संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| पञ्चाशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चाशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत पञ्चाशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि पूर्वोक्तानां विनिर्णयम् ।श्रीशिव उवाच ।रहस्यातिरहस्यं च कथ्यते श्रृणु पार्वति ॥१॥नारिकेलं समारभ्य जंबुपर्यन्तमेव च ।कदलीमण्डलं कृत्वा कदलीवनमेव च ॥२॥प्रजपेद्यत्नतो यस्तु तारासिद्धिमवाप्नुयात् ।कुलवृक्षास्ततो देवि सर्वेषां फलमुच्यते ॥३॥नारिकेलैर्लभेद्राज्यं पूगैश्चैव मनोरथान् ।मधुके कामिनीप्राप्तिश्चाम्रे सर्वज्ञता मता ॥४॥वटे त्रैकाल्यविज्ञानमश्चत्थे सर्वकामनाः ।तालवृक्षे जयावाप्तिः खर्जूरे राजमानता ॥५॥पिप्पले सर्ववश्यत्वं प्लक्षे चावर्षणं परम् ।राजलक्ष्मीः शमीवृक्षे जम्बुवृक्षे धनागमः ॥६॥दिक्सहस्रं जपेद्देवि सर्ववृक्षे निरन्तरम् ।समारुह्य जपेद्देवि नात्र कार्या विचारणा ॥७॥श्लेष्मान्तककरंजाख्यबिल्वाश्वत्थकदम्बकम् ।निम्बो वटौदुम्बरश्च चम्पकः केसरो दश ॥८॥दशवृक्षं समासाद्य प्रत्येकं दिक्सहस्रकम् ।प्रजपेद्यन्ततो देवि अणिमाद्यष्टकं तथा ॥९॥मोक्षकामः क्रमेणैव लभते नात्र संशयः ।कालीवृक्षाः समुद्दिष्टाच्छिन्नावृक्षान् श्रृणु प्रिये ॥१०॥श्लेष्मान्तकं विभीतं च शाखोटं खर्जुरं तथा ।पिप्पलं च वटाञ्चैव सुपुष्पां च सुवासिनीम् ॥११॥निम्बाश्वत्थं करञ्जं च श्लेष्मान्तककदम्बकौ ।बिल्वं वटं शालतालौ शाखोटं खर्जुरं तया ॥१२॥ताराविद्याविधौ प्रोक्ताः श्रीविद्यायां श्रृणु प्रिये ।पूर्वं द्वादशसंख्यातास्तथैव श्रीविधौ स्मृताः ॥१३॥एतेषामपि देवेशि फलं तु पूर्ववद्भवेत् ।इति संक्षेपतः प्रोक्तं देवतासननिर्णयम् ॥१४॥कथ्यते देवदेवेशि यथावदवधारय ।श्रीविद्या देवदेवेशि पञ्चप्रेतासनस्थिता ॥१५॥ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।एते पञ्च महाप्रेताश्चतुष्कं पादगोचरम् ॥१६॥सदाशिवस्तु कशिपुः कामेशशूच्छादनं भवेत् ।तत्रस्था सुन्दरी देवि कालिकायां श्रृणु प्रिये ॥१७॥अतिकालः करालश्च विकरालः कपालधृक् ।चतुष्टयं पादरूपं संहारं कशिपुः स्मृतः ॥१८॥महाकालश्छादनं स्यात्तधृदिस्था तु कालिका ।x x x x प्रोक्ता श्रीमहाकालिकाम्बिका ॥१९॥महाश्मशाननिलया प्रत्यालीढपदा वरा ।शवसिंहासनगता महोग्रतारिणी मता ॥२०॥श्मशाननिलया छिन्ना शवविष्टरसम्मता ।शवरूपकरालस्य हृदयोपरि संस्थिता ॥२१॥x x x x स्वयम्भूपुष्पसंयुता ।छिन्ना विद्या महेशानि महाकालकलां श्रृणु ॥२२॥श्मशानप्रज्वलद्घोरमहाप्रलयसंयुतम् ।शवोपरि स्थितं देवं महासंहारभैरवम् ॥२३॥तेन सार्धं x x x x श्रीमहाकामकालिका ।एवमन्येsपि काल्यां स्युर्बगलां श्रृनु पार्वति ॥२४॥स्वर्णसिंहासनस्था वा पञ्चप्रेतस्थिता पि च ।द्विविधा गदिता देवि सिद्धविद्यां श्रृणु प्रिये ॥२५॥प्रेतासनगतां देवि उच्छिष्टभोजनोद्यताम् ।राजमातंगिनीं देवीं कदम्बवनमध्यगाम् ॥२६॥सिंहासनगतां रम्यां भैरवीं श्रृणु पार्वति ।प्रेतपञ्चकसंयुक्तां श्रीमहाकालभैरवीम् ॥२७॥धूमावतीं मलिनाङ्गीं काकासनसमन्विताम् ।पद्मासनस्थां श्रीलक्ष्मीं भुवनेशीं पराम्बिकाम् ॥२८॥रत्नसिंहासनगतां भुवनेशीं पराम्बिकाम् ।योगकालीं महाविद्यां महाप्रलयकारिणीम् ॥२९॥शुष्कमांसां चोपविष्टां तडागजठरां शिवाम् ।कुक्कुटासनमारूढां शवोपरि समास्थिताम् ॥३०॥दक्षपाणौ खर्परञ्च दक्षजङ्घोपरि स्थितम् ।वामपाणौ खर्परञ्च अधोमुखसमन्वितम् ॥३१॥ब्रह्माण्डसंहतिं कृत्वा शून्यखर्पवारिणी ।नाहं तृप्ता वदन्तीति शवास्फालनतत्परा ॥३२॥कोटराक्षी नागभूषा नागकङ्कणधारिणी ।कुण्डले मुकुटे चैव नागो चैव गले हृदि ॥३३॥।विभ्रती परमा देवी हृदि वृश्चिकसंयुता ।संहारवृश्चिकं देवि हृदये विभ्रती शिव ॥३४॥प्रलयानलसंकाशा मुखाम्भोजविकाशिनी ।श्मशानशवसङ्घैश्च मुण्डशवैर्निनादिता ॥३५॥मृगयोद्युक्तहृद्ब्रह्मरुद्रविषवादिभक्षिणी ।प्रातर्बाला तु मध्यान्हे तरुणी रूपधारिणी ॥३६॥सायाहे वृद्धरूपा वा महाप्रलयकारिणी ।लम्बशुष्कस्तनी भक्ता वरदानमुखोद्यता ॥३७॥भक्तान्वेषणसंव्यग्रा वीरास्फालनिनादिनी ।तेजःपुञसमाकारा शून्यब्रह्माण्डवासिनी ॥३८॥भक्तः क्कास्ति वरं ब्रूहि प्रसन्नास्मीति भाषिणी ।अनाद्यन्ता परातीता चिदग्निरूपधारिणी ॥३९॥परब्रह्मेश्वरी विद्या श्रीमहायोगकालिका ।घटीत्रितयसंतुष्टा स्मरणाद्वरदायिनी ॥४०॥वृषभस्थं महारुद्रं मूषकस्थं विनायकम् ।मयूरस्थं कार्तिकेयं विष्णुं गरुडवाहनम् ॥४१॥सर्पस्थं गरुडं देवं सिंहस्थं च विनायकम् ।सिंहस्थां श्रीपरां दुर्गां महामहिषमर्दिनीम् ॥४२॥एकचक्रस्थितं सूर्यं मृगस्थं चण्डदैवतम् ।योगपीठस्थितं रामं पद्मासनसमन्वितम् ॥४३॥वटवृक्षादधो भागे वीरासनगतं विभुम् ।श्रीमहादक्षिणामूर्तिं शवस्थं हनुमद्विभुष ॥४४॥वेतालं मुण्डपद्मस्थं भैरवाः शवसंस्थिताः ।द्वादशारे महापद्मे कर्णिकाशवसंयुते ॥४५॥अध्याय अपूर्ण आहे. N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP