संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| सप्तदशः पटल । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तदशः पटल । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत सप्तदशः पटल । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीशिव उवाच ।रहस्यमपि देवेशि यन्न कस्यापि कीर्तितम् ॥१॥तदेव कथ्यते देवि यथावदवधारय ।ग्रहणं द्विविधं देवि बाह्याभ्यन्तरभेदतः ॥२॥चन्द्रकोटिनिकायाङ्गं भवेदाभ्यन्तराभिधम् ।भावयोगात् क्रियायोगाद् द्विधा तत्रापि पार्वति ॥३॥भावयोगो भवेच्छाक्ते क्रिया योगविधौ स्मृता ।बाह्यं श्रृणु महेशानि सूर्यचन्द्रक्रमात् द्विधा ॥४॥सूर्ये भेदत्रयं देवि चन्द्रे भेदत्रयं तथा ।सूर्योपरागो ग्रस्तास्तस्त्था ग्रस्तोदयः स्मृतः ॥५॥चन्द्रेsपि भेदत्रितयं शाक्तावपि त्रिधा त्रिधा ।सार्धद्वयाङ्गुलोत्तरं ग्रस्तास्तत्वं प्रकीर्तितम् ॥६॥स्पर्शयुक्ते स्फुटत्वं च यस्मिन्काले प्रजायते ।स कालोsक्षयरूपेण पुरश्चरणकर्मणि ॥७॥चन्द्रसूर्यग्रहे देवि ग्रस्तावधि विमुक्तितः यावत्सङ्खयं मनुं जप्त्वा तावद्धोमादिकं चरेत् ॥८॥पञ्चाङ्गं तावदेवस्याज्जपहोमौ समौ स्मृतौ ।सिद्धेश्वरीमतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥९॥अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ।सूर्यचन्द्रोपरागे तु नाभिमात्रोदके स्थितः ॥१०॥ग्रासाद्विमुक्तिपर्यन्तं जपं कुर्यान्महेश्वरि ।तदृशांशं होमयेद्धि तद्दशांशैस्त्रयं क्रमात् ॥११॥दृष्टस्पर्शपुरश्चर्य्यां दृष्टमुक्तौ समापनम् ।अनेन क्रमयोगेन सर्वसिद्धीश्वरो भवेत् ॥१२॥चन्द्रसूर्योपरागे तु नाभिमात्रोदके स्थितः ।नद्यां समुद्रगामिन्यां तडागे सङ्गमेsपि वा ॥१३॥एकाङ्गुष्ठोपरि स्थित्वा ग्रासावधि विमुक्तितः ।पञ्चाङ्गां चाथ वाष्टाङ्गां दशाङ्गाख्यां पुरस्क्रियाम् ॥१४॥कुर्याद्यत्नेन देवेशि सर्वसिद्धीश्वरो भवेत् ।शास्त्रदृष्ट्या समालोक्य स्नानदानादिकाः क्रियाः ॥१५॥कर्तव्याध प्रयत्नेन नात्र कार्या विचारणा ।शास्त्रदर्शनस्तु सन्दर्शः प्रत्यक्षे पूर्णरूपता ॥१६॥सूर्यग्रहणकालाद्धि नान्यः कालः प्रशस्यते ।मलापकर्षणं स्नानं कृत्वा पूर्वं विशालधीः ॥१७॥मुच्यमाने भवेद्दानं ग्रस्ते स्नानं प्रकीर्तितम् ।स्नानं मन्त्रोदितं कृत्वा तर्पणं त्वधिकारतः ॥१८॥सन्ध्यां तात्कालिकीं कृत्वा विमोक्षान्तं जपं चरेत् ।तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥१९॥ऋतुस्नातां स्त्रियं ज्ञात्वा सूर्यचन्द्रग्रहान्तरे ।प्रतिपार्वणमासाद्य पिण्डं तस्यै प्रदापयेत् ॥२०॥वन्ध्यापुत्रप्रदो योगः सर्वसिद्धिप्रदायकः ।सूर्योपरागे देवेशि स्नात्वा पूजां समाचरेत् ॥२१॥साङ्गां सावरणां पूज्य सबल्यन्तं महेश्वरि ।कुमारीपूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् ॥२२॥सूर्योपरागे संप्राप्ते स्नात्वा पूज्य महेश्वरि ।तुला ब्रह्माण्डदानादि यथाशक्तया समाचरेत् ॥२३॥सूर्योपरागे संप्राप्ते स्नात्वा पूज्य महेश्वरि ।चन्द्रसूर्यग्रहे देवि शतसख्यां कुमारिकाम् ॥२४॥पूज्य सिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।सूर्यग्रहे महेशानि काम्यहोमं चरन् शिवे ॥२५॥तर्पणं कुरुते यस्तु तस्य श्रीः सर्वतोमुखी ।मार्जनं तु प्रकर्तव्यं सर्वदुःखप्रशान्तये ॥२६॥सूर्यग्रहे समायाते परिधिर्यदि वै भवेत् ।पारिभद्राभिधो योगः सर्वसाम्राज्यदायकः ॥२७॥अल्पदृष्टे दिशा देवि मध्यग्रासे महेश्वरि ।मेघाच्छन्ने मुक्तिकाले स्नानदानादिकं चरेत् ॥२८॥जपमात्रं विधातव्यं मध्यग्रासे तु सूर्यवत् ।तारापिण्डग्रहे प्राप्ते तथा सूर्यग्रहेsपि च ॥२९॥जपादिकं विधातव्यं शक्तिपूजां ततश्चरेत् ।सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥३०॥तारापिण्डोपरागे तु गुरुं सम्पूज्य देववत् ।सन्तोष्य तद्वरो ग्राह्यः सर्वसिद्धीश्वरो भवेत् ॥३१॥तारापिण्डग्रहे प्राप्ते शवमानीय साधकः ।शवासने जपेद्देवि ग्रासानुग्रासतः शिवे ॥३२॥सर्वसिद्धीश्वरो भूयात्तदन्ते शिवतां व्रजेत् ।सूर्योपरागे सम्प्राप्ते शुचिः पूर्वमुपोषितः ॥३३॥ग्रासाद्विमुक्तिपर्यन्तं देहमांसानि होमयेत् ।सर्वसिद्धीश्वरो भूयाद्देवतां पश्यति प्रिये ॥३४॥सूर्यग्रः शिवः प्रोक्तश्चन्द्राख्यः शक्तिरेव च ।सूर्यग्रहे शक्तिदीक्षां पशुदीक्षां न कारयेत् ॥३५॥चन्द्रग्रहे विष्णुदीक्षां पाञ्चरात्रं न कारयेत् ।चन्द्रसूर्यग्रहे दीक्षा सर्वदीक्षा शुभा मता ॥३६॥चन्द्रग्रहे शक्तिदीक्षा सर्वदीक्षोत्तमोत्तमा ।न वारतिथिऋक्षादि न मासनियमस्तथा ॥३७॥न योगकारणं वापि न विचारं समाचरेत् ।दमनोत्सवे च श्रावण्यां ग्रहणं यदि जायते ॥३८॥समन्त्रश्च पुरश्चर्याविहीनोsपि प्रसिद्धति ।चन्द्रसूर्यग्रहकालात् नान्यः कालः प्रशस्यते ॥३९॥चन्द्रग्रहे पुरश्चर्या सर्वसिद्धिकरी मता ।घटिकार्धपूर्वमेव ग्रहणं परिवर्तते ॥४०॥तदा स्नानं विधातव्यं ग्रस्ते सङ्कल्पमाचरेत् ।विमोक्षान्तं जपं कुर्यात्सम्यक्ज्ञाते समापनम् ॥४१॥सूर्याच्छादनमायाते घटिकार्द्धं विचारयेत् ।ततः समापनं कुर्यात्सिद्धो मन्त्रो भवेद्ध्रुवम् ॥४२॥प्रमादात् गमिते योगे वसुविप्रान् प्रभोजयेत् ।यद्यदङ्गं विहीयेत तत्साङ्गे द्विजभोजनम् ॥४३॥दशांशं हवनं कुर्य्यात्तर्पणं तद्दशांशतः ।मार्जनं तद्दशांशेन दशांशेनाभिषेचनम् ॥४४॥तद्दशांशं विप्रभोज्यं देवरूपो नरो भवेत् ।यद्यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः ॥४५॥द्वित्रिवेदवाणभेदैर्विप्रादीनां क्रमेण च ।अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ॥४६॥चन्द्रसूर्योपरागे तु मेरुसाधनमाचरेत् ।दुष्ठमन्त्रोsपि देवेशि क्रमेण सिध्यति ध्रुवम् ॥४७॥अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ।सूर्योपरागे देवेशि शुद्धान्तःकरणो यती ॥४८॥स्नात्वा यथोक्तविधिना सम्पूज्य जगदम्बिकाम् ।शिरःपुष्पं कर्त्तयित्वा देवतायै निवेदयेत् ॥४९॥देवतां पश्यति शिवे वरदानपरां ध्रुवम् ।सूर्योपरागे सम्प्राप्ते स्नात्वा प्रोक्तेन वर्त्मना ॥५०॥शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ।मद्यैर्मांसैस्तथा मत्स्यै x x x x x मृतैरपि ॥५१॥देवतां तत्र सम्पूज्य साङ्गां सावरणां शिवे ।तत्र जिह्वां प्रदत्त्वा तु जपा त्त्रैकाल्यविद्भवेत् ॥५२॥अतीतानागतज्ञानं वर्तमानं च पश्यति ।सूर्यग्रहे महेशानि x x मानीय सादरम् ॥५३॥x x x x परिस्थाप्य जपेद्यत्नेन पार्वति ।त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥५४॥ग्रस्तोदयविधिर्देवि ग्रस्तास्तनिर्णयस्तथा ।पूर्वमेव मया प्रोक्तः शक्तियोगक्रमे शिवे ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥५५॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे ग्रहणलक्षणं नाम सप्तदशः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP