संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|सारावली| द्वात्रिंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । द्वात्रिंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली द्वात्रिंशोsध्यायः । Translation - भाषांतर सर्वमपहाय चिन्त्यं भाग्यर्क्षं प्राणिनां विशेषेण ।भाग्यं विना न जन्तुर्यस्मात्तद्यत्नतो वक्ष्ये ॥१॥लग्नान्निशाकराद्वा यन्नवमं तद्गृहं भवेद्भाग्यम् ।अनयोर्यो बलयुक्तो भाग्यगृहं चिन्तयेदस्मात् ॥२॥भाग्यर्क्षपतिः कस्मिन्नेको भाग्यर्क्षमाश्रितो विहगः ।बलवान्मन्दबलो वा तस्याधिपतेस्तु कारको ज्ञेयः ॥३॥स्वस्वामिदृष्टयुक्तं स्वदेशफलदायकं मुनिभिरुक्तम् ।अन्येन सहितदृष्टं परदेशफलप्रदं भवति भाग्यम् ॥४॥दुश्चिक्यगतो भाग्यं पञ्चमभवनस्थितो ग्रहः पश्येत् ।होरागतश्च बलवान् येषां ते मानवाः श्रेष्ठाः ॥५॥देवगुरौ भाग्यस्थे मन्त्री रविवीक्षिते नृपतितुल्यः ।भोगी कान्तः शशिना काञ्चनभा भवति भौमेन ॥६॥सौम्येन धनी ज्ञेयः सितेन गोवाहनार्थसंयुक्तः ।सौरेण स्थावरभाक् दृष्टे खरमहिषसंयुक्तः ॥७॥ऐश्वर्यरत्नकाञ्चनसाहसभागुत्तमश्च वीर्येण ।रविरुधिराभ्यां दृष्टे वाहनपरिवारवान्पुरुषः ॥८॥चन्द्रार्काभ्याः दृष्टे सुसमृद्धो वल्लभः पितृजनन्योः ।ख्यातो नरेन्द्रतुल्यो बहुदारसमन्वितः पुरुषः ॥९॥ललितः कान्तः सुभगो वरयुवतिविभूषणार्थसम्पन्नः ।बुधसूर्याभ्यां दृष्टे काव्यकलापण्डितः प्राज्ञः ॥१०॥उत्सवसमाजशीलो गोमहिषाजवरवारणोपेतः ।रविसितदृष्टो जीवे भाग्यस्थे स्याद्विनीतश्च ॥११॥अर्कार्किभ्यां दृष्टे देशपुरश्रेणिनायकः ख्यातः ।प्राज्ञो गुणवान्सधनो निधिनाथः संग्रहणशीलः ॥१२॥सेनाचार्यः स्फीतो मन्त्री वा जायते गुरौ भाग्ये ।दृष्टे कुजचन्द्राभ्यां नानाविधसौख्यभाजनं सुभगः ॥१३॥उत्तमगृहशयनानां भोगी तेजोन्वितः क्षमाप्रतिमः ।चन्द्रबुधाभ्यां दृष्टे जातः पुरुषोsतिमतियुक्तः ॥१४॥आढ्यः कर्मोद्युक्तः शूरः परदारवान् सुतविहीनः ।इन्दुसिताभ्यां दृष्टे भाग्यगृहे स्याद्गुरौ जातः ॥१५॥मदबहुलः स्थिरजीवी परदेशरतो विवादशीलः स्यात् ।अनृतवचनो गुणोनः शशियमदृष्टे गुरौ भाग्ये ॥१६॥सुप्राज्ञोsतिसुशीलः सुगुणो विद्वान्गृहीतवाक्यश्च ।सुरुचिरवेषो जीवे कुजबुधदृष्टे भवेद्भाग्ये ॥१७॥धनवान्विद्यायुक्तो विदेशगः सात्विकोsतिनिपुणश्च ।क्षितितनयभार्गवाभ्यां दृष्टे क्रूरो नरो जातः ॥१८॥नीचः पिशुनो द्वेष्यो विदेशगश्चलजनैः समायुक्तः ।भौमार्किभ्यां दृष्टे भाग्यगृहे सुरगुरौ जातः ॥१९॥शिल्पज्ञोsतिसुशीलो विद्वान्सुभगो गृहीतवाक्यश्च ।सुरुचिरवेषो जीवे बुधसितदृष्टे भवेद्भाग्ये ॥२०॥सुभगो विद्वान्वक्ता ललितः शूरः सुखी विनीतश्च ।जीवे भाग्योपगते बुधार्किदृष्टे पुमान्भवति ॥२१॥देवगुरौ भाग्यस्थे काव्यार्कजवीक्षिते पुमान्भवति ।राजेश्वरराष्ट्राणां पुरोगमो धनसमृद्धश्च ॥२२॥राश्यधिपेन च दृष्टे जीवे भाग्याश्रिते नृणां ज्ञेयम् ।एभिः कथितैर्दृष्टे फलमिदमन्यैरसन्दृष्टे ॥२३॥उत्तमरूपो गुणवान् तेजस्वी पार्थिवो महाविभवः ।देवगुरौ भाग्यस्थे सर्वग्रहवीक्षिते भवति ॥२४॥भाग्ये शुभगगनसदो बलिनो राज्यप्रदास्तु विज्ञेयाः ।स्थावरधनधान्यकरा धर्मायुर्वर्धनाश्चैव ॥२५॥नीचारिराशिसंस्थाः पापा भाग्ये न सौम्यसंदृष्टाः ।दुर्बलमधनं कुर्युर्विगतख्यातिं नरं मलिनम् ॥२६॥स्वे स्वे भवने पुंसां क्रूरा भाग्यर्क्षसंस्थिता ये स्युः ।ज्ञेयास्त उत्तमशुभा बहुतरगुणसंयुताः शुभैर्दृष्टाः ॥२७॥पूर्णेन्द्रुयुते भाग्ये वक्रार्किबुधाः प्रधानविर्याश्च ।व्यस्ता वाsथ समस्ताः प्रधाननृपसंभवो ज्ञेयः ॥२८॥सकलगगनगेहाः स्वोच्चगा भाग्यराशौधनकनकसमृद्धं श्रेष्ठमुत्पादयन्ति ।अथ शुभविहगेन्द्रैस्तत्र दृष्टे नरेन्द्रं विनितहरिपुपक्षं दिव्यकांतिं सुकीर्तिम् ॥२९॥सूर्यश्चन्द्रसहायो भाग्ये स्वल्पायुषं नरं कुरुते ।नयनव्याधितमाढ्यं सुभगं कलहप्रियं चापि ॥३०॥भानुर्वक्रसमेतो नानादुःखान्वितं नरं कुरुते ।कलहप्रियं प्रचण्डं शूरं नृपवल्लभं निपुणम् ॥३१॥रविसहितः शशितनयो निपुणं दुःखान्वितं बहुविपक्षम् ।जनयति भाग्ये पुरुषं नानारोगैः परिगृहीतम् ॥३२॥सुरगुरुसहितः सूर्यो भाग्ये कुर्याद्धनान्वितं पुरुषम् ।पितरं च धनसमृद्धं दीर्घायुषमार्यमतिशूरम् ॥३३॥शुक्रसहायः सूर्यो व्याधितदेहं नरं कुरुते ।प्रियगन्धमाल्यभूषणवस्त्रालङ्कारसंयुतं भाग्ये ॥३४॥सूर्यः सौरसहायो धनिनं नेत्रातुरं कलहनिष्ठम् ।व्याधितपितरं कुरुते भाग्ये स्वल्पायुषं पुरुषम् ॥३५॥चन्द्रो रुधिरसहायो भाग्यं समुपेत्य मातरं हन्यात् ।कुर्याच्च विकलगात्रं सव्रणदेहं समृद्धं च ॥३६॥चन्द्रः स्वसुतसमेतः शास्त्रज्ञं पण्डितं विकलदेहम् ।जनयत्युत्तमपुरुषं बहुवाचं विश्रुतं चैव ॥३७॥सुरगुरुसहिते चन्द्रे भाग्ये प्रवरः प्रसूयते पुरुषः ।सौभाग्यधनसमृद्धः सर्वत्र सुखान्वितो धीरः ॥३८॥चन्द्रो भार्गवसहितो भाग्यगृहे व्याधितं नरं कुरुते ।कुलटापतिं समृद्धं मातृसपत्नीप्रदं सचिववश्यम् ॥३९॥रविसुतसहितश्चन्द्रो नवमे राशौ विकृतधर्माणम् ।जनयति मनुजं पापं माता च कुलच्युता भवति ॥४०॥रुधिरः सोमजसहितो भाग्यर्क्षे जनयति प्रधानं च ।नित्योद्विग्नं सुभगं भोगयुतं शास्त्रकुशलं च ॥४१॥भौमः सुरगुरुयुक्तो भाग्ये धनधान्यभागिनं पुरुषम् ।पूज्यव्याधितदेहं क्लिष्टं व्रणदीक्षितं प्रसवे ॥४२॥भार्गवसहितः क्षितिजः परदेशरतं विवादिनं क्रूरम् ।स्त्रीद्वेषिणं कृतघ्नं जनयति मिथ्याप्रधानं च ॥४३॥पापं मलिनाचारं परदाररतं विनष्टधनसौख्यम् ।कुजरविजौ भाग्यगृहे स्वजनविहीनं नरं कुरुते ॥४४॥सौम्यः सुरगुरुसहितः शास्त्रज्ञं पण्डितं धनसमृद्धम् ।प्रियवादिनं कलाज्ञं प्रभविष्णुमहत्तरं भाग्ये ॥४५॥भृगुसुतसहितः सौम्यः ख्यातं च सुपण्डितं धीरम् ।सुभगं वचनसमर्थं जनयति नीतिप्रियं भाग्ये ॥४६॥सूर्यजसहितः सौम्यो व्याधितमाढ्यं प्रियान्वितं निपुणम् ।जनयति भाग्ये पुरुषं सद्वेष्यं बहुकथं चैव ॥४७॥शुक्रः सुरगुरुसहितो भाग्यगृहस्थो नराधिपं कुरुते ।चिरजीविनं सुवाक्यं नानाविधसौख्यसम्पन्नम् ॥४८॥जीवः सौरसहायो भाग्ये धनरत्नभागिनं कुरुते ।पूज्यं व्याधितदेहं स्वजनविहीनं सदा पुरुषम् ॥४९॥सौरसहायः शुक्रो व्याधितदेहं नरं कुरुते ।बहुपुत्रं नृपतीष्टं यशस्विनं शीलसम्पन्नम् ॥५०॥एवं स्थानविशेषैर्दृष्टिविशेषैश्च निपुणमधिगम्य ।ब्रूयात्फलनिर्देशं शास्त्रादनुरूपतः प्राज्ञः ॥५१॥सव्रणगात्रं रूक्षं मृतपितरं मातृवर्जितं कुर्युः ।बाल्ये क्षुद्रं द्वेष्यं हिंस्रं शशिरुधिरभानवो भाग्ये ॥५२॥रविचन्द्रबुधा भाग्ये क्लीबाकारं सदुःखितं कुर्युः ।सर्वजनानां द्वेष्यं विक्रान्तं सत्यवचनं च ॥५३॥चन्द्रदिवाकरगुरवो नवमे पुरुषस्य सम्भवे यस्य ।स भवत्युत्तमपुरुषो वाहनधन्सौख्यसम्पन्नः ॥५४॥रविचन्द्रसिता नवमे स्त्रीकलहैर्नष्टसर्वधनसौख्यम् ।नृपसंमतं नयज्ञं जनयन्ति नरं प्रियालापम् ॥५५॥सूर्यनिशाकरसौरा नवमे राशौ नरं सदा कुर्युः ।प्रबलं चण्डाचारं परभृत्यं लोकविद्विष्टम् ॥५६॥रविभौमबुधा नवमे कुर्वनित नरं प्रियालापम् ।भुजगमिवातिक्रुद्धं समरपरं निष्ठुरं प्रवासतरम् ॥५७॥रविगुरुवक्रा नवमे यनयन्ति नरं सदोद्युक्तम् ।देवपितृपूजनरतं समृद्धदारं गुणोपेतम् ॥५८॥कलहप्रियं कुलीनं कन्यानां दूषकं च चपलं च ।दिवसकरवक्रशुक्रानवमे द्वेष्यं नरं कुर्युः ॥५९॥साहसिकमतिक्षुद्रं लोकद्वेष्यं प्रियानृतं क्रूरम् ।पित्रा रहितं बाल्ये कुर्युर्वक्रार्किभानवो नवमे ॥६०॥रविबुधगुरवो नवमे भाग्यसमेतं धनान्वितं सुभगम् ।नृपतिप्रियं सुवेषं जनयन्ति नरं सुधीरं च ॥६१॥रविबुधशुक्रा भाग्ये जनयन्ति नरं प्रकाशिनं कान्तम् ।रिपुपक्षपरिक्षीणं नृपतिसमं सारवन्तं च ॥६२॥परदाररतं पापं प्रवासशीलं च निपु७णमतिधृष्टम् ।आनृतिकमदैवपरं रविबुधसौरा नरं भाग्ये ॥६३॥भाग्यगृहे रविशुक्रौ जीवश्च नरं सुपण्डितं कान्तम् ।बहुविषयपतिं वीरं जनयन्ति सुमेधसं प्राज्ञम् ॥६४॥त्रिदशगुरुसौरसूर्या नवमे यस्येह जायमानस्य ।स भवेदुत्तमवीर्यो राजा धनवान्गुणैः समृद्धश्च ॥६५॥कान्तिविहीनं मलिनं भूपतिपरिदण्डितं विभवहीनम् ।जनयन्ति नरं भाग्ये रविशुक्रशनैश्चरा मूर्खम् ॥६६॥धनकनकरत्नभाजं जनयन्ति शशिज्ञभूमिजाः पुरुषम् ।प्रथमे वयसि च तप्तं भाग्यगृहे सर्वनाशेन ॥६७॥भौमनिशाकरजीवाः कुर्वन्ति नरं जितेन्द्रियं प्राज्ञम् ।गुरुदेवभक्तिनिरतं विद्याधनभागिनं सुभगम् ॥६८॥व्रणितांगमरूपं वा प्रभेदिनं स्त्रीप्रियं युवतिवश्यम् ।युवतिविनाशितसारं भृगुशशिवक्रा नरं नवमे ॥७०॥गुरुबुधचन्द्रा नवमे कुलवंशविवर्धनं कुर्युः ।आचार्यं बहुमित्रं नृपतिं बहुसाधनोपेतम् ॥७१॥मातृसपत्नीजनकं प्रमुदितमानान्वितं प्रचुरमित्रम् ।कुर्वन्ति सामशीलं भृगुबुधचन्द्रा नरं भाग्ये ॥७२॥शशिबुधसौरा नवमे क्रूराचारं सुविक्रमं मलिनम् ।जनयन्ति कुत्सितधियं संग्रामपराङ्मुखं दीनम् ॥७३॥चन्द्रबृहस्पतिशुक्रा नवमे यस्येह जायमानस्य ।स भवति महीपतुल्यो नृपतिकुले भूपतिश्चैव ॥७४॥शशिगुरुसौरा नवमे क्रुवन्ति नरं प्रियालापम् ।सत्यव्रतं सुशीलं विख्यातं सर्वशास्त्रकुशलं च ॥७५॥शुक्रेन्दुयमा नवमे कृषिवृत्तिं योनिपोषणानुरतम् ।कुर्युर्मनुजमपापं नृपकृत्यं लोकविख्यातम् ॥७६॥तेजस्विनं विशोकं विद्वांसं वाक्स्थिरं विशिष्टं वा ।कुजबुधजीवा नवमे कुर्वन्ति च मण्डलाधिपतिम् ॥७७॥बहुविषयपतिं ख्यातं नरेन्द्रसत्कारसत्कृतं चण्डम् ।कुजबुधशुक्रा भाग्ये कुर्वन्ति नरं सतां सत्यम् ॥७८॥परवञ्चनासु निपुणं तमोधिकं सर्वशास्त्रमतिबाह्यम् ।बुधभैमयमा नवमे कुर्युः परतर्कसंमूढम् ॥७९॥बुधगुरुशुक्रा भाग्ये जनयन्ति नरं सुरोपमं विशदम् ।विख्यातं नरनाथं विद्वांसं धर्मशीलं च ॥८०॥शुक्रशनैश्चरशशिजा नवमस्था जातकं प्रकुर्वन्ति ।मेधाविनं प्रकाशं सुरुचिरवाक्यं सुखोपेतम् ॥८१॥शनिशुक्रामरगुरवो भाग्यगृहस्था नरं प्रकुर्वन्ति ।प्रचुरान्नपानविभवं सुभगं सुखितं सुरूपं च ॥८२॥रविचन्द्रभौमशशिजा जन्मनि भाग्यर्क्षगा नरं कुर्युः ।धनिनं विद्याकुशलं सुभगं नृपसंमतं चैव ॥८३॥शुक्रेन्द्रुभौमरवयो मायाचतुरं स्वदारसन्तुष्टम् ।जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम् ॥८४॥शशिसुरगुरुबुधरवयो जन्मनि भाग्यर्क्षमाश्रिताः कुर्युः ।पुरुषं प्रधानमचलं नरेन्द्रपूज्यं तथा दृष्टम् ॥८५॥चन्द्रबुधशुक्ररवयो धनेश्वरं धार्मिकं समृद्धं च ।जनयन्ति नवमसंस्थाः पुरुषं प्रियवादिनं शान्तम् ॥८६॥तरणिबुधचन्द्रसौरा जन्मनि नवमाश्रिता नरं कुर्युः ।...............................................................----- ॥८७॥रविगुरुबुधभूतनया जन्मनि नवमे नरं प्रकुर्वन्ति ।देवपितृपूजनपरं समृद्धदारं गुणोपेतम् ॥८८॥शुक्रज्ञभौमसूर्या नवमे जनयन्ति निष्ठुरं सुभगम् ।साहसनिरतं विधनं रिपुपक्षक्षपितविभवं च ॥८९॥रविसौरिचान्द्रिभौमा नवमे यस्येह जायमानस्य ।स भवति परदाररतो विनष्टकोशः सदा दीनः ॥९०॥शुक्रगुरुभौमरवयो लोके द्वेष्यं पिपासार्तम् ।जनयन्ति नवमसंस्थाः कन्यानां दूषकं चपलचित्तम् ॥९१॥गुरुभौमसौरसूर्या नवमे सुखवर्जितं सदोद्युक्तम् ।जनयन्ति नरं चण्डं विक्रमयुक्तं महासत्वम् ॥९२॥रविबुधजीवसिताः स्युर्नवमे यस्येह जायमानस्य ।स भवत्युत्तमपुरुषो धनकनकैश्चर्यसम्पन्नः ॥९३॥भानुजरविबुधगुरवो नवमे जनयन्ति मानवं निधनम् ।पापं परदाररतं विद्विष्टं नीचकर्माणम् ॥९४॥बुधरविजरविसिताः स्युर्भाग्यस्थाने नरं सुभगम् ।जनयन्ति धनसमेतं सत्यरतं लोकविख्यातम् ॥९५॥रविगुरुसितभानुसुता जन्मनि नवमर्क्षगा नरं कुर्युः ।सत्यव्रतं सुवाक्यं गुरुद्विजातिथिषु भक्तम् ॥९६॥चन्द्रज्ञकुजसुरेज्या जनयन्ति नरं परिच्छदसमृद्धम् ।बाल्ये मातृवियुक्तं धनान्वितं संस्थिता भाग्ये ॥९७॥भौमसितशशिजचन्द्रा भाग्ये जनयन्ति तापसं ख्यातम् ।वाग्ग्मिनमतिदातारं परलोकपरं महाप्राज्ञम् ॥९८॥रविबुधचन्द्रभौमा जनयन्ति नरं पराङ्मुखं दीनम् ।क्षुद्रं मायाचतुरं परदाररतं स्थिता भाग्ये ॥९९॥भौमेन्दुशुक्रजीवा नृपवंशकरं प्रधानमतिशूरम् ।विद्याधनसुसमृद्धं विख्यातं लोकसंमतं चैव ॥१००॥शशिवक्रार्किसुरेज्या जनयन्ति नरं पिपासार्तम् ।कलहप्रियं च नवमे सौभाग्यपरिच्छादातीतम् ॥१०१॥चन्द्रारभानुजसिता नवमे जनयन्ति निष्ठुरं पापम् ।मायाविनं च पुरुषं शौचाचारैर्विहीनं च ॥१०२॥सितगुरुशशिजशशाङ्का जन्मनि भाग्यर्क्षमाश्रिता धनिनम् ।जनयन्ति धर्मसक्तं नरं कलासु प्रसिद्धं च ॥१०३॥प्राज्ञं नृपतिं कुलजं प्रधानमतिवित्तसंयुतं कान्तम् ।सौम्येन्दुशुक्रजीवा जनयन्ति नरं तु विख्यातम् ॥गुरुसौम्यशुक्रचन्द्रा भाग्ये युक्ताः प्रजायमानस्य ।यस्य स भाग्ये युक्तो लोके पुरुषोत्तमो ज्ञेयः ॥भानुजबुधगुरुचन्द्रा जनयन्ति नरं परं सुनयम् ।भाग्यस्थिताः समृद्धं नीतिज्ञं चारुवेषं च ॥१०४॥शनिशुक्रबुधशशाङ्का जन्मनि भाग्यस्थिता नरं कुर्युः ।मेधाविनं प्रचण्डं जननीतिविशारदं धन्यम् ॥१०५॥चन्द्रशनिशुक्रजीवा जन्मनि नवमस्थिताः प्रकुर्वन्ति ।मायाविनं प्रचण्डं नरेष्वजेयं नरं धीरम् ॥१०६॥भौमज्ञसूरिशनयो नवमस्थानोपगा नरं कुर्युः ।रिपुपक्षपरिक्षीणं रणप्रचण्डं सुधीरं च ॥१०७॥भौमज्ञशुक्रशनयः कुर्वंति दशानुगतं सुशीलं च ।जनयन्ति नवमसंस्था धनयुक्तं भक्तियुक्तं च ॥१०८॥भौमभृगुजीवरविजा जनयन्ति नरं धनैः परित्यक्तम् ।क्षुद्रं दयाविरहितं विहीनसत्वं स्थिता भाग्ये ॥१०९॥त्रिचतुःपञ्चखगेन्द्रास्तथा च षट् सप्त संस्थिता भाग्ये ।प्रात्ययिकं धनवन्तं कुर्युर्नृपतिं च बुधसहिताः ॥११०॥जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहाः पुरुषम् ।व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम् ॥१११॥उक्तं बहुप्रकारं भाग्यगृहे बादरायणादिकृतम् ।ग्रहयोगेक्षणभावैर्विचिन्त्य बुद्ध्या वदेदन्यत् ॥११२॥इति कल्याणवर्मविरचितायां सारावल्यां भाग्यचिन्तानाम द्वात्रिंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP