संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| चतुर्थोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । चतुर्थोsध्यायः । श्रीमत्कल्याणवर्मसूरिविरचिता । Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली चतुर्थोsध्यायः । Translation - भाषांतर आत्मा रविः शीतकरस्तु चेतः सत्वं धराजः शशिजोsथ वाणी ।ज्ञानं सुखं शुक्रगुरू मदश्च राहुः शनिः कालनरस्य दुःखम् ॥१॥आत्मादयो गगनगैर्बलिभिर्बलवत्तराः ।दुर्बलौर्दुर्बलास्ते तु विपरीतं शनेः फलम् ॥२॥यथायथा लग्नगृहाश्रयाणां समुद्गमो भूरिविकल्पनानाम् ।तथातथा शैलनवाष्टसंख्याः क्रमेण कालावयवाः प्रसूताः ॥३॥लग्नात्तक्षणमुदितं वामाङ्गगमथाबलम् ।सव्यार्धादितरत्तस्य नोद्गतं सबलं च तत् ॥४॥मूर्धालोचनकर्णगन्धवहनं गण्डौ हनुश्चाननं ग्रीवास्कन्धभुजं तु पार्श्वहृदयक्रोडाश्च नाभिः पुनः ।बस्तिर्लिङ्गगुदे च मुष्कयुगलं चोरुद्वयं जानुनी जङ्घे पादयुगं विलग्नभवनात्पार्श्वद्वये कल्पिताः ॥५॥पापा व्रणं लाञ्छनमेषु सौम्याः स्वांशे स्वराशावथवा स्थितेषु ।कुर्वन्ति जन्मोत्थितमेषु चिह्नमेषु ग्रहास्तद्विपरीतसंस्थाः ॥६॥ राजा रविः शशधरस्तु बुधः कुमारःसेनापतिः क्षितिसुतः सचिवौ सितेज्यौ ।भृत्यस्तयोश्च रविजः सबला नराणांकुर्वन्ति जन्मसमये निजमेव सत्वम् ॥७॥भानुः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी ।सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः ॥८॥गुरुबुधशुक्राः सौम्याः सौरिकुजार्कास्तु निगदिताः पापाः ।शशिजोsशुभसंयुक्तः क्षीणश्च निशाकरः पापः ॥९॥हेलिर्भानुः शशी चन्द्रः क्रूराक्षः क्षितिनन्दनः ।आरो रक्तस्तथा वक्रो हेम्नो विद् ज्ञोsथ बोधनः ॥१०॥ईड्येज्यावङ्गिरा जीवो ह्यास्फुजिच्च सितो भृगुः ।मन्दः कोणो यमः कृष्णो विद्यादन्यानि लोकतः ॥११॥ताम्रसितारुणहरितकपीतविचित्रासिता इनादीनाम् ।पावकजलगुहकेशवशक्रशचीवेधसः पतयः ॥१२॥अर्कादिग्रहदैवतमन्त्रैः संपूज्य तामाशाम् ।कनकगजवाहनादीन्प्राप्नोति गतोsरितः शीघ्रम् ॥१३॥स्त्रीणां चन्द्रसितौ नपुंसकपती सोमात्मजार्कात्मजौपुंसां जीवदिवाकरक्षितिसुता विप्रस्य शक्रोsङ्गिराः ।राज्ञां सूर्यकुजौ विशां शशधरो मिश्रस्य मन्दो बुधः शूद्राणां शिखिभूखतोयमरुतां भौमादयः कीर्तिताः ॥१४॥कटुलवणतिक्तमिश्रितमधुराम्लकषायरसविशेषाणाम् ।सुरतोयाग्निविहारार्थशयनपांसूत्कराणां च ॥१५॥वस्त्रानां स्थूलाहतशिखिजलहतमध्यदृढसुजीर्णानाम् ।ताम्रमणिहेममिश्रितरूप्यकमुक्तायसां वाsपि ॥१६॥अयनक्षणदिवसर्तुकमासतदर्धशरदां दिनेशाद्याः ।शिशिरादीनामीशाः शनिसितभौमेन्दुबुधजीवाः ॥१७॥लग्नाधिपतेस्तुल्यः कालो लग्नोदितांशकसमाख्यः ।वक्तव्यो रिपुविजयो गर्भेषु च कार्यसंयोगे ॥१८॥ऋग्वेदाधिपतिर्जीवो यजुर्वेदपतिः सितः ।सामवेदाधिपो वक्रः शशिजोsथर्ववेदराट् ॥१९॥सुरपूज्यः शशिशुक्रौ दिनकरभौमौ बुधार्कजौ नाथाः ।विबुधमनुष्यपितॄणां तिर्यङ्नरकाधिवासानाम् ॥२०॥स्वल्पाकुञ्चितमूर्धजः पटुमतिर्मुख्यस्वरूपस्वनोनात्युच्चो मधुपिङ्गचारुनयनः शूरः प्रचण्डः स्थिरः ।रक्तश्यामतनुर्निगूढचरणः पित्तास्थिसारो महान् गम्भीरश्चतुरश्रकः पृथुकरः कौसुम्भवासा रविः ॥२१॥सौम्यः कान्तविलोचनो मधुरवाग्गौरः कृशाङ्गो युवाप्रांशुः सूक्ष्मनिकुञ्चितासितकचः प्राज्ञो मृदुः सात्विकः ।चारुर्वातकफात्मकः प्रियसखो रत्कैकसारो घृणीवृद्धस्त्रीषु रतश्चलोsतिसुभगः शुभ्राम्बरश्चन्द्रमाः ॥२२॥ह्रस्वः पिङ्गललोचनो दृढवपुर्दीप्ताग्निकान्तिश्चलोमज्जावानरुणाम्बरः पटुतरः शूरश्च निष्पन्नवाक् ।ह्रस्वाकुञ्चितदीप्तकेशतरुणः तित्तात्मकस्तामस -श्चण्डः साहसिको विघातकुशलः संरक्तगौरः कुजः ॥२३॥रक्तान्तायतलोचनो मधुरवाग्दूर्वादलश्यामल -स्त्वक्सारोsतिरजोधिकः स्फुटवचाः स्फीटस्त्रिदोषात्मकः ।हृष्टो मध्यमरूपवान्सुनिपुणु वृत्तः शिराभिस्ततः सर्वस्यानुकरोति वेषवचनैः पालाशवासा बुधः ॥२४॥ईषत्पिङ्गललोचनश्रुतिधरः सिंहाच्छनादः स्थिरःसत्वाढ्यः सुविशुद्धकाञ्चनवपुः पीनोन्नतोरस्थलः ।ह्रस्वो धर्मरतो विनीतनिपुणो बद्धोत्कटाक्षः क्षमीस्यात्पीताम्बरधृक्कफात्मकतनुर्मेदःप्रधानो गुरुः ॥२५॥चारुर्दीर्घभुजः पृथूरुवदनः शुक्राधिकः कान्तिमान् कृष्णाकुञ्चितसूक्षलम्बिचिकुरो दूर्वादलश्यामलः ।कामी वातकफात्मकोsतिसुभगश्चित्राम्बरो राजसो लीलावान्मतिमान्विशालनयनः स्थूलांसदेशः सितः ॥२६॥पिङ्गो निम्गविलोचनः कृशतनुर्दीर्घः सिरालोsलसः कृष्णाङ्गः पवनात्मकोsतिपिशुनः स्नाय्वाततो निर्घृणः ।मूर्खः स्थूलनखद्विजोsतिमलिनो रूक्षोsशुचिस्तामसोरौद्रः क्रोधपरो जरापरिणतः कृष्नाम्बरो भास्करिः ॥२७॥मित्राणि सूर्याद्गुरुभौमचन्द्राः सूर्येन्दुपुत्रौ रविचन्द्रजीवाः ।भानुःश्च शुक्रः शशिसूर्यमौमा मन्देन्दुजौ शुक्रबुधौ क्रमेण ॥२८॥शुक्रार्कजौ चन्द्रमसो न कश्चित्सौम्यः शशी शुक्रबुधौ रवीन्दू ।सोमार्कवक्रा रवितस्त्वमित्रा मित्रारिशेषो न सुहृन्न शत्रुः ॥२९॥व्ययाम्बुधनखायेषु तृतीये सुत्दृदः स्थिताः ।स्तत्कालरिपवः षष्ठसप्ताष्टैकत्रिकोणगाः ॥३०॥हितसमरिपुसंज्ञा ये निसर्गान्निरुक्ताहिततमहितमध्यास्तेsपि तत्कालमित्रैः ।रिपुसमसुहृदाख्याः सूतिकाले ग्रहेन्द्रा अधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीयाः ॥३१॥संपश्यन्ति स्थानात्सदा ग्रहाश्चरणवृद्धितः सर्वे । त्रिदशत्रिकोणचतुरश्रसप्तमानां फलं क्रमेणैव ॥३२॥पूर्णं पश्यति रविजस्तृतीयदशमं त्रिकोनमपि जीवः ।चतुरस्रं भूमिसुतो द्यूनं च सितार्कशशिबुधाः क्रमशः ॥३३॥दिक्स्थानकालचेष्टाकृतं बलं सर्वनिर्णयविधाने ।वक्ष्ये चतुः प्रकारं ग्रहस्तु रिक्तो भवेदबलः ॥३४॥लग्ने जीवबुधौ दिवाकरकुजौ व्योम्नि स्मरे भास्करि -र्बन्धाविन्दुसितौ दिशाकृतमिदं स्वोच्चे स्वकोणे स्वभे ।मित्रस्वांशकसंस्थितः शुभफलैर्दृष्टो बलीयान्ग्रहः स्त्रीक्षेत्रे शशिभार्गवौ नरगृहे शेषा बले स्थानजे ॥३५॥जीवार्कास्फुजितोsह्नि विच्च सततं मन्देन्दुभौमा निशिहोरामासदिनाब्दपाश्च बलिनः सौम्याः सितेsन्येsसिते ।सङ्ग्रामे जयिनो विलोमगतयः संपूर्णगावो ग्रहाः सूर्येन्दू पुनरुत्तरेण बलिनौ सत्योक्तचेष्टाबले ॥३६॥उत्तरमयनं प्राप्ताः शुक्रकुजार्केन्द्रमन्त्रिणो बलिनः ।याम्यं शशिरविपुत्रौ द्वयेsपि शशिजः स्ववर्गस्थः ॥३७॥स्त्रीपुंनपुंसकाख्याः क्षेत्रेष्वाद्यन्तमध्यसंप्राप्ताः ।सूर्यान्निर्गत्य सदा नवोदिता यवनराजमतम् ॥३८॥प्राग्रात्रिभागेsतिबलः शशाङ्कः शुक्रो निशार्धेsवनिजो निशान्ते ।प्रातर्बुधो मध्यदिने च सूर्यः सर्वत्र जीवोsर्कसुतो दिनान्ते ॥३९॥कृष्णारबुधगुरुसिताः शशिसूर्यावुत्तरोत्तरं बलिनः ।साधारणबलमेतद्बलसाम्ये चिन्तयेत्प्राज्ञः ॥४०॥इति कल्याणार्मविरचितायां सारावल्यां ग्रहयोनिभेदो नाम चतुर्थोsध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP