संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| षड्विंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । षड्विंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली षड्विंशोsध्यायः । Translation - भाषांतर प्रियविग्रहस्तु वेत्ताचार्यो विटधूर्तचेष्टकृशगात्रः ।सङ्गीतनृत्तनिरतो न सत्यवचनो रतिप्रियो लिपिवित् ॥१॥कूटकरो बह्वाशी बहुश्रमोत्पन्ननष्टधनः ।बह्वणबन्धनभागी चलस्थिरः स्यात् क्रिये बुधे कितवः ॥२॥दक्षः प्रगम्भदाता ख्यातो विज्ञातवेदशास्त्रार्थः ।व्यायामाम्बरभूषणमाल्याभिरतः स्थिरप्रकृतिः ॥३॥स्फीतधनस्त्रीसहितः प्रियवल्गुकथो गृहीतवाक्यश्च ।गान्धर्वहास्यशीलो रतिलोलो वै बुधे वृषभे ॥४॥शुभवेषः प्रियभाषी प्रख्यातधनो विकत्थनो मानी ।प्रोज्झितसुखकोल्परतिर्द्विस्त्रीपुत्रो विवादरतः ॥५॥श्रुतिकल्पकलाभिज्ञः कविः स्वतन्त्रः प्रियः प्रदानरतः ।कर्मठबहुसुतमित्रो नरमिथुनस्थे बुधे भवति ॥६॥प्राज्ञो विदेशनिरतः स्त्रीरतिगेयादिसक्तचित्तश्च ।चपलो बहुप्रलापी स्वबन्धुविद्वेषवादरतः ॥७॥स्त्रीवैरान्नष्टधनः कुत्सितशीलो बहुक्रियाभिरतः ।सुकविः कर्कटसंस्थे स्ववंशकीर्त्या प्रसिद्धश्च ॥८॥ज्ञानकलापरिहीनो लोकख्यातो नसत्यवाक्यश्च ।अल्पस्मृतिश्च धनवान् सत्वविहीनः सहजहन्ता ॥९॥स्त्रीदुर्भगः स्वतन्त्रो जघन्यकर्मा बुधे भवति पुरुषः ।प्रेष्योsप्रजस्तु सिंहे स्वकुलविरुद्धो जनाभिरामश्च ॥१०॥धर्मप्रियोsतिवाग्मी चतुरः स्याल्लेख्यकाव्यज्ञः ।विज्ञानशिल्पनिरतो मधुरः स्त्रीष्वल्पवीर्यश्च ॥११॥ज्येष्ठः पूज्यः सुहृदां नानाविनयोपचारवादरतः ।ख्यातो गुणैरुदारः कन्यायां सोमजे बलवान् ॥१२॥शिल्पविवादाभिरतो वाक्चतुरोsर्थार्थमीप्सितव्ययकृत् ।नानादिक्पण्यरतिर्विप्रातिथिदेवगुरुभक्तः ॥१३॥कृतकोपचारकुशलः सुसम्मतो देवभक्तश्च ।सप्तमभवने शशिजे शठश्चलक्षिप्रकोपपरितोषः ॥१४॥श्रमशोकानर्थपरः सद्द्वेष्योsत्यन्तधर्मलज्जश्च ।मूर्खो न साधुशीलो लुब्धो दुष्टाङ्गनारमणः ॥१५॥पारुष्यदण्डनिरतश्छलकृद्विद्विष्टकर्मसु निरुद्धः ।ऋणवान्नीचानुरुचिः परवस्त्वादानवान् कीटे ॥१६॥विख्यातोदारगुणः शास्त्रश्रुतिशौर्यशीलसमाधिगतः ।मन्त्री पुरोहितो वा कुलप्रधानो महापुरुषः ॥१७॥यज्ञाध्यापननिरतो मेधावी वाक्पटुर्व्रती दाता ।लिपिलेख्यदानकुशलः कार्मुकसंस्थे बुधे जातः ॥१८॥नीचो मूर्खः षण्ढः परकर्मकरः कुलादिगुणहीनः ।नानादुःखपरीतः स्वप्नविराहादिशीलश्च ॥१९॥पिशुनस्त्वसत्यचेष्टो बन्धुविमुक्तोत्यसंस्थितात्मा च ।मलिनो भयसञ्चलितो दिष्टो मकरे बुधे पुरुषः ॥२०॥वाग्बुद्धिकर्मनिरतः प्रकीर्णधर्मार्थवर्जविहितार्थः ।परपरिभूतो न शुचिः शीलविहीनस्तथाsज्ञश्च ॥२१॥अतिदुष्टदारशत्रुर्भोगैस्त्यक्तो घटे विवाग्भवति ।अतिदुर्भगोsतिभीरुः क्लीबो मलिनो विधेयश्च ॥२२॥आचारशौचनिरतो देशान्तरगोsप्रजो दरिद्रश्च ।शुभयुवतिः कृतिसाधुः सतां च सुभगो विधर्मरतः ॥२३॥सूच्यादिकर्मकुशलो विज्ञानश्रुतिकलावियुक्तश्च ।परधनसंचयदक्षो मीने शशिजेsधनः प्रकीर्णश्च ॥२४॥सत्यवचनं सुखाढ्यं भूपतिसत्कारसत्कृतं मनुजम् ।कुरुते बुधोsर्कदृष्टो बन्धुजने सुक्षम्ण कुजभे ॥२५॥रजनीकरेण दृष्टो युवतिजनमनोहरं क्षितिजराशौ ।अतिसेवकमतिमलिनं चन्द्रसुतो हीनशीलं च ॥२६॥अनृतप्रियं सुवाक्यं कलहसमेतं च पण्डितं कुजभे ।जनयति कुजेन दृष्टः प्रचुरधनं क्षितिपवल्लभं शूरम् ॥२७॥सुखिनं कुजभे शशिजः स्निग्धाङ्गं रोमशं सुकेशं च ।जीवेक्षितोsतिधनिनं जनयत्याज्ञापकं पापम् ॥२८॥नृपकृत्यकरं सुभगं गणनगरपुरोगमं चतुरवाक्यम् ।प्रत्ययिकं सितदृष्टः कुजभे स्त्रीसंयुतं शशिजः ॥२९॥रुधिरगृहे शनिदृष्टो हिमकिरणसुतोsतिदुःखितं जनयेत् ।उग्रं हिंसाभिरतं कुलजनहीनं नरं नित्यम् ॥३०॥॥ इति कुजभे दृष्टिः ॥दारित्र्यदुःखतप्तं व्याधितदेहं परोपचाररतम् ।दिनकरदृष्टः सौम्यः कुरुते जनधिक्क्रुतं सितभे ॥३१॥प्रत्ययितं धनवन्तं दृढभक्तिमरोगिणं दृढकुटुम्बम् ।ख्यातं नरेन्द्रसचिवं ज्ञश्चन्द्रनिरीक्षितः सितभे ॥३२॥व्याधिभिररिभिर्ग्रस्तं क्लिष्टं भूपावमानसन्तप्तम् ।जनयति विदसृग्दृष्टो बहिष्कृतं सर्वविषयेभ्यः ॥३३॥प्राज्ञं गृहीतवाक्यं देशपुरश्रेणिनायकं ख्यातम् ।त्रिदशगुरुदृष्टमूर्तिर्जनयति सौम्यः सितगृहस्थः ॥३४॥सुभगं ललितं सुखिनं वस्त्रालङ्कारभोगिनं सितभे ।हृदयहरं कन्यानां कुरुते शुक्रेक्षितः सौम्यः ॥३५॥शुक्रगृहेsर्कजदृष्टः सुखरहितं बन्धुशोकसंक्लिष्टम् ।व्याधितमनर्थबहुतं सौम्यः कुरुते नरं मलिनम् ॥३६॥॥ इति शुक्रगृहे बुधस्य दृष्टिः ॥अवितथकथनं मधुरं नृपवल्लभमीश्वरं ललितचेष्टम् ।दयितं करोति लोके रविणा दृष्टो बुधः स्वगृहे ॥३७॥सुमधुरमतिवाचाटं कलहरतं शास्त्रवत्सलं सुदृढम् ।जनयति शशिना दृष्टो बुधः शुभं सर्वकार्येषु ॥३८॥विक्षतगात्रं मलिनं प्रतिभायुक्तं नरेन्द्रभृत्यं च ।वल्लभमतीव कुरुते स्वगृहे रुधिरेण सन्दृष्टः ॥३९॥पार्थिवमन्त्रिणमग्र्यं प्रतिरूपमुदारविभवपरिवारम् ।यूपध्वजेन दृष्टो जनयति शूरं स्वभे सौम्यः ॥४०॥प्राज्ञं नरेन्द्रभृत्यं दूतं वा सन्धिपालकं शशिजः ।स्वगृहे सितेन दृष्टो जनयति नीचाङ्गनासक्तम् ॥४१॥सततोत्थितं विनीतं सफलारम्भं परिच्छदसमृद्धम् ।सौम्यः स्वगृहे दृष्टो रविजेन नरं सदा कुरुते ॥४२॥॥ इति स्वगृहे दृष्टिः ॥रजकं मालाकारं ग्रहवास्तुज्ञं तथा च मणिकारम् ।जनयति रविणा दृष्टो बुधो गृहं शिशिरगोश्च गतः ॥४३॥युवतिविनाशितसारं युवतिनिमित्तं च दुःखितशरीरम् ।कर्कटके शशिदृष्टो जनयति सुखवर्जितं सौम्यः ॥४४॥स्वल्पश्रुतमतिमुखरं प्रियनृतं कूटकारिणं चोरम् ।वक्रेक्षितः शशिगृहे कुरुते सौम्यः प्रियालापम् ॥४५॥मेधाविनमतिदयितं भाग्ययुतं वल्लभं नरेन्द्राणाम् ।गुरुणा दृष्टः शशिभे विधानां पारगं बुधः कुरुते ॥४६॥कन्दर्पसदृशरूपं प्रियंवदं गीतवादनविधिज्ञम् ।सुभगं शशिभे ललितं कुरुते शुक्रेक्षितः सौम्यः ॥४७॥दम्भरुचिं पापरतं बन्धनभाजं गुणैर्वियुक्तं ज्ञः ।द्वेष्यं सहजाचार्यैः कुरुते सौरेक्षितः शशिभे ॥४८॥॥ इति कर्कटके दृष्टिः ॥सेव्यं दिनकरदृष्टो धनगुणवृद्धं नरं बुधः कुरुते ।हिंस्त्रं क्षुद्रं सिंहे चञ्चलभाग्यं विगतलज्जम् ॥४९॥रूपान्वितमतिचतुरं काव्यकलागेयनृत्तरतिमिनभे ।धनिनं सुशीलवेषं कुरुते चन्द्रेक्षितः सौम्यः ॥५०॥ज्ञो नीचं रविभवने दुःखार्तं विक्षताङ्गसमरूपम् ।अचतुरलीलाकान्तं नपुंसकं भौमसन्दृष्टः ॥५१॥सुकुमारमतिप्राज्ञं रविभे वागीश्वरं त्वतिख्यातम् ।परिचारवाहनयुतं कुरुते गुरुवीक्षितः सौम्यः ॥५२॥अतिशयरूपं ललितं प्रियंवदं वाहनाढ्यमतिधीरम् ।जनयति सितेन दृष्टो मन्त्रिणमथ पार्थिवं सिंहे ॥५३॥व्यायतगात्रं रूक्षं सुविरूपं स्वेदनोग्रगन्धं च ।अतिदुःखितं रविगृहे जनयति सुखवर्जितं रविजदृष्टः ॥५४॥शूरं प्रमेहपीडितमश्मर्योपहतमातुरं शान्तम् ।जनयति रविणा दृष्टो जीवगृहे चन्द्रजः पुरुषम् ॥५५॥लेखकमतिसुकुमारं प्रत्ययितं संमतं गुरुगृहस्थः ।सुखभागिनमत्याढ्यं कुरुते चन्द्रेक्षितः सौम्यः ॥५६॥श्रेणीभृतिनगराणां चोराणां विपिनवासिनां चापि ।कुरुते लिपिकरमधिपं सौम्यो गुरुमन्दिरे रुधिरदृष्टः ॥५७॥स्मृतिमतिकुलसम्पन्नं गुरुभे प्रतिरूपमार्यविज्ञानम् ।नृपमन्त्रकोशपालं लिपिकरमिह वीक्षितो गुरुणा ॥५८॥कन्याकुमारकाणां लेख्याचार्यं धनान्वितं कुरुते ।गुरुभे भृगुसुतदृष्टः सुकुमारं शौर्यसंयुतं शशिजः ॥५९॥दुर्गारण्याभिरतं बह्वशनं दुष्टशीलमतिमलिनम् ।कुरुते रविसुतदृष्टो बुधो नरं सर्वकार्यविभ्रष्टम् ॥६०॥॥ इति गुरुभे दृष्टिः ॥मल्लमतिसारयुक्तं बहुभक्षं निष्ठुरं प्रियालापम् ।जनयति रविणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥६१॥जलजीविनं समृद्धं पुष्पसुराकन्दवणिजं वा ।भीरुस्वरूपमचरं शनिभे चन्द्रेक्षितः कुरुते ॥६२॥वाक्चपलमतिसुसौम्यं व्रीडालसमन्थरं सुखाधारम् ।कुरुते भूसुतदृष्टो रवितनयगृहे बुधः पुरुषम् ॥६३॥बहुधनधान्यसमृद्धं ग्रामपुरश्रेणिपूजितं सुखिनम् ।कुरुते गुरुणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥६४॥नीचापतिं विरूपं बुद्धिविहीनं च कामवश्यं च ।अतिसुतजननं कुरुते भार्गवदृष्टो बुधः शनिभे ॥६५॥पापकरं सुदरिद्रं कर्मकरं चातिदुःखितं दीनम् ।कुरुते शनिना दृष्टः सौरगृहे बोधनः पुरुषम् ॥६६॥॥ इति शनिभे दृष्टिः ॥इति कल्याणवर्मविरचितायां सारावल्यां बुधचारो नाम षङ्विंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP