संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| अष्टादशं पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टादशं पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत अष्टादशं पटलः । Translation - भाषांतर श्रीदेव्युवाच ।पूजाचिह्नविधिं देव श्रोतुमिच्छामि साम्प्रतम् ।श्रीशिव उवाच ।यदाशाभिमुखो भूत्वा चक्रराजं समुद्धरेत् ॥१॥सैव प्राची महेशानि ताराछिन्नाविधौ स्मृता ।पूज्यपूजकयोर्मध्ये प्राची काली विधौ स्मृता ॥२॥पुरन्दरमुखो मन्त्री पूजयेज्जगदम्बिकाम् ।देवीनामक्रमेणैव गौडे ताराविधौ स्मृता ॥३॥स्ववामकालीदक्षाख्यक्रमेण कालिकाविधौ ।देवीपृष्ठदलारम्य गौडकाश्मीरयोर्विधिः ॥४॥तदैवार्ध्यक्रिया देवि स्वदेवीक्रमतो द्विधा ।अर्घ्यश्च पीठपूजा च सिद्धासु कल्पितासु च ॥५॥दिक्षु कार्या केरलाख्यकाश्मीरक्रमयोगतः ।अङ्गक्रमो महेशानि स्वस्वदेशीक्रमेण च ॥६॥षट्कोणेषु षडङ्गानि वह्नीशादिक्रमेण वा ।बीजानां लेखनं देवि तथैव त्रिविध मतम् ॥७॥प्रसिद्धदिक्क्रमेणैव केरलाख्यक्रमो भवेत् ।बाजलेखो गौडमार्गे कल्पितासु च दिक्षु च ॥८॥प्रसिद्धदिक्षु काश्मीरे पीठपूजनमीरितम् ।स्वसाम्मुख्यक्रमेणैव देवतां पूजयेत् सदा ॥९॥आग्नेय्यादिक्रमेणैव गौडे बलिचतुष्टयम् ।उग्रविद्याविधौ देवि तिर्यग्भूत्वा प्रपूजयेत् ॥१०॥गोपनीयं गोपनीयं गोपनीयं पुनः पुनः ।रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥११॥इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ॥१२॥यन्न कस्य त्वया प्रोक्तं तदेव कथ्यतां शिव ।श्रीशिव उवाच ।रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥१३॥कथ्यते देवदेवेशि तत्र सावहिता भव ।अन्तरालं भवेत्प्राची पूज्यपूजकयोरपि ॥१४॥इयं छिन्नाविधौ प्राची विरूपाक्षस्य सम्मतम् ।देवपूजकयोरन्तः प्राची दिक् भैरवे मता ॥१५॥पूज्यपूजकयोर्मध्ये प्राची सैव तु केरले ।तद्दक्षिणं दक्षिणं स्यात् देवसाम्मुख्यमार्गतः ॥१६॥स्वदक्षिणक्रमेणैव भरवे प्राग्विनिर्णयः ।यदाशाभिमुखो भूत्वा चक्रराजं समालिखेत् ॥१७॥सैव प्राची गौडमार्गे चीनमार्गक्रमे भवेत् ।पुरन्दरमुखो मन्त्री त्रिपुरा मुक्तमालिनी ॥१८॥देवीपृष्ठे तदा प्राची प्रतीची त्रिपुरा मता ।भानुर्यत्र सदोदेति सैव प्राचीति वैदिके ॥१९॥अपरा सूर्यसिद्धान्ते परिक्रमणमार्गतः ।स्वसम्मुखे भवेत्प्राची देवीपृष्ठं तु पश्चिमम् ॥२०॥सव्यं तु दक्षिणं विद्यात् दक्षिणं सव्यमेव च ।इति प्राचीक्रमः प्रोक्तः समताष्टकमार्गतः ॥२१॥तत्र नाथक्रमेणैव गुरुपंक्ति प्रपूजयत् ।देवतादक्षिणे देवि गुरुपंक्तिं प्रपूजयेत् ॥२२॥देवीमध्यत्रिकोणे तु गौडे तु गुढपूजनम् ।दक्षवामपृष्ठपंक्तिक्रमेण गुरुपूजनम् ॥२३॥चैतन्याख्यमतं देवि त्रिरेखानन्दसम्मतिः ।त्रिपंक्तिक्रममार्गेण नाथमार्गे प्रपूजनम् ॥२४॥दक्षाङ्गं पुरुषश्रेष्ठं वामाङ्गं चण्डिकामनौ ।अत एव महेशानि वामहस्ते जपस्य च ॥२५॥समर्पणं निगदितं सर्वसिद्धिप्रदायकम् ।दक्षहस्ते तु पुरुषं जपान्तं तु समर्पणम् ॥२६॥गुरुपंक्तिर्वामभागे कल्पितप्राक्क्रमेण वै ।गुरुपूजाक्रमः प्रोक्तस्त्वर्घ्यद्वयक्रमं श्रृणु ॥२७॥सामान्यार्घ्यविशेषार्घ्यौ द्वौ प्रोक्तौ यत्र पार्वति ।चतुष्पात्राणि सामान्ये घटास्त्वावश्यको मतः ॥२८॥यथा त्रिकोणं देवेशि बिन्दुना वर्जितं भवेत् ।यथा घटं विना देवि पूजा सर्वत्र वर्जिता ॥२९॥यथा दलं केशरेण वियुक्तं कर्मवर्जितम् ।तथा त्रिकोणं देवेशि बिन्दुना वर्जितं भवेत् ॥३०॥बिन्दुहीनं तु यद्यन्त्रं तद्यन्त्रं शववद्भवेत् ।बिन्दुयुक्तं तु यद्यन्त्रं तद्यन्त्रं सिद्धिदायकम् ॥३१॥तथैवाष्टदलस्योर्ध्वं वृत्तं यत्नेन कारयेत् ।वृत्तं विना नाष्टदलं गर्भभूषणभेदतः ॥३२॥पात्रद्वये महेशानि निर्णयं यत्नतः श्रृणु ।प्रोक्षणिपाद्यपात्रं च तथाचमनकं शिवे ॥३३॥अर्घ्यश्च मधुपर्कश्च तथा पञ्चामृतं शिवे ।स्नानीयादि महेशानि सामान्यार्घ्येण वै भवेत् ॥३४॥शिवपूजामपि शिवे सामान्यार्घ्येण केरले ।भैरवाणां प्रपूजा च सामान्यार्घ्येण गौडयोः ॥३५॥विशेषार्घ्यं महेशानि गुरुपात्रं च भरवे ।वीरपात्रं शक्तिपात्रं वीरपात्रं च योगिनाम् ॥३६॥बलिपात्रं तथा देवि श्रीपात्रेण प्रकल्पयेत् ।केरलक्रम आदिष्टः श्रीसदाशिवसम्मतः ॥३७॥बलिपात्रं वीरशक्तिं योगिनीपूर्वपात्रकम् ।विरूपाक्षमते प्रोक्तं वीरभद्रमतं श्रृणु ॥३८॥सामान्यार्घ्यश्च श्रीपात्रमेकमन्यन्महेश्वरि ।सामान्यार्घ्येण संसिद्धिर्विशेषार्घ्येण पूजनम् ॥३९॥तृतीयेन महेशानि पाद्यादीनि प्रकल्पयेत् ।पञ्चाङ्गं कल्पयेद्देवि वीरभद्रमते शिवे ॥४०॥बटुकस्य मते देवि सामान्या प्रोक्षणी भवेत् ।देवीपूजा विशेषार्घ्ये सर्वं तार्त्रीयतश्चरेत् ॥४१॥गुरूभरववीरादिशक्तिश्च योगिनी तथा ।बलिपाद्यादि सर्वत्र तार्तीयेन समाचरेत् ॥४२॥बटुकस्य मतं प्रोक्तमानन्दस्य मतं श्रृणु ।सामान्ये वीरपात्रं च शक्तिपात्रं विशेषके ॥४३॥गुरुपात्रादिस्नानान्तं पूजनं परिकीर्तितम् ।सामान्यार्घ्ये योगिनी च बलिपात्रं विशेषके ॥४४॥करालस्य मतं प्रोक्तं विकरालमतं श्रृणु ।योगिनी तु विशेषार्थ्ये सामान्ये बलिपात्रकम् ॥४५॥गुर्वादिस्नानपात्रान्तं पूर्ववत्परमेश्वरि ।विकरालमतं प्रोक्तं महादेवमतं श्रृणु ॥४६॥गुरुपात्रं विशेषार्घ्यें सामान्ये भरवो भवेत् ।अन्यानि पूर्ववद्देवि दक्षिणाख्यमतं श्रृणु ॥४७॥विशेषार्घ्ये भैरवो हि सामान्यार्घ्ये गुरुर्भवेत् ।अन्यानि पूर्ववद्देवि बटवासिमतं श्रृणु ॥४८॥सवं विशेषतः कुर्यात्सामान्येन तु संस्क्रियाम् ।मधुपर्कं विशेषेण पूजनादि यथाक्रमात् ॥४९॥सर्वं सामान्यतः कुर्याद् गौडोक्तं च क्रमं श्रृणु ।सामान्ये वस्तुद्वारार्घ्यं विशेषे तु विशेषता ॥५०॥सामान्यार्घ्ये तु सामान्यं श्रीपात्रमेकमेव वा ।तथापि देवदेवेशि घटपात्रमवश्यकम् ॥५१॥कपालं यदि वा देवि तदैवपात्रमाचरेत् ।महावीरस्य पात्राणि कपालानि महेश्वरि ॥५२॥तदभावे एकपात्रं कपाले सर्वपात्रता ।कपालपात्रे देवेशि कापालीसिद्धिरस्ति च ॥५३॥यद्यद्वाञ्छति कामानि गुटिकाञ्जनसिद्धयः ।सिद्धद्रव्यं कामगतिर्मनोरथमयी कला ॥५४॥वाञ्छाभोगो नव्यसृष्टिकरणं स्पर्शरत्नकम् ।चिन्तामणिः कामकला यत्पात्रे सर्वमेव च ॥५५॥कापालिनी त्वियं सिद्धिः कपालपात्रगोचरा ।कापालिकानां चीनानां कपालपात्रमीरितम् ॥५६॥त्रिविधं तत्कपालञ्च विश्वामित्रक्रमेण च ।नारिकेलं तथा तुम्बी कपालं च कपालकम् ॥५७॥त्रिविधं च कपालं त्रिसम्प्रदायक्रमेण च ।पात्रमेकं समासाद्य खण्डत्रितयभेदतः ॥५८॥चतुरङ्गुलमुच्छ्रायमायामे द्वादशाङ्गुलम् ।अष्टाङ्गुलसविस्तारि द्रोणग्राहिजलं यथा ॥५९॥तथा पात्रं पूर्णदीक्षा सूर्यार्व्ये विप्रकीर्तितम् ।विशेषार्घ्ये महेशानि आयामे वसुसंज्ञकम् ॥६०॥षडङ्गुलं च विस्तीर्णमुत्तानं नौसमाकृतिम् ।अथवा देवदेवेशि पात्रं च वर्तुलाकृतिम् ॥६१॥अश्वत्थपत्राकारं वा कुतपाकारमेव वा ।त्रिकोणाकारपात्रं च त्रित्रियोनिसमन्वितम् ॥६२॥मध्यबिन्दुयुतं पात्रं ध्वजचिह्नसमन्वितम् ।अथवा तु xxकारं ध्वजबिन्दुसकेसरम् ॥६३॥एवं पात्रं समानीय महाचीनेश्वरीं यजेत् ।प्रसिद्धदिक्षु देवेशि पीठपूजनमाचरेत् ॥६४॥कल्पिते वा महेशानि साङ्गां सम्पूजयेद्व्रती ।पीठपूजां समाचर्य पञ्चोपचारतोsर्चयेत् ॥६५॥सुधासिन्धौ तु संस्थाप्य पूज्य सिंहासनेsर्चयेत् ।तत्त्वपीठं भवेदेकं पीठं ज्ञात्वा महेश्वरि ॥६६॥अथवा देवदेवेशि अक्षतान्स्थाप्य पूजयेत् ।सम्पूज्य पीठपूजां च ततः सिंहासनेsर्चयेत् ॥६७॥मुख्यं तु देवदेवेशि यन्त्रपीठं समर्चयेत् ।तद्यंत्रसिंहपीठे तु सपीठं स्थापयेच्छिवे ॥६८॥स्नानं च पीठकस्याsथ चावृत्तिदेवतात्ववत् ।पीठावृत्तिश्च वा कार्या सर्वसम्मतमीरितम् ॥६९॥तत्र पीठ महायन्त्रं स्वेष्टदेवात्मकं महत् ।त्रिकोणे वृत्तमात्रं तु तारायन्त्रमिदं भवेत् ॥७०॥जीवचक्रे त्विदं यन्त्रं भाव्यं लेख्यं महेश्वरि ।मध्ये स्पष्टो महाबिन्दुः सदाशिवमयो ध्रुवम् ॥७१॥तत्र स्त्रीवेषमासाद्य जपं कुर्य्यादनन्यधीः ।तत्र स्त्रीवेषधारी स्यात्सिन्दूराङ्कितभालकः ॥७२॥लम्बीकञ्चुकभूषाढ्यश्चीनाचारो यथार्थवत् ।स्त्रीवेषं वा समासाद्य कुचकज्वलकेशयुक् ॥७३॥कङ्कणं तिलकं हारं स्त्रीवेषेण प्रपूजयेत् ।पट्टकूलं दुकूलं वा काश्मीरं वरवीरकम् ॥७४॥वस्त्रं वा रक्तं श्वेत वा पीतं स्वर्णादिभूषितम् ।मुक्तकेशो दिशावासः सिन्दूरतिलकान्वितः ॥७५॥संविद्भक्षणमासाद्य सर्वदेवान् प्रपूजयेत् ।x x xप्रासनेनाथ यन्त्रमब्जं सुकर्णिकम् ॥७६॥गोपयेतु कुलद्रव्यं कुलगन्धाष्टकं शिवे ।अलिनालोचनं कुर्य्यादलिना लेपनं च वा ॥७७॥अलिलाक्षारसालिश्च सीधुकादम्बरी मता ।एवं यन्त्रं च वा कृत्वा ध्यात्वावृत्तिमथार्चयेत् ॥७८॥स्थानस्थाः फलदा मन्त्रा ध्यानस्थाः फलदायकाः ।स्थानध्यानपरिभ्रष्टास्ते मन्त्राः फलदा नहि ॥७९॥कुण्डल्युत्थानमासाद्य तारारूपां परां कलाम् ।हृत्पद्मेsथ समानीय कुण्डलीं स्वेष्टदेवताम् ॥८०॥स्वमन्त्रं च महेशानि हृत्पद्मे ध्यानयोगतः ।ध्यायेद्देवेशि ध्यानस्थं कीर्त्तितं परमेश्वरि ॥८१॥ध्यानस्थां देवतां कृत्वा स्थानस्थां तां समाचरेत् ।तां देवतां सहस्रारे परशम्भोनिंयोजयेत् ॥८२॥सामरस्यं समासाद्य स्थानध्याने समभ्यसेत् ।ध्यानस्थानासनी भूत्वा ततो यजनमाचरेत् ॥८३॥साङ्गां सावरणां देवीमासादनसमन्विताम् ।ध्यात्वा बल्यन्तमाचर्य्यं सर्वसिद्धीश्वरो भवेत् ॥८४॥ततः पूजोत्तरं देवि बलिदानं च केरले ।पीठपूजोत्तरं देवि काश्मीरे बलिदानकम् ॥८५॥पंचोपचारोत्तरणे गौडे तु बलिदानकम् ।पात्रोत्तरं तु श्रीगौडे बलिदानं प्रकीर्त्तितम् ॥८६॥तत्रबान्ते होमकर्म समासाद्य प्रहोमयेत् ।तत्तत्कामनया देवि तथा कुण्डानि कारयेत् ॥८७॥सयोनिमेखलाटङ्कभूषितं सूत्रलक्षितम् ।कुण्डं कृत्वा होमयेद्धि सर्वसिद्ध्यर्थमेव च ॥८८॥एकत्रिपञ्चनव वा सप्तैकादश वा प्रिये ।मेखला होमकुण्डे तु कीर्तिता परमेश्वरि ॥८९॥तथान्तर्मेखला वापि x x x न कारयेत् ।दलेsष्टदलकं नो हि संक्षेपात्परिकीर्तितम् ॥९०॥होमे तु काम्यकमार्थं चत्वरे वा महेश्वरि ।स्थण्डिले होमयेद्देवि सर्वकुण्डाप्तिरुत्तमा ॥९१॥स्थण्डिले सर्वकुण्डानि दिग्विभागक्रमेण च ।कवलं च क्रमेणापि होमयेत्परमेश्वरि ॥९२॥कवचाद्यं महेशानि पल्लवीकुण्डमेव वा ।स्वाहान्तः सर्वकार्यार्थं फडन्तः क्रूरकर्मणि ॥९३॥नमोsन्ते मारणे देवि पात्राख्यं कुण्दमेव वा ।कृत्वा च होमयेद्देवि सर्वसिद्धीश्वरो भवेत् ॥९४॥विजयापत्रहोमेन त्रैलोक्यं जयति क्षणात् ।बीजानि होमयेद्देवि त्रैलोक्याकर्षणाय च ॥९५॥वश्यार्थं दर्शनार्थं तु पुष्पाणि होमयेच्छिवे ।श्वेतपुष्पेन वाक्सिद्धिर्वश्यं रक्ते च स्तब्धता ॥९६॥पीते कृष्णे मृते देवि वृक्षवर्णाश्च यत्नतः ।केरलाख्ये सम्प्रदाये पूजान्ते होमकर्म च ॥९७॥पञ्चोपचारपूजान्ते काश्मीरे होमकर्म च ।नैवेद्यान्ते होमकर्म गौडमार्गे महेश्वरि ॥९८॥आदौ मध्ये तथा चान्ते का श्मीरे क्रममर्चने ।सदाशिवमते देवि सर्वान्ते होमकर्म च ॥९९॥बाह्यपूजां ततः कुर्यात् यथोक्तेन तु वर्त्मना ।प्राणायामादिकं कृत्वा यथासरणिमार्गतः ॥१००॥सम्प्रदायत्रयेणैव पात्राणां स्थापनं चरेत् ।महाकलामहानन्दवाणाग्निचन्द्रभेदतः ॥१०१॥स्थाप्य सम्पूजयेद्देवि पूर्वकल्पप्रभेदतः ।पात्रं प्राच्यां स्थानमध्ये पात्राणां चालनं यदि ॥१०२॥पुनरादि समारभ्य पात्राणां स्थापनं चरत् ।पात्रसंघट्टनं देवि यदि भूयात्पमादत ॥१०३॥पुनः पात्राणि संस्थाप्य पूजयेज्जगदिम्बिकाम् ।संस्थापिते पात्रवरे पात्रोत्सर्जनकं न हि ॥१०४॥विसर्जनमकृत्वा तु पुनस्तु पूर्ववद् यजेत् ।त्रिसन्ध्यं पूजयेद्देवि पात्रस्थापनमात्रतः ॥१०५॥स्थापितैरेकवारैस्तु तैः पूजयेच्छिवाम ।विसर्जनोत्तरं देवि पात्राणामविसर्जनम् ॥१०६॥पूजा जाता महेशानि न कृतं च विसर्जनम् ।एवं क्रमेण देवेशि पूजयेद्गौडसम्मतम् ॥१०७॥पात्रासादनकं कर्म कृत्वादौ पूजनक्रमे ।सम्पूज्य देवतां तारां पात्राणां तु विसर्जनम् ॥१०८॥पुनः पात्राणि संस्थपय पूजां माध्याह्निकीं चरेत् ।पुनर्विसर्जनं कृत्वा पुनः स्थाप्य प्रपूजयेत् ॥१०९॥चैतन्याख्यः क्रमः प्रोक्तो महाभैरवसम्मते ।एवं क्रमेण देवेशि पात्रसिद्धिकरो भवेत् ॥११०॥पात्रं दिव्यमयं पश्ये द्विशेषार्घ्यमय शिवे ।वीरपात्रं तु वीराणां शक्तीनां शक्तिपात्रकम् ॥१११॥अवीराणां महेशानि योगिनीपात्रमीरितम् ।गुरुपात्रं श्रीगुरूणां यतीनां भैरवाभिधम् ॥११२॥कापालिकानां मुख्यं च बलिपात्रं प्रकीर्तितम् ।तद्भावेन तु शूद्राणां सर्वाभावे जलं पिबेत् ॥११३॥दिव्यं देव्यग्रतः पानं वीरं वीरसमागमेः ।अन्यथा पशुपानं च नरकार्थं प्रकीर्तितम् ॥११४॥सामान्यार्घ्यविशेषार्घ्यावेकीकृत्य स्वयं पिबेत् ।घटद्रव्यं तु वीराणां वीराभावे स्वयं पिबेत् ॥११५॥स्थापयेत् याचकार्थं च पात्रे याचकसंज्ञके ।याचकार्थं च यत्पात्रं तत्पात्रं याचकं विदुः ॥११६॥चक्रान्ते परमेशानि विशेषार्घ्यजलं शिवे ।देवीपीठे चक्ररूपं भ्रामयित्वा स्वयं मुखे ॥११७॥क्षिपेद्देवेशि यत्नेन स्वयमादौ तु सङ्ग्रहेत् ।सामान्यार्घ्यजलेनैव जलं देव्यै समर्पयेत् ॥११८॥ब्रह्ममन्त्रं समुच्चार्य देव्यै सर्वं समर्पयेत् ।महादिव्यामृतमयं पात्रं ज्ञात्वा महेश्वरि ॥११९॥देवीस्वरूपं तद्ध्यात्वा गृह्नीयात्स्वयमादरैः ।मूलमन्त्रैश्च मन्त्रैर्वा अभिषिञ्चेत्स्वमूर्द्धनि ॥१२०॥स्निग्धभूमौ तज्जलं तु क्षिप्त्वा मायां लिखेच्छिवे ।मन्त्रेणानेन देवेशि तिलकं कारयेद्ध्रुवम् ॥१२१॥यं यं स्पृशति हस्ताभ्यां यं यं पश्यति चक्षुषा ।स एव दासतां याति यदि शक्रसमो नरः ॥१२२॥इति सर्वं विधानेन ज्ञात्वा कर्माणि कारयेत् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥१२३॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे पूजाचिह्नविधिर्नामाष्टादशः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP