संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|सारावली| सप्तदशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । सप्तदशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली सप्तदशोsध्यायः । Translation - भाषांतर लिपिकरतस्करमुखरो रोगी मायाप्रपञ्चकुशलश्च ।बुधरविभौमशशाङ्कैरेकर्क्षगतैः पुमान्भवति ॥१॥धनवान्वनितानिन्द्यस्तेजस्वी नीतिमान्विगतशोकः ।कर्मसमर्थो निपुणः शशिकुजगुरुभास्करैः सहितैः ॥२॥आर्योचितवाग्वृत्तिः सुखभाङ् निपुणोsर्थसंग्रहणशीलः ।विद्यासुतदारयुतः शशिकुजभृगुभास्करैः सहितैः ॥३॥विषमशरीरो ह्रस्वो धनरहितो याचिताशनो मूर्खः ।गम्यः सर्वस्य तथा रविशशिकुजसौरिसंयोगे ॥४॥सौवर्णिकः प्लुताक्षः शिल्पकरो वा महाधनो धीरः ।जातः स्यान्निरुजतनुः शशिज्ञगुरुभास्करैः सहितैः ॥५॥विकलः सुभगो वाग्मी ह्रस्वो नृपसंमतो मनुजः ।जातः स्यादेकस्थै रविशशिबुधभार्गवैः सहितैः ॥६॥मातृपितृविप्रयुक्तो धनसौख्यविवर्जितो भ्रमणशीलः ।भिक्षाशनोsप्यनृतवाक् रवीन्द्रुसौम्यार्किभिर्नियतम् ॥७॥सलिलमृगारण्यानां स्वामी स्यात्सौख्यभाक् भवति पूज्यः ।शुक्रार्कगुरुशशाङ्कैरेकर्क्षगतैः पुमान् निपुणः ॥८॥तामसनेत्रस्तीक्ष्णो बहुसुतवित्तो वराङ्गनासुभगः ।सूर्येज्यचन्द्रसौरैरेकस्थैर्जायते पुरुषः ॥९॥वनितासदृशाचारः पुरःसरोsत्यन्तदुर्बलशरीरः ।भीरुः सर्वत्र भवेदर्केन्दुसितासितैः सहितैः ॥१०॥शूरोsथ सूत्रकारश्चक्रधरो वा विपन्नदारधनः ।दुःखार्णवोsटनपरः सुसङ्गतैरर्कजीवबुधभौमैः ॥११॥परदाररतश्चोरो विषमाङ्गो दुर्जनो विगतसत्वः ।भवति प्रसवे पुरुषो रविसितभौमेन्दुजैः सहितैः ॥१२॥योद्धा प्राज्ञस्तीक्ष्णो नीचाचारः कविप्रधानश्च ।मन्त्री च भूपतिर्वा बुधार्ककुजसौरिसंयोगे ॥१३॥सुभगः पूज्यो लोके धनवान् नृपसंमतो भुवि ख्यातः ।रविभौमजीवशुक्रैरेकस्थैर्नीतिमान्पुरुषः ॥१४॥सोन्मादो गणमान्यः सिद्धार्थो बन्धु मित्रसंपृक्तः ।भानुकुजजीवसौरैः संयुक्तैर्वा नृपाभिमतः ॥१५॥विकलो नीचाचारो विषमाक्षो बन्धुविद्विष्टः ।सूर्यकुजशुक्रसौरैः पराभवं सर्वतो याति ॥१६॥धनवान्सुखप्रधानः सिद्धार्थो बन्धुमान् प्रकृष्टश्च ।भानुबुधजीवशुक्रैर्भवति पुमानेकराशिगतैः ॥१७॥क्लीबाचारो मानी कलहरुचिः सहजवाङ् निरुत्साहः ।अर्कार्किबुधसुरेज्यैरेकस्थैर्जायते पुरुषः ॥१८॥मुखरः सुभगः प्राज्ञो मृदुसौख्यः सत्वशौचसंपन्नः ।धीरो मित्रसहायो रविबुधसितसौरिसंयोगे ॥१९॥लुब्धः कविः प्रधानः कारुकनाथोsधिपश्च नीचानाम् ।आदित्यार्किसितार्यै राज्ञां जातो भवेदिष्टः ॥२०॥शास्त्रकुशलो नरेन्द्रः सुमहामन्त्रोsथवा महाबुद्धिः ।शशिकुजसोमजजीवैरेकस्थैर्यः पुमाञ्जातः ॥२१॥कलहरुचिर्निद्रालुर्नीचः स्याद्वर्धकीपतिः सुभगः ।बन्धुद्वेष्टा न सुखी शशिकुजबुधभार्गवैः सहितैः ॥२२॥शूरो विमातृपितृको दुष्कुलजो बहुकलत्रमित्रसुतः ।भवति सुकर्माभिरतः शशिकुजबुधसौरिसंयोगे ॥२३॥विकलाङ्गः सुकलत्रः सकलसहोsतीव मानसंयुक्तः ।प्राज्ञो बहुमित्रसुखः शशिकुजगुरुभार्गवैः सहितैः ॥२४॥बधिरो धनवाञ्शूरः सोन्मादो वाक्पटुः स्थिरप्रकृतिः ।मतिमानुदारचित्तो भौमेन्दुशनैश्चरसुरेज्यैः ॥२५॥कुलटापतिः प्रगल्भः सर्पाक्षो नित्यमेव सोद्वेगः ।जातः पुरुषोsवश्यं कुजेन्दुयमभार्गवैर्भवति ॥२६॥विद्वान्विमातृपितृकः सद्रूपो धनयुतोsतिसुभगश्च ।भवति नरो विगतारिर्बुधगुरुशशिभार्गवैः सहितैः ॥२७॥कृतधर्मकीर्तिरग्र्यस्तेजस्वी बन्धुवल्लभो मतिमान् ।नृपसचिवः प्रवरकविः शशिबुधजीवार्किभिः सहितैः ॥२८॥परदारगमनशीलो विशीलभार्यो विपन्नबन्धुश्च ।प्राज्ञो लोकद्विष्टः स्यादिन्दुबुधार्किभृगुपुत्रैः ॥२९॥मात्रा रहितः सुभगस्त्वग्दोषी दुःखितो भ्रमणशीलः ।बहुभाषी सत्यरतः शशिगुरुभृगुसौरिभिः सहितैः ॥३०॥स्त्रीकलहरुचिर्धनभाक्पूज्यो लोके च शीलसंपन्नः ।भवति पुमान्निरुजतनुर्बुधारगुरुभार्गवैः सहितैः ॥३१॥शूरो विद्वान्वाग्मी धनरहितः सत्यशौचसंपन्नः ।वादी द्वन्द्वसहिष्णुर्मतिमान्सहितैर्बुधारगुरुसौरैः ॥३२॥स्यान्मल्लः परपुष्टः कठिनाङ्गो युद्धदुर्मदः ख्यातः ।रमते च सारमेयैर्बुधारयमभार्गवैः सहितैः ॥३३॥तेजस्वी वित्तयुतः स्त्रीलोलः साहसप्रियश्चपलः ।भौमगुरुशुक्रसौरैरेकस्थैर्जायते कितवः ॥३४॥मेधावी श्राद्धरतो रामासक्तो विधेयभृत्यश्च ।बुधजीवशुक्रसौरैरेकस्थैस्तीव्रसंयोगे ॥३५॥इति कल्याणवर्मविरचितायां सारावल्यां चतुर्ग्रहयोगाध्यायः सप्तदशः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP