संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|सारावली| विंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । विंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली विंशोsध्यायः । Translation - भाषांतर योगा विभक्ता श्चतुरादिसंस्थैर्व्यासाद्ग्रहैः कैरपि तापसानाम् ।जन्मादि तेषामपरैर्मुनीन्द्रैः संवेदितं तत्कथयाम्यशेषात् ॥१॥सूर्येन्दुशुक्रार्यमहीसुतेषु सूर्येन्दुसोमात्मजभूमिजेषु ।एकस्थितेषु प्रभवेत्तपस्वी भान्वारमन्दज्ञसितेषु चैव ॥२॥कुजेन्दुसूर्यज्ञपुरोहितैश्च तीक्ष्णांशुचन्द्रार्किशशाङ्कजैश्च ।सूर्येन्दुभूपुत्रशनैश्चरैः स्यादेकर्क्षगैः प्रव्रजितो मनुष्यः ॥३॥आदित्यगुर्वार्किशशाङ्कपुत्रा भौमार्कचन्द्रात्मजसूरयश्च ।एकर्क्षसंस्थास्तपसि स्थितानां कुर्वन्ति जन्मप्रसवे ग्रहेन्द्राः ॥४॥सितार्कभौमार्कसुता महाबलाः सुरेज्यभूपुत्रकसौरसूरयः ।कुजेन्दुवागीशशनैश्चरा इमे समं गता वै जनयन्ति तापसम् ॥५॥कुजार्किसोमात्मजदेववन्दितैः कुजार्किचन्द्रात्मजसूर्यभार्गवैः ।रवीन्दुभौमासितदानवप्रियैवन्ति सूता व्रतसंयुता नरा: ॥६॥सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेड्यबुधार्कनन्दनैः ।सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥७॥चन्द्रेन्दुपुत्रारसुरेड्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभूमिजैः ।स्थितैरमीभिः सहितैर्नृसम्भवा भवन्ति वन्द्या मुनयोsत्र दूषकाः ॥८॥रवीन्दुभौमेन्दुजजीवभार्गवैः शशाङ्कभौमार्किबुधेड्यभास्करैः ।कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैर्नरो व्रती ॥९॥सितेन्दुजीवार्कजसूर्यलोहितैः सितार्कभौमार्किशशाङ्कसोमजैः ।एकत्रयातैर्गगनेचरैः सदा भवन्ति जाता मुनयो यशस्विनः ॥१०॥कुजज्ञवागीशसितार्किभास्करैः सितार्किजीवेन्दुजचन्द्रभूमिजैः ।बलप्रधानैः सहितैर्विहङ्गमैर्व्रजेत्प्रजातः पुरुषस्तपस्विताम् ॥११॥रवीन्दुवागीशशनैश्चरैश्च शनैश्चरेन्द्वर्कसितैरवश्यम् ।रवीन्दुपुत्रक्षितिजेन्द्रपूज्यैस्तपस्विनः स्युः फलमूलभक्षिणः ॥१२॥वक्रार्कसोमात्मजदानवेड्या भौमेन्दुवागीशशशाङ्गपुत्राः ।एकर्क्षगा जन्मनि यस्य जन्तोर्भवेद्व्रती वल्कलचीरधारी ॥१३॥शशीन्दुपुत्रक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेड्यसौराः ।एकर्क्षगा जन्मनि यस्य सूतौ कुर्वन्ति तं तापसमेव शान्तम् ॥१४॥चन्द्रार्कभार्गवशशाङ्कसुता बलस्थाभौमेन्दुपुत्रसितभास्करनन्दनाश्च ।मन्देन्दुवाक्पतिसिता नियतं यतीनांकुर्वन्ति जन्म फलपाककृताशनानाम् ॥१५॥रविकुजशशिशुक्रैश्चन्द्रभौमज्ञसूर्ये -र्गुरुसितरविमन्दैः शुक्रजीवेन्दुवक्रैः ।कुजबुधसितचन्द्रैरेभिरेकर्क्षयातै -र्भवति गिरिवनौकास्तापसः सर्ववन्द्यः ॥१६॥सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमदेवगुरुशुक्रैः ।रविशशिकुजबुधजीवैर्भवति यतिर्दुःखितो दीनः ॥१७॥कुजार्किदेवेड्यासितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः ।समं गतैः स्युः सबलैर्यथोक्तैर्जटाधरा वलक्लधारिणश्च ॥१८॥भान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैः सूर्येन्दुभौमगुरुशुक्रशनैश्चरैश्च ।प्राप्नोत्यवश्यमिह तापसरूपमेभि -रेकर्क्षगैर्गगनवासिभिरेव जातः ॥१९॥प्रव्रज्येशे दिनकरगते भुक्तिमन्तोsतिशक्ताः प्रव्रज्यायाः सुबलसहितैः स्थैर्यमाहुर्गहेन्द्रैः ।सम्पूर्णानां वशमनुगतैः प्रच्युतैस्तैर्बहुत्वे वीर्योपेतैर्भवति बहुभिः सद्बलस्यानुपुर्व्यात् ॥२०॥प्रव्रज्यायाः स्वामी रविमुषिततनुर्निरीक्षितो वाsन्यैः ।याचितदीक्षा भवति च यवनाधिपतेर्यथा वाक्यम् ॥२१॥शशी दृकाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् ।कुजांशके वा रविजेत दृष्टो नवांशतुल्यं कथयन्ति तत्पुनः ॥२२॥जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्टः पुरुषस्य सूतौ ।आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वाक्तमत्रापि विचारणीयम् ॥२३॥जन्मपतिर्विकलाङ्गः पश्यति सौरिं चतुष्टये प्रबलम ।यस्य स भाग्यविहीनः प्रव्रज्यां प्राप्नुयात् पुरुषः ॥२४॥गुरुहिमगुर्वीणामेक एवोदयस्थोगगनतलगतो वा रिःफगश्चाल्पमूर्तिः ।अविकलबलभाजा सूर्यपुत्रेण दृष्टो जनयति खलु जातं तापसं दुःखभाजम् ॥२५॥कुमुदवनसुबन्धुं सौम्यभागे बलस्थं वियति गमनशीलान् स्वोच्चभस्थांश्च शेषान् ।यदि दिनकरपुत्रः पश्यति प्राप्तवीर्योभवति भुवननाथो दीक्षितश्च स्वचन्त्रः ॥२६॥अतिशयबलयुक्तः शीतगुः शुक्लपक्षे बलविरहितरिक्तं प्रेक्षते लग्ननाथम् ।यदि भवति तपस्वी दुःखितः शोकतप्तोधनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥२७॥सौरिः शुभभागस्थः पश्यति चन्द्रं ग्रहांस्तथैवान्यान् ।कुंम्भांशेषु प्राप्तान् जनयति दीक्षन्वितं पुरुषम् ॥२८॥एकर्क्षगतैः सर्वैर्जन्माधिपतिर्निरीक्षितो यस्य ।दीक्षा तस्यावश्यं भवतीति पुरातनैः कथितम् ॥२९॥अग्नीनां परिचारका गिरिनदीतीराश्रमे तापसाः सूर्याराधनतत्परा गणपतेर्भक्ता उमायाश्च ये ।गायत्रीं जपतां वने नियमिनां गङ्गाभिषेकार्थिनांकौमारव्रतमिच्छतामधिपतिस्तेषां सदा भास्करः ॥३०॥वृद्धश्रावकभस्मधूलिधवलाः शैवव्रते ये स्थिता बाह्याः पातकितां गता भगवतीभक्ताश्च निःसङ्गिनः ।सिद्धान्ते खलु सोमनाग्नि निरताः कापालिका निष्ठुरा -स्तेषां नायकतां गतः शशधरः खट्वाङ्गपाणिद्युतिः ॥३१॥उपासका बुद्धसमाश्रयं गताः शिखां गताः पाण्डरभिक्षवश्च ये ।सुवाससो रक्तपटा जितेन्द्रियाः प्रभुः सदैषां क्षितिजः प्रकीर्तितः ॥३२॥आजीविनां कुहकिनां समयाधिका येये दीक्षितास्तनुभृतः खलु गारुडे च ।तन्त्रे मयूरपिशिताशनयोश्च युक्ता -स्तेषां शशाङ्कतनयोsधिपतिर्निरुक्तः ॥३३॥एकं त्रीनथवा वहन्ति मुनयो दण्डान् कषायाम्बरा वानप्रस्थमुपागताः फलपयोभक्षाश्च ये भिक्षवः ।गार्हस्थ्येन तु संस्थिता नियमिनः सद्व्रह्मचर्यं गता -स्तेषां दण्डपतिः सुरेन्द्रसचिवस्तीर्थेषु ये स्नातकाः ॥३४॥पाशुपतयज्ञदीक्षाव्रतेषु ये नित्यमेव संयुक्ताः ।वैष्णवचक्रकाणामपि तेषां नेता प्रकीर्तितः शुक्रः ॥३५॥पाशुपतयज्ञदीक्षाव्रतेषु ये नित्यमेव संयुक्ताः ।पाषण्डव्रतनिरता दिगम्बरा भिक्षवो ये च ।तेषामधिपतिरार्किः श्रावकतरुमूलिनश्च दुस्तपसः ॥३६॥प्रकथितमुनियोगे राजयोगो यदि स्या -दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।जनयति पृथिवीशं दीक्षितं साधुशीलंप्रणतनृपशिरोभिः स्पृष्टपादाब्जयुग्मम् ॥३७॥इति कल्याणवर्मविरचितायां सारावल्यां प्रव्रज्यायोगो नाम विंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP