संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकत्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकत्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
दशक्रमाः शक्तयश्च त्वयोक्ताः परमेश्वर ।
तत्क्रमाणां फलं देव कियत्कालेन जायते ॥१॥
तत्सर्वं देवदेवेश पुरा रूपा क्रिया कथम् (?) ।
श्रीशिव उवाच ।
श्रृणु देवि प्रवक्ष्यामि रहस्यं तव सन्निधौ ॥२॥
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयो रपि ।
नीलसाधनकं कर्म सर्वथा कारयेच्छिवे ॥३॥
प्रत्यहं क्रियतां देवि तदभावे महाष्टमी ।
सत्ये च दशवर्षेण त्रेतायां हायनेन च ॥४॥
द्वापरे तद्द्विमासेन ह्यहोरात्रं कलौ युगे ।
सिद्धिर्भवति देवेशि नीलमार्गे विशेषतः ॥५॥
सम्पूर्णदिवसं त्यक्त्वा रात्रौ याममपश्चिमम् ।
अंत्ययामं च सन्त्यज्य मध्ययामद्वयं शिवे ॥६॥
तन्मध्ये तुर्यनाडीषु कालिका वरदा भवेत् ।
सोपानषोडशयुते नानाभूतगणैर्युते ॥७॥
नवसोपानतन्मध्ये सप्तमेन समाकुले ।
तत्र स्थिता महाकाली परिवारगणैः सह ॥८॥
साधकाकांक्ष्यहृदया वन्हिवेतालसंयुता ।
श्रीमतोत्तरतंत्रोक्तकवचावरणैर्युता ॥९॥
कलावस्थैः समायुक्ता स्वयं याति ततः परम् ।
महानीलक्रमे देवि सङ्ख्यां श्रृणु महेश्वरि ॥१०॥
सत्ये विंशतिवर्षेण त्रेतायां हायनद्वये ।
द्वापरे मासषट्कैस्तु कलौ मासद्वयोत्तरम् ॥११॥
अनैनैव क्रमेणैव छिन्नमस्ताविधिः स्मृता ।
एतावद्धि विशेषोsस्ति शक्तिसङ्गः सदा स्मृतः ॥१२॥
गन्धर्वाख्यक्रमे संख्यां श्रृणु यत्नेन पार्वति ।
शतं विंशतिदिग्वेदसप्तमारभ्य पार्वति ॥१३॥
वीरसाधनकं कर्म चतुर्मन्त्रैः समाचरेत् ।
स्वपुष्पाख्यक्रमे सङ्ख्यां श्रृणु यत्नेन पार्वति ॥१४॥
ऋषिवेदवन्हियामयोगमार्गेण सिद्ध्यति ।
महाचीनक्रमे सङ्ख्यां श्रृणु यत्नेन पार्वति ॥१५॥
षट्त्रिंशद्दशवेदाख्यषट्त्रिंशद्दिवसैः शिवे ।
सत्यादिकलिपर्यन्तं महाराजक्रमं श्रृणु ॥१६॥
अशीतिषष्टिषङ्विंशसप्तवर्षक्रमेण च ।
सत्यादिकलिपर्यन्तं ब्रह्मभावक्रमं श्रृणु ॥१७॥
सहस्रं शतकन्यूनं षष्टिवर्षेण पार्वति ।
कलार्चनक्रमे देवि सङ्ख्यां श्रृणु प्रयत्नतः ॥१८॥
सहस्रं षट्शतं वेदशतं शोडशहायनम् ।
सत्यक्रमाच्च कल्यन्तं धूम्रभावं श्रृणु प्रिये ॥१९॥
दिक्सहस्रं षट्सहस्त्रं सहस्त्रं पञ्चविंशतिः ।
ब्रह्मभावे महेशानि कलौ च वत्सरत्रयम् ॥२०॥
दशवर्षं मासषट्कं देवता वरदा भवेत् ।
प्रत्यक्षदर्शने देवि संख्या प्रोक्ता मया तव ॥२१॥
सिद्धमन्त्रे महेशानि पूर्वयोगेन सिध्यति ।
पूर्वक्रमो महेशानि मन्त्रमात्रे प्रकीर्तितः ॥२२॥
पूर्वक्रमेण देवेशि दुष्टमन्त्रोsपि सिध्यति ।
रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥२३॥
गोपनात् सिद्धिमान्पोति नात्र कार्या विचारणा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे क्रमफलकथनं नामैकत्रिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP