संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| षट्चत्वारिंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । षट्चत्वारिंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली षट्चत्वारिंशोsध्यायः । Translation - भाषांतर शिखिजलशस्त्रज्वरजस्त्वामयतृट्क्षुत्कृतो भवेन्मृत्युः ।सूर्यादिभिर्निधनगैः परदेशपथिस्वके चराद्यैश्च ॥१॥यो बलयुक्तो निधनं पश्यति तद्धातुकोपजो मृत्युः ।तत्संयुक्तस्तनुजो बहुभिबलिभिर्बहुप्रकारः स्यात् ॥२॥सूर्याङ्गारकयोः खबन्धुगतयोः शैलाग्रपातोद्भवो मृतुर्भूतनयेन्दुभानुतनयैः कूपे खसप्ताम्बुगैः ।पापालोकितयोर्हिमोष्णकरयोः कन्यास्थयोर्बन्धतो लग्ने सूर्यशशाङ्कयोस्तिमियुगे तोये सदा मज्जतः ॥३॥कर्किणि मन्दे मकरे चन्द्रे मृत्युर्दरोदरकृतः स्यात् ।पापांशस्थे चन्द्रे कुजभवने शस्त्रवह्निभवः ॥४॥कन्यायां पद्मिनीशत्रुः पापमध्यगतः सदा ।रक्तोत्थशोषजं मृत्युं करोति ध्रुवमेव हि ॥५॥सौरर्क्षे शुभयोर्मध्ये शशी रज्वग्निपातजम् ।कुर्यान्मृत्युं न सन्देहश्चाणक्यवचनं तथा ॥६॥नवमसुतयोरशुभयोः पापग्रहदृष्टयोर्भवेन्मृत्युः ।द्रेक्काणैः पाशभुजगनिगलैश्छिद्रेsथवा गुप्त्याम् ॥७॥मीनोदये दिनकरे चन्द्रे पापान्वितेsस्तगे मेषे ।स्त्रीहेतुकं हि मरणं स्वमन्दिरे स्याद्वदन्त्येके ॥८॥रुधिरे सुखेsथवार्के वियति यमे क्षीणचन्द्रसंयुक्तैः ।पापैस्त्रिकोणलग्ने शूलप्रोतस्य निर्दिशेन्मरणम् ॥९॥हिबुकेsर्के वियति कुजे क्षीणेन्दुयुतेsर्कजेन संदृष्टे ।काष्ठेनाभिहतः सन्म्रियते जातो न सन्देहः ॥१०॥क्षीणेन्दुभौमरविचन्द्रजसूर्यपुत्रैः छिद्रास्पदोदयसुखैर्लगुडाहतस्य ।मृत्युर्वियन्नवमलग्नसुतस्थितैस्तै -र्धूमाग्निबन्धनशरीरनिकुट्टनैः स्यात् ॥११॥हिबुकास्तकर्मसहितैः कुजभानुशनैश्वरेर्भवति मृत्युः ।आयुधहुतभुग्भूपतिकोपप्रभवः सदा पुंसाम् ॥१२॥अर्माम्बुवित्तसंस्थैः कुजेन्दुमन्दैः क्षतः क्रिमिकृतोsन्तः ।खस्थेsर्केन्दुकुजे वा सुराप्रपानप्रतापकृतः ॥१३॥सप्तमभवने भौमे क्षीणे न्दुदिवाकरार्किभिर्लग्ने ।मरणं जातस्य वदेद्यन्त्रोत्पीडनभवमवश्यम् ॥१४॥तुलायां रुधिरे याते कुजर्क्षे भास्करे स्थिते ।चन्द्रे मन्दगृहं प्राप्ते विण्मध्ये मरणं भवेत् ॥१५॥गलितेन्द्वर्कभूपुत्रैर्गतैर्व्योमाष्टबन्धुषु ।विण्मध्ये तु भवेन्मृत्युः सिद्धसेनः प्रभाषते ॥१६॥बलिना कुजेन दृष्टे क्षीणेन्दौ रन्ध्रगेsर्कजे मृत्युः ।गुल्ममहावेदनया क्रिमिदाहायुधकृतो भवति ॥१७॥रवौ सरुधिरे द्यूने निधने रविसंभवे ।रसातलस्थे हिमगौ मृत्युः पक्षिकृतो भवेत् ॥१८॥लग्नछिद्रत्रिकोणेषु रव्यारार्किनिशाकरैः ।मृत्युः स्याच्छैलपातेन शस्त्रकुड्यादिपाशजः ॥१९॥उदयनवांशाधिपतेः समानभूमौ वदन्ति यवनेन्द्राः ।ग्रहयोगेक्षणकाद्यैः परिकल्प्यं चान्यदपि तज्ज्ञैः ॥२०॥उदितांशसमो मोहः शेषेण निरीक्षिते द्विगुणितः स्यात् ।त्रिगुणः शुभैश्च दृष्टे समस्तमुनयो व्यवस्यन्ति ॥२१॥उदयाद्वाविंशतिमद्रेक्काणो भवति कारणं मृत्योः ।तस्याधिपतिभवो वा निर्याणं सूचयेत्स्वगुणैः ॥२२॥मेषाद्ये द्रेक्काणे क्रूरग्रहवीक्षिते च संयुक्ते ।अम्ब्वहिविषपित्तकृतं मरणं नॄणां समादेश्यम् ॥२३॥विद्याद्वितीयभागे मरणं जलकृतिहिमारण्यैः ।एवं तृतीयभागे तटाककृपप्रपाताद्वा ॥२४॥करभाश्वखरोष्ट्रेभ्यो मृत्युर्ज्ञेयो वृषस्याद्ये ।पित्ताग्निवातचोराद्वितीयभागे वृषस्यैव ॥२५॥विद्यात्तृतीयभागे यानासनवाजिपातकृतम् ।पुंसां भवति हि मरणं रणशिरै महास्त्रकृतमेव ॥२६॥आद्ये मिथुनत्र्यंशे कासश्वासोद्भवो भवति ।मृत्युर्महिषविषाद्याद्द्वितीयभागे च संनिपाताद्वा ॥२७॥वनवासिचतुश्चरणात्पर्वतनागाद्गणात्तथारण्यात् ।भवति हि मृत्युः पुंसामन्ते भागे तु जुतुमस्य ॥२८॥ग्राहेण मद्यपानात्कण्टकदोषेण वा तथा स्वप्नात् ।भवति हि कर्कटकाद्ये मृत्युर्नॄणां तृतीयभागे तु ॥२९॥अभिघाताद्विषपानान्मध्ये त्र्यंशे भयं समादिष्टम् ।विहगप्रमेहगुल्मासृक्तन्द्रीदोषेण च तथान्त्ये ॥३०॥सलिलविषपादरोगात्सिंहाद्ये त्र्यंशके भवेत्पुंसाम् ।मध्ये तृतीयभागे जलामयकृतो वनोद्देशे ॥३१॥विषयस्त्रयोगदोषैरभिशापाद्वा तथा च पाताद्वा ।अन्त्ये सिंहत्र्यंशे भवति हि मृत्युर्न सन्देहः ॥३२॥आद्ये कन्यात्र्यंशे मस्तकरोगात्तथानिलान्मृत्युः ।व्यालगिरिदुर्गवनजो मध्ये भूपात्मजादथवा ॥३३॥करभखरशस्त्रतोयादतिखातात्स्त्रीकृतान्नपानाद्वा ।अन्त्ये कन्यात्र्यंशे नॄणां मृत्युः सदा दृष्टः ॥३४॥आद्ये वणिक्त्रिभागे युवतिचतुष्पान्निपातदोषेण ।मध्ये तु जठररोगैरन्त्ये व्यालाम्बुजातेभ्यः ॥३५॥आद्येsलिनस्त्रिभागे विषशस्त्रस्त्रीकृतान्नपानभवः ।मध्ये तु वस्त्रभारस्रंसनरोगैर्भवति मृत्युः ॥३६॥अन्त्ये तृतीयभागे लोष्टकपाषाणजनितवेदनया ।भवति हि मरणं ह्यथवा नॄणां जङ्घास्तिभङ्गकृतम् ॥३७॥चापस्याद्ये त्र्यंशे गुदानिलसमुद्भवैर्विविधरोगैः ।मध्ये विषगुरुदोषैरनिलकृतैर्वा भवेन्मृत्युः ॥३८॥अन्त्ये तृतीयभागे जलमध्ये तत्समुत्थितैर्वाsपि ।मृत्युर्नॄणां दृष्टो जठरामयदोषसंभूतः ॥३९॥मकराद्ये द्रेक्काणे नृपहिंसाव्याघ्रकारणान्मृत्युः ।ऊरुविनाशादथवा जलचरसत्वाद्विषैकशफसर्पात् ॥४०॥दहनास्त्रतस्करेभ्यो ज्वरादमानुषविभेदनान्मध्ये ।अन्त्ये मकरत्र्यंशे स्त्रीणां मृत्युः सदा दृष्टः ॥४१॥कुम्भे प्रथमत्र्यंशे स्त्रीभ्यस्तोयैस्तथा जठररोगैः । ज्ञेयो मृत्युर्नॄणां पर्वतगहनद्विपादेर्वा ॥४२॥मध्ये स्त्रीकृतदुःखैर्गुह्यजरोगैर्भवति मृत्युः ।अन्त्ये मिथुनचतुष्पदमुखरोगकृतैर्भवेत्पुंसाम् ॥४३॥अंशे मीनयुगाद्ये गुल्मग्रहणीप्रमेहयुवतीभ्यः ।जङ्घाजलजै रोगैर्गजग्रहकृतैः समादिशेन्मृत्युम् ॥४४॥नौभेदाज्जलमध्ये झषे दृगाणद्वितीयजातानाम् ।अन्त्ये भवति हि मरणं कुत्सितरोगैर्न सन्देहः ॥४५॥इति कल्याणवर्मविरचितायां सारावल्यां निर्याणफलं नाम षट्चत्वारिंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP