श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टचत्वारिंशतिः पटलः ।
तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.
श्रीशिव उवाच ।
पुरा स्वर्गे सुखेनासन् कामगाः खेचरा गजाः ।
मुनिशापाद् गता भूमौ कलौ जाता वनेचराः ॥१॥
भद्रो मन्दो मृगो मिश्रश्चतुर्द्धा जायते गजः ।
पूर्वोत्तरतथायाम्यदिक्क्रमेण महेश्वरि ॥२॥
पूर्वे गणेश्वरो देवि तूत्तरे नीलकण्ठतः ।
पूर्वभागे गजाः प्रोक्ता दक्षिणे द्विविधा गजाः ॥३॥
अत्युच्चश्चातिनीचश्च द्विविधः परिकीर्तितः ।
अत्युच्चो मलयाद्दक्षे नीचो नीरधिसम्भवः ॥४॥
सलोमश्चातिलोमश्च तत्रापि द्विविधः स्मृतः ।
पूर्वोत्तरक्रमेणैव वसुसंख्या प्रकीर्तिता ॥५॥
दक्षिणेsष्टविधः प्रोक्तस्त्वेवं षोडशधा स्मृतः ।
गजासनं समासाद्य लक्षयुग्मं जपेच्छिवे ॥६॥
सार्वभौमो नरो भूयाद्यथायोग्यपदक्रमात् ।
भद्रासनं समासाद्य लक्षार्धं प्रजपेन्नरः ॥७॥
अपि देवीं वशीकृत्य त्रैलोक्यविजयी भवेत् ।
मृद्वासने नरः स्थित्वा त्रिसहस्रं जपं चरेत् ॥८॥
मनसाsत्र प्रयोगेन त्रैलोक्यपदमाप्नयात् ।
मृगासने नरः स्थित्वा सहस्रं प्रत्यहं जपेत् ॥९॥
भैरवादीन् वशीकुर्यान्नात्र कार्या विचारणा ।
मिश्रासने नरः स्थित्वा नन्दसाहस्रकं जपेत् ॥१०॥
षण्मासाभ्यासयोगेन किं तद्यन्न करे स्थितम् ।
दक्षदेशे गजे स्थित्वा प्रत्यहं त्रिशतं जपेत् ॥११॥
शिवतुल्यः सिद्धिदाता भवत्येव न संशयः ।
नीरधिस्थगजे स्थित्वा शतजप्तं जपेत्सदा ॥१२॥
त्रिमासेन महेशानि राज्यलक्ष्मीमवाप्नुयात् ।
पूर्वदेशे गजे स्थित्वा स्तोत्रं वा कवचं पठेत् ॥१३॥
यः कुर्यान्मानवो देवि शत्रुहन्ता भवेद् ध्रुवम् ।
उदग्देशे गजे स्थित्वा सहस्रं प्रत्यहं जपेत् ॥१४॥
इन्दुतुल्यो रणे जित्वा भवेच्छरभसन्निभः ।
पल्लकीं तु समारुह्य सर्वकालं जपेद्ध्रुवम् ॥१५॥
भूमिपालों नरो भूत्वा त्रैलोक्यविजयी भवेत् ।
गण्डकीं तु समाराध्य त्रिसन्ध्यं प्रजपेच्छिवे ॥१६॥
अपि दासकुले जातः सोsपि राजा भविष्यति ।
मानुषासनमासाद्य कालीमन्त्रं जपेत् सदा ॥१७॥
नरनाथो भवेद्देवि नात्र कार्या विचारणा ।
महिषासनमासाद्य सहस्राणां तु सप्ततिः ॥१८॥
प्रजपेत्परमेशानि शत्रुसंहारको भवेत् ।
विजये मानुषे देवि विद्वेषे वृषभे जपेत् ॥१९॥
वृषभासनमासाद्य दिक्सहस्रं जपेच्छिवे ।
शिवतुल्यो नरो भूयान्नात्र कार्या विचारणा ॥२०॥
भल्लुकासनमासाद्य भैरवं प्रत्यहं जपेत् ।
वेतालसिद्धिमासाद्य शत्रुहन्ता नरो भवेत् ॥२१॥
सुग्रीवासनमासाद्य नवसाहस्रकं जपेत् ।
राक्षसं वशगं कृत्वा शत्रुनाशकरो भवेत् ॥२२॥
हनुमदासनमासाद्य लक्षमात्रं जपेच्छिवे ।
लक्ष्मीपतिसमो भूत्वा स भूपालो भवेद् ध्रुवम् ॥२३॥
जाम्बुवन्तं समाश्रित्य जपेल्लक्षार्धमादरात् ।
रत्नाधिपो नरो भूयान्महामन्त्रवरो भवेत् ॥२४॥
नीलासनं समाश्रित्य सहस्रार्धकमादरात् ।
तथा नलासने देवि तथैव चाङ्गदासने ॥२५॥
राजवर्यो नरो भूयान्महाविक्रमवान् भवेत् ।
व्याघ्रासनं समाश्रित्य सर्वकालं जपेच्छिवे ॥२६॥
देवीतुल्यो नरो भूयान्नात्र कार्या विचारणा ।
व्याघ्रा दशविधाः प्रोक्तास्तत्क्रमं श्रृणु पार्वति ॥२७॥
चित्रव्याघ्रं समासाद्य कालीमन्त्रं जपेत्सदा ।
वाक्सिद्धिर्विविधा भूयान्नात्र कार्या विचारणा ॥२८॥
अष्टव्याघ्रे महेशानि त्रैलोक्याधिपतिर्भवेत् ।
लक्षमात्रं जपेद्देवि वल्लिव्याघ्रं श्रृणु प्रिये ॥२९॥
वल्लीव्याघ्रासने स्थित्वा सर्वकालं जपं चरेत् ।
मासमात्रेण सिद्धिः स्याद्देवानामपि दुर्लभा ॥३०॥
धूसरासनमारुह्य त्रिसन्ध्यं त्रिशतं जपेत् ।
त्रिकालज्ञो नरो भूयान्नात्र कार्या विचारणा ॥३१॥
अथ बिन्दुमतो व्याघ्रं समाश्रित्य जपेत्सदा ।
शत्रुराज्यं विनिर्जित्य सर्वान् कामानवाप्नुयात् ॥३२॥
पक्षमात्रप्रयोगो हि महाव्याघ्रं श्रृणु प्रिये ।
महाव्याघ्रासने स्थित्वा महाविद्यां जपेत्सदा ॥३३॥
मासमात्रेण सिद्धिः स्यात्साधकः खेचरो भवेत् ।
रोमव्याघ्रासने स्थित्वा त्रिसन्ध्यं त्रिसहस्नकम् ॥३४॥
पक्षाभ्यासने देवेशि खेचरत्वमवाप्नुयात् ।
कृष्णे राजासने स्थित्वा प्रत्यहं शतमात्रकम् ॥३५॥
शतमात्रप्रजापेन यक्षिणीनायको भवेत् ।
महाराजव्याघ्ररूपे स्थित्वा जपति कालिकाम् ।
इति संक्षेपतः प्रोक्तं शिवाख्यं श्रृणु पार्वति ॥३६॥
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे गजव्याघ्रासनं नाम नामाष्टचत्वारिंशितः पटलः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP