नवमोsध्यायः ।
एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.
आधानं हि मयोक्त प्रसूतिकालस्य निर्णयार्थपरम् ।
तस्मिन् सुपरिज्ञाते जन्माध्यायं प्रवक्ष्यामि ॥१॥
शीर्षोदये विलग्ने मूर्ध्ना प्रसवोsन्यथोदये चरणैः ।
उभयोदये च हस्तैः शुभदृष्टे शोभनोsन्यथा कष्टः ॥२॥
भवनांशसदृशदेशे प्रसवो ज्ञेयः सदात्र युवतीनाम् ।
मिश्रगृहांशे वर्त्मनि स्थिरराश्यंशे तथा स्वगृहे ॥३॥
स्वगृहनवांशे लग्ने स्वगृहेsन्यस्मिन्यदि प्रथमहर्म्ये ।
पितृमातृग्रहबलतस्तत्तत्स्वजनगृहेषु बलयोगात् ॥४॥
प्राकारतरुनदीषु च सूतिर्नीचाश्रितैः सौम्यैः ।
नेक्षन्तेलग्नेन्दू यद्येकस्था ग्रहा महाटव्याम् ॥५॥
सलिलभवने च चन्द्रो जलराशौ वीक्षते तथा पूर्णः ।
प्रसवं सलिले विद्यात् बन्धूदयदशमगश्च यदा ॥६॥
सौम्यैर्लग्ने पूर्णे स्वगृहगते शशिनि सलिलसंयाते ।
पातालस्थैश्च सुभैर्जलजे लग्नेsम्बुगेहगे शशिनि ॥७॥
वृश्चिककुलीरलग्ने सौरे चन्द्रेक्षिते त्ववटॆ ।
भवति प्रसवः स्त्रीणां वदन्ति यवनाः सह मणित्थैः ॥८॥
रविजे जलजविलग्ने क्रीडोद्याने बुधेक्षिते प्रसवः ।
रविणा देवागारे तथोषरे चैव चन्द्रेण ॥९॥
आरण्यभवनलग्ने गिरिवनदुर्गे तथा रवौ लग्ने ।
रुधिरेक्षिते श्मशाने शिल्पकनिलयेषु सौम्येन ॥१०॥
सूर्येक्षिते गोन्रुपदेववासे शुक्रेन्दुजाभ्यां रमणीयदेशे ।
शक्रेज्यदृष्टे द्विजवह्निहोत्रे नरोदये सम्प्रवदन्ति सूतिम् ॥११॥
स्वोच्चे दशमे जीवे द्वित्रिचतुर्भूमिके गृहे प्रसवः ।
मन्दर्क्षांशे साले चतुर्थदशमस्थितैः सौम्यैः ॥१२॥
द्वौ द्वौ राशी मेषात् पूर्वादिषु संस्थितौ गृहविभागे ।
कोणेषु द्विशरीरा लग्नन्तु भवेद्धि तत्प्रमुखैः ॥१३॥
दिग्भागराशिमण्डलकेन्द्रेषु खगेषु तच्छाला ।
अथ म्रुगहयबलवत्त्वे गृहं द्विशालं त्रिशालं च ॥१४॥
चित्रं नवं भृगुसुते च दृढं गरौ च
दग्धं कुजे दिनकरे परिपूर्णकाष्ठम् ।
चन्द्रे नवं च बहुशिल्पकृतं बुधे च
जीर्णं भवेद्गृहमिहोष्णकरात्मजे च ॥१५॥
वासगृहे द्यूनगतात् द्वारो दिक्ल्पालकात् बलोपेतात् ।
भवनगृहसंयोगैः प्रतिवेश्माश्चिन्तनीयाः स्युः ॥१६॥
देवालयाम्बुपावककोशविहारास्तथोत्करो भूमेः ।
निद्रागृहं च भास्करशशिकुजगुरुभार्गवार्किबुधयोगात् ॥१७॥
खट्वास्थितिर्भवनवद्युतविहवसमानि तत्र चिह्नानि ।
आस्तरणानि च विद्यात् शुभदृष्टिकृतानि दैवज्ञः ॥१८॥
प्राच्यादिगृहद्वितयं भद्वितयं राशयश्च गात्राणि ।
आजानुशिरःशयनं ग्रहतुल्यं लक्षणं तत्र ॥१९॥
ग्रहयुक्तं वा नियतं विनतत्वं च द्विमूर्तिराशिषु च ।
षट्त्रिनवान्त्याः पादाः पर्यङ्केsङ्गानि राशयः शेषाः ॥२०॥
नीचस्थे भूशयनं चन्द्रेsप्यथवा सुखे विलग्ने वा ।
शशिलग्नविवरयुक्तग्रहतुल्याः सूतिका ज्ञेयाः ॥२१॥
अनुदितचक्रार्धयुतैरन्तर्बहिरन्यथा वदन्त्येके ।
लक्षणरूपविभूषणयोगस्तासां शुभैर्योगात् ॥२२॥
क्रूरैर्विरूपदेहा लक्षणहीनाः सुरौद्रमलिनाश्च ।
मिश्रैर्मध्यमरूपा बलसहितैः सर्वमेवमवधार्यम् ॥२३॥
द्वादशभागच्छन्ने वासगृहेsवस्थिते सहस्रांशौ ।
दीपश्चरस्थिरादिषु तथैव वाच्यः प्रसवकाले ॥२४॥
यावल्लग्नादुदितं वर्तिर्दग्धा तु तावती भवति ।
दीपः पूर्णे पूर्णः शशिनि क्षीणे क्षयस्तु तैलस्य ॥२५॥
बलवति सूर्ये दृष्टे बहून् प्रदीपान् वदेत् कुपुत्रेण ।
अन्यैरपि गतवीर्यैः सूतौउ ज्योतिस्तृणैर्भवति ॥२६॥
सौरांशेsथ जलांशे चन्द्रेsर्कजसंयुतेsथवा हिबुके ।
तद्दृष्टे वा कुर्यात्तमसि प्रसवं न सन्देहः ॥२७॥
होरामनीक्षमाणे शशिनि परोक्षस्थिते पितरि जातः ।
मेषूरणागते वा चरभे भानौ विदेशगते ॥२८॥
द्युनिशोरर्कासितयोः कुजेन सन्दृष्टयोः पिताप्यभवत् ।
चरराशौ परदेशे युक्तेक्षितयोस्तु तत्र मृतः ॥२९॥
पञ्चमनवमद्यूने पापैरर्कात्तु पापसंदृष्टैः ।
बद्धः पिताsन्यदेशे राशिवशात् स्वेsथवा मार्गे ॥३०॥
जायात्रिकोणसंस्थैः क्रूरैरानन्दवर्जितः प्रसवः ।
दशमचतुर्थोपगतैः सौम्यैः संपत्तयो विपुलाः ॥३१॥
पश्यति न गुरुः शशिनं लग्नं च दिवाकरं सेन्दुम् ।
पापयुतं वा सार्कश्चन्द्रं यदि जारजातः स्यात् ॥३२॥
गुरुशशिरवयो नीचे सूतौ लग्नेsथवार्कसूनश्च ।
लग्नोडुपभृगुपुत्राः शुभैरदृष्टास्तथान्यजातश्च ॥३३॥
क्लेशो मातुः क्रूरैर्बन्ध्वस्तगतैः शशाङ्कयुक्तैर्वा ।
चन्द्रात् सप्तमरशौ पापा मरणाय वक्रसन्दृष्टाः ॥३४॥
चन्द्राद्दशमे भानुर्मातुर्मरणं करोति पापयुतः ।
शुक्रात् पञ्चमनवमे सौरियुतस्तेन वा दृष्टः ॥३५॥
चन्द्रात्रिकोणराशौ रविजो मातुर्वधं दिशति रात्रौ ।
शुक्रात्तथैव दिवसे भौमः पापेन सन्दृष्टः ॥३६॥
कुजसौरयोस्त्रिकोणे चन्द्रेsस्तगते वियुज्यते मात्रा ।
दृष्टे सुरेन्द्रगुरुणा सुखान्वितो दीर्घजीवा च ॥३७॥
म्रियते पापैर्दृष्टे शशिनि विलग्ने कुजेsस्तगे त्यक्तः ।
लग्नात्स्वलाभगतयोर्वसुधासुतमन्दयोरेवम् ॥३८॥
पश्यति सौम्यो बलवान् यादृग्गृह्णाति तादृशो जातः ।
शुभपापग्रहदृष्टे परैर्गृहीतोsथवा म्रियते ॥३९॥
एकाशस्थितयोर्वा यमारयोस्त्यज्यतेsथवा मात्रा ।
लग्नात्सप्तमभवने भौमे शनिवीक्षिते नियतम् ॥४०॥
यादृक्पश्यति सौम्यस्तत्तुल्यगुणं सुतः समाधत्ते ।
पितृजननीसादृश्यं रवेः शशाङ्कस्य बलयोगात् ॥४१॥
सिंहाजगोभिरुदये जातो नालेन वेष्टितो जन्तुः ।
लग्ने कुजेsथ सौरे राश्यंसमानगात्रश्च ॥४२॥
भौमशनिद्रेक्काणे पापे लग्ने स्थिते शशियुते वा ।
द्व्येकादशगैः सौम्यैरभिवेष्टितको भुजङ्गेन ॥४३॥
सूर्यश्चतुष्पदस्थः शेषा द्विशरीरसंस्थिता बलिनः ।
कोशैर्वेष्टितदेहौ यमलौ खलु संप्रजायेते ॥४४॥
लग्ननवभागतुल्या मूर्तिर्बलसंयुताद्ग्रहाद्वापि ।
नवभागाद्वर्णोक्तिः शशियोगात्तत्र सूतस्य ॥४५॥
बहवो यदि बलयुक्ता मिश्रा मूर्तिस्तदा वाच्या ।
कुलजातिदेशपुरुषान् बुद्व्वाssदेशं समादिशेत्तज्ज्ञः ॥४६॥
त्रिंशद्भागे भानुर्गहस्य यस्य स्थितो भवति ।
तत्तुल्या प्रकृतिः स्यादेवं मुनयोsध्यवस्यन्ति ॥४७॥
तत्कालसहृदरित्वं बलं च नीचोच्चसंभृतं ज्ञात्वा ।
ज्ञात्वा ग्रहस्वभावांस्तेभ्यः संचिन्त्यमन्यदपि ॥४८॥
क्षीणे शशिनि सपापे माता म्रियते पिता रवौ तद्वत् ।
बलिभिर्दृष्टे मिश्रैर्व्याधिः सौम्यैः शुभं भवति ॥४९॥
विपुलविमलमूर्तिः स्वोच्चगो वा स्वराशौ
गुरुसितयुत इन्दुर्बोधनेनानुदृष्टः ।
अतिशयशुभदाता पश्चमे वाsपि मातुः
पितुरपि खलु तद्वत् भास्करः सर्वदैव ॥५०॥
इति कल्याणवर्मविरचितायां सारावल्यां सूतिकाध्यायो नवमः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP