४०॥
सपादशतसंख्या तु श्यामकर्णसमागमात् ।
अन्योन्यसंसृष्टिभेदात्त्रिशतं पञ्चसप्ततिः ॥४१॥
गजाश्वासनकं देवि तथा नररथं शिवे ।
वृषभाख्यो हयाख्यश्च महिषाख्योsपि पार्वति ॥३२॥
जरयानं राजयानं छत्रयानञ्च पार्वति ।
तथा नरपतेर्यानं अश्वनाथाभिधं तथा ॥३३॥
गजनाथभिधं देवि साम्राज्याख्यरथस्तथा ।
वरासनानि देवेशि कथितानि मया तव ॥३४॥
शतं सप्तति देवेशि भेदांस्तेषां श्रृणु प्रिये ।
ब्रह्मक्षत्रियविट्शूद्रजातिभेदैश्चतुर्विधाः ॥३५॥
देशभेदैर्महेशानि संख्यां श्रृणु महेश्वरि ।
अश्वाः पञ्चविधाः प्रोक्ता जातयोष्टदश स्मृताः ॥३६॥
वाह्लीकाश्चव काम्बोजाः कोंकणैराकसम्भवाः ।
वनजोत्थाः पञ्चमाः स्युर्वर्णांस्तेषां श्रृणु प्रिये ॥३७॥
सर्वेsपि सूर्यहयाः स्युर्वर्णभेदाद् ग्रहत्वता ।
सूर्यः सोमस्तथा भौमो बुधश्च गुरुरेव च ॥३८॥
शुक्रः शनिस्तथा राहुः केतुश्च नवमः स्मृतः ।
नववर्णक्रमेणैव पञ्चवर्णक्रमेण च ॥३९॥
प्रत्येकसंकरत्वेन नवतिश्चन्द्रन्यूनता ।
पञ्चवर्णक्रमेणैव पञ्चविंशतिभेदभाक् ॥४०॥
सपादशसंख्या तु श्यामकर्णसमागमात् ।
अन्योन्यसंसृष्टिभेदात्त्रिशतं पञ्चसप्ततिः ॥४१॥
फलमेषां महेशानि कथ्यते श्रृणु साम्प्रतम् ।
सूर्यवर्णं समारुह्य विंशत्साहस्रकं जपेत् ॥४२॥
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणां ।
कवचे स्तोत्रपाठे च नामसाहस्रके तथा ॥४३॥
संख्यां सामान्यतः प्रोक्ता गजान्तकसहस्रकम् ।
सोमवर्णं समारुह्य दिक्सहस्रं शिवां जपेत् ॥४४॥
कीर्तिलक्ष्मीपतिर्भूयान्नात्र कार्या विचारणा ।
भौमवर्णं समारुह्य त्रिसहस्रं मनुं जपेत् ॥४५॥
दरिद्रोsपि धनाढ्यः स्यान्नात्र कार्या विचारणा ।
बुधवर्णं समारुह्य त्रिंशत्साहस्रकं जपेत् ॥४६॥
रोगी रोगात्प्रमुच्येत दरिद्रो धनमाप्नुयात् ।
गुरुवर्णं समारुह्य नवसाहस्रकं जपेत् ॥४७॥
नवनिधीश्वरो भूयान्नात्र कार्या विचारणा ।
भृगुवर्णं समारुह्य त्रिसहस्रं जपेत्सदा ॥४९॥
सर्वबाधाविनिर्मुक्तो मानवः स्यात् सुरोपमः ।
राहुवर्णं समास्थाय सहस्राणां तु सप्ततिः ॥५०॥
प्रजपेन्मानवो यस्तु स च लक्ष्मीपतिर्भवेत् ।
केतुवर्णं समारुह्य पञ्चविंशत्सहस्रकम् ॥५१॥
प्रजपेन्मानवो यस्तु परराज्यजयी भवेत् ।
श्वेतवर्णं समारुह्य लक्षसंख्यं मनुं जपेत् ॥५२॥
शत्रुसेनां विनिर्जित्य राजभोक्ता नरो भवेत् ।
अश्वव्याघ्रासनं कृत्वा दिक्साहस्रं जपं चरेत् ॥५३॥
सोत्रं वा कवचं नाम यत्किंचित् प्रजपेच्छिवे ।
वाञ्छाकामी नरो भूयात् त्रैलोक्यविजयी भवेत् ॥५४॥
जीवासनानि देवेशि भवन्त्येतानि निश्चितम् ।
यद्यत्कामयते कामं तत्तदाप्नोति निश्चितम् ॥५५॥
जपमात्रे पाठमात्रे होमादौ कल्पितानि च ।
श्वेतरौप्यासनं कृत्वा त्रिलक्षं प्रजपेद्विभुः ॥५६॥
इन्द्रादीन् समरे जित्वा विजयी भुवि जायते ।
श्वेतवर्णासनं कृत्वा सूर्यसाहस्रकं जपेत् ॥५७॥
त्रैलोक्यविजयी राजा किंकरो निधिभुग्भवेत् ।
श्वेतचित्रासनं कृत्वा मन्त्रमात्रं जपेच्छिवे ॥५८॥
रक्तवर्णे नरः स्थित्वा सहस्रं प्रत्यहं जपेत् ।
शत्रुसेनां विनिर्जित्य मासाद्राज्यमवाप्नुयात् ॥५९॥
कृष्णवर्णं समास्थाय पञ्चसाहस्रकं जपेत् ।
शत्रवो दासतां यान्ति कालीताराप्रसादतः ॥६०॥
पीतवर्णं समास्थाय मन्त्रं लक्षमितं जपेत् ।
राजराजो नरो भूयान्नाय कार्या विचारणा ॥६१॥
नीलवर्णाश्वमास्थाय लक्षार्धं जपमाचरेत् ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥६२॥
हरिताश्वे नरः स्थित्वा लक्षद्वयमिदं जपेत् ।
पृथ्वीपतिपदं प्राप्य त्रैलोक्यभोगभाग्भवेत् ॥६३॥
धूसराश्वं समाश्रित्य नित्यं पञ्चसहस्रकम् ।
मासमात्रेण वेतालः किङ्करो भवति ध्रुवम् ॥६४॥
श्यामवर्णं समासाद्य चत्वारिंशत्सहस्रकम् ।
प्रजपेन्मानवो यस्तु विष्णुरव न संशयः ॥६५॥
कपिलाश्वं समारुह्य लक्षं जपति भूमिपः ।
विकलाश्वे नरः स्थित्वा त्र्लोकं वशमानयेत् ॥६६॥
कर्बुराश्वे समारुह्य विश्वं जयति जापतः ।
त्रिशतं प्रजपेन्नित्यं मासमात्रेण सिद्धिकृत् ॥६७॥
धूम्रवर्णं समारुह्य सर्वज्ञः साधको भवेत् ।
नानावर्णे नरः स्थित्वा प्रत्यहं शतमात्रकम् ॥६८॥
शतमात्रप्रजापेन मासाद्देवी वरप्रदा ।
द्वित्रिवेदवाणषट्कवर्णैः स्थित्वाsयुतं जपेत् ॥६९॥
धनभोगं तथा राज्यं लोकेशत्वं विभुत्वता ।
क्रमेण फलमेतद्दि कथि तं परमेश्वरि ॥७०॥
चतुरासनयोगो हि सर्वत्र यदि चेद्भवेत् ।
साधकस्य सदा देवि किं तद्यन्न करे स्थितम् ॥७१॥
अष्टादशगतित्वेन तावद्वाक्सिद्धिमाप्नुयात् ।
संकल्पमात्राद्देवेशि सिद्धिर्भवति निश्चितम् ॥७२॥
श्लक्ष्णाश्वानां फलं प्रोक्तं कोङ्कणानां फलं शिवे ।
एतद्वै शून्यवादैश्च कीर्तितं परमेश्वरि ॥७३॥
काम्बोजानां पक्षमात्रान्सिध्यति जपमात्रतः ।
बाह्लीकानां फलं देवि दिवसत्रयगोचरम् ॥७४॥
फलं तु पार्वतीयानां मासाद्भवति निश्चितम् ।
वर्णानां साम्यता देवि पञ्चानां च वियुज्यते ॥७५॥
गत्या पञ्चविधत्वञ्च पर्वतानां विशेषतः ।
गुणिताः पञ्चसंख्याभिस्रयस्त्रिंशत्सहस्रकम् ॥७६॥
तथाष्टशतसंख्यानां मया प्रोक्ता महेश्वरि ।
नानालयप्रभेदेन कलौ त्यर्बुदसंख्यकाः ॥७७॥
अश्वाः प्रोक्ता मया देवि पक्षच्छेदस्तदा कृतः ।
कवचं स्तोत्रपाठश्च नामसाहस्रं कीर्तितम् (?) ॥७८॥
जपमात्रेsपि कर्तव्यं सर्वसिद्धिमभीप्सुभिः ।
शङ्कराणां फलं देवि ह्येवमेव भवेद् ध्रुवम् ।
अश्वासनं तु सम्प्रोक्तं श्रृणु त्वं कुञ्जरासनम् ॥७९॥
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे अश्वासनं नाम सप्तचत्वारिंशितः पटलः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP