संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
अष्टमोsध्यायः ।

अष्टमोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


राश्यादिफलविभागः कस्य विधेयो विना समुत्पत्तेः ।
आधानमथो वक्ष्ये कारणभूतं समस्तजन्तूनाम् ॥१॥
अनुपचयराशिसंस्थे कुमुदाकरबान्धवे रुधिरदृष्टे ।
प्रतिमासं युवतीनां भवतीह रजो ब्रुवन्त्येके ॥२॥
इन्दुर्जलं कुजोsग्निर्जलमसृगथवाग्निरेव पित्तं स्यात् ।
एवं रक्ते हीने पित्तेन रजः प्रवर्तते स्त्रीषु ॥३॥
एवं यद्भवति रजो गर्भस्य निमित्तमेव कथितं तत् ।
उपचयसंस्थे विपुलं प्रतिमासं दर्शनं तस्य ॥४॥
उपचयभवने शशभृद्दृष्टो गुरुणा सुहृद्भिरथवासौ ।
पुंसा करोति योगं विशेषतः शुक्रसंदृष्टः ॥५॥
चन्द्रे कुजेन दृष्टे पुष्पवती सह विटेन संयोगम् ।
राजपुरुषेण रविणा रविजेनाप्नोति भृत्येन ॥६॥
एकैकेन फलं स्याद्दृष्टे नान्यैः कुजादिभिः पापैः ।
सर्वैः स्वगृहं त्यक्त्वा गच्छति वेश्यापदं युवतिः ॥७॥
द्विपदादयो विलग्नात्सुरतं कुर्वन्ति सप्तमे यद्वत् ।
तद्वत्स्त्रीपुरुषाणां गर्भाधाने समादेश्यम् ॥८॥
अस्तेsशुभयुतद्दष्टे सरोषकलहं भवेद्ग्राम्यम् ।
सौम्यं सौम्यैः सुरतं वात्स्यायनसंप्रयोगिकाख्यातम् ॥९॥
तत्र शुभाशुभमिश्रैः कर्मभिरधिवासिता विषयवृत्तिः ।
गर्भावासे निपतति संयोगे शुक्रशोणितयोः ॥१०॥
उपचयगौ रविशुक्रौ बलिनौ पुंसः समांशसंप्राप्तौ ।
युवतेर्वा कुजचन्द्रौ यदा तदा गर्भसंभवो भवति ॥११॥
शुक्रार्कभौमशशिभिः स्वांशोपचयस्थितैः सुरेड्ये वा ।
धर्मोदयात्मजस्थे बलवति गर्भस्य संभवो भवति ॥१२॥
मिथुनस्य मनोभावो यादृङ्मदलालसं भवति ।
श्लेष्मादिभिः स्वदोषैस्तत्तुल्यगुणो निषिक्तः स्यात् ॥१३॥
विषमे विषमांशगता होराशशिजीवभास्करा बलिनः ।
कुर्वन्ति जन्म पुंसां समासमांशे युवतिनरजन्म ॥१४॥
ओजर्क्षे गुरुसूर्यौ बलिनौ पुंसः समे सितेन्दुकुजाः ।
कन्यानां जन्मकरा गर्भाधाने स्थिता बलिनः ॥१५॥
मिथुने चापेsर्कगुरू बुधदृष्टौ दारकद्वयं कुरुतः ।
स्त्रीयुग्मं कन्यायां सितशशिभौमा झषे च बुधदृष्टाः ॥१६॥
लग्नं मुक्त्वा विषमे शनैश्चरः पुरूषजन्मदो भवति ।
योगे विहगस्य बलं संवीक्ष्य वदेन्नरं स्त्रियं वाsपि ॥१७॥
अन्योन्यं रविचन्द्रौ विषमर्क्षगतौ निरीक्षेते ।
इन्दजुरविपुत्रौ वा दृष्टौ बलिनौ नपुंसकं कुरुतः ॥१८॥
पश्यति वक्रः समभे सूर्यं चन्द्रोदयौ च विषमर्क्षे ।
यद्येवं गर्भस्थः क्लीबो मुनिभिः समादिष्टः ॥१९॥
ओजसमराशिसंस्थौ ज्ञेन्दू षण्ढं कुजेक्षितौ कुरुतः ।
नरभे विषमनवांशे होरेन्दुबुधाः सितार्किदृष्टा वा ॥२०॥
लग्ने समराशिगते चन्द्रे च निरीक्षिते बलयुतेन ।
गगनसदा वक्तव्यं मिथुनं गर्भस्थितं नित्यम् ॥२१॥
समराशौ शशिसितयोर्विषमे गुरुवक्रसौम्यलग्नेषु ।
द्विशरीरे वा बलिषु प्रवदेत् स्त्रीपुरुषमत्रैव ॥२२॥
द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं च पश्यतीन्दुसुते ।
मिथुनांशे कन्यैका द्वौ पुरुषौ त्रितयमेवं स्यात् ॥२३॥
द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं च पश्यतीन्दुसुते ।
कन्यांशे द्वे कन्ये पुरुषश्च निषिच्यते गर्भे ॥२४॥
मिथुने धनुरंशगतान् ग्रहान् विलग्नं च पश्यतीन्दुसुतः ।
मिथुनांशस्थश्च यदा पुरुषत्रितयं तदा गर्भे ॥२५॥
कन्यामीनांशस्थान् विहगानुदयं च युवतिभागगतः ।
पश्यति शिशिरगुतनयः कन्यात्रितयं तदा गर्भे ॥२६॥
दिवसे मातापितरौ शुक्ररवी शशिशनी निशायां च ।
मातृभगिनीपितृव्यौ विपर्ययात् कीर्तितौ यवनैः ॥२७॥
लग्नाद्विषमर्क्षगतः पितुः पितृव्यस्य खेचरः शस्तः ।
मातृभगिनीजनन्योः समगृहगोsन्ये तथा भेषु ॥२८॥
मासेष्वाधानादिषु गर्भस्य यथा क्रमेण जायन्ते ।
सप्तसु कलिलाण्डशाखास्थित्वग्रोमचेतनताः ॥२९॥
मासेsष्टमे च तृष्णा क्षुधा च नवमे तथोद्वेगः ।
दशमे त्वथ संपूर्णः पक्कमिव फलं पतति गर्भः ॥३०॥
शुक्रारजीवरविशशिसौरिबुधविलग्नपोडुपादित्याः ।
मासपतयः स्युरेतैर्गर्भस्य शुभाशुभं चिन्त्यम् ॥३१॥
उत्पातक्रूरहते तस्मात् स्वस्याधिपे पतति गर्भः ।
लग्नगृहं वा हेतुर्योगेशो गर्भपतनस्य ॥३२॥
अथवा निषेककाले विलग्नसंस्थौ यदा रुधिरमन्दौ ।
तद्गृहगतेsथवेन्दौ तदीक्षिते वा पतति गर्भः ॥३३॥
होरेन्दुयुतैः सौम्यैस्त्रिकोणजायार्थखाम्बुसंस्थैर्वा ।
पापैस्त्रिलाभयातैः सुखी च गर्भो निरीक्षिते रविणा ॥३४॥
क्रूरान्तःस्थः सूर्यश्चन्द्रो वा युगपदेव मरणाय ।
सौम्यैरदृष्टमूर्तिर्युवतीनां गर्भसहितानाम् ॥३५॥
उदयास्तगतैः पापैः सौम्यैरनवेक्षितैश्च मरणं स्यात् ।
उदयस्थितेsर्कजे वा क्षीणेन्दौ भौमसंदृष्टे ॥३६॥
व्ययगेsर्के शशिनि कृशे पाताले लोहिते सगर्भा स्त्री ।
म्रियते तस्मिन्नथवा शुक्रे पापद्वयान्तःस्थे ॥३७॥
चन्द्रचतुर्थेः क्रूरैर्विलग्नतो वा विपद्यते गर्भः ।
होराद्यूने क्षितिजे म्रियते गर्भः सह जनन्या ॥३८॥
हिबुकगते धरणिसुते रिःफगतेsर्के क्षपाकरे क्षीणे ।
गर्भेण सह म्रियते पापग्रहदर्शनं प्राप्ते ॥३९॥
लग्ने रविसंयुक्ते क्षीणेन्दौ वा कुजेsथवा म्रियते ।
व्ययधनसंस्थैः पापैस्तथैव सौम्यग्रहादृष्टैः ॥४०॥
जामित्रे रवियुक्ते लग्नगते वा कुजे निषिक्तस्य ।
गर्भस्य भवति मरणं शस्त्रच्छेदैः सह जनन्या ॥४१॥
बलिभिर्बुधगुरुशुक्रैर्दृष्टेsर्केण च विवर्धते गर्भः ।
मासाधिपबलतुल्यैस्तैस्तैः संयुज्यते भावैः ॥४२॥
मासि तृतीये स्त्रीणां दौहृदकं जायते तथाsवश्यम् ।
मासाधिपस्वभावैर्विलग्नयोगादिभिश्चान्यत ॥४३॥
निषेककाले चरराशिगेsर्केगर्भप्रसूतिर्दशमे च मासे ।
एकादशे च स्थिरराशिसंस्थे स्याद्द्वादशे मास्युभयाश्रिते च ॥४४॥
गर्भाधाने चरे राशौ दशमासैः प्रसूयते ।
स्थिरेणैकादशे मासे उभये द्वादशे भवः ॥४५॥
गर्भप्रसवविधानं तात्कालिकलग्नवर्गतश्चिन्त्यम् ।
आधानाज्जन्मर्क्षं दशमं वाञ्छिन्ति केचिदाचार्याः ॥४६॥
आधानोदयशशिनोः सप्तमभं बादरायणो ब्रूते ।
तस्मान्नैकान्तोsयं सर्वेषां संमतं वक्ष्ये ॥४७॥
यस्मिन् द्वादशभागे गर्भाधाने स्थितो निशानाथः ।
तत्तुल्यर्क्षे प्रसवं गर्भस्य समादिशेत्प्राज्ञः ॥४८॥
लग्ने शनैश्चरांशे शनैश्चरे द्यूनगे यदि निषेकः ।
वर्षत्रयेण सूतिर्द्वादशभिः स्याच्छशिनि चैवम् ॥४९॥
तात्कालिकदिवसनिशासंज्ञः समुदेति राशिभागो यः ।
यावानुदयस्तावान् वाच्यो दिवसस्य रात्रेर्वा ॥५०॥
मुनिभागे दिवस्निशोर्जन्मनि लग्नं वदेद्युक्त्या ।
उदयगणात् प्रसवः स्याद्दिनपक्षमुहूर्तमाससंज्ञर्क्षात् ॥५१॥
इत्याधाने प्रथमं प्रसूतिकालं सुनिश्चितं कृत्वा ।
जातकविहितं च विधिं विचिन्तयेत्तत्र गणितज्ञः ॥५२॥
स्यातां यद्याधाने रविशशिनौ सिंहराशिगौ लग्ने ।
दृष्टौ कुजसौरिभ्यां जात्यन्धः संभवति तत्र ॥५३॥
आग्नेयसौम्यदृष्टौ रविशशिनौ बुद्बुदेक्षणं कुरुतः ।
नयनविनाशोsपि यथा तथाधुना संप्रवक्ष्यामि ॥५४॥
व्ययभवनगतश्चन्द्रो वामं चक्षुर्विनाशयति हीनः ।
सूर्यस्तथैव चान्यच्छुभदृष्टौ याप्यतां नयतः ॥५५॥
क्रूरैर्गृहसन्धिगतैः शशिनि वृषे भौमसौररविदृष्टे ।
मूकः सौम्यैर्दृष्टे वाचं कालान्तरे वदति ॥५६॥
क्रूरेषु राशिसन्धिषु शशी न सौम्यैर्निरीक्ष्यते च जडः ।
बुधनवमभागसंस्थौ शनिभौमौ यदि सदन्तः स्यात् ॥५७॥
सौम्ये त्रिकोणसंस्थे लग्नाच्छेषग्रहैर्बलविहीनैः ।
द्विगुणास्यपादहस्तो योगेsस्मिन्नाहितो भवति गर्भः ॥५८॥
वामनको मकरान्त्ये लग्ने रविचन्द्रसौरिभिर्दृष्टे ।
शशिनि विलग्ने कर्किणि कुजार्कदृष्टेsथवा कुब्जः ॥५९॥
मीनोदये च दृष्टे कुजार्किशनिभिः पुमान् भवति पङ्गुः ।
सार्था भवन्ति योगाः सौम्यग्रहवीक्षिताः सर्वे ॥६०॥
क्रूरग्रहस्त्रिकोणे त्रिकोणलग्ने शुभेषु बलवत्सु ।
द्विशिरोङ्घ्रिबाहुयुग्मः शेषैरबलैर्भवति गर्भः ॥६१॥
इत्याधानविधानं प्रसूतिसमयेsपि योजयेद्योग्यम् ।
आधाने यन्नोक्तं प्रसूतिविहितं तदपि चिन्त्यम् ॥६२॥
इति कल्याणवर्मविरचितायां सारावल्यां आधानेsष्टमोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP