संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| पञ्चत्रिंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । पञ्चत्रिंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली पञ्चत्रिंशोsध्यायः । Translation - भाषांतर राजोपयोगिशास्त्रं यस्मात्प्रभवो विशेषतस्तेषाम् ।सञ्चिन्त्या नृपयोगास्तानेवाहं प्रवक्ष्यामि ॥१॥स्वोच्चत्रिकोणगृहगैर्बलसंयुतैश्च त्र्याद्यैर्नृपो भवति भूपतिवंशजातः ।पञ्चादिभिर्जनपदप्रभवोsपि सिद्धोहीनैः क्षितीश्वरसमो न तु भूमिपालः ॥२॥अशुभगगनवासैः स्वोच्चगैः क्रूरचेष्टं कथयति यवनेन्द्रो भूपतिं विक्रमोत्थम् ।न तु भवति नरेन्द्रो जीवशर्मोक्तपक्षे भवति नृपतियोगैः सत्कृतो राष्ट्रपालः ॥३॥एष्विह भवन्त्यवश्यं भूपतियोगेषु नीचकुलपुरुषाः ।तानग्रतः प्रवक्ष्ये यथामतं शास्त्रकाराणाम् ॥४॥स्वोच्चस्थै रविभौमसौरगुरुभिः सर्वैस्त्रिभिश्चैकगै -लग्ने षोडशवृद्धतापसगणैः सन्दर्शिताः पार्थिवाः ।द्वाभ्यां चैतकमोदये स्वभवने चन्द्रे पुनः षोडशः सर्वो नीचकुलोद्भवोsपि वसुधां पात्येव वाटीमिव ॥५॥गणोत्तमे लग्ननवांशकोद्गतो निशाकरश्चापि गणोत्तमेsथवा ।चतुर्ग्रहैश्चन्द्रविवर्जितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः ॥६॥उदयगिरिनिबिष्टैर्मेषसंस्थैर्ग्रहेन्द्रैः शशिरुधिरसुरेड्यैर्जायते पार्थिवेन्द्रः ।जलनिधिरशनायाः पालकः सर्वभूमे -र्हतरिपुपरिवारः सर्वतः फूत्करोति ॥७॥स्वोच्चे गुराववनिजे क्रियगे विलग्ने मेषोदये च सकुजे वचसामधीशे ।भूपो भवेदिह स यस्य विपक्षसैन्यं तिष्ठेत जातु पुरतः सचिवा वयस्याः ॥८॥निशाभर्ता चाये भृगुतनयदेवेड्यसहितः कुजः प्राप्तः स्वोच्चे मृगमुखगतः सूर्यतनयः ।विलग्ने कन्यायां शिशिरकरसूनुर्यदि भवेत् तदाsवश्यं राजा भवति बहुविज्ञानकुशलः ॥९॥स्वर्क्षे नक्षत्रनाथः स्फुटकरनिकरालङ्कृतः प्राप्तलग्नोद्यूने सोमस्य पुत्रो यदि रिपुभवनं भास्करः संप्रयातः ।पाताले दानवेड्यो गुरुरपि गगने सौरभौमौ तृतीये सद्भूपालो भवेद्यः शशिकरधवलं चामरं राजलक्ष्मीम् ॥१०॥वर्गोत्तमगते चन्द्रे लग्ने वा चन्द्रवर्जिते ।चतुराद्यैर्ग्रहैर्दृष्टे जातो नरपतिर्भवेत् ॥११॥शिशिरकिरणे स्वोच्चे लग्ने पयोम्बुनिधेः समे घटधरगते भानोः पुत्रे मृगाधिपतौ रविः ।अलिगृहगतो वाचां नाथः स्फुरत्करराजितो यदि नरपतिः स्फीतश्रीकस्तदा बहुवाहनः ॥१२॥मृगे मन्दे लग्ने कुमुदवनबन्धुश्च तिमिग -स्तथा कन्यां त्यक्त्वा बुधभवनसंस्थः कुतनयः ।स्थितो नार्यां सौम्यो धनुषि सुरमन्त्री यदि भवेत् तदा जातो भूपः सुरपतिसमः प्राप्तमहिमा ॥१३॥उदयति मीने शशिनि नरेन्द्रः सकलकलाढ्यः क्षितिसुत उच्चे ।मृगपतिसंस्थे दशशतरश्मौ घटाधरगे स्याद्दिनकरपुत्रे ॥१४॥कुजे विलग्ने च शशी यदाsस्ते स्फुटांशसम्भारविराजिताङ्गः ।राजा तदा शत्रुभिरप्रधृष्यो वेदार्थविद्धेतुशतानुवादैः ॥१५॥करोत्युत्कृष्टोद्यद्दिनकृदमृताभीशुसहितः स्थितस्तादृग्रूपं सकलनयनानन्दजननः ।अपूर्वोsयं स्मृत्या नयनजलसिक्तोsपि सततं रिपुस्त्रीशोकाग्निर्ज्वलति हृदयेsतीव सुतराम् ॥१६॥शुक्रो घटे कुजो मेषे स्वोच्चे देवपुरोहितः ।यदि राजा भवेन्नूनं स्वयशोधौतदिङ्मुखः ॥१७॥उदयति गुरुरुच्चे तप्तहेमप्रभावो हरिततुरगनाथो व्योममध्यावगाही ।गवि शशिबुधशुक्रा यस्य सूतौ नरस्य स्वभुजविजितभूमिः सर्वतः पार्थिवेन्द्रः ॥१८॥धनुषि सुरेड्यः शशभृदुपेतो मृगमुखसंस्थः क्षितितनयश्च ।उदयति तुङ्गे सुररिपुवन्द्यः शशितनयो वा यदि नृपतिः स्यात् ॥१९॥चापार्धे भगवान्सहस्रकिरणस्तत्रैव ताराधिपो लग्ने भानुसुतोsतिवीर्यसहितः स्वोच्चे च भूनन्दनः ।यद्येवं भवति क्षितेरधिपतिः सञ्चिन्त्य शौर्यं भयात् दूरादेव नमन्ति यस्य रिपवो दग्धाः प्रतापाग्निना ॥२०॥षष्ठं द्यूनमथाष्टमं शिशिरगोः प्राप्ताः समस्ताः शुभाः क्रूराणां यदि गोचरे न पतिता भान्वालयाद्दूरतः ।भूपालः प्रभवेत्स यस्य जलधेर्वेलावनान्तोद्भवैः सेनामत्तकरीन्द्रदानसलिलं भृङ्गैर्मुहुः पीयते ॥२१॥न प्राप्नोति जरामाशु नो भजत्यरितो भयम् ।जातः स्यादधियोगेsस्मिन्धृतिसौभाग्यसौख्यभाक् ॥२२॥बुधः स्वोच्चे लग्ने तिमियुगलगावीड्यशशिनौ मृगे मन्दः सारो जतुमगृहगो दानवसुहृत् ।य एवं कुर्यात्स क्षितिभृदहितध्वंसनिरतो निरालोकं लोकं चलितगजसङ्घातरजसा ॥२३॥केसरिगो महेन्द्रसचिवो दिनकरसहितः कुम्भगतोsर्कजः शशधरः खलु भवति वृषे ।वृश्चिकभे क्षितेस्तु तनयो मिथुन इन्दुसुतो मेषलग्नसमुदयो यदि स तु मनुजपतिः ॥२४॥कार्मुके त्रिदशनायकमन्त्री भानुजो वणिजि चन्द्रसमेतः ।मेषगस्तु तपनो यदि लग्ने भूपतिर्भवति सोतुलकीर्तिः ॥२५॥स्वर्क्षात्केन्द्रेषु यातैर्गुरुबुधभृगुजैर्मन्दभान्वारयुक्तैःस्वोच्चे चन्द्रोsधितिष्ठन्जनयति नृपतिं कीर्तिशुक्लीकृताशम् ॥अत्युच्चे लग्नसंस्थो रविरपि भगवान्पार्थिवं क्रूरचेष्टंयातायातैः समस्तं चतुरुदधिजलं यस्य सेनाः पिबन्ति ॥२६॥उदकचरनवांशकेषु षष्ठः कमलरिपुः सकलाभिराममूर्तिः ।उदयति विहगे शुभे स्वलग्ने भवति नृपो यदि केन्द्रगा न पाः ॥२७॥आपूर्णमण्डलकलाकलितं शशाङ्कंपश्यन्ति शुक्रसुरपूजितसोमपुत्राः ।लग्नाधिपोsतिबलवान्पृथिवीश्वरः स्यात् वर्गोत्तमश्च नवमः खलु चेद्विलग्ने ॥२८॥वर्गोत्तमे त्रिप्रभृतिग्रहेन्द्राः केन्द्रस्थिता नो शुभसंयुताश्च ।नो रूक्षधूमो न विवर्णदेहाः कुर्वन्ति राज्ञः प्रसवं प्रसन्नाः ॥२९॥एक एव खगः स्वोच्चे वर्गोत्तमगतो यदि ।बलवान्मित्रसंदृष्टः करोति पृथिवीपतिम् ॥३०॥शीर्षोदयर्क्षेषु गताः समस्ता नीचारिवर्गे स्वगृहे शशाङ्कः ।सौम्येक्षितोsन्यूनकलो विलग्ने दद्यान्महीं रत्नगजाश्वपूर्णाम् ॥३१॥उपचयगृहसंस्थो जन्मपो यस्य चन्द्रात् शुभगृहमथवांशे केन्द्रयाताश्च सौम्याः ।सकलबलवियुक्ता ये च पापाभिधानाः स भवति नरनाथः शक्रतुल्यो बलेन ॥३२॥अत्युच्चस्था रुचिरवपुषः सर्व एव ग्रहेन्द्रा मित्रैर्दृष्टा यदि रिपुदृशां गोचरं न प्रयाताः ।कुर्युर्नूनं प्रसभमरिभिर्गर्जितैर्वारणाग्र्यैःसेनाश्वीयैश्चलति चलितैर्यस्य भूः पार्थिवेन्द्रम् ॥३३॥परमोच्चे स्थितश्चन्द्रो यदि शुक्रेण दृश्यते ।कुर्यान्महीपतिं पूर्णं पापैरापोक्लिमोपगैः ॥३४॥दृश्येते शुभदैः स्वकेन्द्रभवने मित्रैश्च पापैस्तथा युद्धे नो रिपुभिर्जितौ बलयुतौ जन्मोदयर्क्षाधिपौ ।भूपः स्यान्निजराशिनाथनवमे चन्द्रोदये चेद्यशोयस्येभस्रुतदानलुब्धमधुपैश्चातुर्दिशं गीयते ॥३५॥उच्चराशिर्भवेद्धोरा यस्यासौ कुरुते नृपम् ।स्वांशेsथ सुहृदुच्चांशे दृष्टः केन्द्रोपगैः शुभै ॥३६॥स्थितो भानोः पुत्रो विरचितबलः पश्चिमार्धे मृगस्यरविः सिंहे शुक्र्स्तुलिनि रुधिरो मेषगः कर्किणीन्दुः ।कुमारीं सम्प्राप्तो यदि भवति वा शर्वरीनाथसूनुः प्रजातो भूपालश्छदयति महीमेशशुक्लातपत्राम् ॥३७॥वर्गोत्तमस्वभवनेषु गता ग्रहेन्द्राःसर्वे यदा रुचिररश्मिशिखाकलापाः ।उत्पद्यते जगति सीममतीं धरित्रींयः पालयेत्क्षितिपतिर्जितशत्रुपक्षः ॥३८॥केन्द्रे विलग्ननाथः सुहृद्भिरभिवीक्षितो विहगैः ।लग्नस्थिते च सौम्ये भूपतिरिह जायते पुरुषः ॥३९॥सुरपतिगुरुः सेन्द्रुर्लग्ने वृषे समवस्थितो यदि बलयुतो लग्नेशश्च त्रिकोणगृहं गतः ।रविशनिकुजैर्वीर्योपेतैर्न युक्तनिरीक्षितोभवति स नृपः कीर्त्या युक्तो हताखिलकण्टकः ॥४०॥न नीचगृहसंस्थिता न च रिपोर्गृहं संगताः स्वराशिमथवांशकानुदयगोच्चमंशं यदि ।कलाभिरतिभूषिते कुमुदषण्डबोधप्रदे सुहृद्भिरभिवीक्षिताः क्षितिपतिं विदध्युर्ग्रहाः ॥४१॥यो यः पूर्णं शिशिरकिरणं प्राप्तवर्गोत्तमांशंसुस्पष्टार्चिर्गगनगमनः पश्यति स्वोच्चसंस्थम् ।स क्षोणीशं जनयति दशां प्राप्य सौम्यः स्वकीयाः ख्यातं लोके यदि बलयुताः कण्टकस्था न पापाः ॥४२॥जन्मोदयभवनपती बलसहितौ केन्द्रभेsथ हिबुके वा ।इन्दुर्जलगृहगश्चेत्त्रिकोणगो वा महीपालः ॥४३॥स्वगृहे मित्रभागेषु स्वांशे वा मित्रराशिषु ।कुर्वन्ति च नरं सूतौ सार्वभौमं नराधिपम् ॥४४॥परमोच्चगताः सर्वे स्वोच्चांशे यदि सोमजः ।त्रैलोक्याधिपतिं कुर्युर्देवदाननवन्दितम् ॥४५॥यस्योत्तरस्यां भगवान्वसिष्ठो बृहस्पतिः प्रागपरे च भार्गवः ।अगस्त्यनामा खलु दक्षिणस्यां स नष्टसत्रुश्च भवेन्नराधिपः ॥४६॥शशी पूर्णः स्वांशं स्वगृहमथवा स्वोच्चभं वा प्रयातो दिवः पातुर्मन्त्री दितिजगुरुणा वीक्षितः केन्द्रसंस्थः ।रविर्लग्ने स्वांशं यदि बलयुतः पश्यति स्यात्स भूपःप्रभग्नं यस्येभैश्चतुरुदधिभूशल्लकीनामरण्यम् ॥४७॥कुमुदगहनबन्धौ वीक्ष्यमाणे समस्तै -र्गगनर्गहनिवासैर्दीर्घजीवी नरः स्यात् ।फलमशुभसमुत्थं नैव केमद्रुमोत्थं भवति मनुजनाथः सार्वभौमो जितारिः ॥४८॥उच्चाभिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः ।स शास्ति पृथ्वीं बहुरत्नपूर्णां बृहस्पतिः कर्कटके यदि स्यात् ॥४९॥तुङ्गेषु षङ्विबुधमार्गचरा उपेताः स्वांशे मयूखनिकरैः परिपूरिताङ्गाः ।उत्पादयन्ति कुलिशाङ्कितपाणिपादं पृथ्वीपतिं सगरवेनययातितुल्यम् ॥५०॥शुभभवनसमेतैः सौम्यभागेषु सौम्यैः स्फुतरुचिरकराद्यैः प्रस्फुरद्भिर्विलग्ने ।रविमुषितमयूखैस्तैश्च पापैरमिश्रै -र्गिरिगहननिवासी तापसः स्यान्नरेन्द्रः ॥५१॥शुभपणफरगाः शुभप्रदा उभयगृहे यदि पापसंचयः ।स्वभुजहतरिपुर्महीपतिः सुरगुरुतुल्यमतिः प्रकीर्तितः ॥५२॥विलग्ननाथः खलु लग्नसंस्थः सुहृद्गृहे मित्रदृशां पथि स्थितः ।करोति नाथं पृथिवीतलस्य दुर्वारवैरिघ्नमिहोदये शुभे ॥५३॥सम्पूर्णमूर्तिर्भगवान्शशाङ्को मेषांशकस्थो गुरुणा च दृष्टः ।नीचेन कश्चिन्न च वीक्षितोsन्यैः प्राह क्षितीशं यवनाधिराजः ॥५४॥लग्नाच्छशी त्रिरिपुलाभनभःस्थलेषुसूतावखण्डितवपुः पृथिवीश्वरः स्यात् ।दृष्टः सुरेन्द्रगुरुणा न च वीक्षितोsन्यै -र्जन्माधिपो दशमगः स्मरगोsथवा स्यात् ॥५५॥बिभ्रद्रश्मिकरालपूर्णपरिधिर्नक्षत्रसम्पालक -स्तुङ्गांशे समवस्थितैश्चसकलैः प्रोद्वीक्षितो व्योमगैः ।कुर्याद्भूमिपतिं यशस्यचरितं हस्त्यश्वसैन्यं जगत् योव्याच्छेषफणीन्द्रतुल्यमखिलोर्वीभारखिन्नः श्वसन् ॥५६॥सुधामृणालोपमबिम्बशोभितः शशी नवांशे नलिनीप्रियस्य ।यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥५७॥शशिबुधरुधिराङ्गैः स्वांशकस्थैर्न नीचै -र्व्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः ।तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्ते भवति मनुजनाथः कीर्तिशुक्लीकृताशः ॥५८॥नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तुस्वांशोपगैर्बलयुतैः शुभदृष्टिदृष्टैः ।गोक्षीरशङ्खधवलो मृगलाञ्छनश्चस्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥५९॥कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं यदि बलसमुपेतः पश्यति व्योमचारी ।उदयभवनसंस्थः पापसंज्ञो न चैवंभवति मनुजनाथः सार्वभौमः सुदेहः ॥६०॥जलचरराशिनवांशक इन्दौ तनुभवने शुभदः स्वकवर्गे ।अशुभकरः खलु कण्टकहीनो भवति नृपो बहुबारणनाथः ॥६१॥वर्गोत्तमे हिमकरः सकलः स्थितोंsशे कुर्यान्महीपतिमपूर्वयशोभिरामम् ।यस्याश्ववृन्दखुरघातरजोभिभूतोभानुः प्रभातशशिनोsनुकरोति रूपम् ॥६२॥सर्वग्रहकृते योगे चक्रवर्तीश्वरो भवेत् ।एकैकेन तथा जाता मण्डलानामधीश्वराः ॥६३॥एकोsपि विहगः कुर्यात्पञ्चमांशगतो नृपम् ।समस्तबलसम्पन्नश्चक्रवर्तिनमेव च ॥६४॥यदि पश्यति चन्द्रमसं विबुधगुरुर्वृषभसंस्थितः प्रसवे ।अवति पृथिवीमुदग्रां स्फुरन्मणिद्योतितदिगन्ताम् ॥६५॥कुर्यात्तुङ्गे त्रिकोणे वा स्वराशिस्थो विलोकयन् ।ग्रहस्तुषारकिरणं निषादमपि पार्थिवम् ॥६६॥स्वगृहे तृतीयभागे शशी स्थितः पार्थिवं यदा कुरुते ।परिपूर्णबलः शुभदो यदि प्रसूतौ महाराजम् ॥६७॥स्वांशे दिवाकरो यस्य स्वक्षेत्रे च क्षमाकरः ।स राजा गजदानौघशीकरोक्षितभूतलः ॥६८॥लग्ने रविपुत्रसंयुते देवेज्येsस्तगते नवोदिते ।दृष्टेsसुरराजमन्त्रिणा ग्रामीणो नृपतिर्भवेदिह ॥६९॥उदयेsसुरमन्त्रिवरो गुरुभे गुरुदृष्टिपथं च गतः ।कुरुते नियतं सनृपं यदि तुङ्गगतश्च बुधः ॥७०॥शुक्रभास्करेन्दवो भावमेकमाश्रिताः ।जीवदृष्टमात्रकाः स्यात्तदा महीपतिः ॥७१॥लग्नगाः सितशशाङ्कजभौमाः सप्तमे शशिनि वाक्पतियुक्ते ।तिग्मरश्मितनयेन च दृष्टे जायते पृथुयशाः पृथिवीशः ॥७२॥विबुधगुरुर्यदि भौमनवांशे रुधिरनिरीक्षितपूर्णबलश्च ।जनयति कुत्सितजन्ममहीपं क्रियपरिसंस्थितकर्मगतोsर्कः ॥७३॥तृतीयगाः शुक्रशशाङ्कभास्कराः कुजोsस्तसंस्थो नवमे बृहस्पतिः ।गुणोत्तमो लग्नगृहांशकोद्गमो यदा तदा हीनकुलो महीपतिः ॥७४॥जीवो बुधो भृगुसुतोsथ निशाकरो वाधर्मे विशुद्धतनवः स्फुटरश्मिजालाः ।मित्रैर्निरीक्षितयुता यदि सूतिकाले कुर्वन्ति देवसदृशं नृपतिं महान्तम् ॥७५॥तपोगृहं यस्य भवेत्तदुच्चकं ग्रहेण तेनाथ युतं निरीक्षितम् ।ग्रहद्वयं स्वोच्चगतं यदा भवेत्तदा कुटुम्बी नियतं महीपतिः ॥७६॥सुतभवने शशिदेवनमस्यौ भवनपतिप्रसमीक्षितदेहौ ।भृगुतनयो यदि मीनसमेतो भवति नृपः खलु कुत्सितवंशः ॥७७॥चन्द्रस्त्रिपुष्करस्थः स्वोच्चे वचसां पतिः सलक्ष्मीकम् ।उत्पादयति स्वामिनमुत्तमपात्रं समग्रभुगः ॥७८॥केन्द्रस्वोच्चमुपेतः सुरमन्त्री दशमगो यदा शुक्रः ।नूनं स भवति पुरुषः समस्तपृथ्वीश्वरः ख्यातः ॥७९॥स्वर्क्षे शशी विपुलरश्मिशिखाकलापाः स्वांशे स्थिता बुधबृहस्पतिदानवेज्याः ।पातालगा दिनकरेण निरीक्षिताश्च संसूचयन्ति नृपतिं द्विजमुख्यजातम् ॥८०॥रविर्नभस्थः स्वत्रिकोणगोsपि वा स्वराशिसंस्थाः सितजीवचन्द्राः ।तृतीयषष्ठायगताश्च चन्द्रात्कुर्वन्ति गोपालमिह क्षितीशम् ॥८१॥सप्तमभवने सौम्या मित्रांशगताः सुहृद्भिरिह दृष्टाः ।उच्चे कुजो यदि नृपः समस्तनृपपालकः श्रेष्ठः ॥८२॥रविशशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थै -र्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः ।स तपसि भृगुपुत्रे भूपतिः स्यात्प्रयाणेगजमदजलसेकैर्लीयते यस्य रेणुः ॥८३॥स्वोच्चे भानुः प्रकटितबलो व्योममध्ये सजीवः शुक्रो धर्मे यदि बलयुतः स्वं नवांश प्रपन्नः ।लग्ने वर्गे शुभगगनगो राजपुत्रेण दृष्टःपृथ्वीपालो धवलितजगत्स्यात्सितैः स्वैर्यशोभिः ॥८४॥वृषे शशी लग्नगतः सुपूर्णः सितेन दृष्टो वणिजि स्थितेन ।बुधोsपि पातालगतो यदि स्यात्तदान्यजातो भवति क्षितीशः ॥८५॥क्षमासुतः स्वोच्चमुपाश्रितो यदा रवीन्दुवाचस्पतिभिर्निरीक्षितः ।भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणे क्षमः ॥८६॥जायतेsभिजिति यः शुभकर्मा भूपतिर्भवति सोsतुलवीर्यः ।नीचवेश्मकुलजोsपि नरोsस्मिन् राजयोग इति न व्यपदेशः ॥८७॥गण्डान्तविष्टिपरिघव्यतिपातजात -स्ताराधिपः समुदये यदि कृत्तिकायाम् ।क्रीडेत्कृपाणफलकाहितचण्डवेग -प्रोत्थापिताहितशिरोगुलिकाभिरीशः ॥८८॥बुधोदये सप्तमगे बृहस्पतौ चन्द्रे कुलीरे सुखराशिगेsमले ।वियद्गते भार्गवनन्दने गृहे प्रशास्ति पृथ्वीं मनुजो निराकुलः ॥८९॥एकान्तरगैर्विहगैः षङ्भिश्चक्रं क्षितीश्वरं कुर्यात् ।अत्रैव शुभे लग्ने सकलमहीपालको नृपतिः ॥९०॥अयमेव समुद्राख्यो द्वौ लग्ने यदि संस्थितौ ।करोति भूभुजां नाथं सौम्यैः केन्द्रेषु संस्थितैः ॥९१॥निरन्तरं यदि भवनेषु षट्सुग्रहाः स्थिता उदयगृहात्समस्ताः ।स्वपङ्क्तिदन्नरपतिमेव कुर्यु -श्चतुष्टयन्नरपतिमन्त्रिणं च ॥९२॥सुतसुखदुश्चिक्यगता यदि कर्मणि कीर्तयन्ति यवनाद्याः ।बन्धुसुतार्थगजाढ्यो बहुभृत्यो जायते क्षितिपः ॥९३॥कर्मास्तजलहोरासु ग्रहाः सर्वे प्रतिष्ठिताः ।कुर्वन्ति नगरं नाम यत्र स्यात्पृथिविपतिः ॥९४॥सुखतनुमदगाः शुभाः समग्राः कुजरविरविजास्त्रिधर्मलाभसंस्थाः ।यदि भवति महीपतिः प्रशान्तो यवनपतिकृतो ह्ययं महीपयोगः ॥९५॥लाभधर्मस्थिताः सौम्याः पापाः कर्मणि संस्थिताः ।नृपतीनामयं योगो भवेत्कलशसंज्ञितः ॥९६॥त्रयो ग्रहा भ्रातृसुतायसंस्थास्तथा शुभौ द्वौ रिपुसङ्गतौ च ।कलत्रलग्नं च गतौ च शेषौ नृपस्य योगः खलु पूर्णकुम्भः ॥९७॥सुविस्तरं नीचकुलोद्भवा मयाविचित्ररूपाः कथिताः क्षितीश्वराः ।अतःपरं पार्थिववंशजन्मनां भवन्ति योगा मुनिभिः प्रकीर्तिताः ॥९८॥सिंहोदये दिनकरो मृगलाञ्छनोजे कुम्भस्थितो रविसुतः स्वगृहे सुरेज्यः ।स्वोच्चेsपि भूमितनयः पृथिवीश्वरस्यजन्मप्रदः सकललोकनमस्कृतस्य ॥९९॥शुभे लग्नं याते बलवति तथा धर्मराशिक्रमेण ।महीपालः श्रीमान्भवति नियतं यस्य मातङ्गसङ्गाःप्रयाणे मेघानां स्रुतमदजलैर्भान्तिमुत्पादयन्ति ॥१००॥सुरपतिगुरुर्बन्धुस्थाने स्ववेश्मगतो यदातुहिनकिरणः सम्पूर्णङ्गस्तपःसमवस्थितः ।त्रितनुभवनप्राप्ताः शेषा ग्रहा यदि भूपतिःभवति धृतिमान्स्फीतश्रीकस्थथा बहुवाहनः ॥१०१॥स्वोच्चोदये कृतपदः कुमुदस्य बन्धुः र्जीवोsर्थगो वणिजि दानवपूजितश्च । कन्याजसिंहगृहगा बुधभौमसूर्या -श्चन्द्राशुनिर्मलयशा भवति क्षितीशः ॥१०२॥नक्षत्रनाथसहितः सविता नभस्थः सौरिर्विलग्नभवने हिबुके सुरेज्यः ।देवारिपूज्यबुधभूमिसुतैः सलाभैः ख्यातो महीपतिरिह स्वगुणैरः स्यात् ॥१०३॥मृगराशिं परित्यज्य स्थितो लग्ने बृहस्पतिः ।करोत्यवश्यं नृपतिं मत्तेभपरिवारितम् ॥१०४॥लग्ने भौमो रविजसहितस्तीक्षणरश्मिः खमध्ये वाचां स्वामी दशमगृहगो भार्गवः सप्तमस्थः ।आये हेम्नः शिशिरकिरणो बन्धुराशिं प्रपन्नो यद्येवं स्याद्विपुलयशसो जन्म भूपालकस्य ॥१०५॥न्यूनोsपि कुमुदबन्धुः स्वोच्चस्थः पार्थिवं करोति नरम् ।किं पुनरखण्डमण्डलकरनिकरप्रकटितदिगन्तः ॥१०६॥लग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः ।विदधाति महीपालं विक्रमधनवाहनोपेतम् ॥१०७॥यदि पश्यति दानवार्चितं वचसामधिपस्तदा भवेत् ।नृपतिर्बहुनागनायको भुजगेन्द्र इव प्रतापवान् ॥१०८॥दिवौकसां पतेर्मन्त्री कुर्यात्पश्यन्बुधं नरम् ।शिरोभिः शासनं तस्य धारयन्ति नृपाः सदा ॥१०९॥लग्नाधिपतिः स्वोच्चे पश्यन्मृगलाञ्छनं नृपं कुरुते ।बहुगजतुरगबलौघैः क्षपितविपक्षं महाविभवम् ॥११०॥इन्दुः स्वोच्चे पश्यन्करोति बुधभार्गवौ नरं नृपतिम् ।प्रणतारिपक्षमुच्छ्रितयशसं सौभाग्यवन्तं च ॥१११॥अधिमित्रांशगश्चन्द्रो दृष्टो दानवमन्त्रिणा ।अनिशं कुरुते लक्ष्मीवामिनं भूपतिं नरम् ॥११२॥स्वांशेsधिमित्रभावे वा गुरुणा यदि दृश्यते ।शशी महीपतिं कुर्याद्दिवसे नात्र संशयः ॥११३॥जन्माधिपतिः केन्द्रे बलपरिपूर्णः करोति परमर्द्धिम् ।ब्राह्मणकुलेsपि नृपतिं किं पुनरवनीशसंभूतम् ॥११४॥रविरप्यधिमित्रस्थो यदि चन्द्रसमीक्षितः ।अङ्गदेशाधिपं कुर्याद्धर्मार्थसहितं नृपम् ॥११५॥उच्चस्थः शशितनयः कुमुदाकरबन्धुना च समधिगतः ।जनयति मगधाधिपतिं गजमदगन्धेन वासितदिगन्तम् ॥११६॥प्रधानबलसंयुक्तः सम्पूर्णः शशलाञ्छनः ।एकोsपि कुरुते जातं नराधिपमरिंदमम् ॥११७॥केन्द्रे विलग्ननाथः श्रेष्ठबलो मानवाधिपं कुरुते ।गोपालकुलेsपि नरं किं पुनरवनीश्वराणां च ॥११८॥कर्कटसंस्थः केन्द्रे बृहस्पतिर्दशमधामगः शशिनः ।चतुरुदधिमेखलायाः स्वामी भूमेर्भवति जातः ॥११९॥मेषे सहस्ररश्मिः सह शशिना संस्थितः करोतीशम् ।केरलकर्णाटान्ध्रद्रविडानां चोलकस्यापि ॥१२०॥उच्चस्थस्त्रिदशगुरुः कैरववनबन्धुसङ्गःमं प्राप्तः ।काश्मीरमण्डलभुवां करोति पुरुषाधिपमवश्यम् ॥१२१॥तुङ्गायस्वगृहोदयकण्टकनवमेषु यस्य शुक्रगुरू ।सोवश्यं भवति नरो राजांशसमुद्भवो नृपतिः ॥१२२॥दिक्स्थानकालादिबलैरुदाराः शुभाः पुनः केन्द्रमुपागताश्च ।कुर्वन्ति पापैरविमिश्रचाराः पृथ्वीभुजं त्रिप्रभृतिग्रहेन्द्राः ॥१२३॥रवेर्द्वितीये बुधजीवभार्गवा नचाशुभैर्दृष्टयुता न वार्कगाः ।स्फुरत्करौघस्फुटपिञ्जरीकृता नरं प्रकुर्युस्त्रिसमुद्रपालकम् ॥१२४॥कुन्दाब्जकाशधवलः परिपूर्णमूर्ति -र्जन्माधिपेन कविना शुभदेन दृष्टः ।स्त्रीमानभङ्गनिपुणं दयितं क्षपायाः प्रख्यातकीर्तिसुनयं कुरुते नरेन्द्रम् ॥१२५॥देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः ।जनयेवसुधापालं निर्जितारातिमण्डलम् ॥१२६॥कारकयोगे जाता भवन्ति पृथ्वीभुजो नरास्तेषाम् ।गजतुरगपत्तिविचलितरजोवितानं भवेद्गगनम् ॥१२७॥कुजे विलग्ने तरणेश्च नन्दने रसातले शुक्रब्रुहस्पतीन्दुजाः ।मृगोदये मन्दनवांशकस्थिते रसातलेशो भवतीह पार्थिवः ॥१२८॥स्वोच्चे गुरुस्तनुगतः स्वगृहे शशाङ्कः शुक्रो झषे परममुच्चमितोsसितश्च ।मेषे तथैव भगवान्सविता कुजः स्व -वर्गाधिपो यदि भवेन्नृपतिः प्रजातः ॥१२९॥शक्रेड्यः ससितः शुचिस्तिमियुगे स्वोच्चे च पूर्णः शशीदृष्टस्तीव्रविलोचनेन दिनकृन्मेषे यदासौ नृपः ।सेनायाश्चलनेन रेणुपटलैर्यस्य प्रनष्टे रवा -वस्तभ्रान्तिसमाकुला कमलिनी सङ्कोचमागच्छति ॥१३०॥क्रूरैर्नेचै रिपुभवनगैः षष्ठदुश्चिक्यगैर्वा सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैश्च ।आज्ञां याते शिशिरकिरणे कर्कटस्थे निशाया -मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥१३१॥होरालेखामुपेतः स्फुटकरनिकरैः पूरिताङ्गः सुरेज्य -श्चन्द्रः शुक्लार्धदेहो भवभवनगतः स्वेन पुत्रेण दृष्टः ।चन्द्राद्भनुर्द्वितीये यदि भवति तदा नैव दृष्टः कुजेनपाता जायेत भूमेर्बहुगजतुरगक्षुण्णभूपृष्ठपीठः ॥१३२॥रविशशिकुजैर्मेषे लग्ने सितार्किबुधैर्वृषे धनुषि नवमे देवेज्ये च स्वभांशमुपागते ।रविरपि यदि स्वोच्चे वर्गे प्रधानबलोदयोभवति नृपतिः सिद्धाज्ञातो हतारिरणोद्भवः ॥१३३॥सितशशिसुतजीवैः पञ्चमस्थैर्नभोगै रविरपि रिपुराशौ स्वोच्चगे भूमिपुत्रे ।तपसि च रविपुत्रे जायते पार्थिवेन्द्रः प्रथितविमलकीर्तिर्दानधर्मप्रतापैः ॥१३४॥त्रिदशगुरो रविर्हिमकरस्य भृगोस्तनयोरवितनयः कुजस्य खलु दृष्टिपथं च गतः ।भवति विलग्नगो यदि चरोदयराशिगतः प्रथितयशा भवेत्क्षितिपतिः क्षपितारिगणः ॥१३५॥बुधः कन्यालग्ने सुरपतिगुरुश्चैव तिमिगः स्थितः क्षोणीपुत्रः प्रसवसमये वीर्यसहितः ।शनिः शत्रुस्थाने त्र्दशरिपुपूज्यश्च हिबुके यदैवं स्यात्सूतौ स्वभुजविजयी भूपतिरिह ॥१३६॥यमे विलग्ने मकरप्रतिष्ठितेदिवाकरे द्यूनगते सितेsष्टमे ।कुजेsलिगे कर्कटगे निशाकरे भवेत्प्रसिद्धो जगतिश्वरो नृपः ॥१३७॥मृगोदये भूमिसुते सुनिर्मले शनैश्चरे धर्मगृहे व्यवस्थिते ।शनैश्चरे लग्नगते सचन्द्रे बृहस्पतौ सप्तमराशिगे च ।शुक्रेण दृष्टे शशिजे स्वतुङ्गे जायते पृथ्वीपतिरप्रधृष्यः ॥१३९॥चापे भवेत्सुरगुरुर्हृतदृष्टिशुद्धोलग्ने सुरारिदयितः शशिनि स्वराशौ ।वापीतडागसुरवेश्मकरो नरोsत्र जायेत मानवपतिर्द्विजदेवभक्तः ॥१४०॥एकः स्वोच्चे शुभगगनगः संस्थितो निर्मलांशः केन्द्रे भानुः प्रकटितकरः केवलः पूर्णवीर्यः ।दृष्टः कुर्यादमरगुरुना पञ्चमस्थेन जातं भूमेर्नाथं बहुगजपतिं सर्ववन्द्यं कृतार्थम् ॥१४१॥षष्ठे कुजार्किरवयः सहजेsथवाsपि सिंहे सुरारिसचिवोsथ भवर्क्षसंस्थः ।दृष्टः शुभैर्दिनकरेन्दुविहीनदृष्टिःकुर्यान्नृपं स्वभुजनिर्जितशत्रुपक्षम् ॥१४२॥वहति मृदुसमीरो निर्मलव्योममध्ये विमलनिरुपसर्गाः खेचरा वृत्तवैराः ।उदयति सुरवन्द्ये मण्डले मातृकाणांयदि वृषभगृहस्थो भार्गवः स्यात्क्षितीशः ॥१४३॥शशिबुधरुधिराख्यैः स्वांशकस्थैर्न नीचै -र्व्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः ।तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्ते भवति मनुजनाथः कीर्तिशुक्लीकृताशः ॥१४४॥अधिमित्रगते केन्द्रे जन्माधिपतिर्विलग्नपतियुक्तः ।पश्यति बलपरिपूर्णो लग्नं स्यात्पुष्कलो योगः ॥१४५॥ पुष्कलयोगे पुरुषा जायन्ते भूमिपालका नित्यम् ।सुचिरं भ्रमन्ति हतरिपुगजमदगन्धेन वासितदिगन्ताः ॥१४६॥राश्यादौ लग्नपतिः करोति जातं नरेन्द्रदण्डपतिम् ।मध्ये मण्डलनाथं ग्रामपतिं चैव भवनान्ते ॥१४७॥पौष्णे फाल्गुन्यां वा मूले पुष्ये च भास्करः कुरुते ।लग्नगतो नरनाथं योजनशतमात्रके देशे ॥१४८॥कृत्तिकारेवतीस्वातीपुष्यस्थायी भृगोः सुतः ।करोति भूभुजां नाथमश्विन्यामपि संस्थितः ॥१४९॥विदधाति सार्वभौमं लग्नांशपतिः स्वतुङ्गगः केन्द्रे ।नृपतिं लग्नाधिपतिर्जन्माधिपतिर्धनसमृद्धम् ॥१५०॥मीने निशाकरः पूर्णः सुहृद्ग्रहनिरीक्षितः ।सार्वभौमं नरं कुर्यात्सिद्धाज्ञानान्न संशयः ॥१५१॥याते भौमे कर्मस्थानं शिशिरकरभृगुसुतैस्तपः समवस्थितैः ।आये स्वोच्चे प्राप्तो भानु -स्त्रिदशपतिसचिवसहितो यदि प्रसवे भवेत् ॥१५२॥क्षोणीभर्ता याने यस्यप्रविचलिततुरगरजसा दिशः परितो गतः ।एवं कर्तुर्भूयो भूयोधरणितलपरिमलसुखं प्रयान्ति रवेर्हयाः ॥१५३॥शशिसहिते केन्द्रस्थे शनैश्चरे भवति जारजातस्तु ।राजा भुवि गजतुरगग्रामधनैर्वर्धितश्रीकः ॥१५४॥शुक्रवाक्पतिबुधैर्धनसंस्थैर्द्यूनगैः शशिरविक्षितिपुत्रैः ।जायते क्षितिपतिः पृथुवक्षाः सर्वतः क्षपितशत्रुसमूहः ॥१५५॥भानुः प्राणी शशिगृहयुतः शीतरश्मिश्च तस्मि -न्नेकः स्वोच्चे यदि गगनगो निर्मलः पूर्णरश्मिः ।लग्नं प्राप्तः सुरपतिगुरुः षष्ठगः स्यात्क्षितीश -श्छन्नो यस्य प्रचलितचमूरेणुभिर्व्योममार्गः ॥१५६॥कुम्भस्याष्टमभागे त्रिकोणसंस्थे ( पिच ) निशानाथे ।जातो भवत्यवश्यं राजा शुभदः समस्तलोकस्य ॥१५७॥मेषस्य सप्तमांशे करोति पृथ्वीसुतः स्थितो नृपतिम् ।सिंहस्य पञ्चमांशे नरमिथुनांशे भवेद्भूपः ॥१५८॥कुम्भस्य पञ्चदशके भागे चन्द्रः स्थितो महीपालम् ।कर्कटकस्य च दशमे करोति पुरुषं सदा प्रभवे ॥१५९॥धनुषि च विंशे जीवः करोति नृपतिं स्थितो जनख्यातम् ।सिंहस्य पञ्चमांशे तथा च हेलिर्बुधो ज्ञेयः ॥१६०॥एकस्मिन्पञ्चकृतौ पञ्चदशस्वास्थितश्चन्द्रः ।भागेषु वीरनृपतिं करोति भुजलब्धपृथ्वीकम् ॥१६१॥मकरस्य पञ्चमांशे करोति पुरुषं नरेश्वरं सुनयम् ।योगे भूतलतिलकं धर्मज्ञं शास्त्रनिरतं च ॥१६२॥कर्कटके शशिजीवौ पञ्चसु भागेषु संस्थितौ कुरुतः ।भूमिपतिमप्रधृष्यं रविरिव सर्वग्रहणस्य ॥१६३॥चन्द्रः पुष्ये नृपतिं वर्गोत्तमकृत्तिकाश्विनीसंस्थः ।विदधाति सार्वभौमं त्रिपुष्करे वाsपि परिपूर्णः ॥१६४॥अश्विन्यनुराधास्थः स्थितः श्रविष्ठासु पार्थिवं भौमः ।कुरुते स्वोच्चमुपगतो वर्गोत्तमगश्च नान्यत्र ॥१६५॥व्योग्नि शंखधवलो निशाकरो भार्गवस्तपसि संस्थितः शुचिः ।आयगाश्च यदि सर्व एव ते स्यान्महीपतिरतुल्यपौरुषः ॥१६६॥चन्द्रादुपचयसंस्था गगनसदः सर्व एव यदि सूतौ ।जायेत माननिलयः समस्तपृथ्वीपतिः पुरुषः ॥१६७॥जीवनिशाकरसूर्याः पञ्चमनवमतृतीयगा वक्रात् ।यदि भवति तदा राजा कुबेरतुल्यो धनैर्वासौ ॥१६८॥रविस्तृतीये भृगुनन्दनः सुखे बुधस्य चान्ये यदि पञ्चमे स्थिताः ।न नीचराशौ न च शत्रुवेश्मगा भवेन्नरेन्द्रस्त्रिसमुद्रपारगः ॥१६९॥बृहस्पतेर्भौमदिवाकरेन्दवो गता द्वितीयाम्बुनभःस्थलं क्रमात् ।विपक्षरासहु परिशेषखेचरा यदा तदा भूमिपतिर्नृपात्मजः ॥१७०॥भृगोरपत्याद्बुधभास्करात्मजौ चतुष्टयस्थौ परिशेषखेचराः ।तृतीयलाभर्क्षगतास्तु ते यदा महीपतिं कुर्युरसंशयं तदा ॥१७१॥शुक्रबुधौ रवितनयात्केन्द्रे वाचस्पतिर्भवेदुच्चे ।सिंहासनाधिशायी यदि राजा स्वोच्चगाश्च परिशेषाः ॥१७२॥सवितुस्तृतीयपञ्चमलाभर्क्षसमाश्रिताः सदा यस्य ।सर्वे ग्रहाः स नृपतिर्मन्त्री सेनापतिर्वाsपि ॥१७३॥लग्नपतेः स्फुटरश्मेः पापा लाभे सुभाश्च केन्द्रस्थाः ।यदि भवति तदा नृपतिः स्वभुजार्जितसर्वभूमितलः ॥१७४॥लाभे तृतीयषष्ठे यदि पापा जन्मपस्य शुभदृष्टाः ।भवति तदा धरणीशः समस्तनृपवन्दितः साधुः ॥१७५॥विचरति सुरपूज्यो मेषभेsथापि सिंहे दहनकिरणदृष्टे भूमिपुत्रे स्वराशौ ।न च गगनविचारी कश्चिदेकोsपि नीचे यदि नृपतिसमुत्थो जायते पार्थिवेन्द्रः ॥१७६॥चन्द्राद्ग्रहैर्निगदिताः सुनफादयश्च केन्द्रस्थितैर्यदि भवन्ति च तेsत्र योगाः ।विश्वम्भराधिपकुलेषु महत्सु जाता योगेषु तेषु मनुजेश्वरतां लभन्ते ॥१७७॥केन्द्रगौ यसि तु जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ ।भूपतिर्भवति सोsतुलकीर्तिर्नीचगो यदि च कश्चिदिह स्यात् ॥१७८॥उदयशिखरिसंस्थो भार्गवो यत्र तत्रबुधरविसुतदृष्टः स्वांशकस्थोsतिवीर्यः ।जनयति नरनाथं वाक्पतौ पञ्चमस्थे भुजबलहतशत्रुं सार्वभौमं गजाढ्यम् ॥१७९॥सिंहे कमलिनीनाथः कुलीरस्थो निशाकरः ।दृष्टौ द्वावपि जीवेन पार्थिवं कुरुतस्तदा ॥१८०॥बुधः कर्कटमारूढो वाक्पतिश्च धनुर्धरम् ।सूर्यभूसुतदृष्टौ च यदि स्फीतो महीपतिः ॥१८१॥शफरीयुगले चन्द्रः कर्कटे च बृहस्पतिः ।शुक्रः कुम्भे यदा शक्तस्तदा राजा भवेदिह ॥१८२॥सितदृष्टः शनिः कुम्भे पद्मिनीदयितो भवे ।चंद्रे जलचरे रासहु यदि जातो नृपो भवेत् ॥१८३॥कुजोsलिगोsथ मेषे वा रविजीवनिरीक्षितः ।वृषे ज्ञो जीवसंदृष्टस्तदाsपि पृथ्विवीपतिः ॥१८४॥अमलवपुरवक्रः कैरवाणां विकासी स्वगृहमथ नवांशं स्वोच्चभांशं गतो वा ।हितगगननिवासैः पञ्चभिर्दृश्यमानोजनयति जगतीशं नीचभे नो यदि स्यात् ॥१८५॥लाभे मन्दो गुरुभृगुसुतावुद्गमे खे शशाङ्कोबन्धावर्को बुधकुतनयौ वक्रगौ चेत्स भूपः ।यत्सेनायास्ततमदजलक्षोभतो वारणेन्द्रै -र्भूयः सेतोः स्मरति सहसा क्षोभितान्तोsम्बुराशिः ॥१८६॥इति कल्याणवर्मविरचितायां सारावल्यां राजयोगाध्यायो नाम पञ्चत्रिंशः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP