संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|सारावली| दशमोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । दशमोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली दशमोsध्यायः । Translation - भाषांतर आयुर्ज्ञानाभावे सर्वं विफलं प्रकीर्तितं यस्मात् ।तस्मात्तज्ज्ञानार्थे रिष्टाध्यायं प्रवक्ष्यामि ॥१॥ओजे स्थिताः पुमांसः शुक्लेsहनि सूरिभिः समाख्याताः ।युग्मभवनेषु सर्वे कृष्णे निशि योषितो बलिनः ॥२॥त्रिविधमिह शास्त्रकारा नियममनियमं च योगजं प्राहुः ।योगसमुत्थं तावद्वक्ष्ये पश्चात्तु परिशेषौ ॥३॥बृहस्पतिर्भौमगृहेsष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः ।अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रसूतम् ॥४॥वक्री शनिर्भौमगृहं प्रपन्नश्चन्द्रेsष्टष्ठेsथ चतुष्टये वा ।कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥५॥भास्करहिमकरसहितः शनैश्चरो मृत्युदः प्रसवकाले ।वर्षैर्नवभिर्यातैरित्याह ब्रह्मशौण्डाख्यः ॥६॥भौमदिवाकरसौराश्छिद्रे जातस्य भौमगृहे ।म्रियतेsवश्यं स नरो यमकृतरक्षोsपि मासेन ॥७॥एकः पापोsष्टमगः शुक्रगृहे पापवीक्षितो वर्षात् ।मारयति नरं जातं सुधारसो येन पीतोsपि ॥८॥रविशशिभवने शुक्रो द्वादशरिपुरन्ध्रगैः शुभैः सर्वैः ।दृष्टः करोति षड्भिर्वर्षैर्मरणं किमत्र चित्रं हि ॥९॥कर्कटधामनि सौम्यः षष्ठाष्टमसंस्थितो विलग्नर्क्षात् ।चन्द्रेण दृष्टमूर्तिर्वर्षचतुष्केण मारयति ॥१०॥तीव्रफलराजयोगा यवनाद्यैर्ये विनिर्मितास्तेषु ।जायन्ते खलु कुलजा रिष्टं तेषु प्रसूतानाम् ॥११॥केतुर्यस्मिन्नृक्षेsभ्युदितस्तस्मिन्प्रसूयते यो हि ।मासद्वयेन मरणं विनिर्दिशेत्तस्य जातस्य ॥१२॥गगनस्थो दिवसकरः पापैर्बहुभिर्निरीक्षितः सद्यः ।मारयति भौमधामनि शनिभे च न संशयो भवति ॥१३॥लग्ने यद्द्रेक्काणा निगडाहिविहङ्गपाशधरसंज्ञाः ।मरणाय सप्तवर्षैः क्रूरयुता न स्वपतिदृष्टाः ॥१४॥राहुश्चतुष्टयस्थो मरणाय निरीक्षितो भवति पापैः ।वर्षैर्वदन्ति दशभिः षोडशभिः केचिदाचार्याः ॥१५॥पापास्त्रिकोणकेन्द्रे सौम्याः षष्ठाष्टमव्ययगताश्च ।सूर्योदये प्रसूतः सद्यः प्राणांस्त्यजति जन्तुः ॥१६॥अंशाधिपजन्मपते लग्नपतिश्चास्तमुपगता यस्य ।संवत्सरैस्तु मरणं निर्व्याजं कतिपयैरेव ॥१७॥राशिप्रमितैर्वर्षैर्मारयति विलग्नपो रिपुस्थाने ।मासैर्द्रेक्काणपतिर्दिवसैरंशाधिपो हन्ति ॥१८॥मारयति षोडशाहाच्छनैश्चरः पापवीक्षितो लग्ने ।संयुक्तो मासेन तु वर्षाच्छुद्धस्तु मारयति ॥१९॥क्षीणशरीरश्चन्द्रो लग्नस्थः क्रूरवीक्षितः कुरुते ।स्वर्गगमनं हि पुंसां कुलीरगोsजान्परित्यज्य ॥२०॥वर्षान्मारयति शशी षष्ठाष्टमराशिसंस्थितो लग्नात् ।सद्यः क्रूरैर्दृष्टः सौम्यैरब्दाष्टकाच्चैव ॥२१॥अशुभशुभैः सन्दृष्टे वर्षचतुष्केण निर्दिशेदन्तम् ।अनुपातः कर्तव्यः प्रोक्तादूनैर्ग्रहैर्दृष्टे ॥२२॥सौम्याः षष्ठाष्टमगाः पापैर्वक्रोपसङ्गतैर्दृष्टाः ।मासेन मृत्युदास्ते यदि न शुभैस्तत्र सन्दृष्टाः ॥२३॥लग्नाद्द्वादशधनगैः क्रूरैर्म्रियते च रन्ध्ररिपुयुक्तैः ।शुभसम्पर्कमयातैर्मासे षष्ठेsष्टमे वाsपि ॥२४॥लग्नाधिपजन्मपती षष्ठाष्टमरिःफगौ प्रसवकाले ।अस्तमितौ मरणकरौ राशिप्रमितैर्वदेद्वर्षेः ॥२५॥होराधिपतिर्द्यूने पापजितो मरणमेव विदधाति ।मासेन जन्मनाथस्तद्वच्चन्द्रो न यदि शुभदृष्टः ॥२६॥चन्द्रः कुजरवियुक्तः स्वसुतस्थाने न चापि शुभदृष्टः ।मरणं शिशोः प्रयच्छति वर्षे नवमे न सन्देहः ॥२७॥होरेश्वरस्तु मृत्यौ पापैः सकलैश्च दृश्यते बलिभिः ।मासि चतुर्थे मरणं जातस्य करोति मुनिवाक्यम् ॥२८॥जन्माधिपतिः सूर्यः स्वपुत्रसहितोsष्टमे भवति राशौ ।वर्षे राशिप्रमितैर्मरणाय सितेन सन्दृष्टः ॥२९॥व्यायाष्टषष्ठोदयगे शशाङ्के पापेन युक्ते शुभदृष्टिहीने ।केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैर्वियोगं व्रजति प्रजातः ॥३०॥चक्रस्य पूर्वभागे पापाः सौम्यास्तथेतरे चैव ।वृश्चिकलग्ने जाता गतायुषो वज्रमुष्टियोगेsस्मिन् ॥३१॥क्षीणे शशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा ।भवति विपत्तिरवश्यं यवनाधिपतेर्मतं चैतत् ॥३२॥राश्यन्तगतैः पापैः सन्ध्यायां तुहिनरश्मिहोरायाम् ।मृत्युः प्रत्येकस्थैः केन्द्रेषु शशाङ्कपापैश्च ॥३३॥द्यूनचतुरश्रसंस्थे पापद्वयमध्यगे शशिनि जातः ।विलयं प्रयाति नियतं देवैरपि रक्षितो बालः ॥३४॥पापद्वयमध्यगते होरासप्ताष्टमस्थिते चन्द्रे ।सौम्यैरबलैर्दृष्टे जातो म्रियते ध्रुवं ह्यत्र ॥३५॥द्यूनाष्टमगैः पापैः क्रूरग्रहवीक्षितैः सह जनन्या ।म्रियते शुभसंदृष्टैः सत्यस्य मताद्वदेद्व्याधिम् ॥३६॥ग्रहणोपगते चन्द्रे सक्रूरे लग्नगे कुजेsष्टामगे ।मात्रा सार्धं म्रियते चन्द्रवदर्के च शस्त्रेण ॥३७॥क्षीणे शशिनि विलग्ने कण्टकनिधनाश्रितैस्तथा पापैः ।सौम्यादृष्टे मृत्युः सद्यः सत्यस्य निर्देशः ॥३८॥द्यूनगतेsर्के लग्ने यमे कुजे वा विपर्यये वाsपि ।अन्यतरयुते वेन्दावशुभैर्दृष्टेsचिरान्मृत्युः ॥३९॥होरानिधनास्तगतैः पापैः क्षीणे व्ययस्थिते चन्द्रे ।जातस्य भवेन्मरणं सद्यः केन्द्रेषु चेदशुभाः ॥४०॥लग्नान्त्यनवमनैधनसंयुक्ताश्चन्द्रसूर्यसौराराः ।जातस्य वधकृतः स्युः सद्यो गुरुणा न चेद्दृष्टाः ॥४१॥लग्ने चन्द्रेsर्के वा पापा बलिनस्त्रिकोणनिधनेषु ।सौम्यैरदृष्टायुक्ताः सद्यो मरणाय कीर्तिता यवनैः ॥४२॥शुक्रो रविशनिसहितो मारयति नर सदा प्रसवकाले ।दृष्टोsपि देवगुरुणा नवभिर्वर्षैर्न सन्देहः ॥४३॥यत्रस्थस्तत्रस्थो रुधिरार्कशनैश्चरेक्षितश्चन्द्रः ।जननीमृत्युं कुर्यान्नतु सौम्यनिरीक्षितः सद्यः ॥४४॥रुधिरशनैश्वरदृष्टो दिवसकरो दिवसजन्मनि तु यस्य ।पापयुतो वा हन्यात् पितरं निःसंशयं जातः ॥४५॥रहितो बुधगुरुशुक्रैर्जन्मनि रुधिराङ्गसौरसहितोsर्कः ।कथयति पितरमतीतं पितुरपि च शरीरकर्तारम् ॥४६॥पापग्रहमध्यगतो दिवसकरो दिव्सजन्मनिरतस्य ।पापयुतो वा हन्यात् पितरं निःसंशयं जातः ॥४७॥सूर्यदष्टमराशौ नवमे वा सप्तमेsपि वा पापाः ।सौम्यादृष्टौ निधनं कुर्यातां सद्य एव पितुः ॥४८॥पापग्रहसंयुक्तश्चरराशिगतो दिवाकरः प्रसवे ।विषशस्त्रजलान्मृत्युं कथयत्यल्पायुषं पितरम् ॥४९॥चन्द्रादष्टमराशौ नवमे वा सप्तमेsपि वा पापाः ।सर्वे तत्रान्यतमे हन्युर्जातं सह जनन्या ॥५०॥चरराशिगते सूर्ये दिनजन्मनि वीक्षिते कुपुत्रेण ।कथयति विदेशयतं जातस्य शरीरकर्तारम् ॥५१॥चरराशिगतं सौरं यद्यर्को रात्रिजन्म वी ( नी ? ) क्षेत ।अत्रापि विदेशस्थं कथयति पितरं प्रसूतस्य ॥५२॥रुधिरसहितस्तु सौरश्चरभवने रात्रिजन्मनिरतस्य ।कथयति पितरमतीतं परदेशे नात्र सन्देहः ॥५३॥यत्रस्थस्तत्रस्थस्वपुत्ररुधिराङ्गसङ्गतः सूर्यः ।प्राग्जन्मनो निवृत्तं कथयति पितरं प्रसूतस्य ॥५४॥जन्माष्टसप्तषष्ठद्वादशसंस्थेषु चैव पापेषु ।माता सुतेन सार्धं म्रियते नास्त्यत्र सन्देहः ॥५५॥जीवति माता ग्रियते सूनुः षष्ठाष्टमेषु पापेषु ।जन्माष्टसप्तमेषु च जीवति सूनुर्म्रियेत तन्माता ॥५६॥वक्रो वा सौरो वा द्वादशसंस्थो नयनहन्ता ।दक्षिणनयनं सौरो वाममथाङ्गारको हन्यात् ॥५७॥युगपच्चन्द्रादित्यौ द्वादशभे विष्ठितौ ग्रहौ स्याताम् ।कुरुतः प्रसूतमन्धं पापः षष्ठेsथवा निधने ॥५८॥अथवाप्यन्यतरयुते द्वादशभे जायमानस्य ।अत्रापि हरेन्नयनं दक्षिणमर्कः शशी सव्यम् ॥५९॥स्वर्भानुनोपसृष्टा यदि होरा दिनकरश्च जामित्रे ।जातस्तत्र मनुष्यो निःसन्दिग्धं भव्त्यन्धः ॥६०॥धनराशौ द्वादशभे चन्द्रः सूर्यश्च विष्ठितो यत्र ।तत्रापि भवत्यन्धो यद्यष्टमषष्ठयोः पापौ ॥६१॥रजनिकरः षष्ठगतो निधने सूर्यो रवेः सुतस्तु शुभे ।वक्रः कुटुम्बराशावत्राप्यन्धो भवेज्जातः ॥६२॥रुधिराङ्गसौरयुक्तश्चन्द्रो निधनेsथवाsपि षष्ठे वा ।पित्तश्लेष्मविकारैर्दृष्टिं हन्यादशुभयुक्तः ॥६३॥दक्षिणमष्टमसंस्थः सव्यं तु हरेत्समाश्रितः षष्ठम् ।सौम्यैर्न वीक्षिततनुः सद्यो नहरेत्तु पश्चाद्वा ॥६४॥दिनकरसुतेन सहितो निधने चान्त्ये समाश्रितश्चन्द्रः ।वातश्लेष्मविकारैर्दृष्टिं हन्यादशुभदृष्टः ॥६५॥निधने दक्षिननयनं त्यागे सव्यं हरेत्तु नियमेन ।सौम्यैस्तु दृश्यमाने न हरेदथवा हरेत्पश्चात् ॥६६॥एतेनैव तु विधिना सौरारदिवाकराश्रितश्चन्द्रः ।कुर्यादृष्टिविकारं नानारोगैर्ध्रुवं जन्तोः ॥६७॥एकादशे तृतीये होरायां पापसंयुते शशिनि ।कर्णविकलो नरः स्यात्पापग्रहवीक्षितः सद्यः ॥६८॥नवमे पञ्चमराशौ पापग्रहवीक्षितौ ग्रहौ स्याताम् ।श्रोत्रोपघातमतुलं कुर्यातां जातमात्रस्य ॥६९॥नवमे दक्षिणकर्णं वामं वै पञ्चमे ग्रहो हन्यात् ।अत्रैव सौम्यभे वा शुभदृष्टे वा शुभं वाच्यम् ॥७०॥राशौ होरान्तरं प्राप्य यो यस्मिन् व्याधिमाप्नुयात् ।तच्चास्य होराप्रसवे चन्द्रस्थानं च यद्भवेत् ॥७१॥सव्यापसव्यभागे योगमथैव ग्रहातु संप्राप्ताः ।कुर्युर्नृणां च चिह्नं व्यङ्गभयं पापवीक्षिताः सौम्याः ॥७२॥विदित्वा त्रितयं ह्येतत् कृत्स्नस्य तु विशेषतः ।शुभाशुभौ तु विज्ञेयौ ग्रहसंयोगकारणौ ॥७३॥चन्द्रादित्यौ तृतीयस्थौ मीनक्षेत्रं स यस्य तु ।व्याधिं तत्र विजानीयात् त्रिरात्रं तस्य जीवितम् ॥७४॥अतस्तृतीये नक्षत्रे समस्ते व्यस्तगेsपि वा ।रवौ रात्रिं परां जीवेच्चन्द्रे दशममाश्रिते ॥७५॥सहितौ चन्द्रजामित्रे यस्याङ्गारकभास्करौ ।जातस्य तस्य हि तदा भवेत्सप्ताहजीवितम् ॥७६॥चतुरश्रस्थिताः पापा वामदक्षिणगा यदा ।तदा यो व्याधिमाप्नोति दशरात्रं स जीवति ॥७७॥त्रिकोणे दक्षिणे सूर्यश्चन्द्रो वामे यदा भवेत् ।यस्तदा लभते व्याधिं द्वादशाहं स जीवति ॥७८॥त्रिकोणस्थो यदा चन्द्रश्चतुरश्रेsथ भास्करः ।तदा दुर्व्याधिना पुत्रस्त्रिरात्रं नातिवर्तते ॥७९॥यदा होरा चतुर्थस्थश्चन्द्रः षष्ठस्थितो रविः ।अष्टादशाहं च नरस्तदा व्याधिसमन्वितः ॥८०॥रविर्यदा चन्द्रमसस्त्रिकोणस्थानमाश्रितः ।विंशतिं दिवसान् जीवेत्तदा व्याधिभयार्दितः ॥८१॥होराष्टमस्थितः सूर्यः सौरभौमनिरीक्षितः ।यः पुमान् प्राप्नुयाद्व्याधिं न स जीवेद्विपद्यते ॥८२॥होरायां कण्टके भौमो भवेद्यस्य प्रजायतः ।न च केन्द्रगतो जीवो जायते मृत एव सः ॥८३॥अथ होरागतः सूर्यो न च केन्द्रे बृहस्पतिः ।निधने वा परः कश्चित् जातमात्रो विनश्यति ॥८४॥होरायां कण्टके चन्द्रो न च केन्द्रे बृहस्पतिः ।निधने वा परः कश्चित् जातमात्रो विनश्यति ॥८५॥द्रेक्काणजामित्रगतो यस्य स्याद्दारुणग्रहः ।होरागतः शशाङ्कश्च सद्यो हरति जीवितम् ॥८६॥ग्रहाः समेयुर्बहवो निधने यस्य जन्मनि ।मासं वा सप्तरात्रं वा तस्यायुः समुदाहृतम् ॥८७॥शनैश्वरश्च होरायां निधने च महीसुतः ।न च देवगुरुः केन्द्रे मृतगर्भः प्रसूयते ॥८८॥यः प्राग्विलग्ने द्रेक्काणस्तत्समानो यदा ग्रहः ।भवेत्रिकोणगाः पापास्तत्समानो भवेत् ॥८९॥सौरे व्याधिमवाप्नोति मरणं धरणीसुते ।सूर्ये स्याद्व्याधिवैकल्यं मरणं नात्र संशयः ॥९०॥अथ होरागतो भौमः केन्द्रस्थश्च भृगोः सुतः ।स वै मरणमाप्नोति होरायां पुनरागते ॥९१॥गुरुस्त्रिकोणे होरायां होरेशश्च महीसुतः ।तस्यान्यतरकेन्द्रस्थः सद्यो जीवितनाशनः ॥९२॥न नैधने ग्रहः कश्चित् पापो होरागतोsथवा ।केन्द्रे वान्यतरे जीवो जीवत्यष्टशतोत्तरम् ॥९३॥न केन्दे कश्चिदाग्नेयो न त्रिकोणे न नैधने ।गुरुशुक्रौ च केन्द्रस्थौ जीवेदष्टशताधिकम् ॥९४॥यदि होरागतः शुक्रः केन्द्रे वान्यतमे गुरुः ।नैधने न च पापः स्यात् सविंशं जीवते शतम् ॥९५॥राशौ कर्कटहोरायां गुरुशुक्रौ समन्वितौ ।गुरुश्चन्द्रयुतो वाsपि निधने न च कश्चन ॥९६॥न च केन्द्रगताः पापा न त्रिकोणे च जायते ।तस्यायुरमरप्रख्यं निश्चयेओ(ये)न तु कीर्त्यते ॥९७॥निधनास्तव्ययलग्नत्रिकोणगाः क्षीणचन्द्रसंयुक्ताः ।पापा बलिनः शुभदैरदृश्यमाना गतायुषः प्रायः ॥९८॥योगे बलिनः स्थानं स्वं वा लग्नं गतेsपि वा चन्द्रे ।बलवति पापैर्दृष्टे वर्षान्ते मृत्युकालः स्यात् ॥९९॥रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्द्रुभिस्तथैकस्थैः ।रविशनिभौमशशाङ्कैर्मरणं खलु पञ्चभिर्वर्षैः ॥१००॥रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति नूनम् ।एकादशभिर्वर्षैर्देवाङ्केsपि स्थितं जातम् ॥१०१॥लग्ने रविमन्दकुजैः शुक्रगृहे सप्तमे शशी क्षीणः ।दृष्टो न देवगुरुणा सप्तभिरब्दैर्विनाशयति ॥१०२॥केन्द्रे रविमुषिततनुः क्षितिसुतमन्दावलोकितोsथ युतः ।वर्षचतुष्के चन्द्रो मारयति किमत्र गणितेन ॥१०३॥लग्नाधिपतेश्चन्द्रो मरणपदस्थोsतिकृष्णतां यातः ।क्रूरैः सकलैर्दृष्टो न शुभैः सर्वैस्त्रिभिस्तु मारयति ॥१०४॥लग्नाधिपतिः पापः शशिनोंशे रिःफगो यदि च चन्द्रात् ।क्रूरैर्विलोक्यमानो मारयति शिशुं नवभिरब्दैः ॥१०५॥दर्शनभागे सौम्याः क्रूह्राश्चादृश्यके प्रसवकाले ।राहुर्लग्नोपगतो यमक्षयं नयति पञ्चभिर्वर्षैः ॥१०६॥राहुः सप्तमभवने शशिसूर्यनिरीक्षितो न शुभदृष्टः ।दशभिर्द्वाभ्यां सहितैरब्दैर्जातं विनाशयति ॥१०७॥घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहुः ।पापैर्निरीक्ष्यमाणः सपतमितैर्निश्चितं वर्षैः ॥१०८॥केतोरुदयं पूर्वं पश्चादुल्कादिपवननिर्घाताः ।रौद्रे सार्पमुहूर्ते प्राणैः सन्त्यज्यते जन्तुः ॥१०९॥क्षीणं यदा शशाङ्कं पश्येद्राहुः समागतं पापैः ।मारयति तदा दिवसैर्निर्व्याजं कतिपयैरेव ॥११०॥कुम्भे दिशति शशाङ्को भागे मृत्युं तथैकविंशाख्ये ।सिंहे च पञ्चमेंशे वृषे च नवमे तथैवोक्तः ॥१११॥अलिनि त्रिविंशयुक्ते मेषे च तथाष्टमे दिशति मृत्युम् ।कर्कटके द्वाविंशे तुलिनि चतुर्थे मृगे विंशे ॥११२॥कन्यायां प्रथमेंशे धनुर्धरेsष्टादशे झषे दशमे ।मिथुने च द्वाविंशे शशी प्रसूतस्य मरणकरः ॥११३॥ये भुक्ताः शशिनोंशा जन्मनि वर्षैर्गतैस्तु तावद्भिः ।मरणं हि जन्मभाजामप्यन्तकबद्धरक्षाणाम् ॥११४॥एवं सर्वप्रयत्नेन जायमानस्य देहिनः ।होरास्थानानि केन्द्राणि चिन्तनीयानि तद्यथा ॥११५॥चिन्तयेज्जायमानस्य स्थानराशिषु नित्यशः ।बृहस्पतिर्नृणां जीवस्तस्य नित्यं बृहस्पतेः ॥११६॥पञ्चदशषट्समेतश्चत्वारिंशत्तथैकविंच्चश ।शतमथ चत्वारिंशत् षष्टिस्त्रिंशत् क्रमायु होरायाः ॥११७॥तृतीयचतुर्थपञ्चमसप्तमनवमदशमैकादशगृहेषु जीवस्थितौ वर्षाः ।इति कल्याणवर्मविरचितायां सारावल्यां अरिष्टाध्यायो दशमः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP