संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| पञ्चपञ्चाशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चपञ्चाशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत पञ्चपञ्चाशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीदेवि उवाच ।यन्न कस्यापि सम्प्रोक्तं तदेव कथ्यते श्रृणु ॥१॥तर्जन्यां रजतं धार्यं स्वर्णं धार्यमनामयोः ।एष एव कुशः प्रोक्तो न कुशो वनसम्भवः ॥२॥स्वर्णे शक्तिस्तु सन्धार्या रजते बीजमीरितम् ।षट्कूर्चधारणादेव षडैश्वर्यमयो भवेत् ॥३॥तर्जन्या धारणादेव भूतादीन् तर्जयेत् क्षणात् ।दशविद्याक्रमेणैव दशधा रौप्यधारणम् ॥४॥बीजं शक्तिः कीलकञ्च यथायोगक्रमेण च ।सामान्योपासकेनैव कीलकं लेख्य धारयेत् ॥५॥अङ्गाङ्गिमन्त्रयुक्तेन बीजधारणमाचरेत् ।पूर्णदीक्षादिसंयुक्तः शक्तिधारणमाचरेत् ॥६॥षट्पारायणसंयुक्तो द्वितयं धारयेत्प्रिये ।देवता त्वधिदेवी च तथा प्रत्यधिदेवता ॥७॥अधिष्टात्री च देवेशि प्रतिपूर्वा तु पञ्चमी ।केवलं मन्त्रजापो हि पञ्चधा परिकीर्तितः ॥८॥अङ्गाङ्गिभेदयुक्तो हि साक्षाच्छिवमयो भवेत् ।षट्कं षट्कं च सन्धार्य षडैश्वर्यसमो भवेत् ॥९॥दशाङ्गुलिषु बीजानां स्वर्णे सन्धारणात्प्रिये ।दशविद्याधिपो भूयान्नात्र कार्या विचारणा ॥१०॥कूर्चबीजं त्रिशक्तौ तु सुन्दर्यां च पराभिधम् ।बगलायां स्वबीजं च कमलायां तु कामलम् ॥११॥भैरव्यां वाग्मवं धार्यं मातंग्यां कामबीजकम् ।धूम्रायां च वसोर्धारां सिद्धविद्याविधौ स्वकम् ॥१२॥स्त्रीबीजं चाङ्कमात्रे तु परायां तत्पराद्वयम् ।राजराजेश्वरी विद्याविधौ शाम्भवमेव तु ॥१३॥पवित्रार्थ धारणीयं मुद्रारूपेण वा प्रिये ।धार्यं पवित्ररूपेण केवलं नहि धारणा ॥१४॥षडाम्नाये महेशानि बीजषट्कविधारणम् ।षड्दर्शने च षट्ताराः पंच आयतने भवेत् ॥१५॥शिवशक्तिप्रभेदेन केवलं शक्तिभेदतः ।अङ्गाङ्गिमन्त्रभेदेन धारणं तु समाचरेत् ॥१६॥अनामायां धारणाद्दि त्रैलोक्यविजयी कविः ।भाले बीजं चाङ्गुलौ तु मुद्रां नाम हृदम्बुजे ॥१७॥करे तत्तन्मयी माला नाल्पस्य तपसः फलम् ।दन्ताख्यमाला श्रीकाल्यां तारिणी नरशङ्खजा ॥१८॥छिन्नमस्ताविधौ शस्ता नरास्थिमालिका शुभा ।रक्तचन्दनजा माला बीजाख्या त्रिपुराविधौ ॥१९॥स्वयम्भूमालिका देवि भैरव्यां मालिकाविधौ ।गुञ्जामाला तु मातंग्यां धूम्रायां खरदन्तजा ॥२०॥हरिद्राख्या तु ब्रह्मास्त्रे कमलाख्या रमाविधौ ।वाण्यां श्रीभुवनेश्वर्यां स्फाटिकी परिकीर्तिता ॥२१॥श्वेतगुञ्जा सिद्धविद्याविधौय प्रोक्ता महेश्वरि ।शङ्खमाला वैष्णवे तु रुद्राक्षः शक्तिमात्रके ॥२२॥भद्राक्षः शरभे प्रोक्तो गणेशे गजदन्तजा ।त्रिपुरायां पुत्रजीवो गोविन्दे तुलसी मता ॥२३॥सर्वमन्त्रे च रुद्राक्षः शक्तिमंत्रे तु वा नहि ।रत्नस्वर्णरौप्यमयी तथा ताम्रमयी शिवे ॥२४॥औदुम्बरबीजमयी वटबीजमयी तथा ।पूगीफलमयी माला जातीफलमयी तथा ॥२५॥मधुमत्याकर्षणार्थं वीरविद्याविधावपि ।प्रवालः सूर्यमन्त्रे च मौक्तिकं शक्तिमात्रके ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२६॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे रत्नसङ्केतकं नाम पञ्चपंचाशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP