संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| सप्तविंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । सप्तविंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली सप्तविंशोsध्यायः । Translation - भाषांतर वादिगुणैः सम्पन्नः प्रयत्नरत्नाभरणसंसर्गः ।सत्वात्मजार्थबलयुक् प्रगल्भविख्यातकर्मा च ॥१॥ओजस्वी बहुशत्रुर्बहुव्ययार्थः क्षताङ्कितशरीरः ।चण्डोग्रदण्डनाथो जीवे क्रियगे भवेत्पुरुषः ॥२॥पीनो विशालदेहः सुरद्विजगवां च भक्तिमान् कान्तः ।सुभगः स्वदारनिरतः सुवेषकृषिगोधनाढ्यश्च ॥३॥सद्वस्तुभूषणयुतो विशिष्टवाड्मतिगुणो नयज्ञश्च ।वृषभे गुरौ विनीतो भिषक् प्रयोगाप्तकौशलकः ॥४॥आहितधनः सुमेधा विज्ञानविशारदः सुनयनश्च ।वाग्मी दाक्षिण्ययुतो निपुणः स्याद्धर्मशीलश्च ॥५॥मान्यो गुरुबन्धूनां मण्डनमाङ्गल्यलब्धवरशब्दः ।मिथुनस्थे देवगुरौ क्रियारतिः सत्कविश्चैव ॥६॥विद्वान् सुरूपदेहः प्राज्ञः प्रियधर्मसत्स्वभावश्च ।सुमहद्बलो यशस्वी प्रभूतधान्याकरधनेशः ॥७॥सत्यसमाधिसुयुक्तः स्थिरात्मजो लोकसत्कृतः ख्यातः ।नृपतिर्जीवे शशिभे विशिष्टकर्मा सुहृज्जनानुरतः ॥८॥दृढवैरसत्वधीरः सुबहुस्नेहः सुहृज्जने विद्वान् ।आढ्यः शिष्टाभिजनो नृपो नृपतिपौरुषः सभालक्ष्यः ॥९॥त्रिदशगुरौ सिंहस्थे समस्तरोषोद्ध्रुतारिपक्षश्च ।सुदृढव्यस्तशरीरो गिरिदुर्गवनालये जातः ॥१०॥मेधावी धर्मपरः क्रियापटुर्धर्मवान्युवतिराशौ ।प्रियगन्धपुष्पवस्त्रः कृत्येषु विनिश्चितार्थश्च ॥११॥शास्त्रार्थशिल्पकार्यैर्धनवान् दाता विशुद्धशीलश्च ।स्याद्देवगुरौ निपुणश्चित्राक्षरविद्धनसमृद्धः ॥१२॥मेधावी बहुपुत्रो विदेशचर्यागतः प्रभूतधनः ।भाषाप्रियो विनीतो नटनर्तकसंगृहीतधनः ॥१३॥कान्तः श्रुताभिनिरतो महत्तरः सार्थवाहवणिजां हि ।वणिजीन्द्रमन्त्रिणि गते सुरातिथीज्यारतः प्राज्ञः ॥१४॥वहुशास्त्राणां कुशलो नृपतिर्बहुभाष्यकारको निपुणः ।देवालयपुरकर्ता सद्वहुदारोsल्पपुत्रश्च ॥१५॥व्याध्यार्तः श्रमबहुलः प्रसक्तदोषो गुरौ भवत्यलिनि ।दम्भेन धर्मनिरतो जुगुप्सिताचारनिरतश्च ॥१६॥आचार्यो व्रतदीक्षायज्ञादीनां स्थिरार्थश्च ।दाता सुहृत्स्वपक्षः प्रियोपकारश्रुताभिरतः ॥१७॥माण्डलिको मन्त्री वा धनुर्धरस्थे भवेत्सदा जीवे ।नानादेशनिवासी विविक्ततीर्थायतनबुद्धिः ॥१८॥लघुवीर्यो मकरस्थे बहुश्रमक्लेशधारको जीवे ।नानाचरो मूर्खो दुरन्तनिःस्वः परप्रेष्य़ः ॥१९॥माङ्गल्यदयाशौचस्वबन्धुवात्सल्यधर्मपरिहीनः ।दुर्बलदेहो भीरुः प्रवासशीलो विषादी च ॥२०॥पिशुनो न साधुशीलः कुशिल्पतोयाश्रमेषु कर्मरतः ।मुख्यो गणस्य सुतरां नीचाभिरतो नृशंसश्च ॥२१॥लुब्धो व्याधिग्रस्तः स्ववाक्यदोषेण नाशितार्थश्च ।प्रज्ञादिगुणैर्हीनो घटे गुरौ स्याद्गुरुस्त्रीगः ॥२२॥वेदार्थशास्त्रवेत्ता सुहृदां पूज्यः सतां च नृपनेता ।श्लाघ्यः सधनोsधृष्यो ह्यहीनदर्पस्थिरारम्भः ॥२३॥राज्ञः सुनीतिशिक्षाव्यवहाररणप्रयोगवेत्ता च ।ख्यातः सुनीतिशिक्षाव्यवहाररणप्रयोगवेत्ता च ।ख्यातः प्रशान्तचेष्टो स्थिरसत्वयुतश्च मीनगे जीवे ॥२४॥धर्मिष्ठमनृतभीरुं विख्यातसुतं महाभाग्यम् ।भौमगृहे रविदृष्टो ह्यतिरोमचितं गुरुः कुरुते ॥२५॥इतिहासकाव्यकुशलं बहुरत्नं स्त्रीषु भाजनं कुरुते ।कुजगेहे शशिदृष्टस्त्रिदशगुरुः पार्थिवं प्राज्ञम् ॥२६॥नृपपुरुषशूरमुग्रं नयविनयसमन्वितं च विधनं च ।अविधेयभृत्यदारं जनयति वक्रेक्षितो जीवः ॥२७॥अनृतं वञ्चनपापं परविवरान्वेषणेषु निपुणं च ।सेवाविनयकृतज्ञं कापटिकं सौम्यसंदृष्टः ॥२८॥गृहशयनवसनगन्धैर्माल्यालङ्कारयुवतिभिर्विभवैः ।समुचितमतीव भीरुं कुरुते शुक्रेक्षितो जीवः ॥२९॥मलिनं लुब्धं तीक्ष्णं साहसिकं संमतं च सिद्धं च ।अस्थिरमित्रापत्यं त्रिदशगुरुः सौरसंदृष्टः ॥३०॥॥ इति जीवस्य कुजभे दृष्टिः ॥द्विपदचतुष्पदभागिनमत्यटनं व्यायताङ्गमिह पुरुषम् ।प्राज्ञं नरेन्द्रसचिवं करोति सूर्येक्षितो जीवः ॥३१॥अतिधनमतीव मधुरं जननीदयितं प्रियं च युवतीनाम् ।अत्युपभोगं कुरुते चन्द्रेण निरीक्षितो जीवः ॥३२॥दयितं बालस्त्रीणां प्राज्ञं शूरं च धनसमृद्धं च ।सुखिनं नरेन्द्रपुरुषं भृगुभे जीवो रुधिरदृष्टः ॥३३॥प्राज्ञं चतुरं मधुरं सुधनं विभवान्वितं गुणसमृद्धम् ।सुरुचिरशीलं कान्तं जनयति बुधवीक्षितो जीवः ॥३४॥अतिललितमति च धनिनं परभूषणधारिणं मृजाशीलम् ।वरशयनं वरवसनं भृगुभे भृगुवीक्षितो जीवः ॥३५॥प्राज्ञं बहुधनधान्यं महत्तरं ग्रामनगरपुरुषाणाम् ।मलिनमरूपमभार्यं कुरुते सौरेक्षितो जीवः ॥३६॥॥ इति जीवस्य भृगुभे दृष्टिः ॥आर्यं ग्रामश्रेष्ठं कुटुम्बिनं दारपुत्रधनयुक्तम् ।बुधभे दिनकरदृष्टस्त्रिदशगुरुर्मानवं कुरुते ॥३७॥चन्द्रेक्षितस्तु कुरुते वसुमन्तं मातृवल्लभं धन्यम् ।सुखयुवतिपुत्रवन्तं सुरगुरुरतिरूपमनुपमं बुधभे ॥३८॥शाश्वतसुलब्धविषयं चित्रितगात्रं धनान्वितं कुरुते ।धरणिसुतेक्षितदेहस्त्रिदशगुरुः संमतं लोके ॥३९॥कुरुते ज्योतिषकुशलं बहुसुतदारं च सूत्रकारं च ।अतिशयविरूपवाक्यं बुधभे सौम्येक्षितो जीवः ॥४०॥देवप्रसादानां कृत्यकरं वेशदारभोक्तारम् ।हृदयहरं नारीणां कुरुते शुक्रेक्षितो जीवः ॥४१॥श्रेणीगणराष्ट्राणां पुरोगमं ग्रामपत्तनानां च ।जनयति शनिना दृष्टः सुतनुं जीवो नरं बुधमे ॥४२॥॥ इति जीवस्य बुधभे दृष्टिः ॥रविदृष्टः शशिभवने विख्यातं ह्यग्रगं समूहानाम् ।सुखधनदारविहीनं पश्चादाढ्यं गुरुः कुरुते ॥४३॥अत्यर्थं द्युतिमन्तं नृपतिं बहुकोशवाहनसमृद्धम् ।उत्तमयुवतीपुत्रं जनयेच्छशिभे गुरुर्हिमगुदृष्टः ॥४४॥कौमारदारमाढ्यं हेमालङ्कारभागिनं प्राज्ञम् ।शूरं सव्रणगात्रं रुधिराङ्गनिरीक्षितो गुरुः कुरुते ॥४५॥बान्धवमात्रनिमित्तं धनिनं कलहान्वितं विगतपापम् ।जनयति बुधेन दृष्टः प्रत्ययिनं मन्त्रिणां जीवः ॥४६॥बहुदारं बहुविभवं नानालङ्कारभागिनं सुखिनम् ।भृगुतनयदृष्टमूर्तिः सुभगं पुरुषं गुरुः कुरुते ॥४७॥सौरेण दृष्टमूर्तिर्महत्तरं ग्रामसैन्यनगराणाम् ।वाचाटं बहुविभवं वार्धक्ये भोगभागिनं जीवः ॥४८॥॥ इति कटके जीवदृष्टिः ॥सिंहे दयितं ख्यातं सतां च नृपतिं महाधनसमृद्धम् ।जनयति दिनकरदृष्टस्त्रिदशगुरुर्नरमतीव हि सुशीलम् ॥४९॥अतिसुभगमति च मलिनं स्त्रीभाग्यैरतिसुभगमत्याढ्यम् ।लेये चन्द्रसुदृष्टो जितेन्द्रियं जनयति सुरेज्यः ॥५०॥सत्यं सतां गुरूणां विशिष्टकर्माणमुग्रमतिनिपुणम् ।शुद्धं शूरं क्रूरं गुरुरिह भौमेक्षितः सिंहे ॥५१॥गृहवास्तुज्ञानरतं विज्ञानगुणान्वितं रुचिरवाक्यम् ।सिंहे मन्त्रिणमग्र्यं बुधेक्षितो विश्रुतं जीवः ॥५२॥दयितं स्त्रीणां सुभगं भूपतिसत्कारसत्कृतं पुरुषम् ।सितदृष्टः सुरपूज्यो जनयति सिंहे महासत्वम् ॥५३॥बहुकथनमधुरवचनं सुखरहितं चित्रभागिनं तीक्ष्णम् ।अमरस्त्रीतुल्यसुखं सिंहगुरुः सौरसन्दृष्टः ॥५४॥॥ इति सिंहस्थजीवदृष्टिः ॥नृपतिविरुद्धं जनयति विबुधगुरुः संस्थितः स्वगृहे ।रविदृष्टः परितप्तं धनबंधुजनेन परिमुक्तम् ॥५५॥नानाविधसौख्ययुतं स्वगृहे चन्द्रेक्षितो जीवः ।अतिसुभगं युवतीनां मानधनैश्वर्यगर्वितं कुरुते ॥५६॥सङ्ग्रामे विकृताङ्गं क्रूरं वधकं परोपतापकरम् ।जनयति कुजेन दृष्टो देवगुरुर्नष्टपरिवारम् ॥५७॥मन्त्रिणमथ नृपतिं वा सुतधनसौभाग्यसौख्यसम्पन्नम् ।स्वगृहे बुधेन दृष्टः सकलानन्दं गुरुः कुरुते ॥५८॥सुखिनं धनिनं प्राज्ञं व्यपगतदोषं चिरायुषं सुभगम् ।स्वगृहे सितेन दृष्टो लक्ष्मीपरिवेष्टितं गुरुः पुरुषम् ॥५९॥मलिनमतीव च सुभगं ग्रामपुरश्रेणिधिक्कृतं दीनम् ॥स्वगृहगुरुः शनिदृष्टो जनयति सुखभोगधर्मपरिहीनम् ॥६०॥॥ इति स्वगृहे दृष्टिः ॥प्राज्ञं पृथिवीपालं सौरगृहे भानुना च संदृष्टः ।प्रकृतिसमृद्धं जनयति बहुभोगसमन्वितं सुविक्रान्तम् ॥६१॥पितृमातृभक्तमार्यं कुलोद्भवं प्राज्ञमाढ्यमादेयम् ।चन्द्रेक्षितस्तु जीवः सुशीलमतिधार्मिकं शनिभे ॥६२॥शूरं नरेन्द्रयोधं गर्वितमोजस्विनं सुवेषं च ।विख्यातमार्यमान्यं शनिभे वक्रेक्षितो जीवः ॥६३॥कामरतिं गणमुख्यं मानवमथ सार्थवाहमाढ्यं वा ।ख्यातमतिमित्रवन्तं बुधसंदृष्टो गुरुः शनिभे ॥६४॥भोज्यान्नपानविभवं वरगृहशयनासनोत्तमस्त्रीकम् ।आभरणवसनमन्तं शनिभे शुक्रेक्षितो जीवः ॥६५॥अनुपमविद्यावृत्तं महत्तरं देशपार्थिवं शनिभे ।द्विपदचतुष्पदमाढ्यं भोगिनमथ सौरवीक्षितो जीवः ॥६६॥इति कल्याणवर्मविरचितायां सारावल्यां गुरुचारो नाम सप्तविंशोsध्यायः ॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP