अष्टाविंशोsध्यायः ।
एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.
नैशान्धो बहुदोषी विरोधशीलः पराङ्गनाचोरः ।
वेश्यावनाद्रिचारी स्त्रीहेतोर्बन्धनं प्राप्तः ॥१॥
क्षुद्रः कठोरचोरश्चमूपुरश्रेणिवृन्दनाथश्च ।
मेषे स्याद्भृगुतनये नो विश्वासी प्रगल्भश्च ॥२॥
बहुयुवतिरत्नसहितः कृषीवलो गन्धमाल्यवस्त्रयुतः ।
गोकुलजीवी दाता स्वबन्धुभर्ता सुमूर्तिश्च ॥३॥
आढ्यस्त्वनेकविद्यो बहुप्रदः सत्वहितकारी ।
वृषभे गुणैः प्रधानः परोपकारी सिते भवति जातः ॥४॥
विज्ञानकलाशास्त्रः प्रथितः सततं सुमूर्तिगः कामी ।
आलेख्यलेख्यनिरतः काव्यकरः स्यात् प्रियः साधुः ॥५॥
धृतगीतनृत्तविभवः सुहृज्जनाढ्यः सुरद्विजानुरतः ।
संरूढस्नेहो वै मिथुनस्थे भार्गवे भवति ॥६॥
रतिधर्मरतः प्राज्ञो बली मृदुर्गुणवतां प्रधानश्च ।
आकाङ्क्षितैः सुखार्थैर्युक्तः प्रियदर्शनः सुनीतिश्च ॥७॥
योषित्पानप्रभवैर्व्याधिभिरधिकं प्रपीडितो मनुजः ।
शुक्रेकर्कटसंस्थे स्ववंशभवदोषसन्तप्तः ॥८॥
युवतिजनोपासनको लबधसुखद्रविणसम्प्रमोदश्च ।
लघुसत्वः प्रियबन्धुर्विचित्रसौख्यश्च दुःखी च ॥९॥
उपकारी च परेपां गुरुद्विजाचार्यसंमतो निरतः ।
सिंहस्थे भृगुतनये बुहुचिन्तास्वनाभियोगः स्यात् ॥१०॥
लघुचिन्तो मृदुनिपुणः परोपसेवी कलाविधिज्ञश्च ।
स्त्रीसम्भाषणमधुरः प्रणयनगणायार्थकृतयत्नः ॥११॥
नारीषु दुष्टरतिषु प्रणयी दीनो न सौख्यभोगयुतः ।
कन्यायां भृगुतनये तीर्थसभापण्डितो जातः ॥१२॥
श्रमलब्धधनः शूरो विचित्रमाल्याम्बरो विदेशरतः ।
नैपुणरक्षणकुशलः कर्मसु चपलः सुदुष्करेषु तथा ॥१३॥
आढ्यो रुचिरसुपुण्यो द्विजदेवार्चनविलब्धकीर्तिश्च ।
शुक्रे तुलाधरगते भवति पुमान् पण्डितः सुभगः ॥१४॥
विद्वेषरतिर्नृशंसो विमुक्तधर्मा विकत्थनोsतिथशठः ।
सहजविरक्तो धन्यो विपन्नशत्रुस्तथा पापः ॥१५॥
आर्यः कुलटाद्वेषी वधनिपुणो बह्वणो दरिद्रश्च ।
अलिनि सिते भवति पुमान् गर्हितशीलः सुगुह्यगदः ॥१६॥
सद्धर्मकर्मधनजैः फलैरुपेतो जगत्प्रियः कान्तः ।
आर्यः कुलब्धशब्दो विद्वान् गोमानलंकरिष्णुश्च ॥१७॥
सद्वित्तसारसुभगो नरेन्द्रमन्त्री सुचतुरोsपि ।
पीनोच्चतनुः पूज्यः सतां समूहस्य धनुषि कवौ ॥१८॥
व्ययभयपरिसन्तप्तो दुर्बलदेहो जराङ्गनासक्तः ।
हृद्रोगी धनलुब्धो लोभानृतवञ्चनो निपुणः ॥१९॥
क्लीबो विपन्नचेष्टः परार्थचेष्टः सुदुःखितो मूढः ।
मकरे दानवपूज्ये क्लेशसहो जायते पुरुषः ॥२०॥
उद्वेगरोगतप्तः कर्मसु विफलेषु सर्वदाभिरतः ।
परयुवतिगो विधर्मा गुरुभिः पुत्रैश्च कृतवैरः ॥२१॥
स्नानोपभोगभूषणवस्त्रादिनिराकृतो मलिनः ।
कुम्भधरे भृगुपुत्रे भवति पुमान्नात्र सन्देहः ॥२२॥
दाक्षिण्यदानवुणवान् महाधनोsधःकृतारिपक्षश्च ।
लोके ख्यातः श्रेष्ठो विशिष्टचेष्टो नृपतिदयितः ॥२३॥
वाग्बुद्धियुतोदारः सज्जनपरिलब्धविभवमानश्च ।
स्वादेयवचा मीने वंशधरो ज्ञानवान् शुक्रे ॥२४॥
स्त्रीहेतोर्दुःखार्तं युवतिनिमित्ताद्विनष्टधनसौख्यम् ।
कुजभवने रविदृष्टो जनयति शुक्रो नृपं प्राज्ञम् ॥२५॥
उद्वन्धनमतिचपलं कामातुरमधमयुवतिभर्तारम् ।
जनयति भृगोरपत्यं रजनीकरवीक्षितं कुजभे ॥२६॥
धनसौख्यमानरहितं परकर्मकरं मलिनचेष्टम् ।
जनयति रुधिरक्षेत्रे रुधिरेण निरीक्षितः शुक्रः ॥२७॥
मूर्खं धृष्टमनार्यं स्वबन्धुपरिवादकं विनयहीनम् ।
चोरं क्षुद्रं क्रूरं बुधदृष्टो भार्गवः कुरुते ॥२८॥
सुनयनमुदारदानं सुशरीरं व्यायतं बहुसुतं च ।
त्रिदशगुरुदृष्टमूर्तिर्जनयति रुधिरालये शुक्रः ॥२९॥
अतिमलिनमलसमटनस्वभिमतजनसेवकं कुरुते ।
भृगुतनयो रुधिरगृहे दिनकरपुत्रेण वीक्षितश्चोरम् ॥३०॥
॥ इति कुजभे दृष्टिः ॥
दिनकरदृष्टः शुक्रो वरजायाभोगिनं धनसमृद्धम् ।
जनयत्युत्तमपुरुषं स्त्रीहेतोर्निर्जितं स्वगृहे ॥३१॥
परमकुलीनापुत्रं सुखधनदानैः सुखैरुपेतं च ।
अत्यार्यमतिं कान्तं स्वगृहे चन्द्रेक्षितः शुक्रः ॥३२॥
दुःशीलाभर्तारं प्रमदाहेतोश्च नष्टगृहदारम् ।
जनयति भृगुनन्दकरो मदनवशं वक्रसन्दृष्टः ॥३३॥
कान्तं मधुरं सुभगं सुखधृतिमतिसंयुतं विपुलसत्वम् ।
जनयति बुधेन दृष्टः सर्वगुणसमन्वितं ख्यातम् ॥३४॥
प्रमदापुत्रगृहाणां भागिनमथ यानवाहनानां च ।
स्वर्क्षे गुरुसन्दृष्टः कुरुते भृगुरिष्टचेष्टानाम् ॥३५॥
स्वल्पसुखं स्वल्पधनं दुःशीलं वर्धकीपतिं चैव ।
सौरेक्षितस्तु जनयेत् व्याधितदेहं नरं शुक्रः ॥३६॥
॥ इति स्वगृहे दृष्टिः ॥
नृपजननीपत्नीनां कृत्यकरं पण्डितं धनिनम् ।
दिनकरदृष्टः शुक्रो जनयति सुखभागिनं बुधमे ॥३७॥
कृष्णनयनं सुकेशं शयनासनयानभागिनं कान्तम् ।
सुकुमारमिन्दुदृष्टो जनयति शुक्रो नरं सुभगम् ॥३८॥
कामपरमति च सुभगं युवतिकृते चार्थनाशनं कुरुते ।
वक्रेक्षितस्तु शुक्रो बुधभवनमुपाश्रितः प्रसवे ॥३९॥
प्राज्ञं मधुरं धनिनं वाहनपरिवारभागिनं सुभगम् ।
गणपतिमर्थेशं वा बुधदृष्टो भार्गवो बुधमे ॥४०॥
बुधभवनगतः शुक्रस्त्रिदशगुरुनिरीक्षितः कुरुते ।
अतिसुखमतीवदीनं प्रतिरूपकरं ज्ञमाचार्यम् ॥४१॥
दिनकरसुतेन दृष्टो बुधभवनगतोsतिदुःखिनं शुक्रः ।
जनयति खलु परिभूतं चपलं द्वेष्यं च मूर्खं च ॥४२॥
॥ इति बुधभवने दृष्टिः ॥
कर्मपरां शुद्धाङ्गीं नृपतिसुतां रोषणां धनोपेताम् ।
भार्यां ददाति शुक्रश्चन्द्रगृहे भानुसन्दृष्टः ॥४३॥
मातृसपत्नीजननं कन्यापूर्वप्रजं बहुसुतं च ।
सुखिनं सुभगं ललितं कुरुते चन्द्रेक्षितः शुक्रः ॥४४॥
सुकलाविदमत्याढ्यं स्त्रीहेतोर्दुःखितं सुभगम् ।
भौमेक्षितस्तु जनयेद्वृद्धिकरं बन्धुवर्गस्य ॥४५॥
पण्डितभार्यापतिकं बन्धुनिमित्तं च दुःखित नित्यम् ।
अतिसुखधनिनं प्राज्ञं करोति शशिभे बुधेक्षितः शुक्रः ॥४६॥
भृत्यैर्धनैश्च पुत्रैर्वाहनभोगैश्च बान्धवैर्मित्रैः ।
कुरुते नरमिह युक्तं नरपतिदयितं च गुरुदृष्टः ॥४७॥
स्त्रीनिर्जितं दरिद्रं पतितमरूपं तथैव चपलं च ।
जनयति सुखैर्विहीनं शशिभे शनिवीक्षितः शुक्रः ॥४८॥
॥ इति चन्द्रगृहे दृष्टिः ॥
सेर्ष्यं कन्यादयितं कामार्तं युवतिकारणं धनिनम् ।
भागिनमथ करभाणां जनयति सिंहे रवीक्षितः शुक्रः ॥४९॥
मातृसपत्नीजननं युवतिकृते दुःखितं विभववन्तम् ।
सिंहे नानामतिकं करोति चन्द्रेक्षितः शुक्रः ॥५०॥
नृपपुरुषं विख्यातं युवतिकृते वल्लभं धनसमृद्धम् ।
सुभगं परदाररतं सिंहे वक्रेक्षितः शुक्रः ॥५१॥
संग्रहनिरतं लुब्धं स्त्रेलोलं पारदारिकं शूरम् ।
शठमानृतिकं धनिनं सिंहे बुधवीक्षितः शुक्रः ॥५२॥
वाहनधनभृत्ययुतं बहुदारपरिग्रहं रविक्षेत्रे ।
कुरुते नरेन्द्रमन्त्रिणमिन्द्रगुरुनिरीक्षतः शुक्रः ॥५३॥
नृपतिं नृपतिप्रतिमं विख्यातं कोशवाहनसमृद्धम् ।
रण्डापतिं सुरूपं दुःखयुतं सौरसन्दृष्टः ॥५४॥
॥ इति सिंहे दृष्टिः ॥
अतिरौद्रमति च शूरं गुरुभे प्राज्ञं च धनिनमतिदयितम् ।
रविणा दृष्टो जनयति विदेशगमनं नरं शुक्रः ॥५५॥
ख्यातं नरेन्द्रपुरुषं भोगैरशनैः समन्वितं विपुलैः ।
कुरुते ह्यनुपमसारं गुरुभे चन्द्रेक्षितः शुक्रः ॥५६॥
अधिकद्वेष्यं स्त्रीणां विचित्रसुखदुःखमर्थवन्तं च ।
कुरुते गोधनमग्र्यं गुरुभे भौमेक्षितः शुक्रः ॥५७॥
आभरणभूषणानां भागिनमपि चान्नपानानाम् ।
बुधदृष्टो भृगुतनयः कुरुते गुरुभेsर्थवाहनसमृद्धम् ॥५८॥
गजतुरगतोधनाढ्यं बहुपुत्रकलत्रमतिसुखिनम् ।
गुरुणा दृष्टो गुरुभे जनयति शुक्रो महाविभवम् ॥५९॥
नित्यं च धनप्रायं सुखिनं भोगान्वितं धनसमृद्धम् ।
गुरुभवने शनिदृष्टः कुरुते शुक्रो नरं सुभगम् ॥६०॥
॥ इति गुरुभे दृष्टिः ॥
स्तिमितं वृषभं स्त्रीणां महाधनं सत्यसौख्यसंपन्नम् ।
सौरगृहे रविदृष्टः कुरुते शुक्रो नरं शूरम् ॥६१॥
ओजस्विनमतिशूरं स्वाढ्यं वपुषान्वितं सुभगम् ।
कुरुते शशिना दृष्टो रविजगृहे भार्गवः कान्तम् ॥६२॥
जायाविनाशकारणमनर्थबहुलं च रोगिणं शुक्रः ।
कुरुते श्रमाभितप्तं पश्चात्सुखिनं च कुजदृष्टः ॥६३॥
प्राज्ञं धनचयनिरतं निधानरुचिमतिशयेन विद्वांसम् ।
जनयति बुधेन दृष्टो भृगुतनयः सत्यसौख्यसम्पन्नम् ॥६४॥
प्रियवस्त्रमाल्यगन्धं सुकुमारं गीतवादितविधिज्ञम् ।
जनयति गुरुणा दृष्टो भृगुपुत्रः सत्कलत्रयुतम् ॥६५॥
सौरगृहे शनिदृष्टः शुक्रो नरवाहनार्थभोगयुतम् ।
मलिनं श्यामशरीरं सुरुचिरगात्रं महादेहम् ॥६६॥
॥ इति सौरगृहे दृष्टिः ॥
इति कल्याणवर्मविरचितायां सारावल्यां शुक्रचारो नामाष्ठाविंशोsध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP